लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०६

← अध्यायः ३०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०६
[[लेखकः :|]]
अध्यायः ३०७ →


श्रीनारायण उवाच-
 शृणु लक्ष्मि! परे त्वाद्ये वैकुण्ठे प्रथमे तु यत् । सञ्जातं वै चतुर्दश्यां चरित्रं दुन्दुभेस्तु यत् ।। १ ।।
 अक्षरब्रह्मधाम्नस्तु सीम्नि संविद्यते तु यत् । वैकुण्ठं प्रथमं श्रेष्ठं गृहं गोलोकसदृशम् ।। २ ।।
 तत्र युक्तस्वरूपा वै वसन्ति कल्पशाखिनः । तत्पुत्री श्रीः सदा तत्र वर्तते वै कुमारिका ।। ३ ।।
 दिव्यभूमिस्वरूपा च दिव्या विभूतिरस्ति च । चेतनाधिष्ठिता देवी सर्वाधारस्वरूपिणी ।। ४ ।।
 तस्या विभूतेः पुत्री च माणिक्याऽस्ति कुमारिका । दिव्यदुग्धाऽमृताब्धिश्च वैकुण्ठे तत्र वर्तते ।। ५ ।।
 तस्य पुत्री कुमारी च लक्ष्मीस्त्वदात्मिकाऽस्ति च । ता एतास्तिस्र ईश्वर्यो राजन्ते धाम्नि तत्र वै ।। ६ ।।
 सख्यस्तिस्रः सवयस्याः कुमार्योऽतीव कोमलाः । माणिक्या श्रीश्च लक्ष्मीश्च ब्रह्मवेत्र्योऽभवन् सदा ।। ७ ।।
 ब्रह्मात्मज्ञानयोगिन्यो भक्तिमत्यश्च वै हरौ । कुर्वन्ति सेवनं नित्यं कृष्णनारायणस्य ताः ।। ८ ।।
 तस्यैव प्रतिमां नित्यं गृहे ध्यायन्ति भावतः । दिव्यविभूतिः कल्पद्रुः क्षीराब्धिश्चेति ते त्रयः ।। ९ ।।
 पुत्रीणां ध्यानसेवादि दृष्ट्वा तुष्यन्ति वै मुहुः । वितरन्त्याशिषस्ताभ्यो भवन्त्यानन्दमूर्तयः ।। १० ।।
 अनन्तधामसु कृष्णपत्न्यः सन्ति त्वनेकशः । भवत्यश्च भवन्त्येव परब्रह्मप्रियाः पराः ।। १ १।।
 राजाधिराजरूपिण्यो याभ्यो नान्याः पराः क्वचित् । इति पित्राशिषः प्राप्ता दीव्यन्ति नित्यवर्धिताः ।। १२।।
 प्रातः स्नान्ति हरिं स्मृत्वा ध्यायन्ति च हरिं ततः । कुर्वन्ति मण्डपं दिव्यं विद्युत्तोरणसूज्ज्वलम् ।। १ ३।।
 विचित्ररत्नमणिभिर्नद्धस्तंभादिमण्डितम् । कृत्रिमोद्यानसंव्याप्तं दिव्याम्बरविभूषितम् ।। १४।।
 कृष्णनारायणमूर्तिशोभितं सर्वतो दिशि । मध्ये सिंहासनं रम्यं मणिस्वर्णादिराजितम् ।। १५।।
 स्थापयन्ति च तास्तत्र तूलिकाश्च सुखावहाः । मूर्तिं विन्यस्य तन्मध्ये कृष्णनारायणस्य ताः ।। १६।।
 स्नापयन्ति क्षीरधाराभिश्चाद्भिः स्नापयन्ति च । सुगन्धं चन्दनं तैलं मर्दयन्ति च ता मुहुः ।। १७।।
