लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः १०८

← अध्यायः १०७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

श्रीबद्रीप्रियोवाच-
नरनारायण कृष्णनारायण जगत्प्रभो ।
कलेरन्ते पुनर्धर्माः सत्या भवन्ति वा न वा ।। १ ।।
अन्तिमस्य कलेरन्ते कल्पान्ते कीदृशी स्थितिः ।
पुनः किं जायते शून्यं यद्वा मूर्तं नवं परम् ।। २ ।।
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कलेरन्ते हरीच्छया ।
संभवामि तु सत्यानां धर्माणां स्थापनाय वै ।। ३ ।।
तदा त्वं चाऽसिरूपा वै श्वेतस्वरूपधारिणी ।
देवैरभिष्टुता दिव्या जलभूव्योमचारिणी ।। ४ ।।
जायसे तीक्ष्णधाराऽति नरोऽयं चाऽश्वरूपवान् ।
श्वेतरूपो भूमिवारिखादिवह्निप्रचारवान् ।। '९ ।।
भूत्वा देवैरभिवन्द्यो यत्पार्श्वे सम्प्रतिष्ठति ।
तदाऽहं तं मत्स्वरूपं श्वेताश्वं नररूपिणम् ।। ६ ।।
आरुह्य धर्मपुत्रोऽहं विष्णुनामिद्विजात्मजः ।
त्वां तदा दिव्यशक्त्याढ्यामसिरूपां सुशोभनाम् ।।७ ।।
संगृह्य भूतले बद्रि! विचरामि जले स्थले ।
कलिकल्मषपापानां नाशो मद्वायुना तदा ।। ८ ।।
पापिनां कल्कदेहानां विनाशश्च ममाऽसिना ।
मानसानामनिष्टानां मद्ध्यानैः परिवर्तनम् ।। ९ ।।
मानवानां सात्त्विकानां तदायुष्यविवर्धनम् ।
धर्मे स्थिरस्वभावानां निसर्गतः प्रसञ्जनम् ।। 4.108.१ ०।।
कृतधर्माभिपन्नानां महर्षीणां प्रकाशनम् ।
गुरूणां देवकोटीनां तदा मम सहायनम् ।। ११ ।।
नारीणां कन्यकानां च सतीनां च विवर्धनम् ।
शीलव्रतपराणां च तापसानां तदोदयः ।। १२।।
कर्मठानां सतां लोके प्रायशश्च सुमेलनम् ।
सन्न्यासानां दिव्यदृष्टिर्बालानां बहुवेदिनाम् ।। १ ३।।
दिव्याचार्यगुरूणां च प्रभावो जन्मयोगिनाम् ।
नैर्मल्यं भूविकाराणां मत्प्रभावकृतं तदा ।। १४।।
स्फुरणं पूर्वधर्माणां कर्मणां मोक्षदायिनाम् ।
सत्कर्मणां दर्शनं च प्रवृत्तिर्मखधर्मिणाम् ।। १५ ।।
देवानां च तदा पृथ्व्यामागमनं ममाऽन्तिके ।
धर्मसृष्टेः प्रचारश्च जने जने तदाऽस्ति वै ।। १६ ।।
पृथिवी मत्पादयोगा पवित्रा पावनी शुभा ।
जलानि मम योगेन दिव्यानि साधकान्यपि ।। १७।।
मत्प्रसंगेन तीर्थानि भवन्ति शक्तिमन्त्यपि ।
चैत्यानां चेतनत्वं च तदा समुपजायते ।। १८।।
मानसानां बलवत्त्वं सफला कल्पना तदा ।
सुखदुःखसहिष्णुत्वं शरीरिणां च पुष्टता ।। १ ९।।
दीर्घायुष्ट्वं च बालानां सतीत्वं कन्यकादिषु ।
संहारश्चापि दुष्टानां म्लेच्छानां योषितामपि ।।4.108.२०।।
कल्कसम्पन्नदेहानामस्तित्वं तत्र नास्ति वै ।
