← अध्यायः ५६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६४
[[लेखकः :|]]
अध्यायः ५६५ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! शंकरेणोदितानि नर्मदातटे ।
कपिलामरयोर्मध्ये नर्मदोंकारमध्यतः ॥ १ ॥
कोटितीर्थानि सन्त्येव यत्र क्वापि जनश्चरेत्।
राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे ॥ २ ॥
दीयते कोटितीर्थे यद् गुंजामात्रं हिरण्यकम् ।
तस्य संख्या न विद्येत यावदाभूतसंप्लवम् ॥ ३ ॥
सूत्रेण वेष्टयेद् यस्तु यज्ञशैलं च पर्वसु ।
सूत्रयुगसहस्राणि स्वर्गलोके महीयते ॥ ४ ॥
पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत्।
कौशेयं पट्टसूत्रं च कार्पासं व महोज्ज्वलम् ॥ ५ ॥
नवतन्तुं च यः कुर्याद् दशद्वादशतन्तुकम् ।
अष्टादशगुणं वापि चतुर्विंशतितन्तुकम् ॥ ६ ॥
न्यग्रोधे बन्धयेत् सूत्रम् ऋणापाकरणं भवेत् ।
ओंकारं वेष्टयेद्वा यः कैलासं विन्दते हि सः ॥ ७ ॥
सफल: सूत्रयागः स्याद् यतीन् संभोजयेत् ततः ।
यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम् ।। ८ ॥
पदे पदे यज्ञफलं तस्य स्याच्छंकरोऽब्रवीत् ।
करिणीरूपमास्थाय स्वयं सरस्वती सरित् ।। ९ ॥
स्नातुमायाति तु कोटितीर्थे स्नात्वा प्रयाति च ।
कावेरीसंगमाद् यावदुदधेः संगमोऽस्ति हि ॥1.564.१०॥
अत्रान्तरे तीर्थकोट्यो नर्मदायां वसन्ति वै ।
कावेरीपर्यंकशैलमध्ये तु दशलक्षकम् ।। ११ ।।
नर्मदायां समासाद्य जमदग्नेर्महाश्रमम् ।
श्रीकण्ठं नीलकण्ठं च कन्यातीर्थे प्रवर्तते ॥१२।।
सूर्यपिंगललिंगं च नारायणस्य मन्दिरम् ।
लक्ष्मीतीर्थ सतीतीर्थे वर्तते पापनाशनम् ॥१३॥
मोक्षदो वै गिरिः पुण्यः सर्वतोऽमरकण्टकः ।
कावेर्यां स्नानमात्रेण जना यान्ति परां गतिम् ।।१४।।
कुबेरतपसा या वै कौबेरी नामतोऽभवत् ।
सा कावेरीति संप्रोक्ता पित्रुद्धारकरी नदी ॥१५॥
नानामुखसहस्रैस्तु कावेरी तारिणी मता !
नर्मदा दक्षिणे कूले वाराहे विन्ध्यपर्वते ॥१६॥
पयोष्णी निर्गता चन्द्रपुत्री शीताऽतिपावनी ।
वाराहशरीराज्जाता सोमगंगा च तारिणी ॥१७॥
तत्र स्नात्वा जनो भक्त्या भवे वै न पुनर्भवत् ।
पयोष्णीसंगमे तत्र सोमावर्त्तः प्रदेशकः ॥१८॥
तत्र स्नानस्य दानस्य संख्यां कर्तुं न शक्यते ।
तापीपयोष्णीसंभेद: कुरुक्षेत्राच्छताधिकः ॥१९॥
फलदः श्रीह्ररिर्यत्र श्रीपति: पुरुषोत्तमः ।
विराजते प्रशस्तं तद्विष्णुक्षेत्रं प्रकीर्त्यते ॥1.564.२०॥
कार्तिक्यां दीपदाने तु चक्रवर्ती भवेन्नृपः ।
रेवां भित्त्वा चण्डवेगानाम्नी नदी विनिःसृता ॥२१॥
