← अध्यायः २९२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९३
[[लेखकः :|]]
अध्यायः २९४ →

श्रीलक्ष्मीरुवाच-
मासास्तु द्वादश प्रोक्तास्तेषु व्रतदिनानि च ।
तेभ्योऽधिकोऽपि त्रयोदशः सार्धद्वयवार्षिकः ॥ १ ॥
चान्द्रपूर्णत्वसम्पाद्यो भवतीति तदीयकम् ।
इतिवृत्तं विधिं देवं सर्वे श्रोतुं समुत्सहे ॥ २ ॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां पुरुषोत्तमयोगिनीम् ।
चान्द्रमासे यत्र सूर्यसंक्रान्तिर्नहि जायते ॥ १ ॥
एकराशिप्रभोगस्थोऽर्को न संक्रमतेऽपरे ।
सूर्यसंक्रान्तिशून्योऽयं मासोऽधिकतया मतः ॥ २ ॥
मध्येऽमावास्ययोश्चान्द्रमासः पूर्णः प्रजायते ।
सौरमासस्तु संक्रान्त्योर्मध्ये पूर्णः प्रजायते ॥ ३ ॥
चान्द्रमासे सावनाहान्येकोनत्रिंशदित्यथ ।
षड्विंशतिघटिकाश्च पञ्चाशत्पलिकास्तथा ॥ ४ ॥
भुज्यन्तेऽथ च सौरे तु त्रिंशदहानि वै तथा ।
षड्विंशतिश्च घटिकाः पलान्येकोनविंशतिः ॥ ५ ॥
विपलान्येकत्रिंशच्च द्वापंचाशत्क्षणानि च ।
प्रभुज्यन्ते तयोश्चान्द्रे यः कालः शिष्यतेऽर्कितः ॥ ६ ॥
तेषां तु शिष्टकालानां समवाय प्रजायते ।
पूर्णस्त्रयोदशश्चान्द्रमासोऽयं त्वधिको मतः ॥ ७ ॥
द्वात्रिंशत्सौरमासेषु षोडशाहाधिकेषु तु ।
त्रयस्त्रिंशच्चान्द्रमासाः षोडशाहाधिकाः खलु ॥ ८ ॥
निष्पद्यन्तेऽधिको मासश्चान्द्रः सोऽयं मतोऽधिकः ।
पंचवर्षेष्वधिमासौ द्वौ चान्द्रौ प्रायशो मतौ ॥ ९ ॥
अधिमासः पुनः सोऽष्टवर्षे वैकोनविंशतौ ।
एकचत्वारिंशदधिके शते वा स एति वै ॥ 1.293.१ ०॥
स एवायाति चेत्येवं प्रायशो नियमोऽस्ति हि ।
सोऽयं पुण्यप्रकार्यार्थं निश्चितो मुनिभिः पुरा ॥ ११ ॥
शृणुष्वैनां कथां लक्ष्मि! नौ गेहाद्युद्भवाऽस्ति सा ।
मलमासस्त्वयं प्रोक्तो मलशेषात्मसंचयः ॥ १२॥
पुरुषोत्तमसंयोगात् पुरुषोत्तमसंश्रयात् ।
पुरुषोत्तममासोऽयं देवोऽस्य पुरुषोत्तमः ॥ १३॥
कृष्णनारायणः श्रीमान् परब्रह्म परात्परः ।
ब्रह्ममुक्तैः सदा सेव्यो भगवानक्षराधिपः ॥ १४॥
अवतारस्वरूपाणामवतारी हरिः स्वयम् ।
यस्माद् व्यूहाः प्रजायन्ते वासुदेवादयोऽखिलाः ॥ १५॥
यस्माद् गोलोकधामाद्याः प्राविर्भवन्ति चाश्रयाः ।
यत्र सर्वपराकाष्ठा यत्र सर्वं प्रतिष्ठितम् ॥ १६ ॥
यस्मात् प्रकाशते सर्वं यन्मयं जडचेतनम् ।
सोऽयं श्रीभगवान् राजाधिराजः परमेश्वरः ॥ १७॥
पुरुषोत्तममासस्याधिदेवः पुरुषोत्तमः ।
अक्षरे परमे व्योम्नि मुक्तमण्डलसेवितः ॥ १८॥