 स्नापयित्वा च वस्त्राणि दिव्यानि ददति प्रगे । धारयन्ति विभूषाश्च शृगारं धारयन्ति च ।। १८।।
 पत्रैः पुष्पैः फलैस्तोयैः पूजयन्ति मुहुर्मुहुः । धूपं दीपं सुगन्धं च कुर्वन्ति कृष्णसन्निधौ ।। १ ९।।
 संवाहयन्ति चरणौ गृह्णन्ति चरणामृतम् । जिघ्रन्ति ता भक्तिमत्यो गन्धं कृष्णप्रसादजम् ।।२०।।
 पश्यन्ति ता हरेः रूपं स्पृशन्ति कृष्णपत्कजम् । आस्वादयन्ति पूजायां दत्तं फलादिकं तु यत् ।।२१ ।।
 शृण्वन्ति भगवत्स्तोत्रं गीतं परस्परेण यत् । वदन्ति गुणचारित्र्यं कृष्णनारायणस्य ताः ।।२२।।
 आददति हरेः कार्ये गच्छन्ति च प्रदक्षिणम् । विलासं हावभावादि तथाऽऽनन्दं च मानसम् ।।२३।।
 चिन्तनं निर्णयं स्वत्वं कुर्वन्ति कृष्णयोगजम् । मिष्टान्नामृतपात्राणि जलपात्राणि तत्पुरः ।।२४।।
 स्वर्णस्थालानि नैवेद्यपूरितानि ददुश्च ताः । भोजयन्ति भावपूर्णं रामयन्ति हरिं पुनः ।।२५।।।
 वारिपानं कारयन्ति रमन्ते ता हरेः पुरः । वादयन्ति प्रवाद्यानि कुर्वन्त्यारार्त्रिकं मुदा ।।२६।।।
 नमन्ति हरये ताश्च प्रशंसन्ति च तद्गुणान् । वर्णयन्ति चरित्राणि कथयन्ति कथानकम् ।।।२७।।
 भावयन्ति कृष्णहृच्चार्पयन्ति हृदयं हरौ । पुष्पांजलिप्रदानैश्च तोषयन्ति नरायणम् ।।२८।।
 स्तुवन्ति परमात्मानं स्मरन्त्यप्यभिधा हरेः । दास्यं कुर्वन्ति सततं सख्यं चात्मनिवेदनम् ।।२९।।
 एवं भक्तिमयं दिव्यं कर्तव्यमाचरन्ति ताः । मध्याह्नेपि प्रपूज्यैनं श्रीः फलान्यर्पयंत्यपि ।।।३०।।
 कल्पद्रुकन्यका कल्पपादपेभ्यो नयंत्यपि । उत्तमं चोत्तमं रम्यं सुरसं मिष्टमम्ब्लकम् ।।३ १।।
 नवं नवं फलं वृक्षपुत्री श्रीरर्पयत्यपि । कदलानि सुपक्वानि कदलीभ्योऽभिगृह्य सा ।।।३२।।
 आहृत्य चाम्रवृक्षेभ्यश्चाम्राणि तूत्तमानि च । कर्मदेभ्यः कर्मदानि चाम्ब्लमिष्टान्यवाप्य च ।।३३।।
 कर्कटिकाश्च वल्लीभ्य आहृत्य पक्वसद्रसाः । कलिंगानि सुपक्वानि शैत्यावहानि यान्यपि ।।।३४।।
 कपित्थानि च तद्द्रुभ्यः पक्वान्यानीय चाप्यथ । काजूफलानि मिष्टानि काजू द्रुभ्योऽभिहृत्य च ।।३५।।
 कटीङ्गुदीभ्य आहृत्य कटीङ्गुन्दीफलानि च । इङ्गुदानि महान्त्येव पक्वस्निग्धरसानि च ।।३६।।
 आहृत्याऽर्पयति श्रीश्च भुंक्ते नारायणः स्वयम् । अंजीराणि सुमिष्टानि द्राक्षाणि सुरसानि च ।।३७।।
 खर्जूरखारिकादीनि तालानि श्रीफलानि च । भूफलानि सुमिष्टानि चिक्कणानि फलानि च ।।३८।।
