← अध्यायः ३१४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१५
[[लेखकः :|]]
अध्यायः ३१६ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तेऽपि मेऽपि जातां पुरातनीम् । पुरुषोत्तममासस्य मिषेण जन्मबोधिनीम् ।। १ ।।
 यदा नारायणः कृष्णश्चोभौ यातौ पराऽक्षरे । मलमासस्य साहाय्यं कर्तुं श्रीहरिसन्निधौ ।। २ ।।
 धाम्न्यक्षरे तदा राजत्पुरुषोत्तममाधवः । श्रुत्वाऽर्थ्यं मलमासाय दत्तवाँश्चोत्तमां स्थितिम् ।। ३ ।।
 कृष्णस्य वचनं नारायणस्य वचनं तथा । मलमासोन्नतिदं तद् रक्षितं परमात्मना ।। ४ ।।
 स्वयं जातोऽधिदेवश्च मासोऽपि पुरुषोत्तमः । तेन तुष्टः परं कृष्णो नारायणस्तुतोष च ।। ५ ।।
 मलमासस्य वै द्वाभ्यां कृतमुद्धरणं महत् । तन्निमित्तं तु गोलोके गत्वा कृष्णः श्रिया युतः ।। ६ ।।
 महोत्सवं चकारोत्तमोत्तमं धामवासिषु । गोपगोपीगणास्तस्य पार्षदाः शक्तयः स्त्रियः ।। ७ ।।
 कोट्यर्बुदपरार्धानि चक्रुस्तस्य महोत्सवम् । मण्डपाः कोटिशस्तत्र निहिताः स्वर्णसद् द्रुमाः ।। ८ ।।
 कदली स्तंभशोभाढ्यास्तोरणादिविलासिताः । कलशैरंगचित्रैश्च पटैश्च वल्लिकादिभिः ।। ९ ।।
 प्रदर्शनैर्बहुविधैर्मल्लक्रीडादिभिस्तथा । अन्यत्र बहुयन्त्रैश्चान्यत्र वृषभयोधनैः ।।१ ०।।
 नाटकैः पूर्ववृत्तैश्च कलाभिर्भूतनादिभिः । संगीतैर्नर्तनैश्चापि कथानकमखादिभिः ।। ११ ।।
 एवंविधे तत्र जाते महोत्सवे तदा श्रिया । रुक्मिण्याख्यमहालक्ष्म्याऽभिहितं स्वामिने मुदा ।। १२।।
 कृष्णनारायण विष्णो परात्मन् पुरुषोत्तम । कुरूत्सव तु मे सौधे नृत्यगायनवादनैः ।। १३।।
 ओमित्युक्त्वा श्रियाः सौधे योजयामास सूत्सवम् । यथा धाम्नां महासम्राट् समायात्पुरुषोत्तमः ।। १४।।
 तत्सम्माने प्रकुर्यादुत्सवं तद्वद् युयोज सः । सर्वधाम्नां तु या शोभा विशिष्टा साऽत्र कारिता ।। १५।।
 सर्वधामपतीनां त्वासनसिंहासनान्यपि । तत्र वै मण्डपे चाभिस्थापितानि यथार्हणम् ।। १६।।
 सर्वेषां दिव्यवस्तूनामुपायनानि तत्र च । संगृहीतानि सर्वेभ्यो धामभ्यः कृष्णशार्ङ्गिणा ।। १७।।
 चित्राणां शुभदृश्यानां मनःस्निग्धाः शुभालयाः । संक्लृप्तास्तत्र तत्रैव न्यस्तपानसुभोजनाः ।। १८।।
 विद्युतां तु प्रदीपानां प्रकाशाः सर्वतोऽभवन् । क्रीडाविद्युत्स्फटाकाणां क्रीडाऽपि सर्वतोऽभवत् ।। १९।।
