← अध्यायः ३१५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१६
[[लेखकः :|]]
अध्यायः ३१७ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! नवम्याश्चाधिकमासाऽन्तितमे दले । व्रतस्य पूर्वकल्पीयां कथां पापप्रणाशिनीम् ।। १ ।।
 पूर्वात् पूर्वतरे कल्पे बभूवेन्द्रो द्युमेरुजित् । सायं तस्य लये जाते पुण्यशेषेण वै पुनः ।। २ ।।
 सत्यलोके निशां भुक्त्वा कल्पाऽऽरंभे प्रगे तु सः । सृष्टौ त्रेतायुगे चाद्ये सम्राट् शतमखोऽभवत् ।। ३ ।।
 दानधर्मदयायुक्तो लोकरक्षणतत्परः । देवदानवमर्त्यानां मानकृद् विजितेन्द्रियः ।। ४ ।।
 व्योमयानेन विहरन् त्रिलोक्यां विचचार सः । गोभूतीर्थद्विजन्यासिसतीसाधुप्रपूजकः ।। ५ ।।
 यस्य हस्ततले वज्रच्छत्रखङ्गांककानि वै । विद्योतन्ते स्म दिव्यानि देवत्वावेदकानि वै ।। ६ ।।
 तस्य पत्नी महाराज्ञी द्युवर्णाऽभूत् पतिव्रता । पतिसेवापरा नित्यं देवसेवापरा तथा ।। ७ ।।
 आतिथ्यधर्मिणी दीनाऽनाथदारिद्यनाशिनी । कन्यानामुन्नतिकर्त्री सदा स्त्रीजातिरक्षिका ।। ८ ।।
 गान्धर्व्यो नागकन्याश्च देव्यो दानव्य एत्य च । किन्नर्यश्चापि मानुष्यः शिक्षार्थं स्म वसन्ति वै ।। ९ ।।
 सावित्री चापि गायत्री संज्ञा स्वाहाऽप्यरुन्धती । महेन्द्राणी सती लक्ष्मीः रोहिणी पार्वती स्वधा ।। १० ।।
 प्रभा च माणिकी श्रीश्च जया भक्तिर्दिशस्तथा । अन्या नद्यः कृत्तिकाद्यास्तस्याः सख्योऽभवँस्तदा ।। १ १।।
 चम्पा दया रमा हेम्नी मुक्ता गोदा जयन्तिका । शान्तिः शान्ता प्रेमपात्रा दीपोत्सवी च नन्दिनी ।। १२।।
 ओजस्वती सुरत्ना च दमयन्ती चतुर्मतिः । देविका कान्तिका रेवा सविता मूलयोगिनी ।। १३।।
 कस्तूरिका मंगला च हंसा रुचिश्च मंजुला । निर्मला चामृता रालिजटिनी पानपुत्तली ।। १४।।
 वनिता मिष्टिका पुष्पा मनुः कृष्णा च दासिकाः । कान्ता सरस्वती पद्मा शारदा उपदासिकाः ।। १५।।
 कल्पद्रुमाश्च मणयः कामधेनव इष्टदाः । कल्पवल्ल्योऽभवंस्तस्या राज्ये प्राग्ज्योतिषाह्वये ।। १६।।
 एवं शतमखो राजा राज्ञी द्युवर्णिका तथा । स्त्रीनरौ राज्यधर्मेण वर्तेते स्म भुवस्तले ।। १७।।
 दैवयोगेन तद्राज्यमभूच्छीताद्रिदुर्गवत् । राजधानी कृता ताभ्यां साकेता सरयूमनु ।। १८।।
 प्रधानं रक्षकं कृत्वा यात्रार्थं कृतनिश्चयौ । ततस्तौ संप्रयातौ वै बद्रीयात्रार्थमादरात् ।। १९।।
 परिमेयचरचारभृत्यदासीजनौ शुभौ । तीर्थस्य नियमान्सर्वान्पालयन्तौ प्रजग्मतुः ।।२० ।।
 प्रातः स्नानं ब्रह्मचर्यं सत्यव्रतं फलादनम् । भूशायित्वं परित्यक्तशृंगारासनादिकम् ।।।२१।।
 अहिंसनं परिवादराहित्यं मालिकाजपम् । रागद्वेषविहीनत्वं दानं देवादिपूजनम् ।।।२२।।
