← अध्यायः ३०० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०१
[[लेखकः :|]]
अध्यायः ३०२ →


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पुरुषोत्तमयोगिनी । पुरुषोत्तममासस्य कथा दिव्याऽघनाशिनी । । १ । ।
 परब्रह्मसकाशात्तु वासुदेवो व्यजायत । वासुदेवात् समभवद् भूमाख्यः पुरुषोऽग्रणीः । । २ । ।
 भूम्नोऽभवद् विराडस्य मुखादग्निरजायत । अग्नेरपत्यं लोकेषु हिरण्यं विश्रुतं त्रिषु । । ३ । ।
 सृष्ट्यारंभे न वै कश्चिदग्नेः सत्कारमाचरत् । अत्युष्णत्वाद् दाहकत्वात् कृष्णवर्त्मकृतेस्तथा । । ४ । ।
 आश्रयापयितुर्भस्मीकरणप्रकृतेस्तथा । अग्निमेतादृशं दृष्ट्वा ब्रह्माद्या अपि बान्धवाः ।। ।५ । ।
 भयं प्राप्ता न सत्कारं सहवासं चरन्त्यपि । भोजने तूत्सवे पाने दूरं कुर्वन्ति चाऽनलम् । । ६ । ।
 त्रैलोक्ये नाऽऽप स क्वापि विश्रान्तिं भोजनादिकम् । सर्वदिग्भ्यः सर्वदेहिभ्यस्तिरस्कारमाप्य सः । । ७ । ।
 केभ्यश्चित्तु स्थलेभ्यः स प्राप्तवाँस्ताडनादिकम् । अतो ज्वालादिकं तूष्णगुणं जिह्वा निगूह्य च ।। ८ ।।
 अन्यैरलक्षितो वह्निर्लोकालोकाचलं ययौ । क्षुधितः शिखरं लोकालोकाचलस्य जग्धवान् ।। ९ ।।
 उदरे पच्यमानं तद् पुत्ररूपं व्यजायत । हिरण्यं तत्तु संजातं कांचनी भूमिका तु सा ।। १० ।।
 लोकाऽलोकाचलपार्श्वे प्रकाशिता व्यजायत । एवं स पर्वते प्रदक्षिणां कुर्वन् प्रयाति वै ।। १ १।।
 भवति क्षुधितो यत्र शृंगं तत्राऽत्ति पार्वतम् । पचमानं तु तत्पुत्ररूपेण जायते ततः ।। १२।।
 एवं पुत्राः सुवर्णानि समजायन्त सर्वतः । सर्वत्र काञ्चनी भूमिर्लोकालोकाचलं त्वनु ।। १३।।
 सञ्जाता वर्तुलाकारा पश्चात् शृंगं महत्तमम् । ब्रह्माण्डसदृशं भक्षयित्वा पृथ्व्यां समन्तरे ।। १४।।
 मध्यदेशे ययौ दिव्यानलस्तत्राऽश्रमत् क्षणम् । पच्यमानं महच्छ्रंगं पुत्ररूपं व्यजायत ।। १५।।
 सुवर्णे तन्महामेरौ व्याप्तं चाऽभूत् समन्ततः । मेरुस्तस्मात् सुवर्णस्य प्रख्यातिमगमत्ततः ।। १६।।
 जडं सुगन्धहीनं च खनिग्रावात्मकं गुरु । यत्र यत्र पतितं तत् तत्र तत्रैव संस्थितम् ।। १७।।
 वह्नेरिव सुवर्णस्यापि न मानं कृतं जनैः । कल्पवृक्षजवस्त्वाद्यैर्निर्वहन्ति हि देहिनः ।। १८।।
 किं सुवर्णं च कौ वह्निरित्येवं नाऽभवद्धि धीः । किं कायं वै सुवर्णस्य किं कार्यं चाऽनलस्य वै ।। १९।।
 अप्येवं नाऽभवत्प्रज्ञा कल्पवृक्षबलात्तदा । सुवर्णं चाऽनलश्चोभौ मूल्यहीनौ शुशूचतुः ।।।२० ।।
 अथात्र खलु नास्माकं ब्रह्माण्डेस्ति परीक्षकः । विना प्रयोजनं नैव मूल्यं कस्यापि जायते ।।।२१ ।।
 तृणं प्राप्तेऽपि समये कोटिस्वर्णसमं भवेत् । अग्निर्वै शैत्यकलहे बहुमूल्योऽभिजायते ।।।२२।।
