लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९९

← अध्यायः २९८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९९
[[लेखकः :|]]
अध्यायः ३०० →


श्रीनारायण उवाच-
 शृणु लक्ष्मि! दुन्दुभेस्तु निनादेन कृतं व्रतम् । सत्यलोकस्थिताभ्यां तु कन्याभ्यां विश्वकर्मणः । ।। १ । ।
 सत्यस्वर्गादिलोकानां राज्ञां पातालवासिनाम् । नगराणां भवनानां सभानां यज्ञकर्मिणाम् ।। २ । ।
 मण्डपानां विनिर्माता नारायणांश एव यः । तस्य कन्या सिद्धिनाम्नी ज्येष्ठा बुद्धिः कनीयसी । । ३ । ।
 सिद्धिबुद्धी सुरूपे च सुशीले देवपूजिके। नित्यं नारायणं स्मृत्वा प्रातः स्नात्वा तदुत्तरम् । । ४ । ।
 पित्रोश्चरणयोर्नत्वा ब्राह्मसंज्ञे मुहूर्तके । गृहे देवगृहे चापि दीपं प्रज्वाल्य वै ततः ।। ५ । ।
 धूपं कृत्वा सुगन्धं च कीर्तनं कुरुतश्च ते । देवं नत्वा तु पुष्पाणि जलं च शर्करादनम् ।। ६ ।।
 समर्प्य गृहकार्याणि कुरुतश्चोभये ततः । सिद्धिस्तत्र सरोमध्याज्जलं त्वाहरति द्रुतम् ।। ७ ।।
 मार्जयित्वा गृहं बुद्धिर्वह्निं प्रज्वालयत्यपि । चुल्लिकायां जलपात्रमुष्णीकरणहेतवे ।। ८ ।।
 स्थापयित्वा च पितरो प्रस्नापयति भावुका । सिद्धिस्तावद्गृहशय्यादिकं संगृह्य शय्यधौ ।। ९ ।।
 रक्षयित्वाऽथ पर्यंकान् सम्मार्ज्योन्नीय सुस्थले । संक्लृप्य रात्रिपात्राणां मञ्जनं प्रकरोति वै ।। १० ।।
 तावद् बुद्धिः स्नातयोश्च पित्रोरार्द्राम्बराणि तु । प्रक्षाल्य रज्ज्वां विन्यस्य गत्वोद्यानं गृहानुगम् ।। ११ ।।
 देवपूजादिकार्यार्थं पुष्पाण्यानयति द्रुतम् । माता चाथ पिता यावत्तूपयांति हरेर्गृहम् ।। १ २।।
 आसने तावदास्तीर्य सन्ध्याद्यर्थे ददात्यपः । तुलसीपत्रकाऽम्भोजकुन्दचम्पकमालिकाः ।।१ ३।।
 ददाति देवपूजार्थं पित्रोः परमभावतः । चन्दनाऽक्षतकुंकुमपञ्चामृतजलानि च ।। १४।।
 पात्राणि पूजनार्हाणि घृतवतीश्च शर्कराः । द्राक्षादाडिमबीजानि विविधानि फलानि च ।। १५।।
 एलालवंगताम्बूलनैवेद्यान्यानयत्यपि । पूजास्थां मातरं चाथ पूजास्थं पितरं तदा ।। १६।।
 दश प्रदक्षिणाः कृत्वा कृत्वा दश नमस्क्रियाः । मातापितृचरणयोर्धौतं प्रगृह्य वै जलम् ।। १७।।
 पार्श्वे तिष्ठति सेवार्थं दर्शनं प्रकरोति च । तावत्तत्र समागत्य सिद्धिरपि तथैव तत् ।। १८।।
 प्रदक्षिणानमस्कारादिकं कृत्वा प्रसादजम् ।जलं पीत्वा पुनर्याति चुल्लिकासन्निधौ गृहे ।। १ ९।।
 महानसे तु पाकार्थं सामग्री सकलाश्च सा । सुशोधयित्वा सन्न्यस्य बुद्धिमाहूय तामनु ।।२० ।।
 करोति भक्ष्यभोज्यानि पेयानि विविधान्यपि । दुग्धपानं तु सा पित्रोः सिद्धिः कारयति द्रुतम् ।।२१ ।।
