← अध्यायः ४४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४१
[[लेखकः :|]]
अध्यायः ४४२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! यथा स्त्रीणां कृष्णस्याऽऽराधनं तथा ।
येन मुक्तिर्भवेच्चापि तं धर्मं प्रवदाम्यहम् ।। १ ।।
धर्मोढा या भवेत् पत्नी दशदोषविवर्जिता ।
अक्लीबाऽव्यङ्गिनी शस्ता महारोगाद्यदूषिता ।। २ ।।
अनिन्दिता शुभकला चक्षूरोगविवर्जिता।
बाधिर्यहीना चपला कन्या मधुरभाषिणी ।। ३ ।।
दूषणैर्दशभिर्हीना यथोक्तविधिना नरैः ।
विवाहिता तु सा पत्नी गृहिणी ख्यायते सती ।। ४ ।।
पुण्यकार्येषु सर्वेषु प्रथमा सा प्रतिष्ठति ।
तया सुविहितो धर्मः सम्पूर्णफलदो भवेत् ।। ५ ।।
कार्यं स्त्रीभिः सदा कृष्णं संस्मृत्य पञ्चयज्ञकम् ।
स्नानं च तर्पणं चापि वह्निहोमोऽच्युताऽर्चनम् ।। ६ ।।
अतिथेः सत्कृतिश्चेति पञ्चयज्ञान्न संत्यजेत् ।
पञ्चयज्ञैस्तु सन्तुष्टा भवन्ति पितृदेवताः ।। ७ ।।
स्त्रियाः पतिव्रतायास्तु पतिशुश्रूषया मुदा ।
पत्यात्मके हरौ तुष्टा भवन्ति पितृदेवताः ।। ८ ।।
पतिव्रताया देहे तु सर्वे देवा वसन्ति हि ।
अतस्तया स्वामिना युक्तया धर्मस्य चागमः ।। ९ ।।
उभयोर्मानसे चैक्ये सन्तुष्टाः पितृदेवताः ।
सर्वकार्यप्रसिद्धिश्च फलं सम्पद्यते शुभम् ।। 1.441.१० ।।
समानजातिसंभूता पत्नी विवाहिता भवेत् ।
तस्या भर्ताऽर्धभागी स्याद् धर्मकार्येषु सर्वथा ।। ११ ।।
अर्धदेहाधिकारोऽस्यास्तेन धर्मार्धधारिणी ।
पतिर्धर्मार्धधारी च द्वयोः शुभेऽशुभेऽपि च ।। १२।।
याऽनुगच्छति भर्तारं मृतं सुतपसा प्रिये! ।
साध्वी महासती ज्ञेया यया तूद्ध्रियते कुलम् ।। १३ ।।
यं कंचिद्वा पतिं मृतं धृता वाऽथ विवाहिता ।
वैश्वानरस्य मार्गेण सा तमुद्धरते पतिम् ।। १४।।
यथा तु तारको मज्जन्तं समुद्धरते जलात् ।
तथा चोद्धरते साध्वी भर्तारं याऽनुगच्छति ।। १५ ।।
या कन्या स्वयमुद्यम्य पित्रा दत्ता वराय सा ।
विवाहविधिनोदूढा पितृदेवार्थसाधिनी ।।१६ ।।
विवाहा दशधा. प्रोक्तास्तदन्यतममेव या ।
अवलम्ब्य पतिं प्राप्ता सा समुद्धरते कुलम् ।। १७।।
पुनर्विवाहिता साऽपि सती चेत् कुलतारिणी ।
क्रयक्रीता भवेद् दासी किन्तु चेत् सा विवाहिता ।। १८।।
सती प्रोक्ता धर्मवती सा समुद्धरते कुलम् ।
पवित्रकुलजा रङ्का धर्मोढा यदि साध्विका ।। १ ९।।
