← अध्यायः २९१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९२
[[लेखकः :|]]
अध्यायः २९३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! दग्धदेहा पापिसूक्ष्मशरीरिणी ।
याम्यैस्तु नीयमाना सौद्घाटयद् यममार्गकम् ।। १ ।।
वारिता सा यमेशेन यतो यमसहायिनी ।
यममार्गोद्घाटनार्थे दुःखमाप्तवती ततः ।। २ ।।
यमेन प्रेषिता स्वर्गं गता विबुधमन्दिरम् ।
भर्त्सिता देवदूतैस्तु स्थितिस्तेऽत्र न पापिनि! ।। ३ ।।
हरिवासरलोपिन्या वासस्ते न सुरालये ।
ततः सा दुःखिता लक्ष्मि! मोहिनी वासलब्धये ।। ४ ।।
पातालं प्रययौ तत्र पातालस्थैर्निवारिता ।
सुरैश्च मुनिभिर्दैत्यैर्दानवैः ऋषिभिस्तथा ।। ५ ।।
पितृभिर्मानवैर्यक्षैर्भूतप्रेतपिशाचकैः ।
तीर्थैश्च पर्वतैः खातैः सागरैश्च वनैस्तथा ।। ६ ।।
तत्त्वैश्च लोकपालैश्च मनुभिर्जलवासिभिः ।
दृष्टा यैर्यैस्तीर्थकृद्भिः रैवताद्रौ तु मोहिनी ।। ७ ।।
पुत्रहन्त्री पतिहन्त्री दृष्टा जडैश्च चेतनैः ।
नक्षत्रैश्च ग्रहैर्वृक्षैर्वल्लीभिश्च तृणैस्तथा ।। ८ ।।
पशुभिः पक्षिभिश्चैषा स्वस्वस्थानान्निराकृता ।
न कैश्चिद् रक्षिता तस्मात् क्रोशन्ती ब्रह्मणः सुता ।। ९ ।।
जनकस्याऽन्तिकं गत्वा दुःखं स्वं सन्न्यवेदयत् ।
तात तन्नास्ति मे स्थानं त्रैलोक्ये सचराचरे ।। 1.292.१० ।।
यत्र यत्र गता चास्मि तत्र तत्र क्षिपन्ति माम् ।
तिरस्कुर्वन्ति ते सर्वे निर्वासयन्ति चाश्रमात् ।। ११ ।।
पित्राज्ञया मया गत्वा रुक्मांगदगृहं ततः ।
दृष्टं व्यवसितं चैतत् सर्वलोकघृणास्पदम् ।। १२।।
भर्तारं क्लेशयित्वैव मारयित्वा सुपुत्रकम् ।
सन्ध्यावलीं नाशयित्वा पितः प्राप्ता दशामिमाम् ।। १३ ।।
न गतिर्विद्यते जैवे चैश्वरे मोक्षणेऽपि मे ।
विशेषाद् वसुशापेन जाताहं दुःखभागिनी ।। १४।।
यदि त्वं त्रिदशैः सार्धं वसुं तं शापदं द्विजम् ।
प्रसादयसि मत्प्रीत्या तर्हि मे स्याच्छुभा गतिः ।। १५।।
विप्रशापप्रदग्धानां गंगा मुक्तिप्रदा भवेत् ।
भार्या रुक्मांगदस्याऽहं विधवा पापकारिणी ।। १६ ।।
पुरोधाश्च वसुर्विप्रो राज्ञस्तस्माच्च मे गतिः ।
स मां नयेत्तु तीर्थेषु क्षालयेत्पातकानि मे ।। १७।।
शापं निवर्तयेच्चापि ततो मे सुगतिर्भवेत् ।
तां तथावादिनीं श्रुत्वा ब्रह्मा लोकपितामहः ।। १८ । ।
शिवेन्द्रधर्मसूर्याग्निदेवाद्यैर्मुनिभिर्युतः ।
मोहिनीमग्रतः कृत्वा जगाम वसुसन्निधौ । । १ ९। ।
रैवताद्रौ स्वर्णरेखानद्यरण्ये वसुं भवम् ।
वामनं गौरवेणापि नभश्चक्रे स्वयं विधिः । । 1.292.२ ० । ।
असाध्यकार्ये सम्प्राप्ते यविष्ठश्चेत् करोति तत् ।
न दूषितं भवेल्लक्ष्मि! यविष्ठस्याऽभिवादनम् । । २१ । ।
