← अध्यायः ३१३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१४
[[लेखकः :|]]
अध्यायः ३१५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं सप्तम्यास्तु व्रतेन वै ।
ब्रह्मपुत्र्यास्तु सन्ध्याया जातो यस्तं वदाम्यहम् ॥ १ ॥
सृष्टिकर्ता स्वयं ब्रह्मा सृष्ट्यारंभे तु मानसान् ।
अत्रिं मरिचिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ॥ २ ॥
वशिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ।
प्रससर्ज जातमात्रान् सुरूपान् यौवनान्वितान् ॥ ३ ॥
कार्यदक्षान्मनःक्षोभकरान् दिव्यान् यदा ततः ।
तदाऽजमनसो जाता चारुरूपा वरांगना ॥ ४ ॥
नाम्ना सन्ध्या दिवक्षान्ता सायं सन्ध्या जपन्तिका ।
अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी ॥ ५ ॥
मानस्यभूत्तदा सृष्टिर्न वै कामादिगर्भजा ।
ततो दक्षादयो ध्याता वेधसा कामसारिणः ॥ ६ ॥
कामस्तत्राऽऽविर्बभूव ब्रह्मणो मानसः सुतः ।
कांचनीकृतजाताभो लोलश्चन्द्रनिभाननः ॥ ७ ॥
आरक्तपाणिनयनाननपादकरादिकः ।
प्रफुल्लपद्मपत्राक्षः पुष्पकोदण्डमण्डितः ॥ ८ ॥
कान्तः कटाक्षपातेन भ्रामयन् नयनद्वयम् ।
तं वीक्ष्य पुरुषं रम्यं सन्ध्या दक्षादिकास्तदा ॥ ९ ॥
औत्सुक्यं परमं जग्मुश्चांचल्यं राजसं तथा ।
इन्द्रियानन्दभानं च प्रापुस्ते साऽऽप कामनाम् ॥ १० ॥
हर्षणं रोचनं चापि मोहनं शोषणं तथा ।
द्रावणं सुमनोऽस्त्राणि कामो जग्राह वै तदा ॥ १ १॥
ब्रह्मा प्राह तदा कामं पुष्पबाणैस्तु पञ्चभिः ।
मोहयन्पुरुषान्स्त्रींश्च कुरु सृष्टिसहायताम् ॥ १२॥
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।
भविष्यामस्त्वद्वशेऽत्र किमन्ये प्राणधारकाः ॥१३॥
प्रच्छन्नरूपो जन्तूनां प्रविशन् हृदयं सदा ।
सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ १४॥
आज्ञापयित्वा ब्रह्मा तं स्वासने निषसाद ह ।
दक्षादयो निषेदुश्च सन्ध्या चोपाविवेश ह ॥ १५॥
तावत् कामस्तुतान्सर्वान्परीक्षार्थं प्रयत्नतः ।
आलीढस्थानमासाद्य धनुराकृष्य वै बलात् ॥ १६॥
कामार्थे पुष्पजातैर्वै योजयामास मार्गणैः ।
दक्षाद्या मोहिताः सर्वे विकारं प्रापुरादितः ॥ १७॥
सन्ध्यां सर्वे निरीक्षन्तो विकृतिं बहुधा ययुः ।
तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ॥ १८॥
सन्ध्यापि वीक्ष्यमाणा तैश्चक्रे भावान्कटाक्षगान् ।
अथ भावयुतां सन्ध्यां दृष्ट्वाऽतिविकृतिं गताः ॥ १९॥
सन्ध्या यूनश्च तान्दृष्ट्वा विशिष्टां विकृतिं गता ।
मदनश्च निजे कार्ये श्रद्दधे फलभावनः ॥।
२०॥
यदिदं ब्रह्मणः कार्यं ममोद्दिष्टं मयापि तत् ।
कर्तुं शक्यमिति त्वद्धा निश्चितं सफलं ननु ॥२१॥