तथा चरामि खड्गेन बहुवेगेन खे भुवि ।।२ १ ।।
वर्षमात्रेण लोकानां करोमि युगपर्ययम् ।
मद्भक्ताः कृतयोग्या ये ते तिष्ठन्ति न चेतरे ।।२२।।
धेनवश्चोषधयश्च वनान्युद्यानवाटिकाः ।
सरसा दुग्धपूर्णाश्च दीर्घजीवा भवन्ति ते ।।२३।।
मद्भयाच्चौरलोकानां विलयश्च क्षितेस्तलात् ।
विनाशो मम सैन्यैश्च दिव्यस्वरूपधारिभिः ।।२४।।
त्वत्संकल्पात्तदा श्वेता अश्वाश्च दिव्यविग्रहाः ।
लक्षशस्तव पुत्रास्ते सैन्यवाहा भवन्ति हि ।।।२५।।
मत्संकल्पाज्जायमाना देवाः सैन्यात्मकास्तदा ।
नाशयन्ति परितस्ते म्लेच्छदुष्टाधिराक्षसान् ।।२६।।।
अधर्मिदानवदैत्यान् विधर्मिमानवान् मुहुः ।
निर्मलं भूतलं सर्वं सर्वपापाऽस्पृशं शुभम् ।। २७।।
जायते तु तदा बद्रि कलेरन्ते ममाश्रयात् ।
धर्मांस्तदाऽहं बहुधा सत्यरूपान् वदामि ह ।।२८।।
प्रजाः सर्वा मम भक्ता अहिंसासत्यवृत्तिकाः ।
शीलव्रतपराश्चापि मनोबलसमन्विताः ।।।२९।।।
उदयन्ति कृतकृत्याः शान्तिधर्मपरायणाः ।
विरलाः स्वल्पसाहस्रा योजने त्वेकमानवाः ।।4.108.३०।।
अन्ये विनाशमायान्ति मम कालाऽसिना तु ते ।
मम पृथ्व्यां भ्रमणेन देवानां मण्डलान्यपि ।।३ १ ।।
विचरन्ति क्षितौ तत्र महर्षयोऽप्यगोचराः ।
तीर्थानि धर्मदेवश्च धर्मपुत्राश्च शक्तयः ।।।३२।।
मत्प्रतापेन चाकृष्टा महानन्दा भ्रमन्ति ते ।
पूर्वत्यक्तप्रदेशेष्वालयेषु चैत्यभूमिषु ।।।३ ३।।
आचरन्ति निवासं स्वं यथापूर्वं कृताय ते ।
मम संकल्पयोगेन कालपर्ययतस्तथा ।।३४।।
भाविपुण्यबलेनापि प्रजानां सत्यपर्ययः ।
स्थले स्थले वर्तमानः प्रकाशते कृतात्मकः ।।।३५।।।
शान्तिर्लोके प्रवृद्धा च वर्तते देहिनां तदा ।
यदा चन्द्रश्च सूर्यश्च तथा पुष्यबृहस्पती ।।३६।।
एकराशौ सम्मिलन्ति तदा कृतयुगं मतम् ।
एवं योगे तु सञ्जाते सर्वं कृताऽर्हणं तदा ।।३७।।
ब्रह्मसत्राणि जायन्ते विष्णुयागाः स्थले स्थले ।
प्रायश्चित्तानि जायन्ते तीर्थयात्राश्च देहिनाम् ।।३८।।
उत्सवा मे प्रजायन्ते राष्ट्रे राष्ट्रे गृहे गृहे ।
बद्रिके सत्त्वनैर्मल्यं सत्त्वप्रकर्षता तथा ।।३९।।
साधुवत् सर्ववर्णानां नैर्मल्यं काशते तदा ।
मेघानां वर्षणं शश्वत् रसानामुदयो बहुः ।।4.108.४०।।
दुग्धानां च मधूनां च प्रवाहा बहवस्तदा ।
सम्पदां चाभिविवृद्धिः पुनः पुनः स्वतोऽधिका ।।४१।।
प्रवर्तते कृते तत्र देहिनां दिव्यदर्शिता ।
सुराणां च क्षितौ साक्षादागमनं प्रजायते ।।४२।।
मानवानां दिवं प्रत्यप्यस्ति गतिस्तदा कृते ।
सतीत्वं योषितां चापि तापसानां तपस्विता ।।४३।।