 पूजापात्राणि सर्वाणि मृदा संघृष्य वै ततः । शुद्ध्वा प्रातर्विधेयं यत् कृत्वा सर्वं ततो ह्युभे ।।२२।।
 विद्याभ्यासं च कुरुते वैश्वदेवान्तकं ततः । कृत्वा तौ भोजयित्वा च विधिं माध्याह्निकं पुनः ।। २३ ।।
 कृत्वा चातिथिगोजन्तुभागान् दत्वाऽऽश्रितादनम् । ततः स्वे भोजनं प्रासादिकं चक्रतुरादरात् ।। २४।।
 महानसप्रशुद्धिं च पात्रशुद्धिं प्रमार्जनम् । जलाहरणमन्नादिशोधनं त्वपराह्णके ।। २५।।
 देहश्रांगारिकं कृत्वा विरामं प्राप्नुतः क्षणम् । ततस्तीर्थकथादेव दर्शनादि विधाय तु ।। २६ ।।
 सायं कृष्णस्य संपूजा षोडशोपसुवस्तुभिः । कृत्वा पक्वान्नमिष्टानि भोजयित्वाऽतिभावतः ।। २७।।
 पितरौ तु ततः शय्यादिकं संस्तीर्य ते ह्युभे । पादसंवाहनं पित्रोः कृत्वा सेवनमित्यपि । । २८ ।।
 दैनं तु यत् स्वकं गोसेवनं कीर्तनमैश्वरम् । यन्न्यूनं तत्तु सम्पूर्णं कृत्वा निःशेषमित्युभे ।। २९।।
 किंचिदध्ययनं कृत्वा गृह्णीतः स्वापमल्पकम् । ब्राह्मकाले समुस्थायाऽभ्यस्तां विद्यां विचार्य च ।। ३० ।।
 पुनश्च नैत्यकं कार्यं कुरुतः कन्यके ह्युभे । एवं तु सेवया हृष्टौ पितरौ त्वतिभावतः ।। ३१ ।।
 युयुजतुः शुभाशीर्भिः 'सुखिन्यौ भवतं ह्युभे । ईश्वरे प्रेमयुक्तत्वान्नारायणहरिप्रभुः ।। ३ २।।
 युवाभ्यां प्राप्स्यते काले सेवनीयतमः शुभः । इत्याशीर्वादपात्रे ते नित्यं हृदि हरिं मुहुः ।। ३३ ।।
 वाञ्छतः श्रीहरिं कृष्णं नारायणमधीश्वरम् । एवं व्रते सत्यलोके ताभ्यां मे दुन्दुभिः श्रुतः ।। ३४।।
 अधिमासस्य सप्तम्यां प्रातर्वै व्रतबोधकः । स तु बोधयते लोकान् अधिमासव्रतानि वै ।। ३५।।
 करिष्यन्ति यथाशक्ति ये ब्रह्माण्डगता जनाः । नरा नार्योऽथवा त्वन्ये तेषामभीष्टदायकः ।। ३ ६।।
 अलभ्यलाभदाताऽस्मि ह्यहं श्रीपुरुषोत्तमः । मासिकं पाक्षिकं साप्ताहिकं दैनिकमेव वा ।। ३ ७।।
 नैशं पौर्वाह्णिकं यद्वा पाराह्णिकं च मध्यगम् । उपवासान् फलाहारान् पयःपानं जलाशनम् ।। ३८ ।।
 कन्दाशनं निवाराद्यशनं सायं निशाशनम् । दिवाशनं वैकभुक्तं तिलभुक्तमयाचितम् ।। ३९ ।।
 कृत्वा यथाबलं पुष्पैः सम्पूज्य पुरुषोत्तमम् । जलेन वा फलैर्वापि मूलेन कुंकुमेन वा ।।४० ।।
 अक्षतैश्चन्दनेनापि सम्पूज्य पुरुषोत्तमम् । वस्त्रेण च सुदुग्धेन गूडेन मिष्टयाऽथवा ।। ४१ ।।
 शर्कराभिर्जलपानैस्ताम्बूलेनच्छदादिना । पत्रेण वाऽतिभावेन प्रेम्णा मां पुरुषोत्तमम् ।।४२ ।।
 सन्तुष्याऽधिकमासे ते मत्तोऽर्जयन्तु दुर्लभम् । इदानीं कृपया दास्ये कृते स्वल्पेऽपि साधने ।।४३ ।।
 अन्यमासेषु यत् कष्टसाध्यं भवति चात्र तत् । स्वल्पस्यापि ददाम्येव कोटिगुणितमद्य वै ।।४४।।
 पश्चान्नैव प्रदास्येऽहं तस्माद् गृह्णन्तु भो जनाः । फलं पूगीफलस्यापि पारमेष्ठ्यपदाधिकम् ।।४५।।