 तीर्थवृद्धार्चनं तीर्थगुरुसाहाय्यकारिताम् । गोदर्शनं हरेः पादामृतपानं कथाश्रवम् ।।२३।।
 विषयाणां परित्यागं साधुवद्वर्तनं तथा । रात्रौ नारायणध्यानं दिवा तीर्थाटनं शुभम् ।।२४।।
 सायं नीराजनास्तोत्रकीर्तनस्मरणादिकम् । जंगमान्स्थावरान्प्रत्यनुद्वेजनं तितिक्षणम् ।।२५।।
 पालयन्तौ तापसौ तौ भूत्वा बदरिका गतौ । देवनद्यां तदाचम्य स्नात्वा पीत्वा जलं ततः ।।२६।।
 ददृशतुर्मुनींस्तीर्थात्मकाँस्तीर्थानि चांजसा । नरनारायणौ दृष्ट्वा पूजां कृत्वोपचारकैः ।।२७।।
 साधुविप्रानतिथींश्च भोजयामासतुस्तदा । राज्ञा राज्ञ्या नरनारायणयोस्तोषणाय वै ।।।२८।।
 तत्रैव तु कृतं नृत्यं गायनं मूर्तिसन्निधौ । अर्पितं कानकच्छत्रयुगलं मुकुटद्वयम् ।।२९।।
 युगकुण्डलयुगलं चामराणां चतुष्टयम् । यष्टिकायुगलं हाराश्चोर्मिकाविंशतिस्तथा ।।३० ।।
 कटकद्वययुगलं शृंखलारशनाद्वयम् । पादुकाद्वययुगलं तथा सिंहासनद्वयम् ।।।३ १ ।।
 दक्षिणा भूयसी चैव स्वर्णपात्रोत्तमानि च । वल्कलाऽजिनवस्त्राणि फलानि दैशिकानि च ।।३२।।
 समर्पितानि सर्वाणि तव स्व इति शब्दितम् । पादौ स्पृष्टौ जलं पीतं चरणामृतमित्यपि ।।३३।।
 स्वर्णमालापादयोश्चार्पिता नरनरेशयोः । चन्दनादिसुवस्त्वाद्यैः पूजितौ परमेश्वरौ ।।३४।।
 आशीर्वादास्तदा लब्धा पुत्रवान् भव पार्थिव! । राज्ञी पुत्रवती भूयादिति श्रुत्वा प्रशं गतौ ।।३५।।
 तावत्तत्राऽधिकमासनवम्यां प्रातरेव ह । संश्रुतो दुन्दुभिः सम्यङ्मनोवाच्छाप्रपूरकः ।।३६।।
 अद्य व्रतं प्रकुर्वन्तु गृह्णन्तु वाञ्च्छितं फलम् । पुरुषोत्तममासोऽयं फलदः पुरुषोत्तमः ।।३७।।
 हृदि स्थितान् शुभान् कामान गृह्णन्तु पुरुषोत्तमात् । मां च धाम विभूतिं च दास्ये स्मृद्धिं व्रतार्थिने ।।३८।।
 अगम्यं बुद्धिगम्यं स्यादलभ्यं लभ्यमेव च । अतर्क्यं चापि तर्क्यं स्यान्नवमीव्रतकारिणः ।।३९।।
 सर्वसंकल्पसिद्धिः स्यात् प्राप्तिः पुमुत्तमस्य च । दुन्दुभिश्चेत्यभिधाय दृष्ट्वा नरं नरेश्वरम् ।।४० ।।
 पूजयित्वा ऋषिवर्यौ जगामोत्तरदिग्भुवम् । दम्पती प्रसमाकर्ण्य ध्यात्वा नरनरेश्वरौ ।।४१ ।।
 तल्लीनौ चाऽभवतां द्राङ् नरो नारायणस्तदा । तयोर्हृदोर्ददृशाते दिव्यरूपौ सुशोभनौ ।।४२।।।
 मनोहरौ मञ्जुवाक्यौ मञ्जुलकेशसज्जटौ । पुष्टौ युवानौ दिव्यौ च तापसौ श्रीनिषेवितौ ।।४३ ।।
 मुनिभिर्वन्दितपादौ वैकुण्ठवासिनावुभौ । राजभवनयोग्यौ तौ लालनपालनार्हणौ ।।४४।।
 पद्मपत्रायतनेत्रौ सुचन्द्रास्यौ गुणालयौ । घनश्यामौ हृदयंगमौ मनोज्ञसुन्दरौ ।।४५।।
  वीक्ष्य संकल्पितं पुत्रावीदृशौ भवता तु नौ । अथ ध्यानाद् बहिर्यातौ राज्ञीनृपौ विलोक्य च ।।४६।।