अनाथं मलमासं तु दृष्ट्वा कृपावशः प्रभुः ।
स्वीचकार शरण्यस्तं शरणागतमेव सः ॥ १९॥
अधिष्ठानतया तस्य ततोऽक्षरसमानताम् ।
प्राप्तः श्रीमलमासस्तु निर्मलः पुरुषोत्तमः ॥।1.293.२०॥
सर्वे मासाः प्रथमं तु गर्जन्ति स्म मुहुर्मुहुः ।
नाऽस्मादृशं किंचिदस्ति तारकं भुवनत्रये ॥ २१॥
किन्तु श्रीहरिणा यावन्मलमासस्त्वधिष्ठितः ।
ततो द्वादशमासास्ते बभूबुर्भग्नगर्वकाः ॥२२॥
किं वक्तव्यं महालक्ष्मि! यत्र नारायणः स्वयम् ।
प्रसन्नस्तिष्ठते तस्य भाग्यं पुण्यं कथानकम् ॥२३॥
अन्यमासकृतात्पुण्याज्जपाद्धोमात्प्रदानकात् ।
अनन्तगुणकं त्वत्र कृतं भवति सर्वथा ॥२४॥
मासोऽयमधिकः सर्वपुण्याऽऽधिक्यप्रदो मतः ।
गयागंगाहरिद्वारपुष्करादिषु यत् कृतम् ॥२५॥
तत्कृतस्याऽधिके मासे फलं भवति शाश्वतम् ।
कुरुक्षेत्रे ग्रहणे यत्स्नानस्य फलमाप्यते ॥ २६ ।
गयायां पिण्डदानस्य पितॄणां तृप्तिरस्ति या ॥
तत्फलं तादृशी तृप्तिरधिमासस्य सेवनात् ॥ २७।
जगन्नाथपुरे स्याद् यद् रथयात्राफलं महत् ।
पुरुषोत्तममासे तत्फलं त्वाप्लवनाद् भवेत् ॥।२८ ॥
यत्फलं सरयूस्नानात् साकेते तीर्थदर्शनात् ।
तत्फलं त्वधिके चाद्यदिने स्नानाद्धि जायते ॥ २९ ॥
यत्फलं द्वारिकायां तु गोमतीसागराप्लवे ।
तत्फलं मलमासे स्यात् प्रतिपत्स्नानमात्रतः ॥ 1.293.३० ॥
यत्फलं बदरीक्षेत्रे स्वर्णद्यां स्नानतो भवेत् ।
मलमासाऽऽद्यदिवसेऽधिकं स्यात्स्नानतः फलम् ॥ ३१ ॥
यत्फलं दक्षिणे वार्धौ रामसेतौ जलाप्लवात् ।
मलमासेऽधिकं स्नानात् ततः स्यात्प्रथमे दिने ॥ ३२ ॥
यत्फलं रैवते स्वर्णरेखायां स्नानतो भवेत् ।
प्रभासे यत्फलं वा सन्निधावाप्लवनाद्भवेत् ॥ ३३ ।
ततोऽधिकफलं त्वाद्यदिने स्नानेऽधिकस्य च ।
यत्फलं कुंकुमवाप्यामश्वपट्टसरोवरे ॥ ३४॥
ततोऽधिकफलं त्वाद्यदिवसेऽधिकमासिनः ।
नर्मदायां शुक्लतीर्थे ओंकारेश्वरतीर्थके ॥ ३५ ॥
पुष्करे पश्चिमे नारायणे सरसि यत्फलम् ।
तडागे मानसे चापि प्रयागे चापि यत्फलम् ॥ ३६ ॥
यमुनायां मथुरायां गण्डक्यां चापि यत्फलम् ।
यत्फलं च हरिशंभुक्षेत्रे कपिलवारिधौ ॥ ३७ ॥
गोदावर्यां तथा कुंभलग्ने कृष्णाजले च यत् ।
सिन्धौ ताम्रपर्णिकायां कावेर्यां चापि यत्फलम् ॥ ३८ ।
महोदये तथा सोमाऽमायां पर्वणि पट्टने ।
स्नानेन यत्फलं यद्यत्त्वाद्येह्नि स्नानतोऽत्र तद् ॥ ३९ ।
पुरुषोत्तममासस्य प्रथमायां समाहितः ।
