लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०३

← अध्यायः ३०२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०३
[[लेखकः :|]]
अध्यायः ३०४ →


श्रीनारायण उवाच--
 अधिमासैकादशिकाकथां दिव्यां हरिप्रदाम् । शृणु लक्ष्मि! समारंभे सृष्टेर्जाता तपोमयीम् ।। १ ।।
 ब्रह्मणो वक्षसो जातो धर्मदेवः समूर्तिकः । मूर्तिर्देवी तिरोभूता सदाऽऽस्ते धर्मवर्ष्मणि ।। २ ।।
 सा च धर्मे समुत्पन्ने सहैवोत्पद्यतेऽपि सा । लोकरीत्या तु संजज्ञे दक्षपुत्रीस्वरूपिणी ।। ३ ।।
 पुनर्धर्मस्य सा पत्नी लोकरीत्या तु जायते । यदा साऽभूद् धर्मदेवे ह्यदृश्या चाविवाहिता ।। ४ ।।
 तदा लक्ष्मि! कुमारी सा ब्रह्मचर्यसमन्विता । सेवते सर्वदा भक्त्या स्वामिनं ब्रह्मचारिणम् ।। ५ ।।
 सत्यलोके स्थिता वेधोगृहे धर्मसहायिनी । ब्रह्मा जानाति वै सर्वं नान्ये जानन्ति तां स्थिताम् ।। ६ ।।
 बाला बालस्वरूपाद्वै समारभ्यैव नित्यशः । स्नानं पूजां जपं होमं ध्यानं स्वामिप्रसेवनम् ।। ७ ।।
 करोत्येव च वृद्धेभ्यो नमनं वन्दनं तथा । दयाशान्तिप्रसन्तोषाऽऽर्जवोपकारकादयः । । ८ ।।
 सत्यातिमार्दवकृच्छ्रगुणा मूर्तौ वसन्ति हि । सिद्धदेहा तु सा मूर्तिस्तपस्सु वर्ततेऽति वै ।। ९ ।।
 वृष्टौ तिष्ठति वर्षासु शैत्ये शीतजलादिषु । आतपे पञ्चवह्निस्था निराहारा व्रतेषु च ।। १० ।।
 आर्द्राम्बरान्विता नित्यं स्वर्णदीतो गृहं स्वकम् । समागत्य पतिं नत्वा करोति कृष्णपूजनम् ।। ११ ।।
 पतिं जलादिभिः पूर्वं स्नपयित्वा समर्च्य च । ददाति भोजनं चास्मै जलं खाद्यं फलादिकम् ।। १ २ ।।
 स्वयं तु तुलसीपत्रैः कमलैः पारिजातकैः । पतिं नित्यं पूजयति दिव्यज्ञानातिभक्तितः ।। १३ ।।
 एवं प्रातः सदा स्नानं देवपूजां धवाऽर्चनम् । पतिसेवा भोजनादि कारयित्वा विधाय च ।। १४।।
 पत्युर्देहे विलीना सा मूर्तिर्भवति सर्वदा । एवं नित्यानुवृत्त्या सा प्रेमपात्रोत्तमोत्तमा ।। १५ ।।
 धर्मदेवस्य वै जाता सुखदाऽपि कुमारिका । धर्मदेवोऽप्यनुवृत्तिसेवाभक्त्याऽतितोषणम् ।। १६ ।।
 प्रत्यहं समवाप्नोति ददात्यस्यै शुभाशिषः । पतिसेवापरा नित्यं सुखिनि मूर्तिके भव ।। १ ७।।
 लोकरीत्याऽऽप्तदेहेन विवाह्य सेविका भव । ततः सौभाग्यसत्पुत्रस्मृद्ध्यादिसंभृता भव ।। १८ ।।