 क्षीरिकाणि पिशंगानि पनसानि महान्ति च । गर्जराणि विविधानि घृतघटानि चैव ह ।।३९।।
 शिङ्गवः पक्वास्तथा जम्बूफलानि रावणानि च । अमृतानि सुमिष्टानि टिटीमा मिष्टसद्रसाः ।।४० ।।
 दाडिमानि चेक्षुदण्डान् बदराणि नवानि च । टिम्बूरवाँश्च मधुकान् बदामान् बहुबीजकान् ।।४१।।
 रामफलानि च सीताफलानि मधुराणि च । नस्पतीन सन्तराँश्चापि जम्बीराणि च पुप्पिनान् ।।४२।।
 चिर्भटानि च सफलजनानि टिम्टिमानि च । नवरंगानि चान्यानि फलान्याहृत्य श्रीर्ददौ ।।४३।।
 कृष्णनारायणाय श्रीपुरुषोत्तममूर्तये । भगवानपि भावेन समत्तिश्र्यर्पितानि वै ।।४४।।
 दिव्यविभूतिकन्या तु माणिक्या भगवत्कृते । समानयति रत्नानि धारयत्यच्युतं स्वयम् ।।४५।।
 रत्नमालास्तथा मुक्ताहारान् मौक्तिककंकणान् । वज्रमणीन् पद्मरागमणीन् मरकतान् मणीन् ।।४६।।
 इन्द्रनीलमणींश्चापि कौस्तुभान् भीष्मकाँस्तथा । वैदूर्यान्पुष्परागाँश्च कर्केतकान् सुवर्णकान् ।।४७।।
 हारितान् पुलकाँश्चैव रुधिरान् स्फटिकाँस्तथा । विद्रुमाँश्च प्रवालाँश्च माणिक्यान् चित्रकाँस्तथा ।।४८।।
 गोमेदाँश्च महानीलान् कूप्याँश्चादाय सन्ददौ । कृष्णनारायणस्तानि मणिरत्नमयानि च ।।४९।।
 भूषणानि धृतवाँश्च प्रसन्नोऽभूदतीव सः । अथ क्षीराब्धिकन्या वै लक्ष्मीः क्षैराणि भावुकी ।।५०।।
 भोजनं कारयामास पाययामास तानि वै । दुग्धसारं पायसान्नं दुग्धपाकं सतण्डुलम् ।।५ १।।
 दुग्धस्तरं दुग्धमन्थं दुग्धघट्ट पयोबलिम् । दुग्धक्वाथं दुग्धपिण्डान् दुग्धमल्लयिनीं शुभाम् ।।।५२।।।
 दधि सर्पिर्वृतं तक्रं नवनीतं पयःपुटम् । क्षीरौदनं पयोमिश्रं पयःपानादिकं ददौ ।।।५३।।।
 कृष्णनारायणस्तत्तद् भुक्तवान् पीतवाँश्च वै । क्षीरोत्पन्नानि रत्नानि ददौ सा विविधानि च ।।५४।।
 श्रिया माणिक्यया लक्ष्म्या यान्यर्पितानि भावतः । कृष्णनारायणस्तानि जग्राह भावपूरितः ।।५५।।
 फलानि रत्नानि च पायसानि भुंक्ते दधात्यत्ति च भावगर्भम् ।
 श्रियं च मणिक्यवरां च लक्ष्मीं सेवापरां वीक्ष्य हरिस्तुतोष ।।५६।।
 सायं च ताः पूर्ववदेव पूजनं चक्रुः समाराधनतत्पराः सुताः ।
 नीराजनं भोजनमन्यदर्पणं सदैव चक्रुर्बहुभक्तिभावतः ।।५७।।
 चतुर्दश्यामधिमासे मध्याह्ने पूजनोत्तरम् । श्रुतस्ताभिर्दुन्दुभिश्च कृष्णनारायणस्य हि ।।५८।।