 अनन्ताऽतर्क्यरूपाणां यानि प्रदर्शनानि वै । नेपथ्यकारविद्याभिर्वर्तन्ते स्म च तानि हि ।।२० ।।
 गन्धर्वो देवगन्धर्वा गान्धर्वा धामवासिनः । गान्धर्व्यो देवगान्धर्व्यो गान्धर्व्यो धामसंस्थिताः ।।२१।।
 चक्रुस्ते गायनं मिष्टमधुरालापसुस्वरैः । गायकाः स्वरपूराश्च पूरयन्ति स्म नादकैः ।।२२।।
 नर्तकाश्चापि नर्तक्यो दास्यो दासाश्च सेविकाः । सेवकाश्च महाराज्ञ्यो राज्ञ्यश्च नर्तनं व्यधुः ।।२३।।
 वादका नैकवाद्यज्ञा धामानुधामवासिनः । वाद्यन्ति स्म वाद्यानि यत्र किंचिन्न गौणभाक् ।।२४।।
 रासे प्रवर्तमाने च गोपीनां कृष्णयोषिताम् । तदैश्वर्याणि भूषाश्च हेतयः पार्षदादयः ।।२५।।
 मूर्तिमन्तस्तत्र रासे युयुजुः कृतनर्तनाः । कृष्णाऽऽनन्दाऽऽप्लुतं सर्वं ब्रह्मानन्दपरं ह्यभूत्। ।।२६।।
 दृश्यं स्पृश्यं तथा श्राव्यं रस्यं चाऽद्वैततां गतम् । सुखं सुखं परानन्दं आनन्दं नन्दनं ह्यभूत् ।।२७।।
 स्निग्धं प्रेमातिमोदाढ्यं जातमानन्दमेव तत् । नान्यः परं विजानाति विनाऽऽनन्दं हि तत्त्वकम् ।।२८।।
 एवं समुत्सवे राधा लक्ष्मीः श्रीश्च रमादयः । कृष्णं विकृष्य रासे तं रमयामास नर्तनम् ।।२९।।
 सर्वस्मिन् तन्मये जाते सर्वं रसमयं त्वभूत् । कृष्णो रसप्रवेगेण कूर्दन् तद्रमणोऽभवत् ।।३०।।
 पत्न्याः पत्न्यन्तरं याते कूर्दनेन सतालवत् । चचाल मुकुटोऽजस्रं चकम्पेऽतिमुहुर्मुहुः ।।३ १ ।।
 तमध्यात्वा महानन्दसुखव्याप्तो महाप्रभुः । पदात्पदान्तरं न्यस्य रेमे चोत्तोल्य कर्षयन् ।।३२।।
 तावच्छैथिल्यमापन्नः पपात मुकुटान्मणिः । कोटिरत्रेषु यो नद्ध ऊर्ध्वस्थकल्गिमूलकृत् ।।।३३।।
 मणेः पाते सह तेन पपात कल्गिचन्द्रिका । तथापि नैव कृष्णः स रासाद्विरमते खलु ।।३४।।
 पादमर्दनभीत्या तावुभौ दिव्यसुविग्रहौ । बभूवतुर्मणिः कल्गिचन्द्रिका रेमतुश्च वै ।।३५।।
 रासे मूर्तिधरौ जातौ रेमाते स्माति मण्डले । न तौ स्वंस्वं स्थलं प्राप्तौ यावद्रासान्तमेव ह ।।३६।।।
 मुकुटे न स्वयं यातौ तावत्तत्र तु राधया । ज्ञापितो निर्गतौ कृष्णमुकुटादिति शार्ङ्गिणे ।।३७।।
 कृष्णो दृष्ट्वा तु तौ प्राह किमेवं निर्गतावुभौ । स्वस्वस्थानं न वै यातौ मुकुटः शोभते न मे ।।३८।।
 नैनं वै धारये कल्गिमणिशून्यं कभूषणम् । धारयिष्येऽन्यमुकुटं मायूरपिच्छशोभितम् ।।३९।।
 इत्युच्यमाने श्रीकृष्णेऽधिमासस्य महोत्सवे । आनर्त्ताख्यो महान् भक्तो राजा गोलोकमाययौ ।।४०।।