सा पुनाति कुलं सर्वं पातिव्रत्यप्रभावतः ।
प्राजापत्यस्तथा ब्राह्मो दैवाऽऽर्षौ ते सदुत्तमाः ।।1.441.२०।।
गान्धर्वश्चासुरश्चापि राक्षसश्च पिशाचकः ।
प्रातिभो घातकश्चेति विवाहाः कथिता दश ।।२१ ।।
औरसः क्षेत्रजश्चापि दत्त कृत्रिम इत्यपि ।
गूढोत्पन्नोऽपविद्धश्च कानीनश्च सहोढजः ।। २२
क्रीतः पौनर्भवश्चापि पुत्रास्ते दशधा मताः ।
एवं सुतसुतादारपतिपितृकुटुम्बिनः ।। २३ ।।
पातिव्रत्येन तीर्यन्ते सतीभिः कृष्णसेवया ।
देववद् दिवि दीव्यन्ति स्त्रियः सत्यः पतिव्रताः ।। २४।।
सर्वासां योषितां लक्ष्मि कृष्णभक्तिः सदा शुभा ।
शुद्ध्यर्थं सद्गुरोः सेवा गुरुपूजा सदोदिता ।। २५।।
स्वर्गार्थे स्वामिनः सेवा पतिपूजा सदोदिता ।
मोक्षार्थे श्रीकृष्णनारायणार्पणं तु योषिताम् ।।२६।।
एवं धर्मे समाश्रित्य शूद्रः पैजवनः पुरा ।
साध्व्या स्वभार्यया साकं कृष्णलोकं ययौ पुरा ।।२७।।
आसीत् स धर्मनिरतो विष्णुब्राह्मणपूजकः ।
न्यायाऽऽगतधने तुष्टः स्त्रीयुतः सेवकः सताम् ।। २८ ।।
सत्यवादी वैष्णावोऽभूत् तस्य भार्या च सुन्दरी ।
धर्मोढा तूक्तविधिना समानकुलजा शुभा ।। २ ९।।
पतिव्रता महाभागा देवद्विजहिते रता ।
काश्यां सम्बन्धिता कन्या वैजयन्त्यां विवाहिता ।।1.441.३ ० ।।
सा धर्माचरणे दक्षा वैष्णवव्रतधारिणी ।
भर्तारं श्रीकृष्णनारायणं ज्ञात्वा प्रसेवते ।। ३१ ।।
अर्थाप्तिः सुकृतपुण्यैर्वर्धतेऽस्या गृहे सदा ।
वाणिज्येन सफलेन व्यापारेण सतीपतेः ।। ३ २ ।।
एवमर्थश्च बहुधा संजातो धर्मदर्शिनः ।
पुत्रद्वयं च सञ्जातं पुत्र्यश्चेति च वैष्णवाः ।। ३३ ।।
कृष्णनारायणभक्ताः पितृसेवापरायणाः ।
पित्रोः शुश्रूषणे रक्ताः पत्नी पतिव्रता सदा ।। ३४।।
सर्वे संपूज्यपूजां संकुर्वन्ति सेवनादिकम् ।
कृप्णनारायणं स्मृत्वा पूजयन्त्यतिथींस्तथा ।। ३१।।
ऋद्धिमद्भवनं तेषां धनधान्यसमन्वितम् ।
गृहागतो न विमुखो येषां याति कदाचन ।। ३६ ।।
शीतकाले धनं प्रादुरुष्णकाले जलाऽन्नदाः ।
वर्षाकाले वस्त्रदाश्च बभूवान्नप्रदाः सदा ।। ३७।।
वापीकूपतडागादिप्रपादेवगृहाणि च ।
कारयन्त्युचिते काले कृष्णभक्तिव्रतस्थिताः ।। ३८।।।
पंक्तिभेदो गृहे नैषां समभागेन तोषिणः ।
एवं वै वर्तमानानां गृहे श्रीगालवो मुनिः ।।३ ९।।