 त्यक्तं मयूरपिच्छं तु गोलोके कृष्णसंधृतम् । स्वस्यैव मकुटे तेन पूज्यतां मूल्यतां गतम् ।।२३।।
 ब्रह्मणा विधृतं गंगाजलं पुरा कमण्डलौ । विसृष्टं मूल्यवज्जातं महद्भूतं हि मूल्यवत् ।।२४।।
 कंकरः खलु कृष्णेन धृतो वक्षसि मूल्यवान। न धृतः कर्दमः कैश्चिन्मूल्यं नाप्तो मनागपि ।।२५।।
 तस्मादहं महानग्निर्मम पुत्रः सुवर्णकम् । विना प्रयोजनं यद्वा महद्भिः संधृतिं विना ।।२६।।
 मूल्यवन्तौ न वै स्याव दुःखं तद्वै महत्तमम् । गुणिनां गणनारंभे यद्यंगुलिर्न तिष्ठति ।।२७।।
 वरं तस्यात्र मृत्युर्वै प्राणनं क्लेशदं वृथा । विद्या वा राज्यसत्ता वा सिद्धिरैश्वर्यमेव वा ।।२८।।
 ख्यातिर्वा धनिता वापि भक्तिर्वा जीवने वरम् । तद्विहीनेन मर्तव्यं मरिष्यावस्ततोऽद्य वै ।।२९।।
 इति विचार्य वह्निस्तत्पुत्रो ययतुरुच्चकैः । मेरोस्तु शिखरे तस्मात्पातेन मरणार्थिनौ ।।३ ०।।
 तावत् तत्र सत्यलोके घोषयन् दुन्दुभिर्हरेः । ताभ्यां श्रुतोऽधिके मासे शोकं कुर्वन्तु मा जनाः ।।३ १।।
 नारायणं तु संस्मृत्य नवम्यामद्य ये जनाः । करिष्यन्ति व्रतं पूजां तेषामिष्टं भविष्यति ।।३२।।
 एकभुक्तेन नक्तेन तथैवाऽयाचितेन वा । फलेन पयसा त्वद्य द्विकालं त्वैककालिकम् ।।३३।।।
 व्रतं कृत्वाऽर्चनं कृत्वा कृष्णस्य शरणागताः । अपि चेत्ते मानहीना दरिद्रा निष्प्रयोजनाः ।।३४।।
 गणनाहीनकाश्चापि यास्यन्ति चोत्तमं पदम् । अहं वै दुन्दुभिर्वच्मि पुरुषोत्तमदेशनाम् ।।।३५।।।
 दुःखो वा क्लेशसन्दृब्धोऽतितिरस्कृत एव वा । अस्थानो वाऽल्पमूल्यो वा जडो वा तूग्र एव वा ।।३६।।
 यः कश्चिच्छरणं प्राप्याऽधिकमासे व्रतं चरेत् । विधूय तस्य दुःखानि करिष्याम्यवनं सदा ।। ३७।।
 पुरुषोत्तममासस्य मानकृन्मान्य एव मे । पुरुषोत्तममासे वै पुण्यकृत्पूततां व्रजेत् ।।३८ ।।
 ममाऽर्चनप्रकर्ताऽत्र सर्वाऽर्च्यतामवाप्नुयात् । यस्य वै रक्षिता कोऽपि भवत्येव न वै क्वचित् ।।३९।।
 चेत् स रक्षत्यधिमासं तथा मां पुरुषोत्तमम् । रक्षयिष्ये तु तमहं वदामि पुरुषोत्तमः ।।४०।।
 पूजयन्तु च मां भक्त्या भोजयन्तु सुपायसम् । प्रार्थयन्तु यथेष्टं च मत्तो गृह्णन्त्वभीष्टकम् ।।४१।।
 अनुग्रहेण दातास्मि त्वकृतस्यापि चेष्टदः । अल्पस्य बहुदश्चापि गृह्णन्तु पुरुषोत्तमात् ।।४२।।।
 अद्य ये न करिष्यन्ति व्रतं वा वरणं च वा । तेषां हानिरलाभश्च नान्यः कश्चिदतोऽधिकः ।।४३।।
 तस्मादायान्तु गृह्णन्तु वरान् कुवन्तु पूजनम् । आचरन्तु मलमासे नवम्यां व्रतमुत्तमम् ।।४४।।
 प्रदाताऽस्मि समृद्धोऽस्मि समुदारोऽस्मि सर्वथा । दुन्दुभिः प्रवदाम्यत्र नारायणान्तरात्मकः ।।४५।।