 नित्यभक्तिफलरूपः साध्यस्ते केशवो भवेत् । हरिः कृष्णः परब्रह्म श्रीपतिः पुरुषोत्तमः ।। १९ ।।
 इत्याशीर्वादभूमिः सा महापुण्याधिवासनी । अधिमासैकादशिकाप्रातरुत्थाय नित्यवत् ।। २० ।।
 स्नातुं सा स्वर्णदी याता तत्र शुश्राव दुन्दुभिम् । अद्याऽस्त्येकादशी देव्यः पुरुषोत्तममासगा ।। २ १ ।।
 अस्या व्रतेन सन्तुष्टः कृष्णनारायणः प्रभुः । यथेष्टं दास्यते सौख्यमैहिकं पारलौकिकम् ।। २२ ।।
 यद् ददाम्यधिमासस्य दिनेष्वन्येषु वै व्रतान् । ततः कोटिगुणं दास्ये फलमेकादशीव्रते ।। २३ ।।
 एकादशीनामन्यासां व्रतेन यत्फलं भवेत् । ततोऽर्बुदगुणं पुण्यं दास्ये ह्यस्या व्रतेन वै ।।२४।।
 अहं ब्रह्मेश्वरश्चाधिमासस्यास्म्यधिदैवतः । तत्राप्येकादशीनाथोऽस्म्यहं श्रीपुरुषोत्तमः ।।२५।।
 मासोऽपि पुण्यश्च दिनं च पुण्यं देवोऽस्मि पुण्यश्च व्रतं कृपालोः ।
 ममाऽऽज्ञया येऽनुचरन्ति भक्त्या तेभ्यो यथेष्टं वितरामि सर्वम् ।।२६ ।।
 यथा यथा स्यान्मनसीषणात्रयम् व्रतस्य कर्तुश्च तथातथाऽन्वहम् ।
 परार्धतुल्यं तु ददामि तत्फलं लक्ष्मीं च मां चापि च धाम मामकम् ।।२७।।
 सिंहासनं मेऽपि ददामि तस्मै ददामि सिद्धीश्च चमत्कृतिं च ।
 ऐश्वर्यसर्वस्वमथापि भूतिं सकौस्तुभं मे मुकुटं च भूषा ।।२८।।
 यथाऽधिमासे कृपया प्रवर्षये जनार्थितं पूरयितुं च वर्षितुम् ।
 तथा न कुत्रापि तु नैजवाञ्च्छया प्रवर्षयिष्येऽधिकमासमन्तरा ।।२९।।
 व्रतं प्रकुर्वन्तु नराः स्त्रियश्च बालाश्च वृद्धाश्च सुतोषणाय ।
 फलं प्रदास्ये मम शाश्वतं वै पदं सुदिव्यं तु परात्परं यत् ।। ३० ।।
 गोलोकं चापि वैकुण्ठं धामाऽव्याकृतमेव वा । श्वेतद्वीपं च वा सौर्यं त्वन्ये भौमं तथाऽपरम् ।।३ १।।
 यद्यदिच्छेद् व्रतं कृत्वा प्रदास्यामि कृपावशः । अल्पायासे फलानन्त्यं गृह्णन्तु व्रतीनो मम ।। ३२।।
 नात्र यज्ञाः पृथक् कार्या नात्र तप्यं तपः पृथक् । तीर्थं नात्र पृथक् कार्यं ह्येकाहस्य फले हि तत् ।। ३३।।
 पयोव्रतं च पुत्रेष्टियजनं नेष्यते पृथक् । एकादश्या व्रतेनात्र दास्यामि पुत्रमित्यपि ।।३४।।
 ज्योतिष्टोमेन यजनं पृथक् साध्यं न वेष्यते । स्वर्गं ददामि तस्मै य एकादश्या व्रतं चरेत् ।। ३५ ।।
 न तस्य राजसूयेन साध्यं किमपि शिष्यते । एकादशीव्रतेनाऽत्र सार्वभौमं ददाम्यहम् ।।३६।।