समाजगाम बहुभिर्भक्तशिष्यैः समावृतः ।
सुन्दरीसहितः पैजवनः पुत्रादिसंयुतः ।।1.441.४०।।
स्वागतं कृतवाँस्तस्य चाभ्युत्थानासनादिभिः।
अतिहर्षं गतस्तत्र पादयोर्जलमापिबन् ।।४१ ।।
कृतार्थं मानयन् नैजं कुटुम्बं समुवाच सः ।
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ।।४२।।
अद्य मे सफलो धर्मः सकुलश्चोद्धृतस्त्वया ।
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने! ।।४३।।
हरिर्नारायणः कृष्णो गालवो मे गृहागतः ।
गृहं मम गृहस्थस्य कृष्णेन पावितं त्वया ।।४४।।
इति श्रुत्वा महाभक्त्या गतमार्गपरिश्रमः ।
प्रसन्नो गालवः शूद्रं पप्रच्छ कुशलं बहु ।।४५।।
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ।
कृष्णार्थकृतसर्वस्वाः कच्चित्ते दारबालकाः ।।४६।।
कृष्णनारायणे कच्चिद्भक्तिस्ते दानपूर्विका ।
धर्मार्थकाममोक्षेषु सस्नेहं मानसं तु वै ।।४७।।
विष्णुपादोदकं नित्यं शिरसा धार्यते नु किम् ।
सतीयं सर्वथा कृष्णकान्तसेवापरा नु किम् ।।४८।।
सत्या वै धार्यते सर्वं सत्या संरक्ष्यते तथा ।
सत्या निस्तीर्यते दुःखात् सती सुखादिसाधनम् ।।४९।।
स इत्युक्तः पैजवनः प्रत्युवाच कृपा तव ।
यन्मे सर्वं तथा त्वास्ते विशेषोऽनुग्रहस्तव ।।1.441.५०।।
शाधि मां सेवकं मत्वा सेविका तु सतीमिमाम् ।
सेवकाँश्च सुतान् सुताः प्रस्तुतागमकारणम् ।।५१ ।।
गालवस्तान् समुवाच यस्य भक्तिः सदाऽच्युते ।
यस्य भार्या सती साध्वी पतिकृष्णपतिव्रता ।।५२।।
यस्य पुत्रा हरेर्दासा दास्यः पुत्र्यः सतो हरेः ।
कुटुम्बं बान्धवाद्याश्च वैष्णवा यस्य पावनाः ।।५३ ।।
एतेषां संगमे तीर्थे मुक्तिः क्वापि न दुर्लभा ।
कुटुम्बं वैष्णवं यद्धि ब्रह्मपिण्डमिदं शुभम् ।।५४।।
यस्य संदर्शनादेव पूतो भवति चाघवान् ।
निर्गुणस्य कृष्णनारायणस्य योगतस्तव ।।५५।।
सर्वं निर्गुणतां प्राप्तं भक्तियुग् दासधर्मतः ।
स्त्रीणामपि च साध्वीनां भक्तियुग् दासधर्मता ।।।६६।।
प्रेमधर्मो बल्लवीनां शबर्याश्च हरावभूत् ।
पिङ्गलायाः प्रेमधर्मो मुक्तिदः पावनोऽभवत् ।।५७।।
कृष्णश्वेतगिरेः पुत्र्याः प्रेमधर्मोऽभवच्छिवे ।
तेन वर्षसहस्रान्ते सम्प्राप सा महेश्वरम् ।।५८।।
पार्वत्याश्च प्रभायाश्च ललितायास्तथा प्रिये! ।
लक्ष्म्या जयाया माणिक्यायाश्च स्नेहोऽतिकाष्ठगः ।।५९।।
