← अध्यायः ३१८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१९
[[लेखकः :|]]
अध्यायः ३२० →


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! कथां वैराजपादजाम् ।
जोष्ट्रीं देवीं समुद्भूतां सृष्ट्यारंभे तु सेविकाम् ।। १ ।।
वैराजः पुरुषः पुत्रं ब्रह्माणं नाभिदेशतः ।
समुत्पाद्याऽऽर्पयन्तस्मै जोष्ट्र्याख्यां सेविकां ततः ।। २ ।।
वैराजचरणोत्पन्नां जुषमाणां तु वेधसम् ।
सत्यलोके सदा दासीसमां त्वावासयद्ध्यजः ।। ३ ।।
ब्रह्मणा मनसा ध्याता सेविका सा पुनः पुनः ।
सुषुवे सेविकां जातिं नैकधा स्वप्नजात्यिकाम् ।। ४ ।।
ऋषिष्वनशनाख्यां स्वपुत्रीं प्रसूय संदधे ।
पिपासाख्यां सुतां पितृषु प्रसूय च संदधे ।। ५ ।।
अशनाख्यां सुतां देवेषु च प्रसूय सन्दधे ।
भूतप्रेतपिशाचादौ प्रसूय वासनां दधे ।। ६ ।।
भूभृत्सु च कराऽऽयां संप्रसूय पुत्रिकां दधे ।
मानवेषु व्यवसाया पुत्रीं प्रसूय सन्दधे ।। ७ ।।
दानवेषु प्रसह्यां च पुत्रीं प्रसूय सन्दधे ।
दैत्येषु च विलासाख्यां सुतां प्रसूय सन्दधे ।। ८ ।।
पशुपक्षिषु विश्वासां सुतां प्रसूय सन्दधे ।
वृक्षवल्लीषु तां मेघां पुत्रीं प्रसूय सन्दधे ।। ९ ।।
कीटपतंगजन्त्वादौ दधे प्रसूय कर्दमाम् ।
जलवासेषु पुत्रीं कुंभिकां प्रसूय सन्दधे ।। १० ।।
एवं द्वादशपुत्रीः सा सम्प्रसूय यथाप्रजम् ।
प्रददौ सा प्रजाभ्यः सेविका प्रत्येकमादरात् ।। ११ ।।
एवं सेवापरा जोष्ट्री वेधसः सेविका सदा ।
सत्यलोके वर्तते स्म सेवाधर्मे हि नित्यदा ।। १ २ ।।
यथा विप्रस्य कर्माणि सन्ति षट् मोक्षदानि हि ।
तथा चतुर्थवर्णस्य सेवा मोक्षकरी मता ।। १३ ।।
यथा त्राणं क्षत्रियाणां निःश्रेयकरं मतम्।
तथा सेवकवर्गस्य सेवा निःश्रेयसप्रदा ।। १४।।
यथा दानं तु वैश्यस्य श्रेयस्कृत् तूभयत्र हि ।
तथा तु सेविका वर्गः श्रेयांसि सेवया लभेत् ।। १५।।
यथा दास्याः सदाऽऽज्ञायां वर्तनं मोक्षदं भवेत् ।
तथा सेवकवर्गस्य सेवा ३ मोक्षदा भवेत् ।। १६।।
ब्रह्मचर्यव्रते शीलं यथा रक्षणदं भवेत् ।
तथा सेवा सेविकायाः सदा रक्षणदा भवेत् ।। १७।।
यथा गार्हस्थ्यधर्मस्य सत्कारो रक्षको भवेत् ।
यथा सेवकवर्गस्य सेवा वै रक्षिका भवेत् ।। १८।।
यथा वनस्थितानां वै तपः सुखकरं मतम् ।
तथा सौख्यं परिचर्याकर्तुर्भवति सर्वदा ।। १९।।
