← अध्यायः ३८७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८८
[[लेखकः :|]]
अध्यायः ३८९ →

श्रीनारायण उवाच
श्रृणु लक्ष्मि ! प्रवक्ष्यामि धरण्या नन्दयोषितः ।
पतिव्रतायाश्चारित्र्यं चमत्कारसमन्वितम् ।। १ ।।
जम्बूद्वीपस्य राजाऽभून्नन्दसावर्णिसंज्ञकः ।
समुद्रो यस्य राज्यस्य परिखाऽभूत्समन्ततः ॥ २ ॥
वाराहस्य प्रभोर्भक्तो रतो वाराहपूजने ।
वाराहे च महाक्षेत्रे नित्यं विज्ञानसत्पथाः ।। ३ ।।
समागम्य परां भक्तिं करोति देववाञ्छिताम् ।
हिरण्याक्षहृतां पृथ्वीमानेतुं भगवान् स्वयम् ।। ४ ।।
वाराहरूपमास्थाय हिरण्याक्षं निहत्य च ।
पृथ्वीं स चाऽऽनयामासाऽस्थापयत्तां जलोपरि ॥ ५ ॥
 तदाऽऽकाशे विमानेन भ्रमता नन्दभूभृता ।
वाराहन्तु महद्रूपं दृष्टं ब्रह्माण्डनायकम् ॥ ६ ।।
अवतीर्य विमानात् सः स्तुतिं तस्याऽकरोत्तदा । ।
नमोऽनन्तस्वरूपाय पुरुषोत्तमनामिने ।। ७ । ।
स्वलोकाऽवनसंकर्त्रे धरित्र्याः पतये नमः ।।
सर्वतत्त्वनिवासायाऽक्षराधीशाय ते नमः ||८ ll
कृष्णनारायणायाऽस्तु नमस्कारस्तु मे पुनः ।
त्वया पृथ्वी कृपयाऽद्य रक्षिता रक्षिता वयम् || ९ ||
अनाधाराश्च राजान: प्रजाश्चाऽप्यविताः प्रभो ! ।
रक्षणार्थे प्रजानां वै करोषि नूतनं वपुः ॥1.388.१०॥
सर्वशक्तिनिवासोऽसि सर्वरूपात्मने नम: ॥
इति स्तुत्वा ननामाऽसौ राजा वाराहपाद्योः ॥११॥
वाराहस्तु प्रसन्नः सन् प्राह राज्ञे वराय वै ।
ब्रूहि राजन् प्रसन्नोऽस्मि किं ते मनसि वर्तते ॥१२॥
वद् दास्ये मनोऽभीष्टं सदा भक्तेष्टदोऽस्म्यह्म् ।
इत्युक्तः स उवाचैनं प्रसन्नं परमेश्वरम् ॥१३॥
किं वृणोमि कृपासिन्धो धरणिं देहि मे पुनः ।
हिरण्याक्षहृतां चेलां त्वद्दतां पालयाम्यहम् ॥१४॥
मद्गृहे धरणिश्चाऽस्तु कुरु मां धरणीपतिम् ।
विना धरणिं राज्ञस्तु जीवनं निष्फलं यतः ॥१५॥
वाराहस्तु तदा प्राह तथास्त्विति नृपं तत: ।
नन्दसावर्णिरात्मेशं वाराहं समपूजयत् ॥१६॥
पत्रैः पुष्पैः फलैस्तोयैरन्नैः कन्दैस्तथाऽक्षतैः ।
रत्नैर्हीरकमण्यादिहारैश्चन्दनकुंकुमैः {{१७{
सौवर्णकटकैश्चापि कानकैश्च विभूषणैः ।
मुकुटोर्मिककटकैः शृङ्खलाकुण्डलादिभिः ॥१८॥
नूपुरैः किंकिणीयुक्तैर्वस्त्रैः सुगन्धवारिणा ।
धूपदीपैः स्तवनैश्च क्षमाऽपराधवन्द्नैः ॥१९।।
वाराहं नित्यमेवाऽसौ प्रातः संपूज्य वै नृपः ।