 नरनारायणः प्राह संकल्पः फलतात्तु वाम् । श्रुत्वा तृप्तौ चाति जातौ तीर्थविधिं विधाय तौ ।।४७।।
 निवर्तितौ ततः स्थानादाययतुर्नदीतटे । आचम्य कानकीं मूर्तिं स्नात्वा पुपूजतुस्तदा ।।४८।।
 गंगाजलैर्हरिं तौ संस्नाप्य प्रमृज्य चाम्बरैः । पञ्चामृतं समर्प्यथाऽभिषेकं चक्रतुर्जलैः ।।४९।।
 संप्रमृज्य सुवस्त्राण्याभूषणानि समर्प्य च । शृंगारशोभां संक्लृप्त्वा धूपदीपौ समर्प्य च ।।५० ।।
 चन्दनाऽक्षतकुंकुमकज्जलद्रवसारकैः । सुगन्धयित्वाऽऽरार्त्रिकं कारयामासतुस्ततः ।।५१ ।।
 भोजयामासतुर्देवं वर्धयामासतुः स्तवैः । पुष्पांजलिं समर्पयामासतुश्च फलादिकम् ।।५२।।
 ताम्बूलचर्वणं दत्वा याचयामासतुः क्षमाम् । एवं सूर्योदयात् पश्चात् पञ्चघटीगते पुनः ।।५३।।
 समये चापि तौ कृत्वा स्नानार्चनस्तवादिकम् । नैवेद्यपानताम्बूलदक्षिणादिसमर्पणम् ।।५४।।
 ऋषिदेवक्षितिदेवभोजनं दक्षिणां तथा । निर्वर्त्याऽर्घ्यं कुसुमानामञ्जलिं चाऽक्षताँस्तथा ।।५५।।
 दत्वा स्तुतिं चक्रतुश्च विसर्जनं प्रचक्रतुः । एवं प्रपूज्य देवेशं श्रीकृष्णपुरुषोत्तमम् ।।५६ ।।
 नरं नारायणं नत्वा तीर्थविधिं समाप्य च । पूर्वं मध्याह्नसमयाद् राजधानीं नवीकृताम् ।।५७।।
 विमानेन समागत्य साकेतां सरयूमनु । उद्याने महती सौधे वृक्षवल्लीसुशोभिते ।।५८।।
 मण्डपं कारयामासतुस्तौ स्वर्णादिशोभितम् । कलशैर्हारशृंगारैर्वस्त्रभूषाध्वजादिभिः ।।५९।।
 शोभितं रंगवल्लीभिः सिक्तं गन्धजलादिभिः । वह्निकुण्डसमायुक्तं वेदिकासुविराजितम् ।।६ ०।।
 कटपर्यंकबृसिकासूर्णास्तरणशोभितम् । कम्मानिकातोरणाढ्यं कदलीस्तंभसंधृतम् ।।६ १।।
 आदर्शचन्द्रकडंका निशान भेरिकाऽऽनकैः । जलतरंगयन्त्रैश्च शीतवायुप्रवाहकैः ।।६२।।
 शोभितं मण्डितं चित्रैरवतारसुरादिभिः । जलस्थलव्यत्ययेन दृष्टिर्जालैर्विलक्षितम् ।।६३।।
 दूरश्रवणयन्त्रैश्च दूरदर्शनदर्पणैः । दूरग्रहणसिद्ध्याद्यैरलंकृतं विमानवत् ।।६४।।
 तत्र मण्डपमध्ये तु सहकारतरू कृतौ । पार्श्वकोणेषु चत्वारोऽशोकवृक्षा विनिर्मिताः ।।६५।।
 शाखासु दिव्यदोला च बन्धयामासतुश्च तौ । तत्र मूर्तिमयान्देवान् शृंखलासु तु देविकाः ।।६६।।
 संक्लृप्तयामासतुश्च कोमलास्तरणानि च । तत्र मूर्तिं कानकीं वै पुरुषोत्तमरूपिणीम् ।।६७।।
 आरोप्याऽऽन्दोलयामासतुश्च राज्ञी नृपस्तथा । तत्र देवस्य निकषा सर्वतोभद्रमण्डलम् ।।६८।।
 सप्तधान्यैः स्बर्णरत्नहीरकादिसुमिश्रितम् । रचयामासतुर्मध्ये सुवर्णकलशं शुभम् ।।६९।।
 पंचरत्नजलपुष्पफलद्रव्याम्बरान्वितम् । स्थापयामासतुस्तस्योपरि स्थालीं तिलान्विताम् ।।७०।।