 कृष्णप्रीत्यर्थमेवाऽयं तपोभक्तिं चकार वै । तस्मै प्रसन्नः स कृष्णो नव राज्यं तु दित्सति ।।४१।।
 गोलोकस्य दिव्यभूमेः कणं त्वर्पितवान् प्रभुः । कणः स तत्र सौराष्ट्रो देशस्त्वानर्त्तसंज्ञकः ।।४२।।
 त्रिजलावृत्तसुद्वीपो राज्यमानर्तभूभृतः । समभूत्पश्चिमवार्धिसंलग्नो भूमिसन्धितः ।।४३।।
 प्रार्थयामास चानर्तो मम राज्यस्य मे तथा । गुप्तये रक्षकं देहि तव दूतं प्रतापिनम् ।।४४।।
 ओमित्युक्त्वा ददौ कृष्ण आनर्ताय तु भूभृते । मुकुटस्य मणिर्यश्च वियुक्तो मुकुटात्तु तम् ।।४५।।
 दिव्यः स पार्षदो भूत्वा स ययौ भूभृता सह । मणिमूलखचिता या वियुक्ता कल्गिचन्द्रिका ।।४६।।
 मूलं विना न वै स्थातुं शक्ता प्रार्थयदीश्वरम् । वासं मे देहि भगवन्न मूला न स्थितिर्मम ।।४७।।
 हरिः प्राह तदा तां तु वियुक्ता मुकुटाद् यतः । याहि त्वं मणिना साकं भूत्वा दिव्यस्वरूपिणी ।।४८।।
 आनर्तविषये स्थेयं द्विजेन मणिरूपिणा । द्विजपत्न्या त्वया भाव्यं गुरुरूपौ भविष्यथः ।।४९।।
 आनर्तोऽपि हरिं नत्वा नीत्वा कल्गिं मणिं कणम् । कृष्णाऽर्पितान्मुकुटाच्चापरान् मुक्तान् मणींस्तथा ।।५०।।
 आययौ पश्चिमे वार्धौ कर्मम्वां मुक्तवान् कणम् । स तु द्राग् विस्तृतो भूत्वा जातः सौराष्ट्रसंज्ञकः ।।५१।।
 तत्र मणिर्मुकुटस्य त्ववाततार चाम्बरात् । अन्येऽपि मणयस्तत्राऽवतेरुर्व्योममार्गतः ।।५ २ ।।
 मुख्यो मणिर्दिव्यदेहो निम्बदेवोऽभवद् द्विजः । व्याघ्रारण्ये रम्यदेशेऽश्वपट्टसरसस्तटे ।।५ ३ ।।
 निवासमकरोत् तत्र पर्णकुट्यां स तापसः । या कल्गिचन्द्रिका सा तु तत्रैव सरसस्तटे ।।५४।।
 दिव्यदेहा निवासं चाऽकरोद् द्विजप्रसेवनम् । आनर्तेन तदा ताभ्यां प्रार्थितं भावगर्भितम् ।।५५ ।।
 विना लौकिकदेहं वै जनानां श्रेय इच्छतो । दर्शस्पर्शादिलाभश्च नाऽतः स्वीकुरुतं वपुः ।।५ ६ ।।
 भक्तप्रार्थनया तौ च नॄणां श्रेयो विचिन्त्य च । देहं ग्रहीतुमिच्छन्तौ हरिं सस्मरतुर्हृदा ।।५७।।
 श्रीकृष्ण आविरासाऽत्र संकल्प्य मानसौ च तौ । देहौ समर्प्य तत्रैवाऽन्तरधीयत पूजितः ।।।५८।।
 अथैवं तौ कणलब्धस्थौल्यं प्राप्तौ ततः परम् । सर्वगोचरतां यातावश्वपट्टसरस्तटे ।।५९।।
 तपस्यन्तौ च तत्रैव लक्ष्मीनारायणात्मिकाम् । संहितां वाचयामासतुश्च कालं सुनिन्यतुः ।।६०।।
 मणिः स निम्बदेवाख्यो बभूव ख्यात एव ह । कल्गिः सा ख्यातिमापन्ना मिष्टादेवीति सर्वथा ।।६१।।