 नारायणस्वरूपोऽहं पुरुषोत्तमदेशनः । प्रसन्नं दासभक्तं वा करोमि पुरुषोत्तमम् ।।।४६ ।।
 पत्रं पुष्पं फलं तोयं यो मयि सन्नियोक्ष्यते । अहं तस्मिन्नियोक्ष्यामि श्रेष्ठं रत्नादिकं पुनः ।।४७।।
 भोज्यं भक्ष्यं तथा लेह्यं चोष्यं यो मेऽर्पयिष्यति । तस्मै कोटिगुणितं तदर्पयिष्येऽप्यहं तथा ।।४८।।
 यस्य द्रष्टाऽऽश्रयदाता पोष्टा मानयिताऽविता । कोऽपि नास्ति तु तस्याऽहं सर्वकर्ताऽविताऽस्मि वै ।।४९।।
 आगच्छन्तु महाभागाः सत्कृता वाऽप्यसत्कृताः । बाला वा बालिका वापि युवत्यः सधवाऽधवाः ।।५०।।
 युवानो भाग्यवन्तो वा भाग्यहीना दरिद्रकाः । वृद्धा पलितवल्यंगाः सुचित्ता वाऽप्यचित्तकाः ।।५१ ।।
 तृतीयप्रकृतिव्याप्ता नामसंज्ञाविहीनकाः । स्थावरा जंगमाः केऽपि जडा वा जडसन्निभाः ।।५ २ ।।
 तिर्यञ्चोऽपि विवरस्था गर्तस्थाः खनिखातजाः । मुखजाः पृष्ठजाश्चापि मलजा अमलोद्भवाः ।।५ ३ ।।
 मलमासं समाश्रित्य तोषयित्वा पुमुत्तमम् । पारमेष्ठ्यपदं यान्तु यान्तु वाऽक्षरधाम तत् ।।५४।।
 स्वर्गे सुखं परं यान्तु यान्तु श्रीपुरुषोत्तमम् । सुतं यान्तु पतिं यान्तु पत्नीं यान्तु च पद्मिनीम् ।।५५।।
 गृहं कीर्तिं धनं यान्तु यान्तु शाश्वतपूजनम् । सर्वाधिक्योत्तमस्थानं गृह्णन्त्वनुग्रहान्मम ।।५६।।
 इत्युदारां घोषणां संश्रुत्वाऽग्निश्च सुवर्णकम् । लेभाते स्म महाधैर्यं शोकं तत्यजतुस्ततः ।।५७।।
 मेरोः शृंगे सत्यलोके दुन्दुभिं शरणं गतौ । नत्वा च दुन्दुभिं तस्य पूजां चक्रतुरादरात् ।।५८।।
 वह्निना तु सुतं स्वर्णं दुन्दुभेस्तस्य पादयोः । अकारयन्नतिं तावद् दृष्ट्वा रूपोत्तरं सुतम् ।।५९।।
 दुन्दुभिना समुत्तोल्य गृहीत्वा करयोनिजे । मस्तके च तथा स्कन्धे क्षणं सुवर्णको धृतः ।।६० ।।
 अर्पितो वह्नये पश्चाद् वह्निः प्राह सगद्गदः । नावयोः रक्षिता कोऽपि सत्कर्ताऽपि न विद्यते ।।६ १।।
 महद्दुःखमनुभूय मृत्य्वर्थं त्वागतावुभौ । दुन्दुभे यदि ते वाक्याद् व्रतं कुर्वोऽद्य नक्तकम् ।।६२।।
 पूजनं च हरेः कुर्वो रक्षिता चेद्भवेद्धरिः । एवं संवदतोर्नेत्रादश्रवो न्यपतन् भुवि ।।६३।।
 रजतं तत्समुत्पन्नं स्थले स्थल्यां समुज्ज्वलम् । वीक्ष्यैवं भग्नहृदयं दयमानं महानलम् ।।६४।।
 सपुत्रं दुन्दुभिस्तं चाऽऽश्वासयामास सद्गिरा । नवम्यां अधिमासस्य व्रतं कुरुत नक्तकम् ।।६५ ।।
 पूजां कुरुत वै कृष्णनारायणस्य चाद्य ह । सौवर्णीं प्रतिमां कारयित्वा नारायणस्य च । ।६६।।
 पञ्चामृतेन संस्नाप्य समर्च्याऽक्षतचन्दनैः । विभूष्य स्वर्णभूषाभिर्हारैर्मालाभिरित्यपि ।। ६७।।
 सद्रत्नैरम्बरैर्द्रव्यैर्विभिन्नैर्भोजनैः फलैः । जलैस्ताम्बूलपानैश्च धूपदीपप्रदक्षिणैः ।।६८ ।।
 तोषयित्वाऽर्थयेद् देवं कृष्णं श्रीपुरुषोत्तमम् । असत्कृतमनाधारमनादृतमनाश्रयम् ।। ६९ ।।