यथा त्यागवतां त्यागः परमानन्ददो मतः ।
तथा भावेन सेवा वै सेवकाऽऽनन्ददायिनी ।। २० ।।
यथा यज्ञस्तपो ध्यानं जपो दानं हवादिकम् ।
उभयत्र सुखदं सेवापि सर्वत्र सौख्यदा ।।२ १ ।।
सेवया प्राप्यते स्वर्गं राज्यं लक्ष्मीर्धनादिकम् ।
यशः कीर्तिस्तथा पुण्यं शाश्वतं मोक्षणं ध्रुवम् ।।२२।।
कृष्णसेवा मातृसेवा पितृसेवाऽऽत्मसेवनम् ।
देवसेवा जनसेवा वृद्धसेवाऽऽर्त्तसेवनम् ।।२३ ।।
पतिसेवा सतीसेवा पत्नीसेवेश्वरार्चनम् ।
गोभूधर्माऽनाथसेवाऽऽश्रितसेवा प्रजार्हणम् ।।२४।।
स्वामिसेवाऽतिथिसेवा परात्मतोषणादिकम् ।
इहाऽमुत्र सुखदं च पुण्यदं शान्तिदं भवेत् ।।२५ ।।
पुरुषोत्तमवृद्ध्या तु कृतं मोक्षकरं भवेत् ।
देहसेवा धनसेवा पादसंवाहनादिकम् ।।२६ ।।
गुणसेवा वस्तुसेवाऽन्नसेवा जलसेवनम् ।
गृहसेवा रुग्णसेवा लोकसेवादिकं तथा ।।२७।।
सर्वं कृतं ब्रह्मदृष्ट्या सुखदं मोक्षदं भवेत् ।
सेवाधर्मस्ततो बोध्योऽगम्यो वै सर्वदेहिनाम् ।।।२८।।।
सर्वमन्यद्भवेत् सेवा न भवेच्छ्रद्धया विना ।
विना भावनया सेवा न भवेद् योजिताऽपि वै ।। २९।।
मोक्षेच्छया भवेत्सेवा भवेत्सुखेच्छयाऽपि वा ।
स्वार्थेच्छयाऽपि वा सेवा भवेत् फलाभिकाम्यया ।। ३ ०।।
निष्कामेन कृता या तु कोटिगुणार्थदा हि सा ।
अकामस्य तु कार्यस्य फलदः पुरुषोत्तमः ।।३ १।।
इति विचार्य सा जोष्ट्री सर्वलोकस्य सेवनम् ।
पुत्रीभिः कारयामासाऽऽन्तरात्मा यत्र तुष्यति ।।३२।।
सेवया तोषिताः सन्तो ददत्याशिष एव च ।
वृद्धा विप्राः प्रयुञ्जन्ति समाशिषस्तु सेविने ।। ३३।।
शरीरं नाशमायाति तेन सेवा कृता परे ।
लोके सहायतां याति तस्मात् सेवां समाचरेत् ।।३४।।
परोपकारः कुत्रापि विफलो याति नैव ह ।
सेवापि विफला नैव कालान्तरेऽपि जायते ।।३५।।
अदत्तं नोपतिष्ठेत दत्तमेवोपतिष्ठते ।
असेवा नोपतिष्ठेत कृता सेवोपतिष्ठते ।।३६।।
देहेन मनसा वाचा पितरं गुरुमच्युतम् ।
सेवेत सर्वदा प्राणी फलं तच्छाश्वतं भवेत् ।।३७।।
इति जोष्ट्री सदा सत्ये सेवते परमेष्ठिनम् ।
पुत्रीभिश्च प्रजासेवां करोत्यनुदिवं शुभाम् ।।३८।।
एकदा तु समाजोऽभूत् सुधर्मायामजगृहे ।
ऋषयो मुनयो देवाः पितरो मानवा द्रुमाः ।।३९ ।।
पिशाचाद्यास्तथा कन्दा वल्लयो दैत्यदानवाः ।
समायाताश्चतुर्दशभुवनस्थास्तु देहिनः ।।४० ।।