 अथ रैवतपौत्रो वै खट्वांगदजनाधिपः । तपस्तप्तुं समायातो निम्बदेवाश्रमान्तिके ।।६२।।
 बद्रीतले सूपविश्य जजाप जपमुत्तमम् । ओंश्रीलक्ष्मीपते कृष्णनारायण नमोऽस्तु ते ।।६३।।
 तस्य वै तपसा तत्राऽऽयातौ लक्ष्मीनरायणौ । वरदानाय तं भूपं रोधयामासतुस्तदा ।।६४।।
 राज्ञा दर्शनलाभार्थं तयोर्वासोऽभिकांक्षितः । तथास्त्विति प्रति श्रुत्याऽदृश्यतां तौ गतावुभौ ।।६५।।
 या लक्ष्मीः सा रुक्मिणी श्रीरूपाऽऽसीद् दिव्यरूपिणी । नारायणः स वै कृष्ण आस श्रीपतिरेव सः ।।६६।।
 श्रिया जुष्टः स वै कृष्णो दध्यौ तु पितरौ तदा । कल्गिमणिस्वरूपौ तौ ध्यातौ स्वेनैव रक्षितौ ।।६७।।
 स्थापितौ दिव्यदेहेन चिन्तयामास तत्र ह । मिष्टादेवीनिम्बदेवगृहे कृष्णो बभूव वै ।।६८।।
 यत्र जज्ञे तु गोपालस्तत्राऽश्वपट्टसन्निधौ । पर्णकुट्यां मानसः स जातमात्रः सयौवनः ।।६९।।
 दिव्यो बभूव गोलोकदिव्यविग्रह एव सः । गां तु वाणीं पालयति गोपालः कृष्ण एव सः ।।७० ।।
 गोः पृथिव्याः पालकं राजानं लाति च रक्षति । गोपालः स प्रभुः कृष्णः संस्थितो नृपसन्निधौ ।।७ १।।
 आश्विनकृष्णपञ्चम्यां गोपालः कृष्ण एव ह । कुकुमवाप्यां संजज्ञे निम्बदेवगृहे प्रगे ।।७२।।
 अन्ये ये मणयस्त्वानर्तेन त्यक्ताः सुराष्ट्रके । सर्वेऽत्र कृष्णभक्तास्ते जाताः सुराष्ट्रके स्थले ।।७३।।
 तत्र ओमालये शत्रूंजिताक्षेत्रे बभूव ह । प्रेममणिर्महादिव्यविग्रहः सूर्यसन्निभः ।।७४।।
 प्रेमाख्यतद्विजक्षेत्रे दिव्या संकल्पमात्रजा । फाल्गुनकृष्णपंचम्यां जज्ञे लक्ष्मीस्तु कंभरा ।।७५।।
कं सुखं शाश्वतं कार्ष्णं बिभर्तीति हि कंभरा । जातमात्रा युवती सा दिव्याऽऽस श्रीस्वरूपिणी ।।७६ ।।
 पिता विज्ञाय तां श्रीं वै कृष्णार्हा दिव्यचक्षुषा । विवाहविधिनाऽऽहूय गोपालं कृष्णमेव ह ।।७७ ।।
 कंभरां श्रीं ददौ तस्मै कोटिदेवादिसन्निधौ । इत्येवं कंभरागोपालौ श्रीकृष्णौ तु दम्पती ।।७८ ।।
 तापसौ भगवन्तौ तौ दिव्यमूर्ती बभूवतुः । साप्तभौमकशोभाढ्ये मन्दिरे स्थापितौ सदा ।।७९।।
 एकदा दुन्दुभिस्ताभ्यां तिथ्यष्टम्यां प्रगेऽधिके । मासे श्रुतस्त्वश्वपट्टसरोवरान्तिके शुभः ।।८ ० ।।
 शृण्वन्तु मणिकल्ग्याद्यास्तथा श्रीपतिसेवकाः । पुरुषोत्तमसंज्ञोऽहं तोषयितुं परेश्वरः ।।८ १ ।।