 जलपात्रव्रतेनापि क्षीरसागरशायिताम् । एकभुक्तव्रतेनापि गोलोकस्याऽधिकारिताम् ।।४६।।
 नक्तमात्रव्रतेनाऽपि नारायणसमानताम् । पत्रपुष्पप्रदानेऽपि महेन्द्रपदशालिताम् ।।४७।।
 दीपमात्रप्रदानेऽपि सूर्यचन्द्रादिदेहिताम् । नरो वा यदि वा नारी कुमारो वा कुमारिका ।।४८।।
 इच्छति चेन्ममलक्ष्मीमपि मां पुरुषोत्तमम् । पत्नीं पतिं च वा पुत्रं दास्ये लक्ष्मीं च मामपि ।।४९।।
 प्रगृह्णन्तु वरानस्मत् प्रकुर्वन्तु च सञ्चयम् । महाकृपामहावृष्टिलभ्यं पुण्यबलोदयम् ।।५०।।
 सत्यं सत्यं नाऽनृतं वै घोषयत्येव दुन्दुभिः । अधिमासव्रतं कृत्वा गृह्णन्तु स्वेप्सितं प्रजाः ।।५१ ।।
 इत्याश्रुत्य ह्युभे कन्ये सप्तम्यां प्रातरेव ह । दुन्दुभिं मे प्रणम्यैव वर्धयित्वाऽञ्जलिद्रवैः ।।।५२।।
 पूजयित्वा सुपुष्पैश्च हर्षयुक्ते बभूवतुः । पुनस्तावद्दुन्दुभेश्च कृपावाक्यं श्रुतं शुभम् ।।५३।।
 कुमारिके यदीच्छेतां पतिं मां पुरुषोत्तमम् । एकभुक्तव्रतेनापि भविष्यामि पतिस्तयोः ।।५४।।
 पूजां माध्याह्निकीं कृत्वा यथालब्धोपचारकैः । मिष्टान्नं भोजयित्वा मां प्राप्स्यतः पुरुषोत्तमम् ।।५५।।
 इत्येवं संवदन्तं तं मत्वा स्वयोः कृते शुभम् । सिद्धिबुद्धी विदित्वा स्वं भाग्योदयमुपागतम् ।।५६।।
 पूजयित्वा स्वपितरौ भोजयित्वा विधानतः । गृहकार्यं विनिर्वर्त्य पुष्पचन्दनवारिभिः ।।५७।।
 अक्षतैश्चापि मिष्टान्नैर्धूपदीपसुचर्वणैः । यान्यासन् स्वगृहे तैस्तैरर्चयित्वा तु कानकम् ।।५८।।
 नारायणं हरिं देवं पतिप्राप्तीच्छया शुभे । नीराजयामासतुश्च ह्यर्थे कामफलं शुभम् ।।५९।।
 दत्वा संप्रार्थयामासतुश्च नौ त्वं पतिर्भव । इत्युक्त्वाऽक्षतसंपूर्णाञ्जली ददतुरादरात् ।।६० ।।
 तावच्छ्रीभगवान् साक्षात् कृष्णनारायणः स्वयम् । युवा कटाक्षबाणेन निरीक्षन् प्राविरास वै ।।६१ ।।
 द्वयोः प्रकोष्ठे संगृह्य स्वकरेण हरिः स्वयम् । मस्तकयोः करौ कृत्वा वक्षस्याकृष्य ते ह्युभे ।।६२।।
 प्रिये इति च संभाष्य निभाल्य च मुहुर्मुहुः । मिलितोऽस्मि च जातोऽस्मि मिलिते विधिवत् प्रिये ।।६३।।
 इत्युक्त्वाऽन्तर्दधे कृष्णस्ते ह्युभे तं हरिं सदा । जाग्रत्यपि तथा स्वप्ने पश्यतो वै मनोहरम् ।।६४।।
 पार्वत्यंकस्थितं कृष्णमेकशुण्ढं क्वचित्पुनः । अशुण्ढं मुरलीयुक्तं गोलोकस्थं व्यपश्यताम् ।।६५।।
 वरयोग्यं पुनस्तं च गणेशं शंकरात्मजम् । सशुण्ढं च सुरूपं च ददृशतुः क्षणान्तरे ।।६६।।
 श्वेतवर्णं सुनेत्रं च सुभालं यौवनान्वितम् । कृष्णात्मकं च तं दृष्ट्वा मुमूहतुः पुनः पुनः ।।६७।।
 क्वचित्स्वप्ने च ते कन्ये कुर्वन्त्यौ मोदकान् बहून् । पश्यतः स्म च तत्रैत्य गणेशः फलकासने ।।६८।।