ततोऽन्यत् प्रकरोत्येव सात्वतो वैष्णवो महान् ॥1.388.२०।।
वाराहः सुप्रसन्नः सन् राज्ञे वै मुकुटं ददौ ।
आापरिखं तव राज्यं जम्बूद्वीपे ऽस्तु सर्वशः ॥२१।।
धरणिश्च भवत्वद्य ते पत्नी सुपतिव्रता ।
इत्युक्त्वा भगवान्नन्दसावर्णिं तिलकं व्यधात् ॥२२॥
आनीतां पृथिवीं तस्यै ददौ राज्यप्ररेखया ।
ततः श्रीभगवान् प्राह धरणिं दिव्यरूपिणीम् ॥२३॥
भज देवि! सतीरूपा राज्ञी भूत्वा नृपं सदा ।
नत्वा तु धरणी नारायणं त्वभ्यर्च्य भावतः ॥२४॥
तदाज्ञां मस्तके धृत्वा कन्यारूपं दधार सा ।
वाराहमानसी देवी द्वयष्टवर्षाऽतिसुन्दरी ॥२५॥
जातमात्रा युवत्येव सपुष्पमालिका शुभा ।
सर्वलक्षणसम्पन्ना । स्वामिधर्मपरायणा ॥२६॥

वाराहेणाऽर्पितां मालां दधाना करयोस्तदा ।
वाराहस्य निदेशेनाऽर्पयामास गले शुभे ॥२७॥
वरयामास भावेन नन्दसावर्णिमेव सा ।
वाराहं दम्पती प्रदक्षिणीकृत्य प्रणेमतुः ॥२८॥l
वाराहं पूजयामासतुश्च साक्षाज्जनार्दनम् ।
धरित्री पूजयामास नित्यं नारायणं पतिम् ॥२९॥
तथा तदाज्ञया नन्द्सावर्णिं पतिमुत्तमम् ।
नित्यं वसुन्धरा स्नात्वा मुदा षोडशवस्तुभिः ॥1.388.३०ll
वाराहं प्राक्पतिं सम्यक् पूजयित्वा ततस्तु तम् ।
भोजयित्वा च वन्दित्वा ततो नन्दं वधूत्तमा ।।३१।।
पूजयत्येव भावेन भोजयत्येव भावतः ।
सेवते भूभृतं नित्यं भूमिर्द्वितीयवर्ष्मणा ॥३२l।
एवं भूर्भगवत्सेवां नन्दसेवां च भावतः ।
 करोत्येव सदा पातिव्रत्यधर्मेण मेदिनी ॥३३॥
यस्यास्तु भगवान् स्वामी रक्षकश्च नियामकः । ।
तस्याः सर्वे पातिव्रत्यधर्मास्तस्य निदेशने ॥३४॥
वाराहस्य वचः पातिव्रत्यं नन्दवचनस्तथा ।
भूरूपा सा वराहस्य पत्नी चापि निदेशतः ॥३५॥
कन्यारूपा वधूः साऽभून्नन्दसावर्णिभामिनी ।
नन्दं प्रसेवते नित्यं वाराहात्मानमेव सा॥३६॥
वाराहस्त्वेकदा प्राह धरणे ! शृणु मद्वचः ।
उपसंहर्तुमिच्छामि रूपं वाराहमेव मे ॥३७॥
वद किं तेऽस्त्यभीष्टं तद् ददाम्यत्र च मा चिरम् ।
धरणिस्तु परं शोकं त्ववापाऽश्रुत्य तद्वचः ।।३८।।
ववन्दे चरणौ तस्य वव्रे पूजार्थमुत्तमम् ।
रूपं भगवतस्तत्र दर्शनार्थे निरन्तरम् ॥३९॥
भगवान् धरणिं प्राह मे दन्तं ते ददामि यत् । ।
रक्ष पूजय संपश्य सेवयैनं यथा हि माम् ॥1.388.४०॥
इत्युक्त्वा प्रददौ दन्तं धरण्यै पूजनाय वै ।