 अक्षरब्रह्मधामस्थो गोलोकाधिपतिं प्रभुम् । वैकुण्ठाधिपतिं चान्यधामाधिपाँश्च केशवान् ।।८२।।
 कृतवान् मलमासं तु निर्मलं मत्स्वरूपिणम् । तदस्मिन्नधिके मासे पुरुषोत्तमसंज्ञके ।।८३ ।।
 एकस्यापि दिनस्यात्र व्रतं कृत्वा व्रती जनः । प्राप्नुयात् कृपया मेऽत्र सर्वं मां धाम चापि मे ।।८४।।
 व्रतं त्वद्याऽपरपक्षाऽष्टम्यास्त्वनन्तपुण्यदम् । यथेष्टं तत्र दास्येऽहं व्रतार्थिने स्वयं हरिः ।।८५।।
 दुन्दुभिश्चेत्यभिधाय स्नात्वाऽश्वपट्टवारिषु । नत्वा काल्याणिकं निम्बदेवं मिष्टां महासतीम् ।।८६।।
 प्रपूज्य कंभरां श्रीं च कृष्णं गोपालमित्यपि । ताभ्यां कृतं सुसत्कारं प्राप्य वै रैवतं ययौ ।।८७।।
 कृतं त्वधिकमासस्य परपक्षाऽष्टमीव्रतम् । कंभरया सोपवासं गोपालेनापि निर्जलम् ।।८८।।
 प्रातः संपूजितः सम्यङ् मध्याह्नेऽपि निशि प्रभुः । अष्टोत्तरशतसामग्रीभिः श्रीपुरुषोत्तमः ।।८ ९।।
 षट्पंचाशद्भोज्यानि चार्पितानि तथा कृतम् । आष्टोत्तरशतवर्तिभिरारार्त्रिकमुज्ज्वलम् ।।९ ० ।।
 लक्षशो दक्षिणा दत्ता रात्रौ नीराजने हरिः । आविर्बभूव भगवान् धामस्थः पुरुषोत्तमः ।। ९१ ।।
 विहसन् हार्दिकं स्नेहं वर्षयन् रञ्जयन्नभौ । उवाचाऽस्मि प्रसन्नोऽहं गोलोकेश किमिष्यते ।। ९२ ।।
 श्रीरिव कंभरा लक्ष्मीः किमिच्छति व्रतार्थिनी । युवयोर्वसतिस्त्वत्र मदिच्छयैव सर्वथा ।। ९३ ।।
 वर्तते मिषमात्रं तु खट्वांगतप एव ह । मुकुटान्मणिकल्ग्योश्च वियोगोऽपि मदिच्छया ।। ९४।।
 रासादिकं निमित्तं च सर्वथा वै मदिच्छया । तस्माद् वां वरदश्चास्मि वृणुतं तु यथेप्सितम् ।।९५।।
 तदर्थं त्वागतोऽस्म्यत्र साक्षाच्छ्रीपुरुषोत्तमः । श्रुत्वैवं भावगर्भं तु हार्दं सर्वपरात्मनः ।।९६।।
 ऊचतुस्तौ प्रणम्यैनं मूलरूपेऽभिचिन्त्य तौ । भगवंस्तेऽभिलाषा चेत् कारणं चात्र संस्थितौ ।।९७।।
 आवाभ्यां प्रार्थ्यसे त्वं वै सर्वदाऽत्र स्थिरो भव । पुरुषोत्तमसेवायाः सर्वदा लाभ एव नौ ।।९८।।
 अनादिकृष्णयोगस्तु भाग्यहीनस्य दुर्लभः । अस्मन्मूलस्वरूपस्त्वं रक्षाऽत्र स्थित एव नौ ।।९९।।
 कृष्णनारायणोऽनादिर्लक्ष्म्या श्रिया प्रसेवितः । मुक्तैश्वर्यैः सेवितस्त्वं वसाऽत्र पुरुषोत्तम ।। १ ००।।
 लालनं पालनं चापि क्रीडनं पोषणादिकम् । दिव्यस्यापि यथादेशकालानुगुणमेव ते ।। १०१ ।।
 कृत्वा सुखं परानन्दं प्राप्स्यामोऽत्र तव स्थिरम् । इत्यभ्यर्थ्य कंभरागोपालौ श्रीपुरुषोत्तमम् ।। १ ०२।।