 अग्निहोत्रेण किं तस्य दास्ये वैराजकं पदम् । एकादश्यां तु मे येनार्पितं फलजलादिकम् ।।३७।।
 श्राद्धैर्विविधकल्पैश्च विविधैर्देवपूजनैः । या तृप्तिस्त्विष्यते तां वै दास्ये चैकादशीव्रते ।।३८।।
 यां मुक्तिं यां च सम्पत्तिं यां सिद्धिं योगमैश्वरम् । यद्यद् वाञ्च्छति यत् कृत्वा तद् दास्येऽत्र दिने व्रते ।। ३ ९।।
 यावज्जीवं फलाहारैर्यत् सुपुण्यं समर्ज्यते । तत्पुण्यं यान्तु वै चैकादशीव्रतेन मे जनाः ।। ४० ।।
 एकभुक्तं कृतं येनाऽऽजीवनं तत्फलं त्वहम् । ददाम्यधिकमासैकादशीव्रतेन मेंऽजसा ।।४ १ ।।
 मस्तके ज्वलदङ्गाराङ्गिष्ठिकां मध्यरात्रिके । काले उदूह्य या नारी ह्येकार्द्रवस्त्रसंवृता ।।।४२।।
 अनुपानच्चरणाभ्यामसहायाऽप्यरण्यके । गत्वा कालीं प्रपूज्यैव प्रत्यहं वार्षिकं व्रतम् ।।४ ३ ।।
 एकभुक्तं माषमात्रादनं कुर्यादखण्डितम् । वर्षायां शीतकाले चातपकालेऽपि सर्वदा ।।४४।।
 गत्वाऽऽपूज्य पुनरायाद् गृहं स्वं मध्यरात्रिके । ततो रन्धितमाषान्नं गृह्णीयाच्च जलं सदा ।।४५।।
 एवं कष्टतरं पुत्रप्राप्त्यर्थं यन्महद्व्रतम् । तद्वै पृथङ् न कर्तव्यमेकादश्या व्रते कृते ।। ४६।।
 महाकालीव्रतं तद् यद् वार्षिकं प्रतिरात्रिकम् । यद् ददाति फलं पुत्रात्मकं तत्तु विनश्वरम् ।।४७।।
 एकादशीव्रतं त्वेतत्पुत्रस्वर्गप्रमुक्तिदम् । एकेन दिवसेनैव तद्व्रताधिकपुण्यदम् ।।४८ ।।
 सहस्रवर्षपर्यन्तं वाय्वाहारं व्रतं तु यत् । पृथक् तन्नास्ति कर्तव्यं ह्येकादश्या व्रते कृते ।।४९।।
 सहस्रकन्यकादानं यत्र कन्या विभूषिताः । प्रत्येकं स्वर्णसाहस्रमुद्राश्च दक्षिणास्तथा ।। ५ ० ।।
 प्रतिकन्यं तु दासीनां शतं स्वर्णविभूषितम् । प्रतिदासि च हस्तीनां शतं त्वम्बालिकायुतम् ।। ५ १ ।।
 प्रतिहस्ति तुरगाणां शतं स्वर्णविभूषितम् । प्रत्यश्वं गोवृषभाणां शतं द्वन्द्वं रथान्वितम् ।। ५२।।
 रथं रथं प्रति दोग्ध्रीगवा चापि शतं शतम् । गां गां प्रति ह्यजानां च शतं शतं ददेत्तु यः ।।५३ ।।
 अजां अजां प्रति वृत्तिं क्षेत्रं गृहं ददेच्च यः । तस्य दातुः कुरुक्षेत्रे फलं सूर्यग्रहे तु यत् ।।।५४।।।
 तस्माल्लक्षगुणं पुण्यं ददाम्येकादशीव्रते । अहं नारायणश्चास्मि शाश्वतः पुण्यशेवधिः ।।५५ ।।