वसुर्दृष्ट्वा समुत्थाय नमश्चक्रे त्वजादिकान् ।
सुराः सर्वेऽर्थयामासुर्मोंहिन्यर्थे सुखावहम् । । २२। ।
कृपां कुरु तपःश्रेष्ठ मोहिनीगतिदो भव ।
यजमानी भवत्येषा ते राज्ञो गृहवासिनी । ।२३ । ।
त्वया त्वस्या हितं कार्यं मम पुत्र्यास्तपोधन ।
प्रेषिताया मयैवात्र देवानां हितकाम्यया । । २४। ।
यमलोकस्तथा स्वर्गः शून्यो रुक्मांगदेन वै ।
कृतस्तयोर्वसत्यर्थं मानसी प्रेषिता मया । ।२५। ।
रुक्मांगदस्य मोहार्थं स तु प्राप हरेः पदम् ।
गति धर्मस्याऽतिसूक्ष्मा लोका जानन्ति नैव ताम् । । २६ । ।
दुर्लभं हरिसायुज्यमनया तैः समर्जितम् ।
सदारः ससुतो राजा प्रापितो हरिमन्दिरम् । २७। ।
अनया प्रिययाऽतीव परीक्ष्य प्रापितोऽच्युतम् ।
अन्यैर्न प्राप्यते धाम प्रापितं त्वनया हि तत् । । २८ । ।
स वै पुत्रश्च सा पत्नी सुता सा जनकश्च सः ।
येन वै प्राप्यते मोक्षो बन्धुः सुहृद् गुरुश्च सः । । २९ । ।
हरेर्दिने न भोक्तव्यं व्रतं प्रतीपकाऽऽग्रहात् ।
दृढीकृतं नृपस्याऽत्र मोहिन्या सुकृतं कृतम् । । 1.292.३० । ।
तत्कार्यं पापरूपं वै गणयित्वा त्वया वसो ।
शापदग्धा कृता भस्मशेषा सूक्ष्मशरीरिणी । । ३१ । ।
तत्प्रशाम्य क्षमस्वैनां कुरुष्वानुग्रहं मुने ।
शमं भजस्व पिष्टस्य पेषो माऽस्तु सुरेश्वरैः ।। ३२ ।।
त्यज क्रौर्यं भज शान्तिं प्रसादं कुरु पुत्रक!
श्रुत्वा शान्तः क्षमायुक्तो वसू राजपुरोहितः । । ३३ । ।
प्राह मया विचार्यैव मोहिन्या वसतिर्ध्रुवा ।
निर्णीतास्ति यदर्थं सा निर्मिता तत्करोत्वपि ।। ३४ ।।
यममार्गप्रवाहार्थं व्रतभंगार्थमित्यपि ।
हरेर्दिनोपोषितानां ब्रह्मधामगमाय च ।। ३५ ।।
निर्मितेयं मोहिनीति तया तत्कार्यमेव ह ।
पतिः सपत्नी पुत्रश्चाऽनया वैकुण्ठगाः कृताः ।। ३६।।
एतादृशस्थले चेयं वासे करोतु मोहिनी ।
अस्याः सामीप्यत एकादशीं कृत्वा जनाः सदा ।। ३७।।
मुक्तिं प्रयान्तु निर्विघ्नां हरितोषणसद्व्रतान् ।
अस्या दिने तु ये भ्रान्ता व्रते मुग्धा भवन्ति ते ।। ३८ ।।
यान्तु पापा यमलोकं यमकार्यं भवेत्तथा ।
एषा यत्र स्थिता तद्वै व्रत भग्नं भवेदिति ।। ३९ ।।
तद्वै व्रतं मतं न स्याद् व्रतभंगो हि सोऽस्तु वै ।
एवमत्र विचिन्त्यार्थो मया सम्यङ्निरूपितः ।।1.292.४ ० ।।
विधवायास्तु मोहिन्या वासः सर्वार्थसाधकः ।
सर्वेष्वपि व्रतेष्वस्या वासेन दुष्टता भवेत् ।।४ १ ।।
तस्माद् व्रतदिने त्वस्या वासो नैव तु युज्यते ।
किन्तु व्रताद्यदिवसप्रान्तेऽस्या वसतिर्भवेत् ।।४२ ।।
आद्यदिवसप्रान्तोऽस्या वासेन यातु दुष्टताम् ।
वेधसोऽस्या यतो जन्म तस्माद्वै वैधसी मता ।।४३ ।।