अभवच्छ्रीकृष्णनारायणेऽवापुश्च ताः पतिम् ।
वृन्दायाश्च तुलस्याश्च विवाहः स्नेहमूलगः ।।1.441.६० ।।
तुलसीपत्रकैः कृष्णार्चया मोक्षो भवेद् ध्रुवम् ।
स्नेहमूलो हरौ मोक्षः सत्याः पत्यौ तथा मतः ।।६१ ।।
वृन्दाद्या अपि लोकानां तारकाश्चाऽभवन् क्षितौ ।
शृणु भक्तैकदा सर्वे पितरो हि पुरा युगे ।।६२।।
ययुर्भोजनतृप्त्यर्थं ब्रह्माणं शरणं तदा ।
तृप्त्यर्थं सलिलं यद्यद् वरुणाधिष्ठितं शुभम् ।।६३।।
विना तु तर्पणैर्नैव ग्राह्यं नो पितॄणां यतः ।
केनापि दीयमानं तद् ग्राह्यं भवति तृप्तिकृत् ।।६४।।
तस्मादस्मत्प्रतृप्त्यर्थं किञ्चिद्विधेहि पूर्वज ।
इत्यर्थितस्तदा ब्रह्मा श्रीकृष्णशरणं ययौ ।।६५।।
प्रार्थयामास तृप्त्यर्थं पितॄणां तु जलाप्तये ।
तदा भगवता श्रीमत्कृष्णनारायणेन वै ।।६६।।
क्षणं विचार्य कथितं सर्वात्मा भगवानहम् ।
सर्वेषां तृप्तिकृच्चास्मि नान्यो भवति तादृशः ।।६७।।
तस्मान्मया यथा तेषां तृप्तिः स्यात् कार्यमेव तत् ।
सर्वे जनाश्च मां कुत्र प्राप्स्यन्ति दिव्यरूपिणम् ।।६८।।
तस्मान्मया शुभं रूपं जलतर्पणहेतवे ।
धारणीयं जगत्प्राणिदत्तकल्याणकृद्भवेत् ।।६९।।
विचार्येत्थं स्वयं कृष्णोऽश्वत्थरूपो बभूव ह ।
पिप्पलो मूर्तिमान् भूत्वा दिव्यदेहो जनार्दनः ।।1.441.७०।।
रेवताद्रौ कृष्णनारायणदामोदरस्थले ।
द्वाभ्यां पूर्वं कृतं श्राद्धं तत्र नारायणे ह्रदे ।।७१ ।।
तस्थौ तदा प्लक्षमूले कृष्णद्वयेन मन्त्रतः ।
जलं प्रदत्तं तीर्थस्य तृप्तास्ते पितरस्ततः ।।७२।।
एवं श्रीमत्कृष्णनारायणः श्रीभगवान् स्वयम् ।
प्लक्षाऽवतारं धृतवान् रैवताद्रौ पुरा युगे ।।७३।।
अथर्षिभिर्जलदानं पिप्पलस्य सदा कृतम् ।
पिप्पलेऽर्पितसलिलं त्रैलोक्यां प्राप्यते गतैः ।।७४।।
अथ देवा महेन्द्राद्याः शिवाद्या वैष्णवास्तथा ।
कृष्णं लोकयितुं तत्र ययुर्नारायणे ह्रदे ।।७५।।
स्वर्णरेखानदीतीरे वने कृष्णः प्रमार्गितः ।
अन्वेष्यमाणोऽपि हरिः कैश्चित्तत्र हि मायया ।।७६।।
वृक्षरूपो हि भगवान् विज्ञातो नैव नैव च ।
ततो देवा बृहस्पतिं प्राहुर्वै भगवान् हरिः ।।७७।।
द्रुमता संगतः सोऽयं कथं द्रष्टुं हि शक्यते ।
तदा बृहस्पतिः प्राह वृक्षश्चेद् द्रष्टुमीष्यते ।।७८।
वृक्षनेत्रैर्वृक्षरूपो हरिः प्रत्यक्षतां व्रजेत् ।