शान्तत्वमिन्द्रियाणां च दावाग्नीनां शमस्तदा ।
उत्तापानां प्रशान्तिश्चोद्वेगानां शमनं तदा ।।४४।।
ब्रह्मभक्तिप्रधाना वै शिष्टाः प्रजाजनास्तदा ।
वेदाः स्वयं हृदयेषु स्फुरन्ति देहिनां तदा ।।।४५।।
वर्णाश्रमव्यवस्था च शौचाचारप्रतिस्थितिः ।
आस्तिक्यं सत्यवृत्तिश्च प्रजायन्ते कृते पुनः ।।४६।।
ब्राह्ममुहूर्ते स्तवनं ध्यानं स्नानं प्रपूजनम् ।
देवाराधनमेवाऽपि पितृतर्पणपूजनम् ।।४७।।
वृद्धाभिवादनं चात्मचिन्तनं दैवयोगिता ।
पञ्चयज्ञविधानं च सत्ये स्वभावतः पुनः ।।४८।।
प्रवर्तन्ते प्रजास्वेव नैसर्गिकविचारतः ।
धर्मसजीवनं पादचतुष्टयेन वै कृते ।। ४९।।
प्रतिष्ठाकर्म देवानां चमत्काराश्च मानसाः ।
दर्शनं चापि देवानां स्वप्ने प्राग् जायते कृते ।।4.108.५०।।
ततः शनैः शनैर्विप्रसाधुरूपेण दर्शनम् ।
ततश्चागमनं साक्षात् कृते पृथ्व्यां तु नाकिनाम् ।।५१।।
उद्भवाश्च महर्षीणां सतां कृते ससिद्धिकाः ।
चमत्कारयुता बालाः प्रजायन्ते च बालिकाः ।।।५२।।
वाक्सिद्धयः प्रवर्तन्ते कर्माणि सफलान्यपि ।
सस्यानां स्मृद्धयश्चापि प्रद्योतन्ते कणान्विताः ।।५३।।
देवानां भक्तिरिष्टा च प्रजाजने प्रवर्तते ।
रागद्वेषादिदोषाणां ह्रासो भवेत् कृतागमे ।।५४।।
वह्नयः सम्प्रकाशन्ते निर्मलाः सुखदाः शिवाः ।
अरोगा वायवश्चापि सुखस्पर्शाः प्रशान्तिदाः ।।५५।।
भूतानि पक्षिणश्चापि यादांसि पशवस्तथा ।
सत्त्वविशेषकाः सत्ये प्रजायन्ते युगानुगाः ।।५६।।
मानवानां शरीराणि सत्यबलान्महान्ति च ।
पशवः पक्षिणो वृक्षा उच्चदेहा भवन्ति च ।।५७।।
बलं शतगुणं पश्चात् सहस्रगुणितं कृते ।
वीर्यं ज्ञानं वीरता च सहस्रगुणिता कृते ।।५८।।
अन्नेषु शक्तयश्चापि सहस्रगुणिताः कृते ।
अस्थिजीवा असवश्च कृते पुनर्भवन्ति च ।।५९।।
विमानानि मन्दिराणि नगराणि नवानि च ।
प्रजायन्ते कारुबुद्धिभवानि सत्यवर्तने ।।4.108.६०।।
प्रजानां दृष्टयो दिव्याः सतीनां सत्यदिव्यता ।
साधूनां दिव्यवाचश्च प्रजायन्ते कृते पुनः ।।६१।।
समुद्रगर्भे गतयश्चाकाशे गतयस्तदा ।
भूविवर्ते गतयश्च जायन्ते देहिनां कृते ।।।६२।।
म्लेच्छानां विलये बद्रि राज्ञां रक्षणकारिणाम् ।
स्थापनं वै मया तत्र क्रियते द्विजजातिषु ।।६३।।।
एवं धर्मस्य सत्ये वै चतुष्पात्त्वं प्रवर्तते ।
सत्यं तपो मखो दानं प्रवर्तन्ते स्थले स्थले ।।६४।।
सत्यान्ते च पुनस्त्रेताधर्मा भवन्ति शोभनाः ।
ततो द्वापरधर्माश्च ततस्तिष्यस्य वै पुनः ।।६५।।
एवं युगानां सततं चावर्तते तु चक्रकम् ।