सा यत्र तिष्ठति तिथेः प्रान्ते स वेध उच्यते ।
वेधाश्रया तिथिस्त्वाद्या दुष्टा पापप्रदायिनी ।।४४।।
व्रतविध्वंसिनी बोध्या यमपुर्याः प्रदायिनी ।
सूर्योदये तु या नास्ति सायंकाले तु वर्तते ।।४५ ।।
सा तिथिर्यद्युपोष्या स्याद् याम्यपूर्याः प्रदायिनी ।
व्रतं तस्यां न कर्तव्यं विपरीतफलं यतः ।।४६ ।।
सूर्योदये च पूर्वाह्णे सप्तमी दशमी च वा ।
चतुर्दश्यष्टमी वा च वर्तते क्रमशस्तथा ।।४७।।
पराह्णे कृष्णजनमाष्टमी चैकादशी तथा ।
पूर्णा वाऽमा रामनवमीति सायं प्रवर्तते ।।४८।।
एवं काले क्रमशस्तु सप्तम्याः प्रान्तके तथा ।
दशम्यन्ते चतुर्दश्याः प्रान्तेऽष्टम्यन्तके तथा ।।४९ ।।
मोहिनी तत्र वसतु ताः पापास्तिथयः सदा ।
अतो व्रतं क्रमशस्तु सप्तम्यां चाष्टमीव्रतम् ।।1.292.५० ।।
यमलोकप्रदं प्रोक्तं वेधपापाश्रयं हि तत् ।
दशम्यां तु व्रतं ह्येकादश्याव्रतं तु पापदम् ।।।५ १ ।।
चतुर्दश्यां व्रतं पूर्णाव्रतं वाऽमाव्रतं तथा ।
पापदं यमलोकस्य प्रापकं रात्रिकृद्व्रतम् ।।५ २ ।।
तस्मात् सूर्योदये याऽऽद्या सायं रात्रौ तु चेतरा ।
व्रतात्मिका तिथिश्चेत् स्यान्नैवोपोष्या कदाचन ।।५३ ।।
मोहिनी तत्र वसति सप्तम्यादौ दिनान्तके ।
सप्तम्याद्या न चोपोष्याः सायं व्रतान्वितास्त्वपि ।। ५४।।
यममार्गप्रवाहार्थं मोहिन्यै त्वर्पिता हि ताः ।
ताश्च वेधाश्रयाः पापाश्रया मोहिन्यधिश्रिताः । ।५५।।
अयं च निर्णयः सायंव्यापिन्या व्रतविभ्रमे ।
व्रतं नैव प्रकर्तव्यमिति देवैर्दृढीकृतः ।। ५६ ।।
अथ सूर्योदयात्पूर्वं सप्तमी दशमी च वा ।
चतुर्दश्यष्टमी वा च वर्तते क्रमशस्तथा ।।५७।।
सूर्योदये कृष्णजन्माष्टमी चैकादशी तथा ।
पूर्णा वाऽमा रामनवमीति सूर्ये प्रवर्तते ।।५८ ।।
एवं काले क्रमशस्तु सप्तम्याः प्रान्तके तथा ।
दशम्यन्ते चतुर्दश्याः प्रान्तेऽष्टम्यन्तके प्रगे ।।५ ९ ।।
वसतु मोहिनी तत्र तत्तिथियोगसन्धिता ।
सूर्योदये तिथिर्या तु प्रारभ्यते व्रतात्मिका ।।1.292.६ ० ।।
वेधात्ममोहिनीहृष्टा विद्धा सा भवतीत्यतः ।
विद्धातिथिव्रतं स्वर्गप्रदपुण्यकरं भवेत् ।।६ १ ।।
इति देवैर्निश्चितत्वाद् विद्धाव्रतं तु नाकदम् ।
न तु मोक्षकरं तत्स्यात् क्षय्यपुण्यप्रदं ह्यतः ।।६२।।
अतो विद्धा न कर्तव्या भक्तैस्तु मोक्षकांक्षिभिः ।
कर्तव्या सर्वथा शुद्धाऽष्टमी चैकादशी तथा ।।६ ३ ।।
पूर्णिमा चाप्यमावास्या ह्येवमन्या व्रतात्मिकाः ।
तिथयः सर्वदा शुद्धा व्रते ग्राह्या न विद्धिकाः ।। ६४।।
न वा सायंतनव्याप्ता निर्णीतं तत् सुरैस्तदा ।
शुद्धं हरिदिनं भक्त उपोष्य याति मोक्षणम् ।।६५।।
विद्धातिथिं विहायैव परे तूपोषणं दिने ।