दन्ते सामर्थ्यमत्युग्रं वर्तते तन्निबोध च ॥४१॥
अरण्ये पर्वते स्वर्गे पृथ्व्याद्यावरणेष्वपि ।
पाताळेषु समुद्रेषु वह्निष्वपि दिगन्तरे ॥४२।।
यत्र क्वापि गन्तुमिच्छे: सह नीत्वा रदं मम ।।
प्रयाहि धरणे ! यत्र तवेच्छा स्यादबाधिता ||४३॥
गतिस्ते स्यादहता वै दन्तयुक्ता सुखं व्रज ।
वह्निर्जलं विषं शैत्यं शिला वायुस्तथाऽम्बरम् ॥४४॥
बाधन्ते न रदं मे वै रदयुक्तं तथा जनम् ।
इत्युक्त्वा स्वरदं दत्वा दत्वाऽऽशीर्वादमुत्तमम् ।।४५।।
धरणिं नन्दसावर्णिं निभाल्याऽदृश्यतां ययौ ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ॥४६॥
देवाश्च मुनयः सर्वे विमानैस्तत्र चाययुः ।
तुष्टुवुर्धरणीनाथं वाराहं दिव्यरूपिणम् ||४७||
गच्छन्तं वै स्वकं धाम निन्युस्ते सोत्सवं हरिम् ।
अथाऽत्र धरणिः पत्नी सा नन्दस्य पतिव्रता ।४८।।
नित्यमर्च्चयति दन्तं वाराहपरमात्मन: |
सह नीत्वा विमानेन नन्दसावर्णिसंयुता ॥४९॥
क्वचिद्भूमौ क्वचित्सर्गे क्वचित्पातालविस्तरे ।
सामुद्रे सलिले क्षीरे सागरे च क्वचिद् ययौ ॥1.388.५०॥
एवं विहरतोः राज्ञीनृपयोर्बहुमानवाः ।
उपायनानि प्रददुः सुरर्षिपितरस्तथा ॥५१॥
पातालवासिनश्चापि स्वर्गदेवा जलेशयाः ।
मणिमाणिक्यरत्नानि हीरकमौक्तिकानि च ॥५२॥
सौवर्णं रौप्यकं ताम्रं तद्न्ये च रसायनम् ।
धात्वायनं सुधाद्यं च वर्यशस्त्रास्त्रमण्डलम् ।५३।।
यद्यदस्मै प्रदत्तं स्थानिभिस्तूपायनात्मकम् ।
नन्दो लोभाभिभूतश्च निनाय निजमन्दिरम् ॥५४॥
यदा द्रव्यस्य कोशादि धनादिभिः प्रपूरितम् ।
तदा विचारयामास कोषस्त्वन्यो ह्यपेक्ष्यते ॥५५॥
अक्षय्यश्चाऽप्यगम्यश्चाऽप्यदृश्यश्चाऽप्यगोचरः |
कर्तव्योऽयं मया कोषस्तादृशो भूमिगर्भके ॥५६॥
एवं विचार्य धरणिं पत्नीं पप्रच्छ तद्विधाम् । ।
पत्नी प्राह नृपं राजन् कोपं वार्धितले कुरु ॥५७॥
वाराहस्य रदस्तत्रः सहायोऽस्ति गतिप्रदः ।
रदं विना गतिर्नास्ति ते मे कुतोऽपरस्य तु ॥५८॥
इति विचार्य सरदो नृपो गत्वाsब्धिसन्निधौ ।
तावद् दन्तप्रभावेण मूर्तिमानब्धिरागतः ॥५९॥
ददौ मार्गं त्रसन् वारि संकुच्य नन्दभूभृते ।
नन्दो रत्नाकरे कृत्वा कोशं विशाळमद्भुतम् ॥1.388.६०॥
धनं रत्नादि यत्किंचित्सर्वं निहितवाँस्ततः ।
वार्धितले कृते कोशे दन्तसाहाय्यतः खलु ॥६१॥
अबाधिते कृते कोशे लोभस्तस्य व्यवर्धत ।