 कुर्वन्तु पूजनं नित्यं कुर्वन्त्वाराधनं मम । अर्पयन्तु च मे किञ्चित्प्राप्नुवन्तु मम गृहम् ।।५९।।
 पुरुषोत्तमसंज्ञोऽहं ब्रह्मधामाधिपः पुमान् । अधिमासाधिदैवोऽहं वदामि तद् ददामि वै ।।६ ०।।
 गोलोकस्था अपि याश्च वैकुण्ठस्था अपि व्रतम् । अधिमासे चतुर्दश्यां कुर्वन्ति याश्च येऽपि च ।।६ १ ।।
 तासां तेषां मनोलभ्यं करिष्ये भगवानहम् । दास्यामि परमं धामाऽक्षरातीतनिवासनम् ।।६२।।।
 फलैः रत्नैः पायसान्नैः पूजयिष्यन्ति मां जनाः । प्राप्स्यन्ति परमं धाम यत्रास्मि पुरुषोत्तमः ।।६ ३ ।।
 अन्येभ्यो धामवासिभ्यः स्थितिं श्रेष्ठां ददाम्यहम् । गृह्णन्तु भक्तिमत्यो मे भक्ताश्च परमं पदम् ।।६४।।
 नेदृशं त्वस्ति वैकुण्ठं गोलोकश्चापि नैव ह । मम धाम्ना समं त्वन्यद् विद्यते नैव नैव च ।।६५ ।।
 न मत्समो वाऽप्यधिकोऽस्ति कश्चित्, न ब्रह्मणा सन्निभमस्ति किञ्चित् ।
 नान्यत्सुखे मत्सुखसाम्यमस्ति, स्वल्पप्रदानेन लिहन्तु चार्याः ।।६६।।
 भवन्तु दास्यः प्रभवन्तु भक्ता, आनन्दमात्रां मम मूर्तिलब्धाम् ।
 भुञ्जन्तु नित्यं मयि संरमन्तु, चतुर्दशीसद्व्रतकल्पनेन ।।६७।।
 मानव्यो मां समाराध्य भवन्तु दिवि देवताः । देव्यश्च मां समाराध्य भवन्त्वार्षिण्य एव च ।।६८।।
 आर्षिण्यो मां समाराध्य भवन्त्वीशान्य एव वा । त्वीशान्यो मां समाराध्य भवन्त्वीश्वर्य एव च ।।६९।।
 ईश्वर्यो मां समाराध्य नारायण्यो भवन्तु च । नारायण्यः समाराध्य गोप्यो भवन्तु मां मुदा ।।७०।।
 ताश्च सर्वाः समाराध्य मां वरं पुरुषोत्तमम् । भवन्तु पुरुषोत्तम्यो नित्यमुक्तान्य एव ह ।।७ १ ।।
 कृष्णनारायणं मां वै संराध्य पुरुषोत्तमम् । ममाऽक्षरं परं धाम गृह्णन्तु मद्व्रतार्थिनः ।।७२।।
 चतुर्दश्यामधिमासे व्रतं श्रीपुरुषोत्तमे । कृतं येनाऽर्जितं तेन मामकं सर्वमेव ह ।।७३ ।।
 वच्मि वच्मि पुनर्वच्मि ह्यागच्छन्तु मया सह । भवने त्वक्षरे मे वै निवसन्तु मया सह ।।७४।।
 तुष्टोऽस्मि गर्जनां कृत्वा कथयामि पुनः पुनः । अधिमासे चतुर्दश्यां यान्तु व्रतेन मद्गृहम् ।।७५।।
 वैकुण्ठे दुन्दुभिं श्रुत्वा कृष्णनारायणस्य ताः । सहर्षाः सत्वरं तत्र ययुर्यत्राऽस्ति घोषकृत् ।।७६ ।।
 श्रीश्च हृष्टा च माणिक्या लक्ष्मीर्हृष्टा हृदन्तरे । नत्वा नत्वा पुनर्नत्वा प्राहुस्तं दुन्दुभिं हरेः ।।७७।।