तदा तु विकृतान्दृष्ट्वा धर्मदेवः सुतः स्वयम् ।
पितरं च तथा भ्रातॄन् सन्ध्यां प्राह विवेकतः ॥२२॥
धर्मार्थं मदनो जातो नाऽधर्मार्थे कदाचन ।
कुटुम्बं विकृतिं प्राप्तं त्वन्योन्यं मदनेन हि ॥२३॥
नैतद्योग्यं प्रजानां हि क्षेमकृन्न भविष्यति ।
यौवने जातमात्रे चेद् यदि कामप्रवेशनम् ॥२४॥
तदा माता च भगिनी भ्रातृपत्नी तथा सुता ।
पिता भ्राता पतिः पुत्र इत्याम्नायो विनंक्ष्यति ॥२५॥
जातमात्रस्य तु कामो यौवनं न भवेद्यथा ।
तथा कुरु विधातस्त्वं येन धर्मावनं भवेत् ॥२६॥
धर्म प्राहापि कामं च कृतवाँस्त्वं हि वैशसम् ।
अयोग्ये चाप्यकाले च ततो भस्मी भविष्यसि ॥२७॥
धर्मः प्राह च दक्षादीन् यात बदरिकाश्रमम् ।
गंगां स्नात्वा हरिं नत्वा तपस्तप्त्वा तु पावनाः ॥२८॥
भवन्त्यथ ततः सृष्टिं कुर्वन्तु धर्मतः सदा ।
धर्मः प्राह च पितरं यशं कुरु पितामह ॥२९॥
ब्रह्मा सृष्टौ प्रथमं तु यज्ञं चकार वैदिकम् ।
ततो जातास्तु पर्जन्यास्तृप्तिदा अन्नदाः सदा ॥३ ०॥
धर्मः प्राह ततः सन्ध्यां विकारदोषयोगिनीम् ।
श्वपचस्य भव पुत्री ततः शुद्धा भविष्यसि ॥ ३ १॥
सन्ध्या प्राह तदा धर्मं यतिष्ये तपसा यथा ।
जातमात्रस्य कामोऽयं न बाधेत तथा चिरम् ॥३२॥
इतिवृत्तोत्तरं सर्वे यथोद्दिष्टं ययुस्ततः ।
सन्ध्याऽप्यमर्षमापन्ना तदा ध्यानपराभवत् ॥३३॥
इदं विममृशे योग्यं भविष्यत्सुखदं भवेत् ।
उत्पन्नमात्रा चाहं सुयुवती काममोहिता ॥३४॥
दक्षाद्याश्च तथा जाता मयि कामेन मोहिताः ।
सर्वेषां मथितं चित्तं मदनेन कुटुम्बिना ॥३५॥
प्राप्नुयां फलमेतस्य पापस्य त्वघरूपिणः ।
करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ॥३६॥
तच्छोधनफलं शीघ्रमहमिच्छामि साधनम् ।
निजां तपसि होष्यामि धर्ममार्गानुसारतः ॥३७॥
किं त्वेकां स्थापयिष्यामि मर्यादामिह सर्वथा ।
यथा नोत्पन्नमात्रा वै सकामाः स्युः शरीरिणः ॥३८॥
एतदर्थमहं कृत्वा तपः परमदारुणम् ।
मर्यादां स्थापयिष्यामि त्यक्ष्यामि दुष्टजीवितम् ॥३९॥
मयाऽनेन शरीरेण कुटुम्बिस्वजनेषु वै ।
उद्भावितः कामभावो न तत्सुकृतसाधनम् ॥४० ॥
एवं विचार्य मनसा सन्ध्या योगसमाधिना ।
तेनैव तु शरीरेण छायात्मकेन मानसी ॥४१ ॥
सूक्ष्मीभूय दुरितस्य नाशाय श्वपचगृहे ।
जातिस्मरा सुता जाता जातमात्रा सयौवना ॥४२॥
राखालो जनकस्तस्या माता मातङ्गिनी तदा ।
कर्मचाण्डालतां प्राप्तौ वसतः स्म हिमाचले ॥४३॥
यत्र नाऽवग्रहः कश्चिन्नास्ति निष्फलवृक्षता ।
नास्ति यत्र मरुदेशस्तादृश्यां वसतो भुवि ॥४४॥
धर्मशापं पूर्वजन्म स्मृतवत्येव नित्यदा ।
समयं क्षपयामास शुद्धिकृत्तपआदिना ॥४५॥