 नाऽन्तोऽस्ति मयि पुण्यानां गृह्णन्तु वृष्टिवज्जनाः । संकल्पो मे पुण्यभूमिर्भक्तिर्मे मोक्षभूमिका ।।५६ ।।
 संकल्पस्य च भक्तेश्चाऽक्षयवार्धिरहं हरिः । ददाम्येव ददाम्येव रिक्तताभयवर्जितः ।।५७।।
 पुरुषोत्तममासस्यैकादश्यां व्रतकारिणे । सर्वं ददामि चोन्मत्तत्यागिवत् कमलामपि ।।५८ ।।
 अहं स्वयं तु मां समर्पये किमुत चापरम् । वृणुताऽतो यथेष्टं वै वदामि दुन्दुभिर्हरेः ।।५९।।
 एतल्लाभं न चेदीयुर्नेदृशः शास्यते पुनः । इति श्रुत्वा दुन्दुभिं तु पुरुषोत्तमघोषणाम् ।।६० ।।
 चिन्तयामास मूर्तिः सा जन्म लग्नं सुतं हरिम् । दुन्दुभीशं समपृच्छन्नत्वा नम्रा विधिं व्रते ।।६ १ ।।
 दुन्दुभिस्तु तदा प्राह मूर्तिं त्वेकादशीविधिम् । स्नात्वा ब्राह्मे मुहूर्ते च ध्यात्वा श्रीपुरुषोत्तमम् ।।६२।।
 सर्वोपचारैरन्यूनैः पूजयेत्परमेश्वरम् । मूर्तिं तु पौरटीं लक्ष्मीनारायणस्य शोभिताम् ।।६३ ।।
 सत्पात्रे पञ्चपात्रे वै निधाय सोपचारिकाम् । ततो व्रती जलपात्रं स्थापयेज्जलसद्धटम् ।।६४।।
 पञ्चामृतादि सन्न्यस्य पूजां मूर्तौ समाचरेत् । प्रथमं देहशुद्ध्यर्थं त्र्याचमनानि कल्पयेत् ।।६५ ।।
 ततः पूर्वे मुखं कृत्वा निषद्य च शुभासने । मूर्तावावाहयेत् कृष्णनारायणं समन्त्रकम् ।।६६ ।।
 घण्टां प्रवादयेदावाहनकाले शुभस्वराम् । आसनं पट्टिकां स्थालीं स्वर्णां दद्यात्तु शार्ङ्गिणे ।।६७।।
 पादप्रक्षालनार्थाय पाद्यं दद्याज्जलं शुभम् । ततस्तीर्थजलं दद्यादर्घ्यं पूजानिमित्तकम् ।।६८ ।।
 ततस्तीर्थजलमाचमनार्थं च ददेच्छुभम् । पुनश्चाऽथ प्रशुद्ध्यर्थं दद्याद् दर्भजलं शुभम् ।।६ ९।।
 ततो दन्तप्रशुद्ध्यर्थं दद्याद्वै दन्तधावनम् । जिह्वोल्लेखनकार्यार्थं दद्यात् स्वर्णशलाकिकाम् ।।७० ।।
 ततः शुद्धं जलं दद्याद् गण्डूषार्थे ततः पुनः । मुखप्रक्षालनार्थाय जलं दद्यात्पुनर्नवम् ।।७ १ ।।
 अथ शौचं प्रकल्प्यैव दद्याज्जलघटं तथा । मृदं वापि प्रदद्याच्च करादिशुद्धिहेतवे ।।७२।।
 जलं शुद्धं तथा दद्याद्धस्तप्रक्षालनाय वै । ततः शुद्धं जलं दद्यान्मुखादिक्षालनाय च ।।।७३ ।।
 स्वर्णासनं शुभं दद्यात् स्नानार्थं पट्टिकात्मकम् । तैलेन तु सुगन्धेन मर्दयेत्परमेश्वरम् ।।७४।।
 आमलकैस्तिलचूर्णैस्तथा संमर्दयेद्धरिम् । तत उष्णोदकेनापि स्नापयेत्पुरुषोत्तमम् ।।७५।।