तत्र स्नात्वा ब्रह्महत्यादिकपापं विनश्यति ।
चण्डेश्वरो महादेवस्तत्र तिष्ठति पापह्रा ॥२२ll
चन्द्रसेनः सोमवंशी पुराऽऽसीत् पापकृन्नृपः ।
परदाररतश्चौरो मदिरापानकृद्धि स: {{२३||
नैमिषारण्यवासस्य शाण्डिल्यस्य तु भामिनीम् ।
नाम्ना सौदामिनीं रूपयौवनाद्यन्वितां सतीम् ।२४।।
चन्द्रसेनो ददर्शैनां जटावल्कलधारिणीम् |
उवाच मे भव पत्नी भुंक्ष्व भोगांश्च पुष्कलान् ll२५ll
श्रुत्वा सौदामिनी प्राह याचस्व मे पतिं नृप ।
शाण्डिल्यं परिपप्रच्छ राजा तस्यां सुमोहितः ॥२६॥
यौवनस्थां च पत्नीं ते चेदद्य त्वं ददस्व मे ।
मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः ॥२७॥
ऋषिः प्राह स्त्रियो राजन् छलमूला हि सर्वशः ।
न च तासां प्रियः कश्चिद् यथेच्छसि तथा कुरु ॥२८॥
कामान्धश्च तदा राजा करे जग्राह तां सतीम् ।
सा तु कोपान्नृपं प्राह भवाम्यद्य रजस्वला ॥२९॥
मम स्पर्शादद्य दिने चण्डालस्त्वं भविष्यसि ।
प्रथमेऽहनि चाण्डालीसमा रज:प्लुता मता ॥1.564.३०ll
इत्युक्तोऽपि हठात्तां वै पस्पर्श स्व करे पुनः ।
तावाच्चाण्डालतां प्राप्तो राजा सर्वभयावहः ॥३१॥
रूपरंगविहीनश्च कृष्णवर्णोऽभवत् क्षणात् ।
राजा तां च सतीं त्यक्त्वा ययौ स्वनगरं प्रति ।।३२।।
अवध्यावासिनश्चाहुः राजपुत्रः कथं वने ।
गतश्चाण्डालतां प्राप्त इत्याश्चर्यपरा मिथः ॥३३॥
वसिष्ठस्तु नृपं प्राह याहि तां प्रति वै पुनः ।
क्षमां याचस्व गत्वैव सर्वं शान्तं भविष्यति ॥३४||
राजा जगाम तां नत्वा ऋषिं नत्वा पुनः क्षमाम् ।
याचयामास च मुहुस्तदा चाहतुर्दम्पती ॥३५॥
राजन् शीघ्रं प्रयाहि त्वं चण्डवेगासमागमम् ।
चण्डेश्वरं हरिं तत्राऽभ्यर्च्य स्नात्वा ह्यवाप्स्यसि ॥३६॥
पापस्य मोक्षणं चेति श्रुत्वा राजा ययौ नदीम् ।
चण्डवेगां च रेखां व तत्र स्नात्वा हरं हरिम् ॥३७॥
पुपूज परया भक्तया निष्पापश्च बभूव सः ।
अन्ते मुक्तो बभूवाऽपि चण्डवेगाप्रभावतः ॥३८॥
दिव्ययानसमारूढो ययौ वैकुण्ठमुत्तमम् ।
श्रवणात् कीर्तनाञ्चापि घोरपापं विनश्यति ॥३९॥
अथ तीर्थं परं चान्यदेरण्डीनर्मदागमः ।
एरण्डीश्वरलिंगं च वर्तते पापनाशनम् ॥1.564.४०॥
कुंकुमेन समालिप्य गन्धपुष्पैः प्रपूजयेत् ।
दिव्यवर्षसह्स्रं तु मोदते शिवसन्निधौ ॥४१॥
भद्ररुद्रौ पुरा कल्पे सुगन्धर्वौ बभूवतुः ।
तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम् ।४२॥
भद्रेश्वरं तथा रुद्रेश्वरं संस्थाप्य स्वर्गतौ ।
अथ पितृप्रतृप्त्यर्थे दुर्वासा मुनिराट् क्वचित् ॥४३॥
बभ्राम सर्वतीर्थानि ततो गयामुपाययौ ।