पृथ्वीधनानि सर्वाणि स्वर्णरौप्यादिकानि च ॥६२।।
आहृत्य नीत्वा तत्रैव निक्षिपत्येव सर्वदा ।
लोभवृत्तेर्न वै चान्तो भवत्यत्र विना तु शम् ॥६३॥
तावदस्याऽभवद् वृत्तिर्लोभाधीनाऽतिदुःखदा ।
सर्वा पृथ्वी प्रजाः सर्वा धनरिक्ता कृतास्ततः ॥६४॥
मृतानां भूगर्भगतशवानां मुखगं धनम् ।
धातुखण्डं ढब्बुक् वा तन्निखन्याऽपि चाहृतम् ॥६५॥
जम्बूद्वीपे यत्र यत्र शवं ज्ञायेत भूगतम् ।
खानयित्वा तु तद् द्रव्यं शवाऽऽस्यात् प्रसमाहृतम् ॥६६॥
धृतं दन्तसहायेन कोशे सामुद्रके तले ।
अथैकदा धरण्या वै भूभृते सन्निवेदितम् ॥६७॥
कुरु राजन्महायज्ञं वैष्णवं रौद्रमित्यपि ।
अश्वमेधं राजसूयं पृथ्व्यां सत्राणि कारय ||६८||
लक्ष्मीनारायणसंहिताया: पारायणं महत् । ।
चिरं सतां ब्रह्मयज्ञं मोक्षयज्ञं च कारय ||६९||
द्रव्यं तु नश्वरं वयं नश्वरा नश्वरं जगत् ।
सेश्वरं कार्यमाकृत्वा गच्छामः परमं पदम् ॥1.388.७०॥
इत्युक्तोऽपि महालोभी राजा धान्यं न वै ददौ ।
राज्ञी सा धरणी दिव्या नत्वा नन्दं पुनः पुनः ॥७१॥
वाराहं तु तदा स्मृत्वा तिरोऽभूत्तेन वर्ष्मणा । ।
राजा रुरोद् बहुधा सान्त्वयितः प्रजाजनैः ।।७२।।
यज्ञं चकार च पत्न्या वाक्यं स्मरन् शुशोच ह ।
नित्यं दन्तं वराहस्य पूजयत्येव भूपतिः ।।७३।।
लोभवृत्त्या धनं सर्वं पूर्ववदेव वै दता ।
सहायेन समं नीत्वा ररक्षाऽब्धितले तथा ॥७४॥
राज्ञी कृता द्वितीया पंकिला षोडशहायना ।
समुद्रपुत्री नन्देन कामळुब्धेन भूभृता ।।७५।।
समुद्रस्याऽभवल्लोभः कोशस्याऽक्षयवस्तुनः ।
पुत्रीं प्राह नृपश्चायं वाराहदन्तहेतुना।।७६।।
कोशं तले मे कृतवान् नित्यमायाति याति च । ।
नित्यं सेवा मया कार्या क्षोभो भवति मे जले ।।७७।।
तत्सर्वं परिहार्यं स्यात्तथा कर्तव्यमस्ति मे ।
श्रृणु पुत्रि ! मेरुपुत्री उपला नन्दभामिनी ॥७८॥
तद्द्वारा वै मया रोधः कर्तव्योऽत्र न संचरेत् । ।
गच्छाम्यहं कुबेराय विष्णवे ब्रह्मणे तथा ॥७९॥
निवेदयितुं नन्दस्य लोभवृत्तान्तमुल्बणम् ।
ततो यद्वै भावि तद्धि भविष्यति हरिकृतम् ।1.388.८०॥
यत्नोऽवश्यं प्रकर्तव्यः फलं माधवहस्तगम् ।
इत्युक्त्वा प्रययौ राजा कुबेरभवनं च तम् ॥८१॥
नीत्वा ययौ हरेर्लोकं विष्णवे प्राह तद्वृत्तम् ।
श्रुत्वा विष्णुर्नियमने कृतसंकल्प एव च ॥८२॥