 ततो दुग्धेन दध्ना च घृतेन मधुना तथा । स्नापयेच्छर्करा वार्भिः समृद्य पुरुषोत्तमम् ।।७६ ।।
 ततः शुद्धजलैरुष्णैः स्नापयेत्परमेश्वरम् । ततो नैर्मल्यकारिण्या प्रोष्णोदकेन मिश्रया ।।७७।।
 हरिं गूटिकयाऽऽमृद्य स्नापयेदभिषेचनम् । कस्तूरिकाचन्दनादिपुष्पसारादि लेपयेत् ।।७८ ।।
 वस्त्रेण मार्जयेत् कृष्णं धौत्राम्बराणि धारयेत् । केशप्रसाधनं तैलं दत्वा कुर्याच्च दन्तकैः ।।७९ ।।
 ललाटे तिलकं चन्द्रं कुर्याच्चन्दनकुंकुमैः । नेत्रयोः कज्जलं दद्यादोष्ठयोः रंगरञ्जनम् ।।८० ।।
 हस्तपादतलादीनि रञ्जयेद् रंगसुद्रवैः । स्वर्णकिरीटसद्रत्नमालिकाकुण्डलादिकम् ।।८ १ ।।
 मणिमौक्तिकहारादि रशनाकंकणादिकम् । ऊर्मिकाशृंखलासत्किंकिणीनुपूरकादिकम् ।।८ २।।
 आभूषणानि सर्वाणि यथास्थानं प्रधारयेत् । पादयोः पादुके दद्याद्धस्तयोर्यष्टिमालिके ।।८३ ।।
 कण्ठे सत्पुष्पहाराँश्च तुलसीपत्रमालिकाम् । पुष्पाणां शेखरान् गुच्छानर्पयेत्परमादरात् ।।८४।।
 पवित्रं त्वर्पयेद् यज्ञोपवीतं योगपट्टकम् । तुलसीमणिमालां च दद्यान्मंगलसूत्रकम् ।।८५।।
 कौस्तुभं च मणिं दद्यात् तथा रक्षां प्रकोष्ठके । नक्तकं हस्तके दद्यात् प्रोक्षयेद् गन्धसारकम् ।।८६।।
 राजाधिराजसद्वेषं शृंगारं कारयेत्परम् । छत्रं च चामरे दद्याद् व्यजनं वायुदं तथा ।।८७।।
 दर्पणं मुखलोकार्थं दद्यात् पर्यंकमित्यपि । गेन्दुकं प्रच्छदपटीं कशिपुं गुप्तदोरकम् ।।८८।।
 कपोलकशिपुं दद्यात् दंशमशकरोधिनीम् । धूपं सुगन्धं कृत्वा च दीपं प्रज्वालयेत्तथा ।।८९।।
 श्वेतचूर्णं रक्तचूर्णं कुंकुमं चाक्षतान् ददेत् । नैवेद्यं लड्डुकान् मिष्टं विविधान्नं सुपायसम् ।।९ ० ।।
 शाकानि चारनालानि दधि दुग्धं सशर्करम् । सूपौदनादिकं दद्यात् क्वथिकां चटनीं तथा ।।९ १ ।।
 भक्ष्यं भोज्यं लेह्यचोश्ये पेयं दद्याज्जलं तथा । चुलुकं कारयेत्ताम्बूलकं चूर्णं समर्पयेत् ।।९२।।
 एलालवंगधानात्वग्वरीयः पूगिकाफलम् । दद्याच्च फलमाम्रस्य जम्बूपनसकादलम् ।।९३ ।।
 द्राक्षाश्रीफलदाडीम नवरंगादिकं ददेत् । शुष्कफलान्यपि दद्याद् बदामकाजुखारिकाः ।।९४।।
 एवं समर्पणं कृत्वा हरिं सन्तर्प्य भावतः । कदलीस्तम्भवशादिकृते वस्त्रादिशोभिते ।।९५।।