इत्युक्तास्ते सुराः सर्वे नारायणह्रदाऽन्तिके ।।७९।।
वृक्षरूपधरा जातास्तदा कृष्णं प्रवीक्षितुम् ।
श्रीस्तत्र तुलसीरूपा पार्वतीभालबिन्दुजः ।।1.441.८ ० ।।
महातरुर्बिल्वसंज्ञः पार्वती बिल्वरूपिणी ।
जाता तत्र तदा ब्रह्मा वटरूपो बभूव ह ।।८ १ ।।
सावित्री तिलगुल्माख्या सतिला संबभूव ह ।
महेन्द्रो यववृक्षोऽभूच्चूतवृक्षाः प्रजेश्वराः ।।८२।।।
गन्धर्वा मलयवृक्षा अगुरुश्च गणाधिपः ।
समुद्रा वैतसवृक्षा यक्षाः पुन्नागभूरुहाः ।।८३ ।।
नागवृक्षास्तदा नागाः सिद्धाः कंकोलकद्रुमाः ।
गुह्यकाः पनसवृक्षाः किन्नरा मरिचद्रुमाः ।।८४।।
यष्टिमधुद्रुः कन्दर्पो वह्निः रक्तांजनद्रुमः ।
यमो बिभीतकवृक्षो निर्ऋतिर्बकुलद्रुमः ।।८५ ।।
वरुणः खर्जुरीवृक्षः पूगवृक्षस्तु मारुतः ।
धनदोऽक्षोटकवृक्षो रुद्रास्तु बदरीद्रुमाः ।।।८६।।।
सप्तर्षयो महाताला एलाद्रुमाः परे सुराः ।
जम्बूवृक्षास्तदा मेघा अशोका विद्युतोऽभवन् ।।८७।।
प्रियाला वसवो जाता आदित्यास्तु जपाद्रुमाः ।
मदनौ तु तदाऽश्विनीकुमारकौ बभूवतुः ।।८८ ।।
विश्वेदेवास्तु मधुका राक्षसा गुग्गुलद्रुमाः ।
सूर्यस्त्वर्कद्रुमश्चाथ पलाशश्चन्द्रमाऽभवत् ।। ८९।।
मंगलः खदिरो जातश्चापामार्गो बुधोऽभवत्। ।
बृहस्पतिस्तदाऽश्वत्थः शुक्रो ह्युदुम्बरोऽभवत् ।। 1.441.९० ।।
शनैश्चरः शमीवृक्षो राहुर्दुर्वात्मकोऽभवत् ।
केतुर्दर्भस्वरूपोऽभूत्तथा फलद्रुमोऽपि सः ।। ९१ ।।
सत्यस्ता देवपत्न्यो बभूवुर्वल्लयस्तदा ।
विष्णुः शालस्वरूपोऽभूत् ह्यपामार्गोऽस्य वाहनः ।। ९२।।
श्रीवत्सोऽभूत् कल्पवृक्षः कार्तिकश्चम्पको ह्यभूत् ।
नारदोऽभूत्पारिजातो गौरी वृन्दाऽभवत्तदा ।। ९३ ।।
लक्ष्मीस्तु मालती जाता धात्री सरस्वती ह्यभूत् ।
अथ स्थलान्तरेऽरण्ये तत्रैव बहुरूपधृक् ।।९४।।
अश्वत्थरूपी भगवान् विष्णुर्जातः सुरूपधृक् ।
वटरूपोऽभवद्रुद्रो ब्रह्मा पलाशरूपधृक् ।। ९९।।
धवलद्रुस्तदा नन्दी शंभुर्बिल्वस्वरूपधृक् ।
इन्द्रः शिरीषरूपोऽभून्निम्ववृक्षः प्रभाकरः ।।९६।।
शिवाशिवौ बिल्ववृक्षौ शिवा वृन्दास्वरूपिणी।
ब्रह्मारुद्रौ वटवृक्षौ ब्रह्मा पलाशरूपवान् । ।। ९७ ।।
चन्द्रमाश्च पलाशोऽभून्निम्बार्कौ सूर्यरूपिणौ ।
अश्वत्थरूपौ विप्णुबृहस्पती चेति वै द्विधा । । ९८ ।।
तत्तद्वृक्षेऽवान्तरजातीयकौ तौ मतौ तदा ।