पिण्डान् ददौ तथा वारि ददौ फलानि वै रसान् ॥४४॥
ददौ कुशतिलॉस्तत्र किन्तु वै पितरस्तदा ।
न दृष्टा तेन मुनिना तदा प्राह मुनीन् स्वयम् ॥४५॥
करे ग्रह्णन्ति पितरः पिण्डानीह मया श्रुतम् ।
तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका ॥४६॥
श्रुत्वा तन्मुनयः प्राहुः प्रतीक्षाऽमादिनं मुने ।
करे ग्रह्णन्ति पितरः पिण्डान् दर्शे प्रकल्पितान् ||४७।।
दुर्वासा दर्शपर्यन्तं तस्थौ तत्र हि श्रद्धया ।
अवासृजत्ततः पिण्डाँस्तथापि पितरः खलु ||४८ll
मूर्तिमन्तो नाऽऽययुश्च दुर्वासास्तु तदा पुनः ।
एरण्डनामकं तत्र तपन्तं प्राह वै मुनिम् ॥४९॥
नाऽत्र ते स्यादर्थसिद्धिरागच्छ वै मया सह ।
इत्युक्त्वा मुनिमेरण्डं सह नीत्वा च नार्मदे ॥1.564.५०॥
तीरे तस्थौ समागत्य ऑकारेऽमरकण्टके ।।
तत्र सस्मार च पितॄन् ब्रह्मा साक्षात् समाययौ ॥५१।।
गृहाणाऽर्पितमेवाऽत्र पिण्डं तुष्टोऽभवत्तदा ।
ददौ वारि स्वयं ब्रह्मा तृप्तो नार्मद्वारिणा ॥५२॥
ब्रह्माणाऽर्पितवार्थैव दुर्वासा।
एरण्डको मुनिश्चापि दधार शिरसा तदा ॥५३॥
ब्रह्मकमण्डलुवारि एरण्डमस्तकाद् भुवि ।
पतितं तत्प्रवाहश्च नर्मदाया जले गतः ॥५४॥
अमायां सोमवारे चैरण्डरेवासमागमे ।
तीर्थे पर्व महज्जातं पित्रुद्धारकरं परम् ॥५५॥
ब्रह्मा तुष्टो वरदानं ददावेरण्डिकातटे ।
अदृश्याः पितरस्तृप्तिं दर्शे यास्यन्ति शाश्वतीम् ॥५६॥
गयायामपि चादृश्यास्तृप्तिं यास्यन्ति शाश्वतीम् ।
वैष्णवेभ्यः पवित्रेभ्यो ब्रह्मव्रतेभ्य इत्यपि ॥५७॥
निष्पापेभ्यो मानवेभ्यः शुद्धहद्धयस्तु सर्वदा ।
दृष्टिपथं प्रयास्यन्ति पितरौ नान्यथा क्वचित् ॥५८॥
एवमेरण्डिकातीर्थ रेवासंगमगं ह्यभूत् ।
श्रवणात् कीर्तनादस्योद्धारः स्यात् पितृतीर्थिनः ॥५९॥
ततस्तीर्थं परं चान्यद् रेवाशख्यविशल्ययोः ।
भरतेन कृतो यज्ञो यत्र शल्या विशल्यका ॥1.564.६०॥
नदीद्वयं समुद्भूतं विवेश नार्मदं जलम् ।
आसुरा विघ्नकर्तारो युयुधुर्भरतेन वै ॥६१॥
भरतेनाऽऽसुरा बाणैर्नाशिता बहवस्तदा ।
भरतस्य भटानां च शल्यपीडानिवृत्तये ॥६२॥
यूपमूलान्नदी जाता विशल्या शल्यकर्षिणी ।
तत्र स्नात्वा भरताद्या यज्ञनारायणेहया ॥६३।।
विपीडास्ते विशल्याश्च बभूवुः सर्वशोऽनघाः ।
तेन शल्या विशल्या च नदीद्वयं प्रकीर्त्यते ॥६४॥
प्रवाहद्वयरूपं तन्नर्मदायां समाहतम् |
एतत्तीर्थं परं पुण्यं पावनं नार्मदे तटे ॥६५॥
स्वायंभुवेऽन्तरे प्राप्ते त्वादिकल्पे कृते युगे ।
दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः ॥६६॥
ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः ।
