← अध्यायः २९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९७
[[लेखकः :|]]
अध्यायः २९८ →


श्रीनारायण उवाच
 श्रूयतां च त्वया लक्ष्मि! शारदायाः कथा शुभा । अधिमासस्य पंचम्यां व्रतं कृत्वा च पूजनम् ।। १ ।।
 ऐश्वर्यमतुलं प्राप कौमार्यं शाश्वतं च सा । राजस्वल्यविहीनत्वं प्रसारणं मुखे मुखे ।। २ ।।
 तथा वैकुण्ठनाथस्य पत्नीत्वं दिव्यमव्ययम् । अवाप शारदा लोके पूज्यतां पद्मजा यथा ।। ३ ।।
 पत्नीत्वे सति कौमार्ये कुमारीत्वे वधूत्वकम् । विरुद्धधर्मयोश्चास्यां स्थितिः श्रीहरितोषणात् ।। ४ ।।
 अधिमासबलोपेतां चमत्कारमयीं कथाम् । शृणु लक्ष्मि! महापुण्यां पुरुषोत्तममासिकीम् ।। ५ ।।
 ब्रह्मधामस्थिताऽनादिकृष्णनारायणांऽगतः । ब्रह्मविद्या शारदाख्या प्रकटीभूय सुन्दरी ।। ६ ।।
 वैराजलोकमागत्याऽऽज्ञया नारायणस्य सा । वैराजे लीनतां प्राप्य ब्रह्मविष्णुमहेश्वरैः ।। ७ ।।
 सहोत्पन्ना कन्यका सा वैराजी शारदा सुता । बहुकालं पितृगेहे वासं चक्रे कुमारिका ।। ८ ।।
 ब्रह्मज्ञानात्मिका नित्यं विचारयति वर्ष्मणि । यदर्थं ब्रह्मणा चाहमाविष्कृता तु देवता ।। ९ ।।
 वाङ्मयी वेधसः सृष्टौ स्थातुं प्रतिमुखं खलु । ततोऽहं वैधसी भूत्वा गच्छामि यदि सृष्टिषु ।। १० ।।
 कुमारी चेन्निवत्स्यामि ह्यशुद्धा चाप्यसंस्कृता । अस्पृश्या वै भविष्यामि सर्वैर्बहिष्कृता सदा ।। ११ ।।
 तदा तु मरणं तत्र शरणं मे भविष्यति । कुमारिकाशरीरं वै गर्भीयं पापकं हि तत् ।। १ २।।
 कस्यापि कर्मणो योग्यं भवत्येव न सर्वथा । मूत्रेन्द्रियप्रजन्माऽसौ मूत्रकुक्षौ प्रवर्धितः ।। १३।।
 मूत्रात्मजलमग्नोऽसौ मूत्रद्वारेण निर्गतः । बाल्येऽपि मलमूत्रात्माऽस्पृश्याऽशुद्धमलावृतः ।। १४।।
 यज्ञोपवीतसंस्कारहीनो देहः सदाऽशुचिः । अशुद्धकफफीतादिविकृतिपूत्तलात्मकः ।। १५।।
 कुमारिकास्थितौ नारीदेहः कथं शुभो भवेत् । विवाहकरणे शुद्धिर्नान्यथा तु कदाचन ।। १६ ।।
 विवाहोऽपि महादुःखप्रदः पुरुषवश्यता । मूत्रेन्द्रियपराधीनमालिन्यकर्मकारिता ।। १७।।
 मूत्रकुक्षौ गर्भवासो गर्भजन्ममलाक्तता । सूतकं सर्वथा चार्ते रक्तस्रावो मलान्वयः ।। १८।।
 मलमूत्रसमुत्पत्तिरपानानिलसंसृतिः । मालिन्यं सर्वथा पत्नीभावे मैथुनकर्मणि ।। १९।।
 तस्मात् पराश्रयः पत्नीभावोऽत्यधिकदुःखकृत् । किं कर्तव्यं क्व गन्तव्यं नारी कृता पराश्रया ।।।२ ० ।।
 नारीदेहः पराधीनः परभोग्यः परार्थकः । येन तादृक् कृतं पापं नारीतां सः प्रपद्यते ।।२१ ।।
 तन्न मया परनार्या भवितव्यमधीनया । एवं रजस्वलाधर्मो मालिन्यं पापकारकम् ।।२२।।
 नेष्यते येन तदपि पारवश्यं न मे भवेत् । मदिष्टं यदि नैव स्यान्मरिष्यामि न संशयः ।।२३।।।
 अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्मविहीनत्वं कौमार्ये च यथा मम ।।२४।।