अदृश्याश्च तथा दृश्याः सस्त्रीका समुपाययुः ।
तैस्तैः समाजमूर्धन्यैराययुर्द्वादशापि ताः ।।४१ ।।
सेविका दासिकारूपा जोष्ट्रीपुत्र्योऽशनादिकाः ।
समाजाः सेवितास्ताभिर्योग्या येषां कृते तु या ।।४२।।
तां तां सेवां विधायैव तोषिताः सर्वयोनयः ।
तुष्टास्ताभ्यो ददुः पारितोषिकाण्याशिषस्तथा ।।४३।।
सर्वा भवन्तु सद्भाग्याः शाश्वतानन्दपूरिताः ।
धनधान्ययशःकीर्तिसन्मानगुणपूजिताः ।।४४।।
सिद्ध्यैश्वर्ययुता रम्यरूपधारिण्य एव च ।
जोष्ट्रीवंशप्रवर्धिन्यो महातेजोधराः सदा ।।४५ ।।
लोकप्रकाशकारिण्यो देव्यो यद्यपि सेविका ।
भवन्तु सर्वदा ब्राह्म्यः शाश्वतस्थिरयौवनाः ।।४६ ।।
इति लब्धाशिषः सर्वाः समाजे तु निवर्तिते ।
स्वसारो द्वादशमातुर्जोष्ट्र्या गृहं ययुः क्षणम् ।।४७।।
तत्र तावत् सत्यलोके दुन्दुभिः श्रीहरेर्महान् ।
अश्रूयत वदन् शब्दं पुरुषोत्तमदेशितम् ।।४८।।
अत्राऽधिके तु मे मासे द्वादश्यां मम पूजनम् ।
व्रतं ममैकशरणं कुर्वन्तु देहिनो यथा ।।४९ ।।
भवन्मनोऽभिलषितं दास्येऽहं पुरुषोत्तमः ।
माऽत्र प्रमदितव्यं वै कृच्छ्रे स्वल्पं व्रतं बहु ।।५ ०।।
भाग्यं येषामुज्ज्वलं वै गृह्णन्तु तेऽति तत्फलम् ।
दाताऽहं कृपया कृष्णनारायणोऽस्मि सर्वथा ।।५ १ ।।
सिद्धीर्दास्ये धाम दास्ये दास्ये वै शाश्वतं सुखम् ।
सर्वं दास्ये च मां दास्ये न दास्ये नेप्सितं तु यत् ।।५ २।।
एकभुक्तेन नक्तेन फलाहारेण वा व्रतम् ।
जलाहारेण दध्ना वा मुन्न्यन्नेन च भाजया ।।५ ३।।
पत्रेण कन्दमूलैश्च वायुभक्षेण वा व्रतम् ।
मम प्रसादलेशेन कृतं वा यद्यपि व्रतम् ।।५४।।
तक्रेण पयसा वापि तिलैश्च माषमुष्टिभिः ।
येन केनापि भावेन द्वादशीव्रतमाहितम् ।।५५ ।।
तस्याऽहं वाञ्छितं सर्वं पूरयिष्यामि सर्वथा ।
पूजनं मम कर्तव्यं प्रातर्मध्ये निशामुखे ।।५६।।
जागरं च प्रकर्तव्यं देयानि भोजनानि च ।
दानान्यपि प्रदेयानि यथाशक्ति यथार्जनम् ।।५७।।
मह्यं पुष्पांजलिं दद्याद् दद्यात्तथाऽक्षताञ्जलिम् ।
जलांजलिं प्रदद्याच्च दद्याच्च भावनांजलिम् ।।५८।।
स्नेहांजलिं प्रदद्याच्च दद्यादात्मांजलिं व्रती ।
प्रदद्यात्सर्वतः श्रेष्ठां सर्वसमर्पणांजलिम् ।।५ ९ ।।
भावगम्यः स्नेहगम्यः प्रेमगम्यो भवाम्यहम् ।
वस्तुगम्यः स्वार्थगम्यो यद्वा तद्वा भवाम्यहम् ।।६० ।।