सहस्रयुगपर्यन्तं ततः कल्पाऽवसानकम् ।।६६।।
जायते बद्रिके सायं कलेरन्ते शतं समाः ।
अनावृष्टिर्हि महतो सर्वसत्त्वविनाशिनी ।।६७।।
ततः सूर्यास्तापयन्ति पृथ्वीं ते भर्जयन्ति वै ।
रूक्षांगारसमा पृथ्वी जायते सूर्यतापतः ।।६८।।
वह्निमयं समस्तं वै भूतलं जायते ततः ।
वह्निबाष्पोद्भवा मेघाः प्रवर्षन्ति शतं समाः ।।६९।।
स्वर्गान्तं जलपूर्णं वै ब्रह्माण्डार्धं प्रजायते ।
दशलोका निमज्जन्ति भस्मरूपा जलान्तरे ।।4.108.७०।।
कर्दमास्ते भवन्त्येव कल्पान्ते निम्नगा यदा ।
पाताले कर्दमाः सर्वे विश्रमन्ति जलप्लुताः ।।७१ ।।
मत्स्यस्वरूपो भगवानहं बीजानि सर्वथा ।
रक्षामि च पुनः सृष्टिहेतवे जलमध्यगः ।।७२।।
कल्किस्तु भगवान् सायं साऽश्वः साऽसिः ससैन्यकः ।
सूक्ष्मरूपः स्वयं भूत्वा तिरो महः प्रयामि वै ।।७३।।
रात्रौ मत्स्यस्वरूपोऽहं रात्र्यन्ते तु भुवः कृते ।
कृतयत्नो भवाम्येव वाराहरूपबान् भवान् ।।७४।।
मत्स्योऽहं तु विचरामि सलिले प्रातरेव ह ।
वाराहोऽहं तले गत्वा कार्दमं गोलकं महत् ।।७५।।
कृत्वा नयामि तं गोलं जलपृष्ठे प्रभाववान् ।
ततोऽहं वाडवो वह्निर्भवामि वडवामुखः ।।७६।।
शोषयामि जलाधिक्यं चाऽष्टलोकसुखार्थकम् ।
यथापेक्षं च रक्षामि शुष्कयामि क्षितिं ततः ।।७७।।
श्वासैर्मुहुर्मुहुः सप्तपातालान् रचयामि च ।
तत्र सर्वत्र बीजानि क्षिप्त्वा प्रजाः सृजामि च ।।७८।।
मत्स्योऽहं तु ततस्तिरो भवामि जलसञ्चरः ।
पृथ्वीं स्थिरां चाऽष्टपटां कृत्वा तिरोभवामि हि ।।७९।।
हयग्रीवस्ततो भूत्वा प्रजाभ्यो वेदसंभवम् ।
ज्ञानं ददामि सर्वाभ्यस्तूर्णं कृताद्यसञ्चरे ।।4.108.८० ।।
ततोऽनादिकृष्णनारायणश्रीवल्लभः प्रभुः ।
पृथ्व्यामादौ कृते स्वेच्छारूपधृक् संभवामि वा ।।८ १।।
दिवि वाऽन्यस्तटे तत्र करोमि वर्णरक्षणम् ।
उपासनां प्रवर्त्यैव स्थित्वा सपादलक्षकम् ।।८२।।
वर्षाणां भूतले सर्वधर्मस्थितिं करोम्यपि ।
मोक्षमार्गं हरिस्तत्र प्रवर्तयामि सर्वतः ।।८३।।
क्षीरोदं च ततो लक्ष्मीनारायणो भवन् प्रभुः ।
आविर्भवामि लक्ष्मीशस्तत्र स्वपिमि वै पुनः ।।८४।।
बद्रिके च ततः कालान्तरे सम्पत्क्षयोत्तरम् ।
समुद्रमथनं सर्वरत्नार्थं कारयाम्यहम् ।। ८५।।
कच्छपं तु तदा रूपं धारयामि गिरेः स्थितेः ।
मोहिनीस्त्री दैत्यमोहकरी भवामि सुन्दरी ।।८६।।
अमृतं देवताः सर्वाः पाययामि तदाप्यहम् ।
तिरोभूत्वा पुनः सिंहरूपं धरामि हेतवे ।।८७।।
हयशोर्षा भवाम्येव क्वचिद् दैत्यक्षयाय वै ।
ज्ञानदानाय हंसात्मा भवामि कपिलोऽपि च ।।८८।।