 अशोकाऽऽम्रदलपुष्पफलतोरणराजिते । मण्डपे मध्यदेशे वै सप्तधान्यैः कृते शुभे ।।९६।।
 सर्वतोभद्रके तत्र मण्डले मध्यवर्तिनि । सुवर्णस्य घटे ताम्रे तीर्थवारिप्रपूरिते ।।९७।।
 मणिमौक्तिकसौवर्णरूप्यताम्रादिकान्विते । वस्त्रेण वेष्टिते चाम्राशोकादिपल्लवान्विते ।।९८।।
 सुशोभितेऽक्षतचन्दनाक्तकुंकुमपूजिते । तत्र घटे स्थापिता या स्थाली ताम्रा च कानकी ।।९९।।
 खारिकाम्रफलैः पूगीश्रीफलैः शर्करातिलैः । पूरितायां तु तस्यां वै स्थापयेत् पुरुषोत्तमम् ।। १० ०।।
 नीराजयेन्नववारं घृताक्तपञ्चवर्तिभिः । वस्त्रं च भ्रामयेत् पश्चाच्छंखोदकेन वर्तयेत् ।। १० १।।
 धूपं संभ्रामयेच्चापि स्तुतिं कुर्याद् यथेष्टदाम् । नमेच्च दण्डवत् कुर्यात् पञ्चवारं प्रदक्षिणम् ।। १ ०२।।
 क्षमां याचेत चार्घ्यं वै सफलं पुनरर्पयेत् । पुष्पांजलिं साक्षतं वै दद्याच्छ्रीहरये ततः ।। १ ०३।।
 दक्षिणां कानकीं मुद्रां राजतं चाप्युपायनम् । इष्टं वस्तु प्रदद्याच्च हरये त्वभिवाञ्च्छितम् ।। १ ०४।।
 आन्दोलय्रेच्च दोलायां पर्यंके शयनं ददेत् । पादसंवाहनं कुर्याद् ददेद् यानं सवाहनम् ।। १०५।।
 नृत्यं कुर्यात् तथा गीतं वादित्रं वादयेत् तथा । चरणामृतदानं च भक्तेभ्यस्तत्र वर्तयेत् ।। १०६ ।।
 अथापि जलपानं च कारयेत्पुनरादरात् । ताम्बूलकं पुनर्दद्यादेलालवंगकादिकम् ।। १ ०७।।
 मिलेत् संश्लिष्य बाहुभ्यां समापीड्य हरिं मुदा । प्रस्थापयेत् ततो देवं दूरं गत्वा विसर्जयेत् ।। १ ०८।।
 आगन्तव्यमिति ब्रूयान्नत्वा त्वायात्पुनर्गृहम् । इत्यष्टोत्तरशतकोपचारैः परमेश्वरम् ।। १ ०९।।
 पूजयेद्बहुभक्त्यैकादश्यां प्रातर्व्रती जनः । यदि सम्पदधिका स्याद्धोमयज्ञादि कारयेत् ।। ११ ०।।
 द्वादश्यां भोजयेद्विप्रान् सतीः साध्वी सतो जनान् । ततः स्वः पारणां कुर्यात् संभोज्याश्रितवर्गकान् ।। ११ १।।
 दद्याच्छ्रेष्ठानि दानानि भजेत श्रीहरिं मुदा । एवं मध्याह्नके कुर्यात् सायं कुर्यात्तथैव ह ।। ११ २।।
 रात्रौ जागरणं कुर्यान्नृत्यगीतपुरःसरम् । कीर्तनं श्रीहरेः कुर्यान्निरुन्ध्यादिन्द्रियाणि च ।। १ १३।।
 एवं त्वधिकमासस्यैकादशीव्रतमत्र यः। कुर्यात् तेन कृतं सर्वं कर्तव्यं नावशिष्यते ।। १ १४।।
 अधिमासश्चातिपुण्यः पुण्याः त्वेकादशी तिथिः । तद्देवः पावनश्चाहं किं तस्मादतिरिच्यते ।। १ १५।।