गमिष्यति च दीर्घायुर्गमिष्यति च यौवनम् ।
यास्यन्ति सम्पदो नाशं मत्कृपा शाश्वती मता ।।६ १ ।।
यास्यन्ति शीर्णतां योगाः पुष्टिर्यास्यति जीर्णताम् ।
वर्ष्म यास्यति भस्मत्वं मत्कृपा शाश्वती मता ।।६२।।
उत्पन्नं तद्विनष्टं स्यात् पुण्यं राज्यं धनादिकम् ।
शाश्वती मे कृपा बोध्या यन्नाशो नैव विद्यते ।।६३।।
कृपां गृह्णन्तु कृपणा दूरयान्तु दरिद्रताम् ।
मदाज्ञया व्रतेनैव शाश्वताढ्या भवन्तु वै ।।६४।।
इत्येवं दुन्दुभेः शब्दं श्रुत्वा ता मातृवर्धिताः ।
व्रतं चक्रुर्हि पयसा द्वादश्या द्वादशैव ताः ।।६५।।
अपि जोष्ट्री व्रतं चक्रे वारिणा भावगर्भितम् ।
स्नात्वा प्रातः कृष्णनारायणं स्मृत्वा त्रयोदश ।।६६।।
स्वर्णमूर्तिं विधायैवाऽपूजयन् पुरुषोत्तमम् ।
मण्डपं कदलीस्तभं ह्यशोकाम्रादितोरणम् ।।६७।।
पुष्पहारावलिजुष्टं स्वर्णवस्त्रादिशोभितम् ।
रंगदीपसुकलशैर्मण्डितं तोरणादिभिः ।।६८।।
तन्मध्ये सर्वतोभद्रं कारयित्वा सुमण्डलम् ।
रम्यं सुवर्णकलशं पञ्चरत्नसुपल्लवम् ।।६९ ।।
वस्त्रं फलं चन्दनं चाऽक्षतान् मध्ये निधाय च ।
तन्मूर्ध्नि कानकं न्यस्य पात्रं सतिलशर्करम् ।।७०।।
तत्र निधाय देवेशं श्रीकृष्णपुरुषोत्तमम् ।
वै षोडशपदार्थैश्च पूजयामासुरादरात् ।।७१।।
आवाहनादिकं कृत्वा पञ्चामृतैश्च वारिभिः ।
संस्नाप्य मार्जनं कृत्वाऽम्बराण्याभूषणानि च ।।७२।।
कुंकुमैः कज्जलैर्गन्धसारैरक्षतचन्दनैः ।
शृंगारयित्वा श्रीकृष्णं धूपं दीपं विधाय च ।।७३।।
नैवेद्यं पायसं श्रेष्ठं मिष्टान्नं पूरिकादिकम् ।
फलं त्वाम्रादिकं पानं चामृतं मधुरं जलम् ।।७४।।
ताम्बूलकं फलं चान्यद् यद्यत्त्वपेक्षितं प्रभोः ।
तत्तत्सर्वं प्रदायैवाऽऽरार्त्रिकं दधिरे च ताः ।।७५।।
दण्डवत् नमनं स्तोत्रं प्रदक्षिणं सुमाऽञ्जलिम् ।
अपराधक्षमायाञ्चां चान्तिमार्घ्यं ददुः प्रगे ।।७६।।
मध्याह्नेऽपि तथा चक्रुः सेवनं निशि चापि ताः ।
रात्रौ जागरणं चक्रुर्नर्तनं गायनादिभिः ।।७७।।
द्वादशैव च ताः कन्या हावभावसमन्वितम् ।
यथा कृष्णहरिर्नारायणः श्रीपुरुषोत्तमः ।।७८।।
शृंगाररसभावेन प्रसन्नः स्यात्पुमुत्तमः ।
आकृष्टः सन् दयालुः स दर्शनं च ददेद्यथा ।।७९।।
तथा ताभिर्महाहर्षैः कृतं नर्तनगायनम् ।
प्रातर्हरिर्ब्राह्मकाले प्रादुर्बभूव संहसन् ।।८०।।