 श्रीफलमुद्रिकायुक्तां धारयामासतुस्ततः । स्वर्णमूर्ति द्वितीयां श्रीपुरुषोत्तमसंज्ञिताम् ।।७१ ।।
 तत्स्थाल्यां स्थापयामासतुश्च षोडशवस्तुभिः । पूजयामासतुरारार्त्रिकं चक्रतुरादरात् ।।।७२।।।
 नृत्यगीतानि तत्रैव कारयामासतुस्तदा । होमं त्वग्नौ कुण्डमध्ये कारयामासतुस्तथा ।।७३।।
 भोजयामासतुर्विप्रान्देवान्साध्वीः सतस्तथा । दीनाऽनाथाऽबलावर्गान्दरिद्रान् भिक्षुकादिकान् ।।७४।।
 दक्षिणा दापयामासतुश्च पुष्पाऽक्षताऽञ्जलीन् । अर्पयामासतुर्यावत् तावत्तत्र - सुमण्डपे ।।७५।।
 दिव्यरूपो युवा नूत्नजीमूतवर्णसुन्दरः । श्यामलः सजटो देवः सानुजः समदृश्यत ।।७६।।
 मध्याह्नसमये दिव्यो मूर्तो वै पुरुषोत्तमः । दिब्यतेजःपरिध्याढ्याननहास्यसुरञ्जनः ।।७७।।
 दिव्यनेत्रस्नेहपूर्णः पुष्टः पुष्टानुजान्वितः । पीताम्बरधनुश्चर्मखड्गशंखजटाधरः ।।७८।।
 सुवर्णमुकुटाढ्यश्च सुवर्णकुण्डलान्वितः । आशीर्वादपरहस्तः सेवाकृपाढ्यमानसः ।।७९।।
 स्थितिवाञ्च्छाभिसंचेष्टश्चारामशान्तिदः प्रभुः । आरामे मण्डपे जज्ञे मध्यादित्यसमुज्जलः ।।८०।।
 रामादित्येत्यनुजेनाऽऽहूतस्तत्र मुहुर्गिरा । रमन्ते योगिनो यत्राऽऽदित्योज्ज्वलपरेश्वरे ।।८ १ ।।
 रामादित्यो ह्ययं शातमखी जातोऽत्र केशवः । अयं रामावतारो वै प्रथमः परिकीर्तितः ।।८२।।
 दृष्ट्वा तं जातमात्रं च युवानं केशवं प्रभुम् । आश्चर्यचकितौ राज्ञी राजा चोभौ बभूवतुः ।।८३।।
 रामस्तु भगवान् दिव्यौ पितरौ प्राह तोषणात् । प्रसन्नोऽस्मि वरं याचत यथेष्टं ददाम्यहम् ।।८४।।
 मूर्तिरूपेण सेवा वामंगीकृता मया ततः । प्रादुर्भूय वरं दातुं प्रत्यक्षोऽस्मि पुमुत्तमः ।।८५।।
 यो बदर्यां हरिर्दृष्टो नरेण सह तापसः । हृदि यौ ददृशाते च दिव्यरूपी सुशोभनौ ।।८६।।
 सोऽहं त्वत्र समायातः स्वभ्रात्रा पुरुषोत्तमः । नरादित्यो मम भ्राता तापसोऽपि मया सह ।।८७।।
 दातुं नैजं दर्शनं चात्रागतोस्ति कृपावशः । प्रवृणुत वरदानं मा चिरं न्वेष याम्यहम् ।।८८।।
 इति श्रुत्वा शतमखो नृपो राज्ञी द्युवर्णिका । बभूवतुश्चातिसंभ्रमौ संव्यग्रमानसौ ।।८९।।
 वन्दन्तौ तिष्ठतं तिष्ठतं मा यातं न गच्छतम् । सर्वदा ददतं त्वत्र दर्शनं भवने प्रभू ।।९०।।
 दर्शनीयौ कमनीयौ प्राप्स्येथे न पुनर्हरी । गृह्णीतं भोजनं रम्यं पेयं ताम्बूलमर्चनम् ।।९१।।
 रमतं सर्वदा त्वत्रोद्याने ददतमीप्सितम् । वत्सौ किं वर्तते शैघ्र्यं यातं मा पुत्रकौ मम ।।९२।।
 इत्युक्त्वा राजमहिषी निसर्गस्नेहसंभृता । सुतौ द्वौ निकटे कृत्वा स्पृष्ट्वा नेत्रजलाऽभवत् ।।९३।।
 स्नुतदुग्धस्तनी जाता त्यक्तुं नोत्सहते स्म सा । राजाऽपि प्रेमपूर्णांगश्चाऽन्येऽपि मुमुहुर्हरौ ।।९४।।