ब्राह्मे मुहूर्ते सञ्चिन्त्य श्रीकृष्णं पुरुषोत्तमम् ॥1.293.४० ।
स्नायान्नद्यां तडागे वा सरसि प्रस्रवे गृहे ।
कूपे वाप्यां प्रवाहे वा तत्पुण्यं शाश्वतं भवेत् ॥४ १ ॥
नहि लोकेऽधिकमाससदृशं पापनाशकम् ।
पुण्यार्जकं तथा त्वन्यत् स्वर्गमोक्षप्रदं परम् ॥४२॥
पूर्णिमायां चाद्येऽहनि त्वमावास्यादिनेऽपि च ।
एकादशेऽन्तिमे चापि मासेऽह्नि पुरुषोत्तमे ॥।४३ ॥
स्नानेन सदृशं त्वन्यत्त्वखण्डपुण्यकृन्नहि ।
तेषु स्नानेन वै लोका निर्धूय पापपुञ्जकम् ॥४४॥
जायन्ते पुण्यपुञ्जेन पारावारसमा भुवि।
स्नानमात्रेण वै स्वर्गे कोटिकल्पात्मकं मिलेत् ॥४५॥
हरेस्तु पूजनात्तत्र वैकुण्ठं शाश्वतं व्रजेत् ।
पुरुषोत्तमनैवेद्यदाने मुक्तिचतुष्टयम् ॥४६ ॥
लभतेऽत्र न सन्देहः श्रीकृष्णो वदति स्वयम् ।
कृष्णनारायणः सर्वं लक्ष्मीयुक्तं ददाति वै ॥४७॥
मलमासाऽऽद्यदिवसे स्नातुश्चार्चयितुस्तथा ।
स्वत्वं श्रीकृष्णवद्धाम्नि गोलोकेऽस्य प्रवर्तते ॥४८॥
पूर्णिमायाममायां वा प्रातः स्नानं सरित्सु चेत् ।
क्रियतेऽवभृथतुल्यफलं विष्णुक्रतोर्मतम् ॥४९॥
मध्याह्ने चेत्कृतं स्नानमश्वमेधान्तपुण्यदम् ।
स्नानं सायं वाजपेययज्ञस्य फलदं भवेत् ॥1.293.५० ॥
स्नात्वा व्रती हरिं कृष्णनारायणं सुवर्णजम् ।
आवाहयेत् तथा पंचामृतैः संस्नापयेच्छनैः ॥५१ ॥
एकादशीकृतं पुण्यं मलमासे तु पर्वणि ।
स्नानमात्रेण भवति किमन्यत् तत्कृते पुनः ॥५ २॥
लक्षगवां महिषीणामयुतस्य शतस्य तु ।
वारणानां च दानेन कुरुक्षेत्रे तु यत्फलम् ॥।५३॥
लक्षाश्वानां तथा दानाद्यत्फलं कौरवे स्थले ।
प्रातःस्नानान्मलमासे तत्फलं प्रतिपत्तिथौ ॥५४॥
द्वादशानां तु मासानां पापानि मलमुच्यते ।
मलप्रक्षालनशक्तो मलमासः कृतोऽस्ति वै ॥।५५॥
स्नापयेच्छ्रीकृष्णनारायणं पञ्चामृतैस्ततः ।
शुद्धोदकैस्तैलसारैर्मर्दयित्वा पुनः पुनः ॥५६॥
स्नापयेद् वै ततो वस्त्रैर्मार्जयेत् पुरुषोत्तमम् ।
पीताम्बरं चोत्तरीयं स्वर्णप्रान्तं समर्पयेत् ॥५७॥
किरीटं कुण्डले चापि चन्दनं कुंकुमं तथा ।
कज्जलं कण्ठहाराँश्चोर्मिकाश्च कंकणानि च ॥५८॥
पुष्पहारान् रशनाश्चाऽऽभूषणान्यम्बराणि च ।
द्रव्याऽलंकारभूषाश्च समर्पय्य प्रपूजयेत् ॥५९॥
धूपं दीपं तथाऽऽपीडान् शेखरान् मालिकास्तथा ।
गुच्छं कन्दं स्वर्णयष्टिं छत्रं च चामरेऽर्पयेत् ॥1.293.६० ॥
नैवेद्यानि सुमिष्टान्नपक्वान्नानि फलानि च ।
मृष्टस्वादूनि पेयानि ताम्बूलानि जलानि च ॥६१ ॥