 शाश्वतं स्याद् यथा यत्नस्तथा कार्यो ह्यतः परम् । इति नित्यं चिन्तयाना मार्गयामास साधनम् ।।२५।।।
 शुश्राव दुन्दुभिं विष्णोरधिमासव्रताय वै । पुरुषोत्तममासस्य व्रतिनां वै मनोरथाः ।।२६।।
 परिपूर्णा भविष्यन्तीत्याह श्रीपुरुषोत्तमः । एककालं द्विकालं वा पूजयिष्यन्ति मां जनाः ।।२७।।
 नरो नारी च षण्ढो वा मत्कृपालेशतो हि सः । अलभ्यलाभवान् स्याच्च दास्ये सर्वं तदीप्सितम् ।।२८।।
 कुमारी शारदा वैराजस्य पुत्री प्रघोषणाम् । श्रुप्वाऽतिहर्षमापन्ना मनश्चक्रे व्रतार्चने ।।२९।।
 पञ्चम्यां सा तिथौ प्रातः शीघ्रं शीघ्रं समुत्थिता । श्रुत्वैवं दुन्दुभिं स्नात्वा ध्यात्वा मूर्ति हरेस्तथा ।।३० ।।
 पूजाद्रव्याणि दिव्यानि संगृह्य भवने स्वके । विष्णुं नारायणं देवं पूजयामास भावतः ।।३ १।।
 लक्ष्मीं नारायणं स्वर्णं श्रीहरिं पुरुषोत्तमम् । आवाह्यासनमास्तीर्य पाद्यार्घ्याचमनानि च ।।३२।।
 दत्वा पंचामृतैः कृष्णं स्नापयित्वा जलेन च । अमृतेन रसेनापि सुगन्धिद्रववस्तुभिः ।।३३।।
 सम्मर्द्य गात्रमुरुधा शृंगारमकरोत्ततः । अलंकारविभूषाश्च धारयित्वाऽम्बराणि च ।।३४।।
 प्रपूज्य कस्तूरिकाभिश्चन्दनाक्षतकुंकुमैः । तुलसीपुष्पमन्दारचम्पकैः परिपूज्य च ।।३५।।
 धूपदीपसुनैवेद्यैः फलैः पानैश्च चर्वणैः । ताम्बूलकैस्तोषयित्वाऽऽरार्त्रिकं त्वकरोत्ततः ।।३६।।
 प्रदक्षिणं स्तुतिं कृत्वा दण्डवत् प्रणनाम सा । क्षमाऽपराधं स्वाभीष्टं प्रार्थयत् सा कुमारिका ।।३७।।
 दुन्दुभिना प्रवक्तर्हे लक्ष्मीनारायण प्रभो । ब्रह्मगोलोकवैकुण्ठवासिन् श्रीपुरुषोत्तम ।। ३८।।
 सत्यं ददासि भक्ताय यथेष्टं व्रतकारिणे । तदा मह्यं तथा देहि यथाऽहं प्रवृणोमि तत्। ।। ३९।।
 कुमारीत्वं शाश्वतं मे राजस्वल्यं कदापि न । अशुद्धत्वं च मे मास्तु तथा सत्यपि मे पुनः ।।४० ।।
 पतिमत्त्वं सुमांगल्यं सौभाग्यं सर्वदाऽस्तु मे । सगर्भात्वं च मे मास्तु पत्नीत्वेऽपि कदाचन ।।४१ ।।
 एतद्वै दुर्लभं याचे विरुद्धं सर्वथा तनौ । यदि सत्यप्रवक्ता त्वं ह्येककालव्रते कृते ।।४२।।
 अधिमासे पूजिते चेद् ददासि देहि मे तथा । अन्यथा दुन्दुभिं देव मा प्रवादय चाऽनृतम् ।।४३ ।।
 छत्रं ददामि ते नाथ चामरेऽपि ददामि ते । पादुके ते प्रददामि शय्यां ददामि कोमलाम् ।।४४।।
 पादसंवाहनार्थाय मा ददामि समर्पिताम् । शरणागतपाल त्वं भक्तवाञ्च्छाप्रपूरक ।।४५ ।।
 पुष्पांजलिं गृहाणैनां करं गृहाण वा न वा । देहि मदर्थितं नाथ शाश्वतं सुखदं हि तत् ।।४६।।
 कुमारी नैव पत्नी स्यात् पत्नी स्यान्न कुमारिका । पत्नीत्वे बहवो दोषा मा स्पृशेयुश्च मां यथा ।।४७।।
 कुमारीत्वेऽपि ये दोषा मा स्पृशेयुश्च मां यथा । तथा देहि कृपानाथ सत्यार्थो दुन्दुभिर्यदि ।। ४८।।
 कर्तुं चाकर्तुमेवाप्यन्यथाकर्तुं प्रभोस्तव । किमप्यशक्यं नास्त्येवाऽन्यथा ते दुन्दुभिर्वृथा ।।४९।।