 अधिमासो मम शाला वसामि पुरुषोत्तमः । एकादशी मदुत्पन्ना किं तस्मादतिरिच्यते ।। १ १६।।
 एतत् त्रिकं महापुण्यं सर्वेभ्यः श्रेष्ठतां गतम् । तत्रापि मत्कृपा प्राप्ता किमस्मादतिरिच्यते ।। १ १७।।
 तस्मादष्टोत्तरशतवस्तुभिर्मां प्रपूज्य च । गृह्णन्तु भवपारं वा गृह्णन्तु भवसाम्यताम् ।। १ १८।।
 मूर्ते त्वं चाद्य दिवसे तथाविधि कुरु व्रतम् । येन ते दास्यते कृष्णो दुन्दुभ्यात्मा यथेप्सितम् ।। १ १९।।
 मूर्तिः प्राह तदा ह्येनं दुन्दुभिं विनयेन वै । न मदग्रेऽस्ति सामग्र्यः प्रच्छन्नाऽहं वसामि च ।। १२० ।।
 कथंकारं त्वदुक्तं वै पूजनं तु मया भवेत् । इच्छाम्यहं शुभं जन्म विवाहं च सुतं हरिम् ।। १२१ ।।
 दुर्लभं तद्विना पूजा तादृशी स्यान्न चेप्सितम् । इत्युक्त्वा भग्नहृदया साश्रुकण्ठा बभूव सा ।। १ २२।।
 एकादश्या व्रतं कार्यमिति संकल्प्य शोचति । स्मृत्वा नारायणं कृष्णं बाला त्वश्रूणि मुञ्चति ।। १२३।।
 तावत् कृपानिधिस्तत्र हरिर्नारायणः स्वयम् । कृपां कृत्वा दुन्दुभेरग्रतः सुप्रकटोऽभवत् ।। १ २४।।
 प्रमार्ज्याऽश्रूणि कन्यायाः प्राह मातर्नमाम्यहम् । शोकं मा कुरु पूज्यासि यथेष्टं प्रददाम्यहम् ।। १ २५।।
 भावेनास्मि सदा तुष्टो नाऽभावे तु कदाचन । तव भावेन सन्तुष्टो ददामि वृणु तद्वरम् ।। १ २६।।
 अर्च्यते भावहीनेन सहस्रवस्तुभिर्यदि । न सन्तुष्टो भवाम्यत्र भावहीनेऽर्थसाधके ।। १२७।।
 पत्रपुष्पजलैश्चापि भावभक्त्या मदर्चनम् । मम सन्तोषकृत् तत्स्याद् भावस्य क्षुधितोऽस्म्यहम् ।। १२८।।
 अष्टोत्तरशतसंख्योपचारैरपि हार्दिकैः । मातः सम्पूजय त्वं मां ध्यानमात्रेण चान्तरे ।। १ २९।।
 मानसं पूजनं तेऽहं स्वीकरिष्येऽतिभावतः । फलं यथेष्टं ते दास्ये ह्यद्यतनव्रतस्य वै ।। १ ३ ०।।
 इत्युक्त्वा श्रीकृष्णनारायणः श्रीपुरुषोत्तमः । ननाम पादयोर्मूर्तेर्मातृभावेन पुत्रवत्। ।। १३१ ।।
 माता शोकं विहायैव प्रसन्नाऽभूत् हृदन्तरे । प्रोवाच शनकैः कृष्णं जन्म चेच्छामि लौकिकम् ।। १३ २।।
 धर्मेण पतिना साकं लग्नमिच्छामि वैदिकम् । अंके लालयितुं पुत्रं सुतं चेच्छाम्यलौकिकम् ।। १३३ ।।
 अलौकिकस्त्वमेवासि वक्तुं नोत्सहते मनः । निवेदितं हृदय्यं मे यथेच्छसि तथा कुरु ।। १ ३४।।
