लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः १२२

← अध्यायः १२१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १२२
[[लेखकः :|]]
अध्यायः १२३ →

श्रीश्वेतायनो व्यास उवाच-
शृणुत श्रीसंहितायाः पुरश्चरणमुत्तमम् ।
सर्वायास्तु संहितायाः कर्तव्यं भूतिमिच्छता ।। १ ।।
स्वयं पठेत् पाठयेद्वा चाष्टोत्तरशतद्विजैः ।
वैष्णवैः साधुसाध्वीभिर्ब्रह्मशीलपरायणैः ।। २ ।।
मण्डपं कारयेद् रम्यं विशालं कुण्डमण्डपम् ।
परितः स्थापयेद् सौम्याऽऽसनानि चोर्णजानि तु ।। ३ ।।
काष्ठासनादीनि चापि त्वेकैकं पुस्तकं तथा ।
श्रेष्ठासने तु प्रत्येके स्थापयेत् पूजयेत्ततः ।। ४ ।।
आरार्त्रिकं प्रकुर्याच्च ततः पाठानि कारयेत् ।
प्रत्यहं पूरिकाक्षीरपायसान्नानि भोजयेत् ।। ५ ।।
यद्यदपेक्षितं सर्वं दद्यात्तु दापयेत्तथा ।
मासं पारायणं चात्र पुरश्चरणमात्रकम् ।। ६ ।।
द्विमासं वा कारयेच्च चतुःपुमर्थसिद्धिदम् ।
षाण्मासिकं कारयेद्वा वार्षिकं वाचयेच्च वा ।। ७ ।।
नित्यं साधून् वैष्णवाँश्च दीनाऽनाथान् प्रभोजयेत् ।
विप्रान् साध्वीर्बालिकाश्च बालकान् भोजयेदपि ।। ८ ।।
स्वर्णरूप्यकपात्राणां दानानि दापयेत्तथा ।
धनाऽम्बरकणानां चाऽन्नानां दानानि कारयेत् ।। ९ ।।
अनादिश्रीकृष्णनारायणमूर्तेः श्रिया समम् ।
पूजनं कारयेन्नित्यं हवनं चाऽऽचरेत्तथा ।। 4.122.१ ०।।
राधालक्ष्मीरमाप्रज्ञावतीश्रीमाणिकीयुतम् ।
पूजयेत् परमात्मानं कृष्णनारायणं हरिम् ।। ११ ।।
दशांशहोमं नित्यं वै कारयेद् घृतपायसैः ।
समिद्भिः पुण्यवृक्षाणां फलपुष्परसादिभिः ।। १२।
मासपारायणेऽध्यायान् नित्यं वै वाचयेद् व्रती ।
द्व्यधिचत्वारिंशदेव द्विमासे तु तदर्धतः ।। १३।।
षण्मासे चान्वहं षट्कं वर्षमात्रे त्रिकं त्रिकम् ।
न्यूनाधिकं यथायोगं विभज्य वाचयेद् व्रती ।। १४।।
श्लोकानां संख्ययानित्यं दृशांशहवनं चरेत् ।
दक्षिणा बहुधा दद्याद् वाचकेभ्यः सुखप्रदाः ।। १५।।
पुस्तकं नववस्त्रेण वेष्टयित्वा प्रपूजितम् ।
भ्रामयेन्नगरे स्वर्णहस्तिस्थितं सचामरम् ।। १६।।
दानं ततः प्रदद्याच्च मुख्यवाचकसाधवे ।
छत्रदानं पादुकादानकं वस्त्रादिदानकम् ।। १७।।
भूषागोभूहिरण्यादि दद्याद् वै मुख्यसाधवे ।
सुवाचकाय गुरवे विद्याचार्याय योगिने ।। १८ ।।
वैष्णवाय विशेषेण दद्याद् विप्राय भावतः ।
भोजयेद् विप्रवर्यांश्च साधून् - साध्वीश्च बालकान् ।। १९।।
भक्ताँश्च वैष्णवान् सर्वान् भोजयेच्च विसर्जयेत् ।
एवं पुरश्चरणेन स्वेष्टान् कामानवाप्नुयात् ।।4.122.२० ।।
महादानं प्रवक्ष्यामि सम्राड्योग्यं निबोध मे ।
सार्वभौमो महाराजस्त्वाग्नीध्रः प्रददौ पुरा ।। २१ ।।
स्वायम्भुवो मनुश्चापि प्रददौ गोमतीतटे ।
कुबेरः .प्रददौ चापि विशालायां हिमालये ।। २२।।
कोटिरायो ददौ चापि सिन्धुतटेऽब्धिसन्निधौ ।
एवमन्ये प्रददुश्च यथाकालं यथाधनम् ।।२३।।
सार्वभौममहादानं गद्यते तन्मया शृणु ।
अत्र ये कीर्तिता देवा भक्ता देव्यः प्रमुक्तिगाः ।।।२४।।
सर्वनामानि संगृह्य कारयित्वा सुवर्णजाः ।
प्रतिमाः कोटिशः सर्वा दद्याद् दाने सुतीर्थके ।।२५।।।
संहितादेवता यत्र चैकापि नातिरिच्यते ।
सर्वदेवता दद्याद् वै दाने गोदानपूर्वकम् ।। २६।।