नवम्यां द्वादशिकायां प्रतिपद्दिवसे तथा ।।६६।।
दशम्यां क्रमशः कार्यं कृष्णाष्टम्यास्तथा पुनः ।
एकादश्याः पूर्णिमाऽमावस्ययोः रामजन्मिनः ।।६७।।
व्रतं शुद्धं भवेत् तद्वै मोक्षदं हरिवासरम् ।
हर्याश्रितं व्रतं शुद्धं विद्धन्तु स्वर्गदं मतम् ।।६८।।
मोहिन्यन्तं याम्यदं वै यथाकर्ता तथागतिः ।
इत्येवं निर्णयं कृत्वा मोहिन्यै स्थानमर्पितम् ।।६९।।
आदितिथेः प्रान्तभागः सर्वथा यममार्गकृत् ।
यदि तिथिद्वयं स्याच्चेद् व्रतं कार्यं परे दिने ।।1.292.७० ।।
तिथेः क्षये परोपोष्या तिथिः शुद्धा व्रतार्थिना ।
न तु विद्धा क्षया नैशा ह्युपोष्या कर्हिचिज्जनैः ।।७१।।
वेधो निशीथे यमानामुपकाराय मोहिनी ।
सूर्यात् पूर्वं सुराणामुपकारायैव हि मोहिनी ।।७२।।।
शुद्धाविद्धान्तरिता स्यादुपकाराय मोक्षिणाम् ।
सर्वेष्वपि च लोकेषु यमस्य दशमी तिथिः ।।७३।।
तस्याः प्रान्ते सदा स्थेयं मोहिन्येति निवासिता ।
विद्धाव्रतफलं त्वर्धं ते वै भवतु मोहिनि ।।७४।।
निशाव्रतफलं सर्वं ते वै भवतु मोहिनि ।
स्वाघनाशाय ते तावदलं भवतु मोहिनि ।।७५। ।
भुवि तीर्थानि चैव त्वं स्वाघनाशाय सञ्चर ।
पापिनां पापनाशाय तीर्थानि सन्ति मोहिनि! । ।७६।।
हरिष्यन्ति च ते पापं स्थितास्तीर्थे व्रतं विना ।
अव्रतिनश्च तीर्थस्था वज्रलेपाऽघभागिनः ।।७७।।
तव शुद्धिः सदा तेषु भविष्यति पुनः पुनः ।
यमसंस्थापनार्थाय पापसंचयनाय च ।।७८। ।
दत्तं ते मोहिनि! स्थानं निशान्तसमयान्तिकम् ।
स्वर्गसंस्थापनार्थाय पुण्यसंचयनाय च ।।७९।।
दत्तं ते मोहिनि! स्थानं प्रातः सूर्योदयान्तिकम् ।
मोक्षिणां तु कृते त्वं वै सर्वथा वस दूरतः ।।1.292.८० ।।
मोक्षिव्रतं स्वदृष्ट्या त्वं मा निभालय भामिनि! ।
तथा सति पुनर्नाशस्ते भविष्यति शापतः ।।८१ ।।
एवं प्रदिष्टा ब्रह्माद्यैस्तुष्टा बभूव मोहिनी ।
मेने कृतार्थं त्वात्मानं स्थानेन तीर्थयात्रया ।।८२।।
देहे भस्मावशेषेऽपि सूक्ष्मदेहेन वै पुनः ।
यमकार्यं सुरकार्यं मोक्षकार्यं सुसाधितम् ।।८३ ।।
इति कृतार्थतां दृष्ट्वा प्रहृष्टाऽभूदतीव सा ।
स्वकार्यं साधितं राज्ञा मोहिन्या साधितं स्वकम् ।।८४।।
यमकार्यं देवकार्यं मोक्षकार्यं प्रवर्तितम् ।
अथ सूर्यचन्द्रयोस्तु राहुग्रसनकर्मणि ।।८५।।
राहुदृष्टिपथे काले वेधे हि मोहिनी स्थिता ।
वेधकालो वैधसी साऽऽज्ञप्ता स्थातुं सुरेश्वरैः ।।८६ ।।
तस्माद् वेधे भोजनादि सर्वं पापमयं स्मृतम् ।
कृतं प्रयाति मोहिन्यै कर्ता यमप्रदेशभाग् ।।८७।।
भवतीति यममार्गस्तयापि वाहितस्तथा ।
एवं तिथीनां वेधास्तु व्रतपूर्वं व्यवस्थिताः ।।८८ ।।
भवति कर्तरि पापं मोहिनी फलभागिनी ।