सस्मार नारदं तूर्णं प्राह वृत्तान्तमेव तम् ।।
नारदस्तु तदा तर्कं संक्लृप्त्वा मानसे स्वके ॥८३॥
ययौ शीघ्रं नन्दसौधं नन्दो गृहे न वर्तते ।
उपलां नारदः प्राह कल्याणं वास्तु ते सति ! ।।८४।।
क्वाऽस्ति नन्दः पंकिला च अन्याः सख्यश्च ते सति ! ।
उपला तमृषिं दृष्ट्वा सत्कारं नमनादिकम् ।।८५।।
अर्घ्यादिकं कृतवती पप्रच्छागमकारणम् ।
नारदस्तु तदा प्राह श्रुतं स्वर्गे मयाऽस्ति यत् ।।८६।।
ऋतं वा तदनृतं वा त्वायातोऽहं परीक्षितुम् ।
प्रत्यक्षं तु विना वाणीगेयं मान्यं न विद्यते ॥८७॥
प्रत्यक्षेण कृतं सिद्धं परिहार्यं न जायते ।
विज्ञानिनश्च सम्राजो नन्दस्य चक्रवर्तिनः ।।८८।।
गौणं विषयिनिन्द्यं च श्रव्यं योग्यं न वै यतः ।
कृत्वा प्रत्यक्षमेवाऽहं पश्चाद् यास्ये दिवं पुनः ।।८९।।
देवा देवसभामध्ये वर्णयन्ति घृणामयम् ।
नन्दो मृताया धरणेरस्थिपूजां करोति हि ॥1.388.९०॥
अन्याश्च नूतना नार्य प्रेमपात्राणि नो तथा ।
यथा धरणिः पूर्वाऽऽसीत् प्रेमपात्रं यदस्थि च ।।९१।।
वदोपले ! त्वयि कीदृक् प्रेमास्ति नन्द्रभूभृतः ।
पंक्तिलायां तथाऽन्यासु स्नेहो नन्द्स्य कीदृशः।।९२।।
उपलाऽऽह तु देवर्षिं राजा मामन्तरा क्षणम् ।
स्थातुं भोक्तुं श्वसितुं च रन्तुं च जीवितुं तथा ॥९३॥
नैव शक्नोति देवर्षे भुंक्ते दृष्ट्वा ममाऽऽननम् ।
अन्यासु नेदृशः स्नेहो यथा मयि प्रवर्तते ॥९४॥
देवर्षिः प्राह सत्यं स्याद् यदि देवोक्तमनृतम् ।
देवोक्तं यदि सत्यं वै तवोक्तं त्वनृतं भवेत् ।।९५॥
यथा तव मुखं साध्वि नाऽदृष्ट्वा चात्ति भूपतिः ।
अदृष्ट्वा तु धरण्यस्थि न भुंक्ते नन्दभूपतिः ।।९६।।
कियत् सत्यं परीक्षस्व स्नेहोऽस्य कुत्र वाऽधिकः ।
दृष्ट्वाऽप्यहं गमिष्यामि पश्य पूजास्थवस्तुकम् ॥९७॥
इत्युक्ता ह्युपला शीघ्रं ययौ पूजास्थलं ततः ।
पूजावस्तूनि संदृष्ट्वा पूजापेटीं ददर्श सा ॥९८॥
तावत्तत्राऽस्थि संदृष्टं दन्तरूपं तथा तदा ।
भग्नहर्षा म्लानमुखा तेजोहीनाऽभवत् क्षणम् ॥९९॥
रोषताम्रानना जाता नारदः प्राह तां सतीम् ।
मा स्म खेदं कुरु राज्ञि ! संसारः सारवान्न वै ॥1.388.१००॥
सत्यं देवाः प्रवदन्ति राजा पत्न्यस्थिपूजकः ।
स्नेहोऽधिको धरण्यस्थि न त्वं नाऽस्यस्थिसमाऽपि वै ।।१०१।।
सापत्न्यं सान्तकृद् दुःखं धन्याऽसि सहसे सति ! ।