समर्पयेत्ततो नीराजयेत् क्षमां तु याचयेत् ।
प्रदक्षिणां नमस्कारं दण्डवच्च स्तुतिं चरेत् ॥६२॥
पुष्पाञ्जलिं प्रदत्वैव श्रीहरिं पुरुषोत्तमम् ।
प्रार्थयेन्मलमासस्य व्रतस्य पूर्तये मुहुः ॥६३॥
उपोषणान्येकभुक्तं नक्तं फलाशनं च वा ।
करिष्ये मलमासे तद्व्रतं ते कृपया प्रभो ॥।४॥
निर्विघ्नं पूर्णतां यायादिति तुष्टो हरे कुरु ।
स्नानं तीर्थेऽथवा कूपे गृहे नद्यां प्रगेऽन्वहम् ॥६५॥
दानं पूजां यथाशक्ति करिष्ये पुरुषोत्तम! ।
तत्सर्वं भजनं चापि निर्विघ्नं मे भवेदिति ॥६६॥
कृपां कुरु महाराजाऽऽलस्यं नाशय देहतः ।
मानसानि मलान्यत्र प्रक्षालय प्रभावतः ॥६७॥
आत्मीयानि च पापानि प्रज्वालय परेश्वर ।
आत्ममुक्तिं च मे देहि पुरुषोत्तम केशव ॥६८॥
कृष्णनारायण स्वामिन् लक्ष्मीनाथ प्रभापते ।
पार्वतीमाणिकीस्वामिन् सम्पत्कुरु गृहे मम ॥६९॥
एवं सम्प्रार्थ्य देवेशं स्वापयेद्वा विसर्जयेत् ।
मध्याह्ने भोजयेत् सायं भोजयेत् पूजयेत् तथा ॥1.293.७० ॥
नीराजयेच्च दोलायां गुरुं त्वान्दोलयेद्धरिम् ।
बालकृष्णं कृष्णनारायणं हरिनरायणम् ॥७१॥
रमयेद्वा जले रम्ये तूद्याने भवनेऽपि वा ।
नृत्यं गीतं सवाद्यं च कारयेत् तत्समीपतः ॥।७२॥
अन्नवस्त्रजलपुष्पफलदानानि वै ददेत् ।
भोजयेद् बालकान् साधून् विप्रान् गोग्रासमर्पयेत् ॥७३ ॥
कृष्णनारायणवार्ता पुरुषोत्तममाःकथाम् ।
लक्ष्मीनारायणसंहिताकथां वाचयेदव्रती ॥७४॥
मालां कृष्णहरिकृष्णकृष्णनारायणाभिधैः ।
कुर्याज्जपं च भजनं स्मरणं कीर्तनं मुहुः ॥७५॥
वन्दनं दासतां सेवां पादयोश्चापि मर्दनम् ।
मार्जनं परिचर्यां क्षालनं विष्णुग्रहस्य च ॥७६॥
गुरोः सेवां प्रकुर्वीत व्रतपुष्टिकरीं शुभाम् ।
गुरौ तुष्टे व्रतं पूर्णे भवेद्वै मनसेप्सितम् ॥७७॥
फलेत्सर्वं प्रसंपूर्णं स्वर्गमोक्षादिदायकम् ।
गौरीः साध्वीः सतीर्बालान् बालिकाः सधवाऽधवाः ॥७८॥
अनाथाऽनाश्रिताः संभोजयेद् दानानि संददेत् ।
गृहं दद्याज्जीविकां च क्षेत्रं वाटीं च वेतनम् ॥७९॥
साहाय्यं विविधं दद्याद् यथा सन्तोषमाप्नुयात् ।
संफलेत् तेन वै मासः पुरुषोत्तमसंज्ञकः ॥1.293.८० ॥
नित्यं वै मन्दिरे दद्याद् देवाय जलगाः शुभाः ।
आमान्नानि च शाकानि लवणं शर्करादिकम् ॥८ १ ॥
फलानि तण्डुलान् मुद्गान् द्विदला घृतवर्तिकाः ।
घृतं तैलं निवाराँश्च मरीचकान् सुजीरकम् ॥८२॥
शुण्ठीश्च मेथिकां दद्याद् दधि दुग्धं च तक्रकम् ।