 नारायणस्य वैकुण्ठे वसामोऽत्र महासुखे । ततोऽतिश्रेष्ठसौभाग्यं प्रयच्छति यदि प्रभुः ।।७८।।
 कन्यका स्मो वयं कुर्मोऽर्चनं तस्य हरेः सदा । अद्य व्रतं चतुर्दश्याः कुर्मोऽधिमासि निर्णयात् ।।७९।।
 कदाऽक्षराधिपः कृष्णनारायणो मिलिष्यति । कदा नेष्यति परमः पुराणः पुरुषोत्तमः ।।८० ।।
 दुन्दुभिस्तु तदाकर्ण्य प्राह ताश्चाऽद्य वै प्रभुः । निशि पूजोत्तरं त्वायास्यति कुर्वन्तु जागरम् ।।८ १ ।।
 स्तुवन्तु परमात्मानं हृदयस्थं जनार्दनम् । भवतीनां सफलाश्च प्रभवन्तु मनोरथाः ।।८२।।
 इत्युक्त्वाऽक्षतपुष्पैश्च पूजितो दुन्दुभिर्ययौ । कन्याः पुपूजुः श्रीकृष्णं निशीथे प्रतिघस्रवत् ।।८३।।
 जागरं तत्र कुर्वन्त्यः श्रीश्चकार सुनर्तनम् । वाद्यं त्ववादयत्तत्र माणिक्या तालसंयुतम् ।।८४।।
 लक्ष्मीस्तु गायनं चक्रे तिस्रश्च मिलिता जगुः । सुस्वरैश्च नद्धकिंकिणिका नूपुरकंकणैः ।।८५।।
 सत्य ब्रह्माऽक्षरपरमपरं लोकेशं परलोकेशं, नित्यं ज्ञानमनन्तमपारमनेकाकारं कमलेशम् ।
 शान्तं भास्करकान्तमघनुतं ब्रह्मानन्दमहानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८६।।
 धाम्नि ब्रह्माऽक्षरमुक्तेश्वरपार्षदवृन्दार्चितचरणं, चैतन्यामृतधामविराजितमुक्तेशैकसुधाकरणम् ।
 श्रीवत्सांकविरंचिगिरीशनतांऽघ्रितलं सुहृदानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८७।।
 दिव्याऽखण्डमनन्तमुनीश्वरमण्डलमध्यगताकारं, निगमागमपटलैरभिवेद्यं साकारं परमाकारम् ।
 दिव्यविहारमनुद्भवरूपमनादिं दिव्यगुणागारं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८८।।
 सौम्याभं चिन्मालाकुण्डलमुकुटपिशंगसुचेलधरम्, सर्वज्ञामितशक्तियुतं हरिकृष्णमचिन्त्यानन्दकरम्।
 निगमागमवन्दितयशसं शंसन्तं धर्मं वेदमतम्, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८९।।
 लोकालोकविभासिविभूतिमलोकनिवासमनिर्वाच्यं, जन्माद्यस्य यतो भगवन्तमशरणाधारं वृषलालम् ।
 कृष्णं करुणारसमयरूपं दीनदयालुं देववरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९० ।।
 भास्वरकार्तस्वरविद्युन्मणिभास्करचन्द्रविशेषाभं, सद्रूपं घनवर्णमतर्क्यमजं हृत्स्थं त्रिभुवननाभम् ।
 श्यामसरोरुहदलसमनयनं स्मेरास्यं सर्वानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९ १।।