युवा पुष्टः सुरूपश्च युवतीमानसाश्रयः ।
कोटिकामातिसौन्दर्यो वीर्यसंभृतगात्रकः ।।८ १।।
प्रतिरोमरतिव्याप्तः प्रत्यंगानंगभासितः ।
प्रसन्नोऽस्मि प्रसन्नोऽस्मि सेवया संवदन् मुहुः ।।८२।।
सेविका वरदानानि वृणुतेष्टानि सर्वथा ।
इन्द्राणीत्वं शिवात्वं वा ब्रह्माणीत्वं ततोऽपि च ।।८३।।
कृष्णात्वं वैष्णवीत्वं च ब्राह्मीत्वं तत्परं च वा ।
यद्यदिच्छा भवेत् तत्तद् ददाम्यद्य न संशयः ।।८४।।
द्वादशात्मभवतीभिर्जिता लोकाः परात्पराः ।
सेवया श्रद्धया भावनया स्नेहार्द्रयाऽङ्गनाः ।।८५।।
दास्योऽपि यूयमेवाऽद्याऽदास्यो जाता हि सेवया ।
मानसस्थं वृणुताऽद्य मा चिरं हृदयंगमाः ।।८६।।
सेविकानां सेवकोऽहं शास्त्रीणां शासकोऽस्म्यहम् ।
मित्राणीनामहं मित्रं वामानां दक्षिणोऽस्म्यहम् ।।८७।।
स्निग्धानां स्नेहिलश्चास्मि शरण्यानां तु रक्षकः ।
मदर्थत्यक्तसर्वस्वानां तु सर्वस्वदोऽस्म्यहम् ।।८८।।
तथा न तोषमाप्नोमि धनैर्भृत्यैश्च सेवया ।
यथा सन्तोषमाप्नोमि स्वेनैव कृतसेवया ।।८९।।
सेवकोऽहमहं स्वामी यत्र सेवा न भिद्यते ।
यत्र भक्तः स्वयं मां वै स्वयं भावेन सेवते ।।९०।।
तस्मात् प्रियाः प्रवदन्तु किं ददामि वदामि किम् ।
प्रियाभ्यः किं प्रयच्छामि सर्वस्वं हृदयान्वितम् ।।९१।।
प्रियाः प्राहुर्वयं सर्वा अर्पिताः परमात्मनि ।
सर्वकान्ते परे कान्ते पत्यौ श्रीपुरुषोत्तमे ।।९२।।
दासीनां तु तथा धर्मः सर्वार्पणं तु शास्तरि ।
प्रियाणां तु तथा धर्मः कान्ते सर्वार्पणं प्रिये ।।९३।।
स्वामिनश्च तथा धर्मोऽर्पितानां ग्रहणं सदा ।
कान्तप्रियस्य धर्मो वै कान्तानां प्रियकारिता ।।९४।।
प्रिया प्रियस्य सर्वस्वं प्रियः सर्वं प्रियाकृते ।
प्रियायाश्चापि सर्वस्वं प्रिय एव दयानिधिः ।।९५।।
इति चात्र महत्यर्थे यथेष्टं कुरु केशव ।
मानसं त्वयि सर्वस्वं चार्पितं कुरु यन्मतम् ।।९६।।
श्रुत्वा प्राह तदा कृष्णनारायणः प्रभूत्तमः ।
सर्वं वेद्मि तथा सर्वाः स्वीकरोमि हृदन्तरे ।।९७।।
बाह्यतोऽपि करान्धृत्वा करोमि हृदयंगमाः ।
भवन्तु मत्करस्पर्शाद् दिव्यरूपधरा मम ।।९८।।
प्रियाः पत्न्यो भवन्त्वक्षराख्ये धामनि सर्वदा ।
जोष्ट्री मम स्वरूपेऽस्तु तेजोमयी तु शक्तिका ।।९९।।
सर्वानन्दप्रदा देवी चिन्मयी मत्स्वरूपिणी ।