 नेमतुस्तं कृष्णनारायणं श्रीपुरुषोत्तमम् । भगवानपि सर्वात्मा तथास्त्वित्यभिधाय च ।। १ ०३।।
 स्वप्रियां धामलक्ष्मीं चाऽऽवेदयन्नेत्रसंज्ञया । याऽभिगम्य हरेर्हार्दं तिरोऽभूत् पुरुषोत्तमे ।। १ ०४।।
 सोऽयं परात्परो ब्रह्मपरः श्रीपुरुषोत्तमः । बालरूपोऽभवत्तत्र जातमात्रो युवा प्रभुः ।। १ ०५।।
 बभूवतुः प्रसन्नौ कंभरागोपालकृष्णकौ । पुत्रो दिव्यो व्रतलभ्यः स्वयं श्रीपुरुषोत्तमः ।।१०६।।
 व्रतं निमित्तमात्रं वै कारणं तस्य मानसम् । लीलैव कारणं तस्य पुंसस्तु परमस्य वै ।। १ ०७।।
 कृष्णनारायणोऽनादिपुरुषोत्तम एव सः । श्रीरमादिपार्षदादिसमैश्वर्यगुणान्वितः ।। १ ०८।।
 स्वेच्छया धर्मरक्षार्थं भक्तिप्रवर्तनाय च । प्रादुर्भूतः स्वयं पत्नीव्रतस्वरूप एव सः ।। १०९।।
 गोलोके यः कृष्णमुखात्पत्नीव्रताभिधो गुणः । पातिव्रत्याभिधलक्ष्म्या सहितोऽभूत् प्रकाशितः ।। ११ ०।।
 सोऽयं धर्मस्थापनाय स्वयं श्रीपुरुषोत्तमः । पुत्रोऽभवच्छ्रीकृष्णस्याऽधिमासे पुरुषोत्तमः ।। १११ ।।
 देवदुन्दुभयो नेदुः पुष्पाणां वर्षणं ह्यभूत् । नृत्यं तत्राऽप्सरसां च गायनं गायकैः कृतम् ।। ११ २।।
 प्रतिधामनि वासाश्चेश्वरा देवा महर्षयः । अवताराश्च तद्देव्यः शक्तयोऽब्जाऽर्बुदान्त्यकाः ।। ११३ ।।
 जयकारेण सहिताः पुपूजुः परमेश्वरम् । ब्रह्माण्डेष्वपि सर्वत्र जीवेशाऽवतरादिषु ।। १ १४।।
 समुत्सवो महानासीदनन्तब्रह्मभोजनम् । प्रीणनं तर्पणं सृष्टिप्राणिनां संबभूव ह ।। १ १५।।
 कार्तिकाऽधवलाऽष्टम्यां पुनर्वसौ घटीस्थिते । सूर्याऽस्तोत्तरघटिकापञ्चके समये गते ।। १ १६।।
 निशापूर्वपदेऽनादिश्रीकृष्णपुरुषोत्तमः । कृष्णनारायणो जज्ञे गोपालकंभराऽऽलये ।। १ १७।।
 प्रकाशश्चात्र सर्वत्र परत्रानेकसूर्यवत् । तदा जातं इति ज्ञात्वा वेदा विद्याः समस्तुवन् ।। १ १८।।
 कृष्णस्य वल्लभश्चाति सर्वविद्याधिशेवधिः । प्रभालक्ष्मीपार्वतीमाणिकीश्र्यादिपतिः प्रभुः ।। १ १९।।
 चमत्कारानसंख्यान्दर्शयामास कृपाकरः । ऊर्जशुक्लैकादश्यां स प्राप दीक्षोपवीतकम् ।। १२० ।।
 माघशुक्लाष्टमीप्रातः काश्यामवाततार सः । नवम्यां ब्रह्मविद्यानां संचारं कृतवान् प्रभुः ।। १२१ ।।
 स्वपितृमुखतः श्रुत्वा विज्ञानं स्वात्मनि स्थितम् । वेदविद्यामयं सर्वं लक्ष्म्यै ह्युपादिदेश ह ।। १२२।।