एते कृष्णं द्रुस्वरूपा द्रुनेत्रैस्तं व्यलोकयन् ।। ९९ ।।
महत्पत्रान्वितोऽश्वत्थो दृष्टो नारायणे ह्रदे ।
कृष्णस्तेन स्वरूपेण जलाऽऽदानस्य हेतवे । । 1.441.१०० ।।
पितॄणां तृप्तिलाभाय वर्तते स्म कृपालयः ।
तन्मूले ब्राह्मणैश्चापि नारायणद्वयेन च । । १०१ ।।
पत्नीव्रतेन देवेनार्पितं स्वर्णनदीजलम् ।
तत्सर्वं श्रीकृष्णनारायणार्पितं तु पितृषु । । १०२ । ।
प्राप्तं तृप्तिप्रदं जातं तस्मात् पिप्पलमर्चयेत ।
तद्वशाश्चापि ते वृक्षाः स्थास्यन्ति पितुमोक्षदाः ।। १०३ ।।
यावत्कृष्णः पिप्पलद्रुः स्थास्थत्याप्रलयं क्षितेः ।
सर्वेषां मोक्षदाश्चैते देवद्रुमाः सुपूजिताः ।। १०८ । ।
स्त्रीणां तथाऽन्यवर्णानां मोक्षदाः सेवनाद्धि ते ।
इत्युक्त्वा जलमादाय दत्वा पितृभ्य एव सः । । १ ०९। ।
कृष्णो ययौ निजं लोकं मूल्ररूपेण गोस्थलम् ।
देवाः स्वं स्वं ययुर्लोकं कृष्णभक्तिपरायणाः । । १०६ ।।
गालवस्य मुखात्त्वेतत् पैजवनस्त्रिया श्रुतम् ।
सुन्दर्या च तदा संकल्पितं पतिव्रतं मुहुः । । १० ७ । ।
यथा वै गालवश्चायं प्रकाशयति देवताः ।
यदि ताः सत्यरूपाः स्युर्द्रुमात्मानः सुरादयः ।। १०८ ।।
तद्वा मे दर्शनं भूयात्तेषां तत्तत्स्वरूपतः ।
यद्यहं पतिधर्माऽस्मि पातिव्रत्यपरायणा ।। १०९ । ।
इति संकल्पिते लक्ष्मि! सर्वे देवाः समाययुः ।
वृक्षवल्लीस्वरूपाश्च तया दृष्टास्तथात्मकाः ।। 1.441.११ ० । ।
पुनः संकल्पितं तत्र सुन्दर्या स्यां पतिव्रता ।
तदा गालवशिष्याणां भोजनानि भवन्त्विति ।। १११ । ।
तावत् तत्र सुमिष्टान्नपर्वतास्त्वभवन् प्रिये ।
सशिष्यो गालवो भुक्त्वा ययौ स्वाश्रमं प्रिये । । ११२ । ।
देवता स्वस्वरूपाश्च सत्कृताः स्वस्थलं ययुः ।
तदारभ्य सतीनार्यः पूजयन्ति द्रुमान् मुहुः । । ११३ ।।
यज्ञे पवित्ररूपास्ते देवद्रुमाः सुपुण्यदाः ।
हूयन्ते स्वर्गदा मोक्षप्रदाः सम्पत्प्रदाश्च ते । । १ १४।।
इति ते कथितं लक्ष्मि! स्त्रीणां वृक्षादिपूजनम् ।
पठनाच्छ्रवणाच्चापि स्वर्गमोक्षसुपुण्यदम् ।। ११५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गालवप्रदर्शितानां स्त्रीमोक्षप्रदसरलोपायानां मध्ये तुलस्यादिविविधवृक्षाणां देवताद्यवतारत्वं तत्पूजनादिना मोक्षश्चेत्यादिनिरूपणनामैकचत्वारिंशदधिकचतुश्शततमोऽध्यायः ।।४४१ ।।