सच्चिदानन्दरूपे मे चिन्मयी सा मया कृता ।। १० ०।।
अन्याश्च द्वादशपत्न्यः सन्तु शाश्वतिका मम ।
तत्तन्नाम्ना तु ताः पत्न्यस्तत्र वसन्तु मद्गृहे ।। १०१ ।।
मत्समाकृतयः सर्वाः पत्न्यस्ता अर्थतो यथा ।
मां विनाऽन्यसुखादेर्याऽशनं नैव करोति हि ।। १०२।।
इति सार्थाऽनशनाख्या, पिपासां त्वर्थतः शृणु ।
मद्रसं सर्वदा पातुमिच्छति नान्यमेव या ।। १०३।।
सा पिपासा मया पत्नी रक्षिता मत्स्वरूपिणी ।
अथाऽशना मम पत्नी या समश्नाति मां सदा ।। १०४।।
सर्वान् कामानश्नुते सा ब्रह्मणा विदुषा सह ।
इति सार्थाऽशनाख्या सा पत्नी मे रक्षिता मया ।। १ ०५।।
या च स्वात्मनि नित्यं मां परं वासयते पतिम् ।
सा मया भावपूर्णा वासना पत्नी सुरक्षिता ।। १०६ ।।
यस्या नामाऽत्र वक्तव्यं भावना भाविता मया ।
आयाति मत्करं धृत्वा कराया मे प्रिया हि सा ।। १ ०७।।
कं सुखं मत्परानन्दं शं लक्ष्मीं दिव्यसंपदम् ।
सेवया याति गृह्णाति मत्तो या सा करायिका ।। १ ०८।।
मदर्थमेव सर्वस्वं कृतं क्रियात्मकं यया ।
इति निश्चयसार्थक्या व्यवसाया प्रिया मम ।। १ ०९।।
सोढुं योग्या मम सर्वा क्रियाऽऽज्ञा सा प्रिया मम ।
प्रकर्षेण सहते या मद्रतिं सा प्रसह्यका ।। ११० ।।
मदर्थे सर्वथा दिव्या विलस्यति मदर्थिका ।
विलासाख्या मम पत्नी मेऽनुविलासकारिणी ।। ११ १।।
यस्याः श्वासो विना मां तु स्थातुं शक्तो भवेन्नहि ।
यस्या ह्यहं च मे साऽस्ति पतिर्मेऽस्ति सुखाय वै ।। १ १२।।
इति विश्वासमापन्ना विश्वासा सा मम प्रिया ।
मां विना जीवनं श्वासो नास्ति यस्याः प्रतिक्षणम् ।। ११ ३।।
मेहति वर्षते पत्यौ प्रेम वर्षयति प्रभौ ।
मयि स्नेहं करोत्येव मेघा सा मत्प्रिया मता ।। १ १४।।
सर्वं कर्मं मयि या स्वां दमयतिभावतः ।
मदर्थं दमनं यस्याः कर्मणां कर्दमा प्रिया ।। १ १५।।
कुं क्षेत्रं स्वात्मकं या भावयति मत्कृतेऽन्वहम् ।
कुंभे जलं यथा तद्वन्मां बिभर्ति निजात्मनि ।। ११६ ।।
सा पत्नी कुंभिका मेऽस्ति यूयं पत्न्यः प्रकीर्तिताः ।
दिव्या यास्ता द्वादशैवाऽक्षरे धाम्नि वसन्तु मे ।। १ १७।।
अथाऽन्यैस्तु स्वरूपैर्द्वादशशक्त्यात्मिकास्तु वै ।
वर्तन्तामन्यरूपिण्यो महाकालाय चार्पिता ।। १ १८।।
ततो विश्वं संव्यक्रामत् साशनाऽनशने ह्यभि ।
पिपासया प्रवाहस्तु धावत्यग्रेऽस्य संसृतेः ।। १ १९।।