अशुद्धमस्थिं पूजायां रक्षितं हि श्मशानवत् ।।१०२।।
त्वां वै स्वर्गसमां त्यक्त्वा श्मशानं सेवते नृपः ।
दूरं कुरु श्मशानं तत् क्षिपाऽग्नौ भस्मतामियात् ॥१०३॥
स्नानं शुद्धिं कुरु वार्भिरित्युक्त्वा नारदो ययौ । ।
उपला चोपलातुल्या सपत्नीरोषवह्निना ।।१०४॥
दग्धा शीघ्रं वराहास्थिं चिक्षेपाग्नौ तदैव सा ।
नारदस्येच्छया हरेरिच्छाया वह्निरादहत् ।।१०५॥
अस्थिभस्मापि सरितो जले चिक्षेप रोषतः ।
सशोकरोषा गृहगा भोजनं नाऽकरोत् सती ॥१०६॥
राजा सायं त्वाजगाम नोवाच तं सती तदा । ।
प्रातः स्नात्वा तु पूजार्थं यावत्तिष्ठति पार्थिवः ।॥१०७॥
ददर्शाऽस्थि न पूजायां कोशस्य कुंचिकात्मकम् ।
ह्यशोच च क्षणे त्वां च पप्रच्छ मृतमानसः ॥१०८॥
क्वाऽस्थि गतं वद् देवि ! सर्वजीवनकारणम् ।
उपला प्राह चुल्लिकावह्नौ गतं तदस्थिकम् ॥१०९॥
तवाऽऽननं ह्यनालोक्य भुंजामि न कदापि च । ।
इति नो वंचनार्थाय मृषा राजन् विकत्थसे ॥1.388.११०॥
मृताया धरणेरस्थि पूजायां रक्ष्यते त्वया ।
यदग्रे तृणवन्मूल्यं कृतं नः सर्वथा त्वया ॥१११॥
मृषावादी स्वयं भूत्वा कथं वञ्चयसि प्रभो । ।
अस्थि दग्धं च तद्भस्म नद्यां प्रवाहिता मया ॥११२॥
कुरु स्नेहं मयि राजन् जीवतीषु प्रियासु च ।
मृतायां मा कुरु स्नेहं भवबन्धनकारकम् ॥११३॥
इत्युक्तः स धनलोभी राजा धनतदात्मकः ।
अनित्याऽशुचिदुःखानात्मसु संघातकारिषु ॥११४॥
नित्यशिचिसुखात्मख्यातिमान् हा हेति वै वदन्।
हृदयस्याऽतिरोधेन ममार नन्दपार्थिवः ॥११५॥
पत्न्यस्तं च तदा क्रोडे कृत्वा ताश्च सतीप्रियाः ।
देहान् प्रज्वाल्य वै स्वर्गे ययुर्वाराहयोगतः ॥११६॥
धरण्याश्च प्रतापेन वार्धिर्धनतलोऽभवत् ।
धरण्या धनसावर्णिस्ततो राज्यकरोऽभवत् ॥११७॥
तत्पुत्रो धर्मसावर्णिर्वेष्णुवोऽभूद् भुवः पतिः ।
श्रवणात्पठनाच्चास्य ज्ञानं स्वर्गं तथा भवेत् ॥११८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये नन्दराज्ञो भक्त्या वाराहेण धरणिः भार्या कुमारिका रूपान्तरेण तस्मै दत्ता, धरण्याः पातिव्रत्येन वरदानरूपं दन्तास्थि प्राप्तं, नन्देन तद्द्वारा समुद्रे धनकोशः कृतः, धरणिनिधनोत्तरं नारदेनागत्य सपत्न्या अस्थिपूजनं राजा करोतीति उपलायै कथयित्वाऽस्थि भस्मायितं, तदाघातेन राजा नन्दो ममारेत्यादिनिरूपणनामाऽष्टाशीत्यधिकत्रिशततमोऽध्यायः ॥३८८॥