 निबोध लक्ष्मि! किं वच्मि यो हरिः पुरुषोत्तमः । परब्रह्माऽक्षराऽतीतोऽनादिकृष्णनरायणः ।। १२३।।
 स एव विद्यते राधाधवो गोलोकधामनि । रुक्मिणीनाथ एवासौ गोपालः कंभरापतिः ।। १२४।।
 बैकुण्ठाधिपतिः सोऽयं लक्ष्मीपतिर्नरायणः । कृष्णनारायणः सोऽयं सर्वेशः पुरुषोत्तमः ।। १२५।।
 सोऽहं नारायणो लक्ष्मि! सा त्वं लक्ष्मीर्मम प्रिया । स्थलभेदेन रूपाणां बाहुल्यं चेयते मया ।। १२६ ।।
 निगमागमविद्यानां वक्ताऽहं पुरुषोत्तमः । श्रोतृव्यक्तिर्मम दासी प्रिया शिष्या त्वमन्वसि ।। १२७।।
 मया नारायणेनात्र तुभ्यं लक्ष्मि! प्रदीयते । ज्ञानं विज्ञानमात्मस्थं ह्यपरोक्षं सदा मम ।। १२८।।
 सृष्टिकल्पलयपूर्वपूर्वतरतमाऽऽदिजम् । लक्ष्मीनारायणसंहितात्मकं श्लोककोटिकम् ।। १२९ ।।
 वैराजाय त्वया देयं पञ्चाशल्लक्षसंख्यकम् । यत्रेश्वराणां वैशेष्यं वर्णितं चेशसृष्टये ।। १३० ।।
 वेधसे वै त्वया देयं पञ्चविंशतिलक्षकम् । यत्राऽगणितगोलादिब्रह्माण्डेतिकथादयः ।। १३ १।।
 सार्धद्वादशलक्षं च पितृभ्योऽर्प्य त्वया प्रिये! । यत्र तेषां सर्वकाण्डाः परमार्थतयाऽऽदृताः ।। १ ३२।।
 पञ्चलक्षं त्वया देयं दिवि स्वर्गुरवे प्रिये! । बार्हस्पत्यं सुराणां तज्ज्ञानं देवानुसारि वै ।। १३३।।
 पञ्चलक्षं तु दैत्यानां पातालादिप्रवासिनाम् । शुक्राय च त्वया देयं तामसाद्यनुसारि यत् ।। १३४।।
 सपादलक्षं दातव्यं ब्राह्ममार्षं विशोधकम् । त्यागिभ्यः परमर्षिभ्यो ब्रह्माऽवाप्तिकरं तु यत् ।। १३५।।
 सपादक्षं दातव्यं विप्रेभ्यो मानवेषु वै । यदधीत्य चतुर्वर्गान् साधयिष्यन्ति मानवाः ।। १३६।।
 कालान्तरे लयं याते भविष्यामि पुनः पुनः । तत्तज्ज्ञानप्रकाशाय व्यासाचार्यर्षिरूपतः ।। १ ३७।।
 इति ते स्मारितं लक्ष्मि! प्राग्वृत्तं ते च मे तथा । पूर्वं पूर्वा लयं यान्ति जलस्थलविवर्तनाः ।। १३८।।
 वैराजाः कोटिशो नष्टा ब्रह्मादीनां तु का कथा । पुरुषोत्तमरूपोऽहं महाप्रलयकृत्तथा ।। १३९।।
 सृष्टिकृन्नित्यविज्ञानोऽखिलाऽऽत्माऽन्तर्नियामकः । न विस्मराम्यण्वपि त्वचिन्त्यशक्तिनिधिर्ध्रुवः ।। १४०।।
 यत्र वै पर्वतास्तत्र जलं कालान्तरे भवेत् । जलस्थाने स्थलं देह्यावासं वासे वनं तथा ।। १४१।।
 रणेऽरण्यं तथाऽरण्ये पत्तनं विवरं च वा । विवरेषु महासेतुः स्तरं स्तरे तथाऽम्बरम् ।। १४२।।
 क्व कदा किं भूतमेतज्जानामि भावि चाप्यहम् । सर्वं मयि भवत्येव किंचिन्मत्तो न रिच्यते ।। १४३ ।।