 क्षुधितं तृषितं द्वेष्यं दाहकं मां समुद्धर । जडं निर्गन्धमतिं वै गुरुं प्रस्तररूक्षकम् । ।७ ० । ।
 निर्गुणं चेतनाहीनं वाऽकिञ्चित्करमित्यपि । समुद्धर कृपासिन्धो गणनां प्रापय प्रभो । ।७ १ । ।
 एवं स्तुतिं प्रकुर्याच्च श्रीफलार्घ्यं समर्पयेत् । पुष्पांजलिं प्रदद्याच्च नत्वा नाथं विसर्जयेत् । ।७२ । ।
 मध्याह्नेऽपि तथा कुर्यात् कुर्यान्निशीथके तथा । सवाद्यनर्तनगीतैर्नीराजयेद्विसर्जयेत् । ।७ ३ । ।
 एवं कुरु कृशानो त्वं हाटक त्वं तथा कुरु । नारायणः प्रसन्नः सन् युवामुद्धारयिष्यति । ।७४। ।
 इत्याश्रुत्य महादुन्दुभ्युक्तं नारायणोदितम् । वह्निश्चकार सौवर्णीं मूर्तिं नारायणस्य वै । ।७५। ।
 लक्ष्म्या मूर्तिं चकाराऽथ पूजयामासतुश्च तौ । पिता पुत्रश्च विधिवद् व्रतं नक्त प्रचक्रतुः । ।७६। ।
 रात्रौ प्रार्थयतो यावत् कृष्णनारायणं हरिम् । लक्ष्मीसमन्वितं तावत् प्रादुर्बभूव चाग्रतः । ।७७ । ।
 तेजःपरिधि संव्याप्ताननं लक्ष्मीप्रसेवितम् । मन्दं मन्दं हसन्तं तं विलोक्य पुरुषोत्तमम् ।।७८ ।।
 वह्निस्वर्णौ प्रार्थयतः कृपानाथ समुद्धर । ऊष्णस्वभावयुक्तस्य दाहकस्य मम स्थलम् ।।७९।।
 नास्ति कुत्रापि तन्नाथ देहि मे भोजनं तथा । मूल्यं मूर्खस्य पुत्रस्य सुवर्णस्य तु नास्ति वै ।।८ ० ।।
 प्रस्तरस्य न सत्कारो दृश्यते तद्यशः कुरु । सर्वदा तव सेवां च प्रदेहि भगवन् विभो ।।८ १ ।।
 शरणे तेऽस्मि पतितो मामुद्धर सपुत्रकम् । इत्यर्थितो हरिकृष्णो वह्निं प्राह नरायणः ।।८२ ।।
 शोकं त्यज कृशानो त्वं तुष्टोऽस्मि त्वद्व्रतेन वै । ममाऽऽननात् समुत्पन्नः सदा त्वस्तु ममाननम् ।।८ ३ ।।
 वरं ददाम्यहं पुत्र यज्ञादौ भोजनं त्वयि । स्थापयिष्यन्ति ये होष्यन्त्यनले कुण्डमध्यगे ।।८४।।
 अग्निहोत्रस्य हवनं त्वयि न्यस्यन्ति ये जनाः । त्वद्द्वारा तन्मया सर्वं जक्षितव्यं न चाऽन्यथा ।।८५।।
 वह्नि विना जना ये मे दास्यन्ति भोजनादिकम् । तदहं न ग्रहीष्यामि सर्वथाऽनुग्रहात् त्वयि ।।८६।।
 अद्यदिनादहं लोकेऽग्निमुखो भगवानिति । ख्यातिं यास्ये जनास्तेन मदर्थे भोजनादिकम् ।।८७।।
 त्वयि क्षेप्स्यन्ति तत्सर्वं भक्षयिष्यामि त्वन्मुखात् । शमीष्वदृश्यरूपेण तव वासो विशेषतः ।।८८।।
 हीरकादिषु तद्वच्च सर्वत्राऽस्तु तवाऽऽश्रयः । यथा वस्तुप्रदहनं न स्याद्वासस्तथा तव ।।८९।।
 सर्वत्राऽस्तु कृशानो त्वं सुखी भव जनादिषु । सम्मानं सर्वथा तेऽस्तु सत्कारः सर्वथा तव ।।९० ।।
 कल्पवृक्षलये काले चूल्यादौ पाचनाय वै । प्रज्वालनं तवैवाऽस्तु सर्वथैव गृहे गृहे ।।९ १।।
 चिन्तामण्यादि नाशे तु प्रदीपस्य गृहे गृहे । सम्मानं सर्वथा ते स्याद् धैर्यमावह तावता ।।९२।।