पितरौ सेवयामास पापक्षालनशक्तिकौ ।
प्रतीक्षमाणा तं कालं येन शुद्धिर्भवेद् यथा ॥४६॥
तावद्भूमौ विचरन्तः पतितोद्धारकारकाः ।
सप्तर्षयस्ततो व्योम्ना निर्जग्मुर्बदरीं प्रति ॥४७॥
वने तत्र स्थले तां तु दृष्ट्वा ते योगचक्षुषा ।
अवतेरुश्च ते भिक्षामिषेण श्वपचगृहम् ॥४८॥
यद्यपि कर्मचाण्डालो ब्रह्मपुत्रो ह्ययं खलु ।
फलाद्यर्थे भिक्षणीयो यत्र बाधो न विद्यते ॥४९॥
अपक्वान्नेऽपि न दोषः कणेषु नास्ति सूतकम् ।
ययाचिरे विचार्येत्थं भिक्षां श्वपचवृक्षतः ॥५०॥
श्वपचस्तान् द्विजान् ज्ञात्वा कन्याऽभिज्ञाय सर्वथा ।
सहर्षं प्रददौ भिक्षां वाणीबन्धनपूर्विकाम् ॥५१ ॥
श्वपचः पादयोर्नत्वा पीत्वा पादामृतं जलम् ।
प्रार्थयामास सप्तर्षीन् जगदुद्धारकारकान् ॥५२॥
भिक्षां फलान्नकन्याढ्यां गृह्णन्तु मुनयोऽमलाः ।
कन्यां चास्मानुद्धरन्तु कन्यां भिक्षां ददामि वः ॥५३॥
ऋषीणामानुमत्येन वशिष्ठो वेधसोंऽशकः ।
जग्राह भिक्षां कन्यां च नीत्वा ययुश्च बद्रिकाम् ॥५४॥
तां कन्यां ते तु संस्नाप्य गंगायां बदरीवने ।
कामधेनुशरीरान्तर्मुखात्प्रवेशनं तु ते ॥५५॥
कारयित्वा प्रभावेण मूत्रद्वारेण तां तदा ।
बहिर्निष्कासयामासुर्जन्मान्तरगताऽभवत् ॥५६॥
बभूव पावनी सा तु ह्युपवीतेनसंस्कृता ।
द्विजत्वं च तपोयोग्यं लब्धवती तु कन्यका ॥५७॥
अथापि सा तपसाऽर्थे मर्यादां कामयौवनाम् ।
स्थापयितुं वाच्छति स्म प्रोवाच ऋषये स्मिता ॥५८॥
महर्षे लोकमर्यादा जातमात्रे तु यौवने ।
रक्ष्यते नैव भूतानां तस्याः स्थापनहेतवे ॥५९॥
तपः कर्तुं समिच्छामि चन्द्रभागानदीतटे ।
यद्याज्ञा ब्रह्मदेवस्य वाच्छामि चरितुं तपः ॥६०॥
ज्ञात्वा हार्दं तु गम्भीरं बह्विष्टं तु निजस्य वै ।
ओमित्युवाच तां तत्र वसिष्ठस्तपसां निधिः ॥६१॥
वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ।
चन्द्रभागानदीं तस्मात्प्राकाराद् दक्षिणाम्बुधिम् ॥६२॥
यान्तीं ददर्श सा चैव तथा सानुगिरेर्महत् ।
निर्भिद्य पश्चिमं सा तु चन्द्रभागगिरेर्नदी ॥६ ३॥
पावयन्ती जनान्देशान् शनैर्गच्छति सागरम् ।
तस्मिन् गिरौ चन्द्रभागे बृहल्लोहितसत्तटे ॥६४॥
अवतीर्य व्योममार्गाद् वशिष्ठस्तामुवाच ह ।
कुर्वत्रैव तपो देवि! रक्षासूत्रं गृहाण च ॥६५॥
प्रकोष्ठे धार्यमेवैतद् रक्षणं ते भविष्यति ।
इत्युक्त्वा ते ययुस्तस्माद् ऋषयः सत्यलोककम् ॥६६ ॥
तत्राऽतपत्तपो घोरं स्वयं देवी त्वरुन्धती ।
सौभाग्यकांक्षमाणा सा गौरीपूजापरायणा ॥६७॥
पापनाशनयत्ना च कामनियमतत्परा ।
तपसा स्वल्पकालेन गौरी प्राविर्बभूव च ॥६८॥
उवाच परमाऽऽराध्योरुन्धति! पुरुषोत्तमः ।
तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥६ ९ ॥
ओंनमः श्रीकृष्णनारायणाय ओनमोऽस्तु ते ।
मन्त्रेणानेन सर्वेशं कृष्णं भज शुभानने ॥७० ॥
तेन ते सकलाऽवाप्तिर्भविष्यति न संशयः ।
स्नानं मौनेन कर्तव्यं मौनेन हरिपूजनम् ॥७१ ॥
जलाहारं फलाहारं कन्दाहारमुपोषणम् ।
वाय्वाहारं भोजनं वा षष्ठे काले समाचरेत् ॥७२॥
कुरु त्वेवं तपस्यां त्वं सर्वाभीष्टमवाप्स्यसि ।
मालानां तु सहस्रे द्वे सहस्रं वा जपोऽन्वहम् ॥७३॥
उक्तमन्त्रेण कर्तव्यो मूर्तिं कृष्णस्य चिन्तयेः ।
तामाभाष्य महागौरी तत्रैवाऽन्तर्दधे ततः ॥७४॥
सन्ध्याऽपि च तपोरीतिं ज्ञात्वा मोदमवाप ह ।
तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥७५ ॥
दिव्यज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा ।
दिव्यकर्णौ प्राप्तवती तपश्चचार दारुणम् ॥७६ ॥
पुरुषोत्तममासस्य सप्तम्यां परपक्षके ।
शुश्राव दुन्दुभिं दिव्यं प्रातरेव त्वरुन्धती ॥७७॥
शृण्वन्तु तापसाः सर्वे तापस्यश्च कृपामयम् ।
पुरुषोत्तमवाद्योऽहं प्रवदाम्यत्यभीष्टदम् ॥७८॥
अधिकमाससप्तम्यां निराहारं व्रतं चरेत् ।
पूजयित्वा यथालब्धोपचारैर्भोजयेद्धरिम् ॥७९॥
रात्रौ जागरणं कुर्यात्प्रातर्वै पारणां चरेत्।
दानं दद्यात्फलादीनां जलेनार्घ्यं ददेत्ततः ॥८०॥
विसर्जयेत् क्षमां प्रार्थ्य स यायात्सुखमुत्तमम् ।
श्रुत्वा तया दुन्दुभेश्चार्चनं कृतं कृतं व्रतम् ॥८ १ ॥
पत्रपुष्पफलैर्वार्भिः पूजितः पुरुषोत्तमः ।
भोजितश्च फलैः पक्वैरर्थितो हृदयेन च ॥८२॥
रात्रौ जागरणं कृत्वा प्रातर्ब्राह्मे मुहूर्तके ।
ध्याने स्थिता क्षणं यावत्तावद्ददर्श तं हरिम् ॥८३॥
प्रत्यक्षं वीक्ष्य सा कृष्णं तुष्टाव जगतां पतिम् ।
स्थूल सूक्ष्मं यस्य वश्यं नौमि त्वां पुरुषोत्तमम् ॥८४॥
नित्यानन्दं पावनानां पावनं त्वां नमाम्यहम् ।
श्रीदं स्वेष्टप्रदं कृष्णनारायणं नमाम्यहम् ॥८५॥
प्रधानपुरुषौ यस्य कायत्वेन व्यवस्थितौ ।
तस्मै कृष्णाय हृद्याय वारं वारं नमोनमः ॥८६ ॥
त्वं परः परमात्मा च परंब्रह्म पुमुत्तमः ।
स्त्रिया मया कथं वर्ण्यो भूयो भूयो नमोऽस्तु ते ॥८७॥
इत्याश्रुत्य वचस्तस्याः प्रसन्नः पुरुषोत्तमः ।
अरुन्धत्याः शरीरं तु वल्कलाजिनशोभितम् ॥८८॥
सजटं शान्तवदनं निरीक्ष्याऽऽह हरिः स्वयम् ।
प्रीतोऽस्मि तपसा चैव व्रतेन च स्तवेन ते ॥८९ ॥
येन ते विद्यते कार्यं वरं वरय साम्प्रतम् ।
तत् करिष्ये तु भद्रं ते प्रसन्नोऽहं तव व्रतैः ॥९०॥
इति श्रुत्वा सुप्रसन्ना सन्ध्योवाच प्रणम्य तम् ।
यदि देयो वरः प्रीत्या वरयोग्याऽस्म्यहं यदि ॥९ १ ॥
यदि. शुद्धाऽस्म्यहं जाता कामविकृतिपातकात् ।