इति लक्ष्मि! व्यवस्थां च स्थानं प्राप्य सुमोहिनी ।।८९।।
देवान् प्रणम्य संहृष्टा नत्वा पुरोधसं स्वकम् ।
प्रान्ते स्थिता दशम्यादेर्जनमोहनकारिणी ।। 1.292.९० ।।
सूर्योदयस्पृशा तस्माद् दशमी गर्हिता सदा ।
अस्पृष्टमुदयं चापि मोहनायैव केवलम् ।। ९१ ।।
इति ब्रुवन्तो देवेशा ययुः स्वस्वनिकेतनम् ।
तदा पुत्री वेधसे वै दग्धदेहस्य लब्धये ।। ९२।।।
प्रार्थयामास बहुधा वसुं चापि पुरोधसम् ।
ब्रह्मा प्राह वसुं चापि सर्वलोकविधानकृत्! ।। ९३ ।।
वसो! तात! निबोधेदं किं ते याज्या ब्रवीति वै ।
त्वयेयं मोहिनी कोपात् कृता भस्मावशेषिता ।। ९४।।
याचते सा स्थूलं देहं समुत्पाद्य प्रदेहि वै ।
त्वया मया च संपाल्या कृतकार्या तपस्विनी ।। ९५।।
किंचविष्णुर्दिनस्यैषा वैरिणी पापकारिणी ।
यथाशुद्ध्येदुपायं तं त्वस्याः कृते विधीयताम् ।। ९६ ।।
तत्तु श्रुत्वा पुरोधास्तं दिदेश वर्ष्मयोजने ।
ब्रह्मा कमण्डलुवार्भिरौक्षन्मोहिनिकास्थिजम् ।। ९७।।
भस्म ततः पुनर्देहः समुत्पन्नस्तु वैधसः ।
देहयुक्ताऽभवत्सा च वसुं तातं प्रणम्य वै ।।९८ ।।
प्रार्थयामास पापानां क्षालनाय पुनः पुनः ।
तदा वसुस्तीर्थयात्रां कारयितुं च मोहिनीम् ।। ९९ ।।
उपादिदेश गंगादितीर्थानि तद्विधींस्तथा ।
ततो जगाम तीर्थानि वसुना सह मोहिनी ।। 1.292.१०० ।।
गंगां गयां तथा गोदां जगन्नाथं प्रयागकम् ।
कुरुक्षेत्रं हरिद्वारं बद्रिकाश्रममुत्तमम् ।। १०१ ।।
पुष्करं त्र्यम्बकं रामेश्वरं तथा च नार्मदम् ।
वृन्दावनं सिद्धसारस्वतं द्वारवतीस्थलम् ।। १०२ ।।
प्रभासं कुंकुमवापीं रैवतं चेति मोहिनी ।
कृत्वा तीर्थानि वसुना सहाऽऽयाता वसुस्थलम् ।। १०३ ।।
नारायणह्रदे स्नात्वा रुक्मांगदपुरे गता ।
रैवतपश्चिमे वस्त्रापथे नत्वा गिरेः स्थलीम् ।। १०४ ।।
ययौ वेधोगृहे सत्ये लोके तेनैव वर्ष्मणा ।
अदेहा वेधवासाऽस्ति कालाभिमानदेवता ।। १०५ ।।
मोहिनी विधिजा देवी विष्णुजैकादशी तिथिः ।
विष्णुजात्पर्द्धया धात्रा मोहिनी सा विनिर्मिता ।। १०६ ।।
स्पर्द्धन्त्येकादशीं चेयं दशम्यन्ते स्थिता सदा ।
इति ते कथितं लक्ष्मि! विद्धायाः कारणं मया ।। १ ०७।।
तदर्थं निर्मिता धात्रा मोहिनी तत्र वेशिता ।
सूक्ष्मदेहा व्रतहन्त्री किमन्यच्छ्रोतुमिच्छसि ।। १०८ ।।
इति श्रीलक्ष्मीनारायणायसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्माण्डे वासमलभमानया मोहिन्या ऽर्थितेन ब्रह्मणा वसुना च व्रतपूर्वतिथिप्रान्ते दत्तवासं
लब्ध्वा सा यमलोकसुरलोकब्रह्मलोकादिप्रवाहफलवती विद्धाशुद्धादिप्रयोजयित्री च पुनः सदेहा देवता जातेत्यादिनिरूपणनामा द्वानवत्यधिक-
द्विशततमोऽध्यायः ।। २९२।।