वासनया वसत्येतज्जडचेतनमिश्रितम् ।
करायया भवत्यत्र विनिमयस्तु देहिनोः ।। १२ ०।।
धार्यते पुष्यते कालवाहया व्यवसायया ।
प्रसह्यया क्षमते त्वार्तवान् द्वन्द्वाँश्च वत्सरः ।। १२१ ।।
विलासया श्रमं हापयित्वा जीवान् युनक्ति सः ।
विश्वासया फले लोभात्प्रवर्तन्ते तु देहिनः ।। १२२।।
मेघया स्नेहवृष्ट्या वै रञ्जयन्ति प्रजाः समाः ।
कर्दमया प्रजा भूता मयि तिष्ठन्ति कर्दमे ।। १२३ ।।
कुंभेष्वत्र गोलकेषु ब्रह्माण्डेषु च सर्वथा ।
तत्तत्स्थाने स्थापयित्री कुंभिका रक्षिका मता ।। १ २४।।
एवं कालस्य मच्छक्तिभूतस्य शक्तयोऽन्वहम् ।
भवन्तु कार्यकारिण्यो लोके कालाय चार्पिताः ।। १ २५।।
अथ यत्र जोष्ट्रिकायाः पुत्र्यः सन्त्युषिता यथा ।
तास्तथैव तु वेधः कृद्ब्रह्माण्डेऽपि वसन्त्विति ।। १२६ ।।
वसन्तु श्रीकृष्णनारायणस्य मम वाच्छया ।
तृतीयैस्तु स्वरूपैः स्वैर्ज्योष्ट्रीजनन्य एव ह ।। १ २७।।
एवं त्रिविधरूपैर्वै मया सम्यङ्नियोजिताः ।
कुर्वन्तु दास्यमेवाऽत्र महाकाले तथा मयि ।। १२८।।।
भवतीनामहं स्वामी पतिः श्रीपुरुषोत्तमः ।
रमन्तां तु मया सार्धं स्वतन्त्रा अक्षरे परे ।। १२९।।
तथाऽन्या मच्छक्तिरूपमहाकालसहायिकाः ।
तथाऽपरा मम सृष्टौ तत्तत्कार्यवहाः सदा ।। १३०।।
इति त्रेधा मया दत्तं भवतीभ्यः प्रसेवनम् ।
द्वादश्यास्तु व्रतस्यैव फलं दत्तं हि शाश्वतम् ।। १३ १।।
इत्युक्त्वा भगवान् कृष्णनारायणः पुमुत्तमः ।
दिव्यास्ताः सह नीत्वैव व्यवस्थाप्य तथाऽपराः ।। १ ३२।।
महाकालाय दत्वाऽन्या ययौ धामाऽक्षरं हरिः ।
वद लक्ष्मि! कृपापारावारः कृष्णः पुमुत्तमः ।। १३३।।
किं किं ददाति कृपया स्वल्पस्याऽनन्तकं फलम् ।
इति ते कथितं सर्वं जोष्ट्रीदेव्याः कथानकम् ।। १३४।।
देवी जोष्ट्री वसुधिती देवमिन्द्रं वयोधसम् ।
प्राप्याऽवर्धत बृहती ब्राह्म्यास पुरुषोत्तमम् ।। १ ३५।।
य इदं श्रावयेच्चापि शृणुयाद्वा पठेच्च वा ।
तस्यापि तादृशं स्याच्च फलं व्रतस्य निश्चितम् ।। १३६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैराजपुत्र्या जोष्ट्र्या अनशनादि- द्वादशपुत्रीणां सेवया द्वादश्याव्रतेन च प्रसन्नस्य पुरुषोत्तमनारायणस्य प्राप्तिस्त्रेधारूपधारणादिक चेत्यादिनिरूपणनामैकोनविंशाधिकत्रिशत-तमोऽध्यायः ।। १.३१९ ।।