 इति स्तुत्वा फलैर्युक्तमर्घ्यं समर्प्य विष्णवे । अक्षतैर्वर्धयामास कुमारी शारदा ततः ।।५ ० ।।
 देवं तु दक्षिणां स्वीयसमर्पणात्मिकां हृदि । दत्वा विसर्जयामास ध्यायमाना नरायणम् ।।५ १ ।।
 तावन्नारायणो लक्ष्मीपतिः श्रीपुरुषोत्तमः । रमापतिर्हसन्मन्दं प्राविर्बभूव चाग्रतः ।।।५२।।
 दक्षदोष्णाऽभयदश्च वामेन मस्तके स्पृशन् । उवाच शारदं किन्ते मनस्यस्ति प्रकाशय ।।५३ ।।
 पूजया ते प्रसन्नोऽस्मि विश्वासव्रतचारिणि । सुभ्रु विश्वासपाशेन बद्धोऽस्मि सर्वदा त्वया ।।५४।।
 दातुं सर्वं समर्थोऽस्मि तथापि शृणु मे वचः । कुमारीत्वं च पत्नीत्वं नैकत्र क्वापि दृश्यते ।।५५।।
 अन्यतरं तयोस्तस्माद् वृणु तुभ्यं ददाम्यथ । कुमारीत्वं कलकाय लोके त्वाजीवनं भवेत् ।।५६।।
 तस्मात् पत्नीत्वमेवात्र वृणु सौभाग्यदं ददे । अन्यच्चापि च ते काम्यं ददामि वृणु कन्यके ।।५७।।
 स्त्रीराज्यं वा महद्राज्यं मायाराज्यं ददामि ते । विरुद्धं मा वृणु कन्ये ब्रूहि विचार्य मा चिरम् ।।५८।।
 इत्याश्रुत्य हरेर्वाक्यं शारदा प्राह केशवम् । भक्तेष्टपूरक स्वामिँस्तवोद्धोषान्मयाऽर्थितम् ।।।५९।।
 स्वसत्यरक्षणार्थाय यथेच्छसि तथा कुरु । नहि भक्ते त्वाग्रहः स्यादाग्रही नहि भक्तिमान् ।।६० ।।
 अहं तव प्रपन्नाऽस्मि भक्तचिन्तां हर प्रभो । तवाऽस्मि तव भक्ताऽस्मि पादयोः पतिता तव ।।६ १ ।।
 नारीदुःखानि मे मा स्युरिति भक्तेष्टमावह । इत्यर्थितश्च दृष्टश्च स्पृष्टो नतः कृतादरः ।।६२।।
 पूजितो भोजितस्तत्रात्यन्तप्रेम्णा विलोकितः । भक्तार्तिहा प्रभुः स्वभक्तायाः कृते व्यचिन्तयत्। ।।६३।।
 कथमस्या मनोभीष्टं प्रदातव्यं भवेदिति । कया रीत्या पूरणीयो भवेन्मनोरथोऽपि च ।।६४।।
 ददाम्यस्यै महासिद्धिं व्याप्यव्यापकरूपिणीम् । नैकरूपभवित्रीं च दिव्यां सिद्धिं ददामि ह ।।६५ ।।
 इति संकल्प्य भगवान् ददौ शंखजलं मुखे । तावत्सा सर्वसामर्थ्यनिधिरूपा बभूव वै ।।६६।।
 भगवाँस्तु ततः प्राह शारदे शारदात्मिका । दिव्यरूपा मम पत्नी सदा वैकुण्ठवासिनी ।।६७।।
 गर्भादिदोषशून्या त्वं भवसीति विभावय । दत्तं मदीयपत्नीत्वं यौनमालिन्यवर्जितम् ।।६८।।
 मलमूत्राद्यनास्पृष्टं दिव्यं रूपं सदाऽस्तु ते । अथ रूपं द्वितीयं त्वं गृहाण वाङ्मयं प्रिये ।।६९।।
 कुमारीभावसम्पन्नं सरस्वतीस्वरूपकम् । ददामि तादृशं रूपं सुकुमारं तथा भव ।।७०।।
 गच्छ तेन स्वरूपेण वेधोद्वारा प्रजासु वै । व्यापकं ते स्वरूपं स्यां वाणीरूपं मुखे मुखे ।।७१ ।।
 कुमारीत्वं सदा तत्र स्वरूपे तेऽस्तु शारदे । अन्तर्मुखप्रचारित्वे त्वराजस्वल्यमस्तु ते ।।७२।।
 सात्त्विकत्वं कुमारीत्वं सर्वदा तत्तथाऽस्तु ते । अथ तृतीयरूपेग केनचित्सन्मिषेण वै ।।७३।।
 सरस्वती नदीरूपा त्वन्तर्जलप्रवाहिणी । अरजस्का कुमारी त्वं सदा तिष्ठतु शारदे ।।७४।।
 चाञ्चल्यं च बहिर्भावो राजस्वल्यं च माऽस्तु ते । पावित्र्यं सर्वदा तेऽस्तु ऋतुधर्मविवर्जनम् ।।७५।।।