 भगवन्तौ प्राहतुश्च तथास्त्विति सुमण्डपे । क्षणं बालौ तदा जातौ स्तन्यपानकरावुभौ ।।९५।।
 द्युवर्णा तां पाययित्वा स्तन्यं प्राप्ता कृतार्थताम् । रामादित्यनरादित्याभिधपुत्रवती सती ।।९६।।
 सुखिनी संबभूवाऽत्रानन्दोत्सवो महाँस्तदा । रामाविर्भावरूपो वै मध्याह्ने भूभृता कृतः ।।९७।।
 ब्रह्मविष्णुमहेशाश्च मुनयः सनकादयः । नारदाद्याश्च ऋषयो भक्ता वैकुण्ठवासिनः ।।९८।।
 सत्यलोकादिवसतिः स्वर्गदेवाश्च मानवाः । पातालादिस्थिताश्चान्ये जडाश्च चेतनाः प्रजाः ।।९९।।
 तीर्थानि सरितः शैला अरण्यानि वनानि च । कल्पाश्च पादपाश्चिन्तामणयः कामधेनवः ।। १०० ।।
 तत्रोत्सवे समायाता मन्त्रा वेदाश्च वित्तयः । तत्त्वानि चेतरा सर्वे ब्रह्मपुत्राश्च मानसाः ।। १० १।।
 पितरो देवराजाश्च पार्थिवा लक्षकोटयः । समायाता नवम्यां वर्धयितुं चाशिषाऽऽशिषा ।। १० २।।
 अधिमासाऽपरपक्षनवम्यां मध्यगे रवौ । रामादित्यजयन्त्यां ते राम वीक्ष्य नरं तथा ।। १० ३।।
 कृतार्थाश्चाऽभवन् लब्ध्वा सत्कारं भोजनादिकम् । रामप्रसन्नतां प्राप्य चक्रुर्गानं सुनर्तनम् ।। १ ०४।।
 दानं शतमखः कोट्यर्बुदानि च गवां ददौ । वर्धका लोकपालाश्च दिक्पालाश्च सुरादयः ।। १ ०५।।
 ययुर्निजस्थलं सर्वे स्वस्वलोकान् ययुर्जनाः । मध्याह्नपूजनं राज्ञ्या नृपेण तत्र मण्डपे ।। १०६।।
 समाप्तं वै कृतं तद्वत् सायं निशि प्रपूजनम् । रात्रौ जागरणं चाथ प्रातः स्नानादिकं कृतम् ।। १ ०७।।
 मूर्तेः संपूजनं पात्रभोजनं दक्षिणादिकम् । कृतं सर्वं सुविधिना व्रतं पूर्णं कृतं ततः ।। १०८।।
 पारणा च कृता तेन पत्न्या सह सुपुत्रिणा । आनन्दः समभूत् तस्याऽतर्क्यो वै नवमीतिथेः ।। १ ०९।।
 पुरुषोत्तममासस्य व्रतेन पुत्रदायिना । इति ते कथितं लक्ष्मि! व्रतानामुत्तमं व्रतम् ।। ११ ०।।
 रामादित्यजयन्त्याख्यं व्रतपुण्यं महत्तमम् । इदं प्राग्रामचरितं पठेत् संशृणुयात्तु यः ।। १११ ।।
 श्रावयेत्परया भक्त्या स भवेद् व्रतपुण्यभाक् । स्वेष्टं लभेल्लभेद्राज्यं लभेत् पुत्रं धनादिकम् ।। १ १२।।
 लभेत् तीर्थफलं चापि साकेतसरयूकृतम् । लभेच्च बलवत्पुत्रं पुरुषोत्तमसन्निभम् ।। १ १३।।
 भुक्तिं मुक्तिं सुखं स्वर्गं धाम वैकुण्ठमित्यपि । यद्यदिष्टं लभेत् सर्वं कृपया परमात्मनः ।। १ १४।।
 इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये साकेतनगर्याः शतमखराज्ञः द्युवर्णा राज्ञ्याश्च बदरिकाश्रमयात्रायां नरनारायणदर्शनो-त्तरं द्वितीयपक्षनवमीव्रतकरणेन साकेतनगर्यां श्रीरामादित्यनरादित्यनामानौ प्रथमौ पुरुषोत्तमा-वतारौ दिव्यपुत्रौ बभूवतुरित्यादिनिरूपणनामा षोडशाधिकत्रिशततमोऽध्यायः ।।१.३१६।।