पूजयित्वा विधानेन दद्याद् विप्रेषु साधुषु ।
सत्पात्रेषु समस्तेषु पुण्यपारो न विद्यते ।। २७।।
श्रीहरेर्भगवतोऽर्थं येन, ह्म सर्वस्वमर्पितम् ।
स एव कर्तुं शक्नोति महादानं यथार्थतः ।।।२८।।
स तारयेज्जगत्सर्वं महादानबलात् खलु ।
महादानप्रदातुस्तु सन्निधौ गोचरो हरिः ।।२९।।
लक्ष्मीश्च गोचरा नित्यं भवेदेव न संशयः ।
संहितायाः कथायज्ञं कुर्यात् प्रकारयेच्च यः ।। 4.122.३०।।
तस्यर्द्धयः समस्ताः स्युरक्षय्या वृद्धिमागताः ।
कार्तिकेऽस्या दानकर्ता ब्रह्मा भवति विश्वसृट् ।।३ १।।
मार्गशीर्षे प्रदाताऽस्या नारायणाः प्रजायते ।
पौषे दाता संहिताया रुद्रो भवति शंकरः ।।३२।।
माघे दाता संहिताया विष्णुः प्रजायते खलु ।
फाल्गुनेऽस्याः प्रदाता तु जायते धनदोऽचलः ।।३३।।
चैत्रेऽस्या दानकर्ता वै जायते सूर्यदेवता ।
वैशाखे दानकृच्छ्रेष्ठो ध्रुवो भवति वैष्णवः ।।३४।।
ज्येष्ठे दाता विराट् स्याच्चाऽऽषाढे दाता सदाशिवः ।
श्रावणे तु महाविष्णुर्भवेद् दाता न संशयः ।।३५।।
भाद्रे दाता महेन्द्रः स्यादाश्विने तु बृहस्पतिः ।
अधिमासे प्रदाताऽस्या वासुदेवः प्रजायते ।।३६।।
एवं दानफलं श्रेष्ठं संप्रोक्तं मत्कृपोद्भवम् ।
नारी दात्रो भवेद् राधा रमा लक्ष्मीश्च माधवी ।।३७।।
दारिद्र्यानि समस्तानि नश्यन्त्यस्याः प्रदानतः ।
त्रिविधान्यपि दुःखानि नश्यन्त्यस्याः प्रदानतः ।।३८।।
सम्पूर्णां संहितां चैतां निधाय गजमस्तके ।
यद्वा स्वर्णगजे स्वर्णसंहितां प्रणिधाय च ।।३९।।
दद्याद् यस्तस्य साम्राज्यं चतुर्दशभुवां भवेत् ।
मनुः स्यात् खण्डदाताऽपि समस्तायाः प्रदो हरिः ।।4.122.४०।।
अस्याः श्लोकस्य वै वक्तुर्नाऽसद्गतिर्भवेत् क्वचित् ।
सर्ववर्णाश्रमधर्मफलं चास्याः प्रदानतः ।।४१ ।।
यो विद्वान् संहितां चेमां कण्ठे कृत्वा त्वविष्यति ।
स तु तेनैव देहेन दिव्यभावेन सर्वथा ।।४२।।
लक्ष्मीनारायणात् प्राप्तविमानेन परं पदम् ।
प्रयास्यत्याक्षरमुक्तैः शंसितः पूजितः सुरैः ।।४३।।
लक्ष्मीनारायणसंहिताया यो हृदि धारकः ।
सृष्ट्यन्तरे भवेदेषः वैकुण्ठधाम्न ईश्वरः ।।४४।।
नारी स्यादीश्वरी लक्ष्मीर्वैकुण्ठस्वामिनी सदा ।
एषणावान् लभेतेष्टं सकामः कामनां लभेत् ।।४५।।
निष्कामो मोक्षणं प्रेयान्नरो नारायणो भवेत् ।
नारी नारायणी स्याच्च संहिताधारणात् सदा ।।४६।।
चतुष्टयं सदा कार्यं शाश्वतीं भूतिमिच्छता ।
लक्ष्मीपूजा हरेर्ध्यानं दानमस्याः कथाश्रुतिः ।।४७।।
चतुष्टयं सदा कार्यं शाश्वतं मोक्षमिच्छता ।
सतां सेवा हरेर्भक्तिर्लीलास्मृतिस्तदर्पणम् ।।४८।।
चतुष्टयं सदा कार्यं शाश्वतीं शान्तिमिच्छता ।
अनारम्भश्च निवृत्तिर्जपो विवेकिताऽऽत्मनि ।।४९।।
य इह सुमतिमान् स्याच्छाश्वतानन्दमिच्छेत्,
त्रिभुवनसुपतित्वं चेश्वराणां पतित्वम् ।।
अपि च परममुक्तिं चाऽवतारात्मकत्वम्,
पिबतु स सततं श्रीसंहितोत्थाऽमृतानि ।।4.122.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽस्याः श्रीलक्ष्मीनारायणसंहितायाः पुरश्चरणविधिः, सार्वभौममहादानविधिः, संहिताधारणायाः फलं चेत्यादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्यायः ।। १ २२।।