 श्यामं व्यापकमुत्तमपुरुषं परमात्मानं सुखकन्दं, स्वांघ्रिसरोजसमुद्भवकान्तिद्योतितयावज्जनवृन्दम् ।
 सत्यं नारायणपरमेश्वरमायेशेश्वरमुक्तवरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९२।।
 कल्पद्रुमदुहिता श्रीर्नित्यं ध्यायति वल्लभमात्मानं, दिव्यविभूतिसुता माणिक्या प्रार्थयति स्वाम्यात्मानम् ।
 दिव्यक्षीराब्धिदुहिता लक्ष्मीरपि चेच्छति पतिमनघं, पुरुषोत्तममक्षरधामस्थं स त्वं भवसि भवार्थकरः ।।९३।।
 करान् गृहाण चास्माकं मा वै मुञ्च कदाचन । यावद्वै तेऽक्षरं धाम तावत्पत्न्यो भवामहे ।।९४।।
 शीघ्रं कुरु कृपानाथ कृष्णनारायण प्रभो । वरमाला गृहाणाऽस्मद्धस्तेभ्यश्चैककालिकाः ।।९५।।
 इति स्तुत्वा च तास्तिस्रो विरमुस्तावदेव तु । प्राविर्बभूव भगवान् कृष्णनारायणः प्रभुः ।।९६।।
 सर्वाविर्भावहेतुर्यः सर्वकारणकारणम् । सर्वेशेशेश्वरः श्रेष्ठब्रह्म श्रीपुरुषोत्तमः ।।९७।।
 श्वेतहस्तियुतं यानं विमानाख्यं चिदम्बरे । वाहयन् योजनकोटिविस्तृतं मुक्तपूरितम् ।।९८।।
 तिस्र आश्वास्य वैकुण्ठे कल्पद्रून् दिव्यभूतिकम् । क्षीराब्धिं च नमस्कृत्य विधिना तैः समर्पिताः ।।९९।।
 पितृभिस्त्वर्थितः कृष्णे जग्राह तिसृकन्यकाः । किन्त्वस्माभिर्वियोगो मा स्यात्तथा कुरु केशव ।। १०० ।।
 करे करान् समादाय ग्रहीता हरिणा तदा । श्रीश्च लक्ष्मीश्च माणिक्या कृष्णातुल्या विरेजिरे ।। १० १।।
 तासां द्वेद्वे स्वरूपे च कारयित्वा पुमुत्तमः । छायारूप त्रयं तासां पित्रधीनं सुरक्ष्य च ।। १ ०२।।
 दिव्यरूपं त्रयं तासां पुरुषोत्तमयोग्यकम् । अक्षरधामवासार्हं पत्नीरूपं प्रगृह्य च ।। १०३।।
 तिस्र आरोहयित्वैव विमाने पुरुषोत्तमः । ययौ दिव्याक्षरं धाम पत्नीयुक्तः स्वयं हरिः ।। १ ०४।।
 एवं चाधिकमासस्य चतुर्दश्या व्रतेन ताः । श्रीश्च लक्ष्मीश्च माणिक्या तिस्रः पत्न्यो हरेः सदा ।। १ ०५।।
 बभूवुः शाश्वते धाम्नि किमत्र खलु दुर्लभम् । श्रोतुर्वक्तरपि त्वेवं फलं स्यान्नात्र संशयः ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे दुन्दुभिश्रवणेन कल्पद्रुम- पुत्र्याः श्रियः दिव्यविभूतेः पुत्र्या माणिक्यायाः, दिव्यक्षीरोदधिपुत्र्या लक्ष्म्याश्च, अधिकमासस्य चतुर्दश्या व्रतेनाऽक्षरधाम्नि परब्रह्मपुरुषोत्तम-श्रीकृष्णनारायणपत्नीत्वप्राप्त्यादिनिरूपणनामा षडधिकत्रिशततमोऽध्यायः ।। १.३०६ ।।