 निषद्याऽर्थयते लड्डून् अन्येऽपि ददतुस्तदा । पार्श्वद्वये ह्युभे स्थित्वा ददतुर्लडडूऽकान् मुहुः ।।६९।।
 गणेशः स्वल्प शुण्डेन पार्श्वद्वये कृतेन च । वारंवारं प्रदत्तान् सुलड्डून्प्राप्य निजे मुखे ।।७०।।
 न्यस्यत्यतीव मिष्टाँश्च प्रेम्णा भक्षयति द्रुतम् । प्रशंसति करौ दत्वा कन्ययोः पृष्ठयोस्तदा ।।७१।।
 एकैकं लडडुकं ताभ्यां दत्वा संभोजयत्युभे । हसन् हास्यं प्रकुर्वन् रामयन् संरमयन्मुदा ।।७२।।
 दर्शयित्वैवमात्मानं तिरोभावं प्रगच्छति । कन्येऽपि जाग्रते भूत्वा मुहुः संस्मरतुश्च तम् ।।७३।।
 एवं हृद्ये गणपतौ जाते कालेऽप्युपस्थिते । विश्वप्रकर्मणा ज्ञात्वा प्राग्वृत्तान्त तदीयकम् ।।७४।।
 गणेशं तु समाहूय विधिना लग्नशालिना । गणेशायाऽर्पिते कन्ये सिद्धिबुद्धी समाह्वये ।।७५।।
 विवाहोत्तरकालेऽत्रऽऽश्चर्यं जातं महच्छृणु । गणेशेन कृते रूपे द्वे तदानीं गृहान्तरे ।।७६।।
 एकं श्रीकृष्णरूपं च गणेशात्म द्वितीयकम् । कन्ययोश्चापि रूपे द्वे द्वे कृते सुमनोहरे ।।७७।।
 राधातुल्ये तु रूपे द्वे श्रीकृष्णो गरुडोपरि । नीत्वा ययौ स्वकं धाम गोलोकं शाश्वतं तदा ।।७८।।
 तत्र वै रमते सिद्ध्या बुद्ध्या च दिव्यरूपया । एवं ताभ्यां फलं मुक्यात्मकं दत्तं व्रतस्य वै ।।७९।।
 अथाऽन्येन स्वरूपेण गणेशाख्येन तेन ते । उभे कृत्वा स्वके त्वंके प्रेम्णा निभालिते मुहुः ।।८०।।
 चुम्बिते गण्डयोश्चापि तोषितेऽन्तर्गृहे गते । नवयौवनभावस्य फलं वै प्रापिते रतेः ।।८१।।
 इति लक्ष्मि! फलं ताभ्यां लब्धं कृष्णधवात्मकम । दिव्यं लोकेऽपि विख्यातिं प्राप्तं रूपं द्वयं द्वयम् ।।।८२।।।
 पूज्यभावं प्रतिष्ठां च प्राप्तेऽधिमास सत्कृतात् । एकभुक्तव्रताद् यद्वा प्राप्तवस्तुभिरर्चनात् ।।८२।।।
 एवं या कन्यका कुर्यात्पुरुषोत्तमपूजनम् । सप्तम्यां त्वेकभुक्तं च वाञ्च्छया कृष्णसत्पतेः ।।८४।।
 साऽवश्यं यत्र कुत्रापि प्रादुर्भूतं स्वकं पतिम् । कृष्णनारायणं दिव्यं मानवं सा त्ववाप्स्यति ।।८५।।
 भुक्तिं कृत्वा बहून लोकान् सम्प्राऽनुभूय शाश्वतान् । ततः श्रीकृष्णगोलोकं वैकुण्ठं वाऽऽप्स्यति ध्रुवम् ।।८६।।
 तस्माद् व्रतं प्रकर्तव्यमधिमासप्रसंभवम् । अनायासेन मुक्तिः स्यात् पुनर्जन्म न शिष्यते ।।८७।।
 इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विश्वकर्मणः सिद्धिबुद्धिपुत्रीभ्यां माता- पितृसेवयाऽऽशीर्वादोत्तरमधिकमासव्रत बोधकदुन्दुभिश्रवणोत्तरं कृतेन सप्तम्यां एकभुक्तव्रतेन तयोः श्रीकृष्णदर्शनरूपद्वयप्राप्तिर्गोलोकवासो गणपत्यात्मककृष्णेन सह विवाहश्चेत्यादिनिरूपण-नामैकोनशताधिकद्विशततमोऽध्यायः ।। १.२९९।।