पत्राणां भाजिकां खर्जूरकं श्रेष्ठं सुराजिकाम् ॥८३॥
भूमिकन्दान् बदामाँश्च काष्ठानि मृत्तिकास्तथा ।
इष्टिका वंशपात्राणि धातुपात्राणि मृद्धटान् ॥८४॥
घासग्रासान् गवाद्यर्थे पारावातेभ्य इत्यपि ।
कणान् दद्यात्पिपीलिकाद्यर्थे पिष्टादिकं तथा ॥८५॥
जलस्थेभ्यश्चणकाँश्च श्वादिभ्यो रोटकाँस्तथा ।
जलं तु वृक्षवल्लीभ्यो दद्याच्छ्रीपुरुषोत्तमे ॥८६॥
पिप्पलेभ्यो बर्बुरेभ्यो जलं दद्याच्छिवोपरि ।
बिल्वेभ्यः श्रीफलेभ्यश्च वटेभ्यो जलमर्पयेत् ॥८७॥
तुलसीभ्यः कमलेभ्यः पुष्पवल्लीभ्य इत्यपि ।
जलं खाद्यं प्रदद्याच्च कुर्याद्वृत्तिं सुरक्षिकाम् ॥८८॥
एवं दानानि वस्त्राणां वस्तूनां चापि कारयेत् ।
भूशायी ब्रह्मचारी च शान्ते भूत्वाऽधिके पुनः ॥८९॥
मासे वै साधुवद्भूत्वा साध्वीवच्च व्रतान्वितः ।
ऐहिकं त्वात्मनः कुर्यात्पुण्यं परं च मोक्षणम् ॥1.293.९०॥
पतिः पत्नी च दासी च सुतः सुता च बान्धवाः ।
बन्धुपत्न्यो जनन्यश्च पितरश्च पितामहाः ॥९१॥
माता मातामही चापि बालाश्च बालिकाश्च याः ।
शिष्या स्वसा चाश्रिताश्च प्राघूर्णिकाः समाश्रिताः ॥९२॥
ये च गृहे जनाः स्वस्याऽभिजनाश्च कुटुम्बिनः ।
सर्वे ते वै व्रतं कुर्युः पुरुषोत्तममासि तु ॥९३॥
एकभक्तेन नक्तेन फलेनाऽयाचितेन वा ।
जलेन पयसा दध्ना निवारादिभिरेव वा ॥९४॥
शाकेन भर्जितेनापि देहयात्रां विधाय च ।
पुरुषोत्तममासस्य व्रतं कुर्युस्तु शक्तितः ॥९५ ॥
एकान्नेनाऽथवा कुर्याद्भिक्षान्नेनापि सर्वथा ।
उञ्च्छवृत्त्याऽथवा कुर्यादाजगर्याऽथवा चरेत् ॥९६॥
देवान्नं वा ग्रसेत्सायं पूजयित्वा जनार्दनम् ।
देवानां दर्शनं नित्यं साधूनां चरणामृतम् ॥९७॥
पेयं धार्यं मस्तके च धूल्यामालुण्ठनं तथा ।
हरेः पादोदकं पेयं स्त्रिया पुंसा व्रते सदा ॥९८॥
पर्यंकाऽशयनं कार्यं कामक्रोधविवर्जनम् ।
क्षौरविवर्जनं कार्यं मैथुनस्य विवर्जनम् ॥९९॥
रसनायास्तपः कार्यं त्यागः प्राप्ताऽर्जितस्य च ।
नार्या तु स्पर्शनं पुंसः पुंसा स्पर्शश्च योषिताम् ॥ 1.293.१० ०॥
त्याज्यो वै सर्वथा मासेऽधिके श्रीपुरुषोत्तमे ।
गृहाद्बहिर्न गन्तव्यं तीर्थार्थं गम्यमेव वा ॥ १०१ ॥
वाटिकायां समुद्याने वस्तव्यं क्षेत्रके तथा ।
वनेऽरण्ये दैवभूमौ साधुमध्ये सतीजने ॥ १ ०२॥
त्यागिभूमौ निवासश्च तीर्थतटेऽथ सीम्नि वा ।
पर्णशालोत्तमायां वा व्योम्नि वासोऽधिके मतः ॥ १ ०३॥
श्रवणं कीर्तनं कृष्णनारायणस्य वै स्मृतिः ।