यज्ञभिक्षुर्वामनश्च भवाम्यासुरलोपकृत् ।
हरिश्चाऽहं भक्तकृते भवामि दुःखहारकः ।।८९।।
नरो नारायणः कृष्णो हरिर्भवामि धर्मतः ।
पृध्वीपतिर्दोहनाय भवामि चक्रवर्तनः ।।4.108.९०।।
तापसः साधुधर्मा च दत्तदानो भवाम्यपि ।
बोधदश्च तथा योगी भवामि वनगोचरः ।।९ १ ।।
पर्शुधृक् क्षत्रदण्डात्मा भवाम्यपि क्वचित्ततः ।
चक्रधृग्धर्मधारी च भवामि गोप इत्यपि ।।।९२।।।
यज्ञश्चाऽहं तथा स्वामी कृष्णनारायणोऽपि च ।
भवामि कृषिकर्ताऽपि राजराजो भवामि च ।।९३।।
विप्रश्च क्षत्रियो वैश्यः किंकरोऽपि भवामि च ।
यथाकालं तथाऽऽचार्यो भवामि व्यास इत्यपि ।।९४।।
गुरुर्वा प्रमदा वाऽथ गोरूपः सुसती ह्यपि ।
पत्नीव्रताख्यविप्रोऽहं भवाम्यप्यत्र भूतले ।।९५।।
जिष्णुर्भवामि वै स्वर्गे पाताले हाटकेश्वरः ।
शेषेश्वरः सागरे च मेरौ विष्णुश्चतुर्भुजः ।।९६।।
देवो वा मानवो वापि गान्धर्वः संभवामि च ।
चारणो वा च विद्याध्रो दक्षो वापि भवामि च ।।९७।।
वनी वा न्यासयोगी वा यतिर्वा ब्रह्मशीलकः ।
भवामि भूतले बद्रि बहुरूपधरः प्रभुः ।।९८।।
यथापेक्षो यथाकालो यथारूपो भवामि च ।
रक्षार्थं मम सृष्टीनां मोक्षार्थं तु विशेषतः ।।९९।।
आराधनावशीभूतः क्वचिद्भवामि तादृशः ।
क्वचित्पुत्रोऽर्थितश्चापि भवामि सुखदात्मकः ।। 4.108.१०० ।।
ब्रह्मा विष्णुर्महेशश्च रूपत्रय सदा मम ।
आभूतसम्प्लवं चास्ते प्रवाहहेतवे सदा ।। १०१ ।।
एवं ते कथितं बद्रि प्राविर्भावप्रयोजनम् ।
प्रयोजनं प्रसाध्यैवाऽऽनन्दयित्वा निजाश्रितान् ।। १ ०२।।
तिरोभवामि सहसा वारं वारं हि लीलया ।
नाऽन्तोऽस्मि मे विभूतेश्च न संख्या जन्मनां मम ।। १ ०३।।
न कर्मणां न रूपाणां चरित्राणां न चाऽवधिः ।
श्रेयसां जनकश्चाऽहं प्रजाश्रेयः करोमि तु ।। १ ०४।।
दुष्टानां दण्डनं भक्तजनानां रक्षणं तथा ।
धर्मस्य स्थापनं भक्तेः प्रवर्तनं क्रिया मम ।। १ ०५।।
स्तुतो देवैर्विशिष्टोऽहं भवाम्यतर्कितो मुहुः ।
भक्तस्तुतो भवाम्येव भक्तमात्रस्य गोचरः ।। १ ०६।।
सुराष्ट्रे धर्मराष्ट्रे वै निवसामि विशेषतः ।
लीलया देवकार्याणि कृत्वा तिरोभवामि च ।। १ ०७।।
मत्प्रसंगगता लोका नरा नार्यश्च वै तदा ।
प्रजायन्ते दिव्यरूपा मोक्षगाश्च ततः परम् ।। १ ०८।।
इत्येवं मे रहस्य ते कथितं बद्रिके परम् ।
येन केनापि रूपेण त्वं चास्ते हि मयाऽन्विता ।। १ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यान्ते भगवदपेक्षा कल्परात्रौ कल्पप्रातर्दिवाऽपि च भगवत्प्राविर्भावादिकथननामाऽष्टाऽधिकशततमोऽध्यायः ।। १०८ ।।