 राजस्वल्यं विलीनं ते मालिन्यभाववर्जितम् । भवताच्छारदे! काऽप्यशुद्धिर्मास्तु त्वयि क्वचित् ।।७६ ।।
 सर्वैश्वर्यवती पूज्या लोकेषु व्यापिनी भव । लोकानां राजसं पापं मास्तु त्वयि सरस्वति! ।।७७।।
 बहिर्भावे त्वयि राजस्वल्यादि लोककृद् यदि । दृश्येत तद्दूषणं तु लोकानां न तु तत् त्वयि ।।७८।।
 राजस्वल्यकृतं पापं वक्तॄणां स्यादशुद्धता । पावित्र्यं सर्वदा तेऽस्तु सन्तु ते दिव्यसम्पदः ।।७९।।
 कुमारीत्वं च पत्नीत्वं तेऽस्तु शुद्धं यथेप्सितम् । मम पत्नी शारदा त्वं कुमारी ब्रह्मपुत्रिका ।।८० ।।
 सर्वं दत्तं मया तुभ्यं वद् त्वन्यत् किमिच्छसि । इत्युक्ता प्राह सा देवी मम पूजाकृतस्तु ये ।।८ १।।
 सरस्वत्याः शारदाया नद्या वाण्या उपासकाः । वैकुण्ठं ते समायान्तु स्वामिनस्ते प्रतापतः ।।।८२।।
 अधिमासस्य पञ्चम्यां प्रातः सम्पूज्य वै क्रमात् । नारायणं यथा प्राप्ताऽस्म्यहं पूर्णमनोरथा ।।८३।।।
 तथा ते पूजकाश्चाधिमासस्य पूजकास्तथा । नरा नार्यः समायान्तु वैकुण्ठं तव पादयोः ।।८४।।
 जन्ममृत्युजराव्याधिदुःखदारिद्र्यवर्जिंतम् । शाश्वतं सच्चिदानन्दसन्दोहमूर्तिराजितम् ।।८५।।
 तथास्त्विति प्राह कुर्वन् हरिदुन्दुभिघोषणाम् । सार्थका सत्यफलदां त्वाधिमासस्य पुष्टिदाम् ।।८६ ।।
 अधिमासोऽपि तां प्राह भक्ता ये या मयि त्वयि । तेषां तासां समुद्धर्ता त्वहं वै पुरुषोत्तमः ।।८७।।
 दोषहर्ता सुखदाता मनोऽभीष्टप्रदस्तथा । पावयिता सिद्धिदाता भवाम्येव न संशयः ।।८८।।
 शारदाया इदं प्रार्थ्य श्रोष्यन्ति ये तु दुर्लभम् । पठिष्यन्ति च वा तेषां दुर्लभं सुलभं भवेत् ।।८९।।
 अपतर्क्यं सुतर्क्यं स्यादप्राप्यं प्राप्यतां व्रजेत् । अभाव्यं भाव्यतां यायादनिष्टं चेष्टतां व्रजेत् ।।९० ।।
 भुवि स्वर्गे तथाऽन्यत्र दुर्लभं सुलभं भवेत् । कृष्णनारायणः साक्षाल्लभ्येतान्यस्य का कथा ।।९ १ ।।
 नारायणः स्वकृपया ददात्यस्य वै बहु । अधिमासि कृतस्यात्राऽसंख्यफलं ददाति हि ।।९२।।
 लब्ध लक्ष्मि! यथा देव्या शारदाया विचित्रकम् । तथा विचित्रां भुक्तिं च मुक्तिं च लभतेऽर्चकः ।।९३ ।।
 जपो होमो व्रतं दानं ध्यानं माला तपः श्रुतम् । पञ्चम्यां तत्कृतं सहस्रादिगुणं भविष्यति ।।९४।।
 इत्युक्त्वा शारदां नीत्वा वैकुण्ठं हरिराययौ । सरस्वतीस्वरूपां तां प्राहिणोद् वैधसीं प्रजाम् ।। ९५।।
 अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्माऽनभिभूतिः कौमार्ये चेति रक्षितम् ।। ९६ ।।
 इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैराजपुत्र्याः शारदाया अधिकमासपञ्चम्यां व्रतपूजनादिकरणेन नारायणपत्नीत्वं पवित्रत्वम् अराजस्वल्यं कुमारिकात्वम् अगर्भाकत्वं सरस्वतीता चेत्यादिप्राप्तिनिरूपणादिनामा सप्तनवत्यधिकद्विशततमोऽध्यायः ।। १.२९७ ।।