 इदं सृष्टिसमारंभेऽस्मच्चरित्रकथामृतम् । अधिमासाऽपरपक्षाऽष्टमीव्रतमिषेण वै ।। १४४।।
 स्मारितं ते मया लक्ष्मि! पावनं श्रोतृदेहिनाम् । पाठकानां स्वर्गदं मोक्षदं व्रतप्रपुण्यदम् ।। १४५ ।।
 अत्रोत्सवे व्रतकर्तुर्भुक्तिर्मुक्तिर्न संशयः । पुत्रार्थी लभते पुत्रं भार्या भार्येच्छुको लभेत् ।। १४६।।
 धनार्थी प्राप्नुयाद् द्रव्यं क्षेत्रार्थी भूमिमाप्नुयात् । धर्मार्थी पुण्यवान् स्याच्च सकामः कामनां लभेत् ।। १४७।।
 यशः कीर्तिमवाप्नोति सतां प्रधानता लभेत् । अशुभं नाशमायाति प्रपाठनेन सर्वथा ।। १४८।।
 विप्रो विज्ञानवान् स्याच्च विजयं क्षत्रियो लभेत् । धनधान्यस्मृद्धिसम्पद्युक्तो वैश्यो भवेत्तथा ।। १४९।।
 शूद्रः सर्वसमृद्धः स्यात् सुखी चास्य श्रवेण वै । श्रेयः श्रियं परां विन्देत् तेजोवीर्यं समाप्नुयात् ।। १५ ०।।
 बलं रूप गुणान् सम्पद् गोधनक्षेत्रवाटिकाः । दाराः सुता दासदासीर्गृहराज्यस्वरादिकम् ।। १५१।।
 आरोग्यं च स्वतन्त्रत्वं निर्बन्धत्वं समाप्नुयात् । निर्भीकत्वं निरापत्त्वं प्राप्नुयान्मोक्षणं तथा ।। १५२।।
 इत्यष्टमीव्रतजन्यं कथितं ते फलं प्रिये । व्रतं कृत्वा पूजयित्वा प्राप्नुयात् पुरुषोत्तमम् ।। १५३।।
 मेऽवतारा असंख्याता ह्यहं श्रीपुरुषोत्तमः । अवतारी महाराजः परब्रह्म सनातनः ।। १५४।।
 यावद् ब्रह्मा विराट् वापि वैकुण्ठभूमयस्तथा । सर्वत्राऽधिकमासोऽहं स्थास्यामि पुरुषोत्तमः ।। १५५।।
 यावच्चन्द्रश्च सूर्यश्च स्थास्यन्ति मेदिनी तथा । कृष्णनारायणतीर्थे तावत् स्थास्यति शाश्वतम् ।। १५६।।
 कृष्णनारायणश्चाहं ध्वजशार्ङ्गादिशोभितः । लक्ष्म्यादिसेवितस्तत्र स्थास्यामि पुरुषोत्तमः ।। १५७।।

 इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये मलमासस्याऽऽधिदैवे पुरुषोत्तमे जाते गोलोके कृतमहोत्सवरासे कृष्णमुकुटमणिकल्गिचन्द्रिकयोः मुकुटाद्वियोगे तयोर्भुवि आनर्तदेशे निम्बदेवमिष्टादेवीरूपेणा- ऽवतरणं, तयोर्गृहे कृष्णस्य गोपालकृष्णरूपेणाऽवतरणं, प्रेममणि-गृहे रुक्मिणीलक्ष्म्याः कंभरारूपेणाऽवतरणं, कंभरालक्ष्मी- गोपालकृष्णयोर्विवाहोत्तरं दुन्दुभिश्रवणेनाऽष्टमीव्रत-करणेन श्रीपुरुषोत्तमस्य तयोर्गृहेऽवतरणं, कोटिश्लोकसंहिताकरणं चेत्यादिनिरूपणनामा पञ्चदशाधिकत्रिशततमोऽध्यायः ।।१.३१५।।