 इत्यादिष्टो हरिः स्वाभिलषितं प्रियमुत्तमम् । मूर्तेर्मुखात्समाकर्ण्य जहर्ष भाविजन्मधृक् ।। १ ३५ ।।
 उवाचाऽतिप्रसन्नः सन् सर्वं मातर्भविष्यति । इष्टं सर्वं करिष्येऽहं ददामि वचनं तु ते ।। १३६ ।।
 गच्छ दक्षगृहं मूर्ते धर्ममापृच्छ्य सत्पतिम् । भव पुत्री तु दक्षस्य स ते धर्माय दास्यति ।। १ ३७।।
 अहं बालस्वरूपेण सह भ्रात्रा त्वदंकके । ग्रहीष्यामि जनु मातः श्वो याहि त्वं व्रतोत्तरम् ।। १३८ ।।
 मानसी त्वं हि दक्षस्य पुत्री वै भाविनी ततः । धर्मो विवाह्य मातस्त्वां हिमशैले निवत्स्यति ।। १३ ९।।
 अहं ते मानसस्तत्र चतुरात्मा सुतः स्वयम् । नरो नारायणश्चेति हरिः कृष्णश्च ते गृहे ।। १४० ।।
 रमिष्ये सुखदो ब्रह्मव्रतं संधारयन् सदा । लोककल्याणसंकल्पं पूरयस्तव सन्निधौ ।। १४१ ।।
 इत्युक्त्वा च पुनर्नत्वा तिरोऽभूत्पुरुषोत्तमः । मूर्तिश्चापि व्रतं कृत्वाऽर्चनं तत्र च मानसम् ।। १ ४२।।
 द्वादश्यां पारणं कृत्वा प्रातः कृत्वाऽर्चनं हृदि । धर्मदेवस्य संगृह्य शुभाज्ञां दक्षसद्ग्रहम् ।। १४३ ।।
 ययौ जज्ञे च संकल्पादसिक्न्यां मानसी सुता । श्रद्धामैत्र्यादिकाश्चान्या द्वादशापि प्रजज्ञिरे ।। १४४।।
 त्रयोदशापि दक्षेण दत्ता धर्माय पुत्रिकाः । मूर्तेर्जाता नरो नारायणः कृष्णो हरिस्तथा ।। १४५।।
 लोकानां रक्षणार्थाय कुर्वन्तस्तप उत्तमम् । इति ते कथितं लक्ष्मि मासे वै पुरुषोत्तमे ।। १४६ ।।
 व्रतसंकल्पमात्रेण पूर्णं व्रतफलं भवेत् । किं पुनः सांगविधिना कर्तुः फलेऽवशिष्यते ।। १४७।।
 तस्मादेकादशीतुल्यं व्रतं नान्यद् भविष्यति । शाश्वताऽक्षयसत्पुण्यप्रदं मोक्षप्रदं तथा ।। १४८ ।।
 यथालब्धोपचारैस्तु प्रातः संकल्प्य पूजनम् । व्रतं चापि करिष्यन्ति तेषां गृहेष्वहं सदा ।। १४९।।
 वत्स्याम्येव न सन्देहस्तद्भक्त्या वश्यतां गतः । सुखयिष्ये सुतो भूत्वा व्रतिनौ दम्पती कुलम् ।। १५०।।

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मदेवस्य भाव्यंगनया मूर्त्याधिमासैकादश्यामष्टोत्तरशतमानसोपचारैर्नारायणपूजन व्रते कृते सति मूर्तेर्दक्षगृहे जन्म धर्मेण सह विवाहस्ततो हिमालये नरो नारायणः कृष्णो हरिश्चेति- पुत्रचतुष्टयफललाभश्चेत्यादिनिरूपणनामा त्र्यधिकत्रिशततमोऽध्यायः ।।१.३०३ ।।