पादयोः सेवनं चापि पूजनं वन्दनं तथा ॥ १०४॥
दास्यं चात्मात्मीयवस्त्वर्पणं कृष्णविचिन्तनम् ।
एवमादिक्रियारूपां भक्तिं कुर्यान्मलेऽधिके ॥ १ ०५॥
मं मुक्तिं लाति गृह्णाति मलोऽयं मास उच्यते ।
मा माया लीयते येन मलोऽयं मास ईरितः ॥ १०६॥
मां लक्ष्मीं माति यो मासस्तस्मान्मलः प्रकीर्त्यते ।
पुरुषोत्तमनाम्मो वै मकारस्त्वन्त्यवर्णकः ॥ १ ०७॥
लक्ष्म्याश्चाद्याक्षरो लोपि 'मलः' कृष्णः श्रिया युतः ।
मं मल लीयते येन मलक्षालनको हरिः ॥ १ ०८॥
मलमासे कृतं यद्यद्दानं पुण्यं तदीयकम् ।
कं सुखं जायते चाध्यधिकं ह्यधिकमास्स हि ॥ १ ०९॥
यत्र नारायणः कृष्णः प्रत्यहं तु गृहे गृहे ।
व्यवस्थितः शुभां पूजां गृह्णाति पुरुषोत्तमे ॥ 1.293.११० ॥
मासेऽत्र रमया लक्ष्म्या पार्वत्या प्रभया तथा ।
माणिक्यया कृष्णनारायणः श्रीपुरुषोत्तमः ॥ १ ११॥
गोलोकाच्चापि वैकुण्ठादव्याकृताच्च धामतः ।
भुवनेऽत्र समायाति लोकानां दर्शनाय वै ॥ १ १२॥
सत्कर्माण्यर्चनादीनि पूजनानि व्रतानि च ।
के कुर्वन्ति च मे मासे स्नानं पूजां प्रदानकम् ॥ १ १३॥
एवं देवः सदा प्रातर्व्योममार्गेण पश्यति ।
दृष्ट्वा स्नातॄन् भक्तिकर्तॄन् भक्तान् देवग्रहस्य च ॥ १ १४॥
दातॄन् संपालयितॄँश्च नियमानां नरान् प्रियाः ।
विलोक्य दिव्यदृष्ट्या श्रीसहितः पुरुषोत्तमः ॥ १ १५॥
प्रसन्नो भवति श्रेयः कर्तुं यातुं च तद्गृहे ।
स्थातुं चिरं श्रियै कृष्णः प्रदिशति तोषितः ॥ १ १६॥
पुरुषोत्तममासस्य व्रतिनां भवनानि वै ।
सर्वस्मृद्धिप्रपूर्णानि कुरु लक्ष्मि! ममाऽऽग्रहात् ॥ १ १७॥
मलमासाऽवमन्तॄणां गृहे वासो च मा तव ।
यत्र नास्ति ममाऽऽवासस्तत्र तेऽपि च माऽस्तु सः ॥ १ १८॥
इत्यादिश्य हरिः प्रातस्ततो मध्याह्नकेऽपि च ।
नैवेद्यं त्वर्पितं लब्ध्वा पुनर्याति स्वधाम वै ॥ १ १९॥
सायं पुनः स्वपत्नीभिः समायाति हरिः स्वयम् ।
आरार्त्रिकादिका सेवां त्वंगीकर्तुं गृहे गृहे ॥ 1.293.१२० ॥
घृतदीपं तथा धूपं पुष्पं जलं सुभोजनम् ।
सर्वं प्राप्य स्वकं धाम विसर्जितः प्रयाति सः ॥ १२१ ॥
नित्यं मासेऽधिके ह्येवं पश्यति श्रीहरिर्विभुः ।
भक्तानुकम्पया तस्मात् पूज्यौ श्रीपुरुषोत्तमौ ॥ १ २२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीपुरुषोत्तममासमाहात्म्ये तदाद्यदिवसीयव्रततपोदान- स्नानाराधननियमादिकर्तव्यतानिरूपणनामा त्रिनवत्य-धिकद्विशततमोऽध्यायः ॥ १.२९३ ॥