 द्वितीयेन च दिव्येन रूपेण पार्षदेन मे । धाम्नि सेवां वह नित्यं वह्ने मुक्तोऽसि मेऽनघ ।।९३।।
 प्रथमे युगपर्याये व्यतीते त्वनलं विना । कार्यं किमपि सर्वेषां भविष्यति न वै तदा ।।९४।।
 तव मूल्यं च सम्मानं सत्कारादरपूजनम् । पराकाष्ठागतं सर्वे भविष्यति न संशयः ।।९५।।
 सुवर्णोऽयं च ते पुत्रो ममाऽतिवल्लभः खलु । अद्यारभ्य मया स्वस्य मस्तके धार्य एव च ।।९६।।
 मुकुटोऽयं तु मे ह्यस्तु भवतां कुण्डले मम । मम भूषास्वरूपोऽस्तु शृंखलाकटकोर्मिकाः ।।९७।।
 रशनाहारपात्राणि स्वर्णोऽस्तु सर्ववस्तुकः । मया धृतस्तव पुत्रो मस्तके मुकुटात्मकः ।।९८।।
 सोऽथ सर्वत्र सत्कारं यास्यति कालनिर्गमे । समूल्यश्च सुगूह्यश्च संरक्ष्यश्च भविष्यति ।।९९।।
 कल्पवृक्षादिविलये कल्पद्रुः स भविष्यति । किञ्च दिव्यं स्वरूपं वै सुवर्णाय ददामि ह ।। १०० ।।
 मूलरूपेण मे धाम्नि सेविष्यते स मां सदा । हाटकाख्यः पार्षदो मेऽक्षरे धाम्नि निवत्स्यति ।। १०१ ।।
 अथ कालान्तरे कार्यावश्यकत्वेऽनलात्मकः । महातेजोमयः सोऽयं हाटकेश्वरसंज्ञकः ।। १० २।।
 पाताले च पृथिव्यां च महादेवो भविष्यति । ममाऽवतारः सर्वत्र पूजां प्राप्स्यति मद्बलात् ।। १० ३।।।
 भक्तानां मुक्तिदाता च भविष्यति महेश्वरः । सर्वब्रह्माण्डसृष्टौ च ख्यातिं त्वमिव यास्यति ।। १ ०४।।
 यथाहं भगवान् व्याप्तस्तथा वह्निः सुवर्णकम् । व्याप्तिं यास्यति सृष्टौ मे सत्कारं च प्रयास्यति ।। १ ०५।।
 रक्षणं चापि संस्थानं सर्वं भविष्यति ध्रुवम् । इत्युक्त्वा च तयोर्दिव्ये रूपे कृत्वा हरिः स्वयम् ।। १ ०६।।
 निनाय स्वालयं चान्ये रूपे वस्तुषु वासिते । एतद्रूपं च वृत्तान्तं परिज्ञाय सुरादयः ।। १ ०७।।
 वह्निद्वारा भक्षयन्ति तृप्यन्ति तत्र भोजनात् । सुवर्णस्य विभूषाश्च धारयन्ति स्थले स्थले ।। १०८ ।।
 एवं वह्निस्तथा स्वर्णो नवमीपूजनं व्रतम् । कृत्वा मुक्तौ प्रशस्तौ संमूल्यकौ च बभूवतुः ।। १० ९।।
 पावित्र्यं सर्वदा प्राप्तौ यत्र क्वापि गतौ हि तौ । वृद्धिं च सर्वदा प्राप्तौ तथा सुखं तु शाश्वतम् ।। ११० ।।
 नवम्यास्तु व्रताख्यानं पठिष्यन्ति तु ये जनाः । श्रोष्यन्ति वा नरा नार्यो यास्यन्ति भुक्तिमोक्षणे ।। १११ ।।
 इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विराटपुत्रस्य वह्नेस्तत्पुत्रसुवर्णस्य च दाहकत्वजडत्वादिदोषान्वितस्य कल्पवृक्षाश्रितजनताभिरनादरे कृते मेरौ मरणोन्मुखस्य दुन्दुभिश्रवणेऽधिमास- नवमीव्रतपूजनकरणेन यज्ञादौ सर्वमान्यताभगवन्मुखता भगवदाभूषणरूपता धामप्राप्तिर्दिव्यपार्षदता चेत्यादिनिरूपणनामैकाधिकत्रिशततमोऽध्यायः ।।१.३०१ ।।