यदि कृष्ण प्रसन्नोऽसि व्रतेन मम साम्प्रतम् ॥९२॥
वृत्तस्तदाऽयं प्रथमो वरो मम विधीयताम् ।
उत्पन्नमात्रास्ते सृष्टौ सकामा मा भवन्त्विति ॥९ ३ ॥
द्वितीयश्च वरो मेऽस्तु प्रथिता सर्वसृष्टिषु ।
भविष्यामि यथाऽहं वै तथा माऽन्या भवेदिति ॥९४॥
तृतीयश्च वरो मेऽस्तु सन्ध्यायां कामनावतः ।
पौरुषं नाशमायातु प्रजा पिशाचतां व्रजेत् ॥९५॥
चतुर्थस्तु वरो मेऽस्तु मम रूपचतुष्टयम् ।
भवतु प्रथमं तत्र प्रातः सन्ध्यामयं शुभम् ॥९६ ॥
द्वितीयं तु भवेत् सायं सन्ध्यारूपं सुपुण्यदम् ।
तृतीयं तु वशिष्ठस्य पत्नी स्वर्गे भवामि वै ॥९७॥
चतुर्थे तु तव दासीरूपं भवतु धामनि ।
इति वरान् समभ्यर्थ्य मौनां तामाह माधवः ॥९८॥
यद्यद् वृत्तं त्वया सन्ध्ये दत्तं तदखिलं मया ।
व्रतेन तपसा सन्ध्ये त्वत्पापं भस्मतां गतम् ॥९९॥
प्रथमं तु वरं तत्र शृणु कामस्य रोधताम् ।
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ॥ १०० ॥
तृतीयो यौवनो भावश्चतुर्थो वार्धकस्तथा ।
तृतीये त्वथ संप्राप्ते यौवने कामना भवेत् ॥ १० १॥
इति मर्यादया सृष्टौ इत आरभ्य कामना ।
सम्पत्स्यते जातमात्राः सकामा स्युर्न देहिनः ॥ १ ०२॥
द्वितीयं तु वरं ख्यातिं सतीभावेन यास्यसि ।
त्रिषु लोकेषु नान्यस्यास्तथा कीर्तिर्भविष्यति ॥ १ ०३॥
तृतीयं तु वरं सन्ध्याकाले त्वनंगसेविनः ।
पिशाचाः संभविष्यन्ति बलपौरुषवर्जिताः ॥ १ ०४॥
चतुर्थं तु वरं प्रातः सायं सन्ध्याद्वयं भव ।
पतिर्यस्ते वशिष्ठोऽस्ति भवताच्छाश्वतः पतिः ॥ १०५॥
सप्तकल्पान्तजीवी च तपोद्रव्यस्त्वया सह ।
स्वर्गे तेन सह वासो यथेष्टं ते भवेदिति ॥ १ ०६॥
अथ दिव्यस्वरूपेण ब्रह्मतन्वा मया सह ।
कुरु वैकुण्ठवासं मे भव दास्यरुणाऽभिधा ॥ १ ०७॥
इति ते ये वरा मत्तः प्रार्थितास्तेऽर्पिता मया ।
अन्यच्च शृणु कार्येऽस्मिन् कायाकल्पं समाचर ॥ १ ०८॥
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे ।
मेधातिथिः ऋषियज्ञं करोति तापसाश्रमे ॥ १०९॥
तपसा तत्समो नास्ति न भूतो न भविष्यति ।
तस्य ज्योतिष्टोमयज्ञे वह्नौ जनैरलक्षिता ॥ ११ ०॥
सूक्ष्मरूपं समापन्ना कायापरिणतिं कुरु ।
तदग्नौ शोधितां वर्ष्मचतुष्टयं गृहाण वै ॥ ११ १॥
प्रातःसन्ध्या तथा सायंसन्ध्या भूत्वा स्थिरा भव ।
पतिं वशिष्ठं मां ध्यात्वा श्रेष्ठं कन्याद्वयं भव ॥१ १ २॥
एका मेधातिथेः पुत्री वशिष्ठस्य प्रिया भव ।
द्वितीया मम दासी च अरुणाख्या प्रिया भव ॥ ११ ३॥
अयं तु पर्वतस्ते वै नाम्ना स्यादरुणाचलः ।
महत्तीर्थं पावनं वै लोकमान्य भविष्यति ॥ १ १४॥
इत्यभिधाय भगवान् करौ दत्वा तु मस्तके ।
प्रेम्णा निभाल्य तां तत्राऽन्तर्हितः संबभूव ह ॥ १ १५॥
सन्ध्याऽप्यगच्छत्तत्रैव मेधातिथिमखस्थले ।
स्मृत्वा कान्तं वशिष्ठं च तथा श्रीपुरुषोत्तमम् ॥ १ १६॥
सा विवेश समिद्धेऽग्नौ न केनाऽप्युपलक्षिता ।
शरीरं मलिनं तस्या वह्निना संस्कृतं तदा ॥ १ १७॥
शोधितं दिव्यतां प्राप्तं देवार्हं ह्रासवर्जितम् ।
शुद्धं प्रवेशयामास वह्निस्तत्सूर्यमण्डलम् ॥ १ १८॥
सूर्यस्त्वर्धं विभज्यैतच्छरीरं तु तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ १ १९॥
तदूर्ध्वभागोऽत्यरुणः प्रातःसन्ध्याऽभवच्छुभा ।
अरुणोदयवेला सा देवानां प्रीतिकारिणी ॥ १२०॥
तच्छेषभागस्तस्यास्तु सायंसन्ध्याऽस्तमे रवौ ।
सूर्यास्तमनवेला सा पितॄणां मोदकारिणी ॥ १२१ ॥
तस्याः प्राणास्तदा ध्याता हरिणा तत्तु शाश्वतम् ।
ब्राह्मं वर्ष्म बभूवास्याः सा दिव्या कन्यकाऽभवत् ॥ १२२॥
अरुणा सा ब्रह्मधामगता गरुडगामिनी ।
अथ यज्ञावसाने तु मुनिना वह्निकुण्डतः ॥ १२३ ॥
प्राप्ता पुत्री वह्निजन्या तप्तकांचनसन्निभा ।
अरुन्धतीति तस्यास्तु नाम चक्रे स वै मुनिः ॥ १२४॥
न रुद्धणि यतो धर्मं सा कस्मादपि कारणात् ।
अस्य विष्णोः सदा धर्मं रुणद्धीति ह्यरुधन्ती ॥ १२५ ॥
अथ सा ववृधे कन्या गुणैर्वर्षैर्मुनेर्गृहे ।
वशिष्ठेन विवाहं कारयामास पिता ततः ॥ १२६॥
अस्या विवाहसत्कार्ये सुराश्च मुनयो ययुः ।
ब्रह्मविष्णुमहेशाश्चाऽभवन्नाशीर्वचःपराः ॥ १ २७॥
अरुन्धती महासाध्वी रेजे वशिष्ठसंगता ।
इति सन्ध्याचरित्रं ते कथितं लक्ष्मि! पावनम् ॥ १२८॥
धर्मदार्ढ्यकरं दिव्यं सर्वकामफलप्रदम् ।
अधिमासस्य चान्तस्य सप्तम्यास्तु व्रतेन वै ॥ १२९ ॥
तपसा च प्रसन्नः श्रीकृष्णनारायणः प्रभुः ।
ददौ ययेष्टं रूपाणि त्वरुणायै पुमुत्तमः ॥ १३ ०॥
येदं संशृणुयान्नारी नरो वा दृढमानसः ।
सर्वान् कामानवाप्नोति पुरुषोत्तमतोषणात् ॥ १३ १॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये सृष्ट्यारंभे दक्षादीनां सन्ध्याया ब्रह्मणश्च कामेन पराभवे विकृतिभावोत्तरं धर्मदेववचनैः सन्ध्यायाः श्वपचपुत्रीत्वं, भिक्षामिषेण वशिष्ठादिसप्तर्षिभिः सन्ध्याया ग्रहणं, कामधेनुमुखे निक्षिप्य मूत्रद्वारेण निष्कासनं, तपोऽर्थे चन्द्रभागातीरेऽवस्थानं, गौरीप्राविर्भावः, सप्तमी- व्रतेन पुरुषोत्तमप्राविर्भावः, कामदेवस्य यौवने उत्पत्तिरिति नियमनं, प्रातःसायंसन्ध्याद्वयभवनं, मेधातिथिऋषिकृतयज्ञ- कुण्डेऽदृश्यतया प्रवेशनं, कायाशोधनं, दिव्याऽरुणायाः स्वरूपेण ब्रह्मधामगमनं, अरुन्धत्याख्याया वह्निकुण्डोत्पन्नसुता- त्मिकाया वशिष्ठेन विवाहोत्तरं स्वर्गगमनं, चेत्यादिनिरूपण-नामा चतुर्दशाधिकत्रिशततमोऽध्यायः ॥१.३१४॥