बृहस्पतिस्ततः प्राह ब्रह्माणं परमेष्ठिनम् ॥६७॥
इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम् ।
एतस्मिन्नन्तरे देवा ययुस्ते नार्मदं तटम् ॥६८॥
भित्वा भुवं तदा लिंगं समुत्थितं महोज्ज्वलम् ।
औंकारं संवदत् तत्र भूर्भुवः स्वश्च कीर्तयत् ॥६९॥
पर्वतादुत्थितं सोऽपि औंकारगिरिरुच्यते ।
उवाच वचनं शंभुः साक्षाद् भूत्वा पितामहम् ॥1.564.७०॥
इष्टिं कुरु महारौद्रीं दैत्यानां प्रक्षयंकरीम् ।
ततो ब्रह्मा चकारेष्टिं देवानां शान्तिकारिणीम् ॥७१॥
इत्याद्यास्तद्भयाद् भग्ना जग्मुस्ते तु रसातलम् ।
ओंकारस्य प्रभावेण देवा जाताश्च निर्भयाः ।।७९॥
ओंकारं शंकरं प्रार्च्य ययुर्दिवं सुरादयः ।
कल्पान्तगं महालिंगं पर्वताग्रे विराजते ॥७३॥
पञ्चब्रह्म पञ्चवक्त्रं नवशक्तिसमन्वितम् ।
शंखकुन्देन्दुसंकाशं सद्यो वक्त्रं तु पश्चिमम् ॥७४॥
ऋग्वेदो निर्गतो यस्माद् ब्रह्मा तत्राधिदेवता ।
उत्तरं वामदेवं तु पीताभं सुमनोहरम् ।।७५।।
यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राऽधिदेवता ।
अघोरं मेघवर्णाभं याम्यां दिशि समस्थितम् ॥७६॥
सामवेदोद्भवं विद्धि सूर्यकालादैवतम् ।
पूर्वे तत्पुरुषं ज्ञेयं कुंकुमारुणसन्निभम् ॥७७॥
अथर्वं निर्गतं तुर्यमापस्तत्राऽधिदेवताः ।
ईशानेस्तववक्त्रं तु पञ्चवर्णं महातनुम् ॥७८॥
श्रुतिसिद्धान्तसंगीतं सोमं तत्राधिदेवता ।
षष्ठं सदाशिवं नाम निर्भागं च निरामयम् ॥७९॥
एतत्ते कथितं सर्वमोंकारस्य तु वर्णनम् ।।
ओंकारदक्षिणामूर्तिं पूजयेन्मोक्षमाप्नुयात् ॥1.564.८०॥
दद्याद् गृहस्य सामग्री: पूजोपकरणानि च ।
जीर्णोद्धारादिकं ध्वजदण्डघण्टादि कारयेत् ॥८१॥
वस्त्रभूषामृदंगादि दद्यादोंकारमूर्तये ।
उद्यानवाटिकाक्षेत्रादीनि तस्मै निवेदयेत् ॥८२॥
तस्य दानफलस्येह संख्यां कर्तुं न शक्यते ।
दाता भुक्तिं तथा मुक्तिं लभते नात्र संशयः ॥८३॥
धुन्धुमारोऽभवद्राजा देवताऽतिथिपूजकः ।
ययौ विन्ध्याचलं रेवावनं विवेश तत्र च ॥८४॥
वाराहं श्वेतवर्णं स गर्जन्तं प्रददर्श ह ।
हन्तुं तं यावद् यतते तावत् क्रोडोऽपि तत्क्षणम् ॥l८५ll
विवेश जलमध्ये च कोटितीर्थेऽथ तं तथा ।
प्रविश्यन्तं पृष्ठतोऽनुजगाम सोऽपि भूपतिः ॥८६॥
तावत् क्रोडो दिव्यदेहो भूत्वा विमानमास्थितः ।
तं च तथाविधं दृष्ट्वा राजा पप्रच्छ कारणम् ।।८७॥
दिव्यरूपधरो देवो वराहश्चाह भूभृतम् ।
अहँ शंभुगणो नाम्ना ह्यंगदोऽस्मि सुगायकः ॥८८॥
दृष्ट्वोर्वशीं च रंभां चाऽप्यभूवं काममोहितः ।
व्याहरन् शूकरीं वाणीं कामक्रीडामयोऽभवम् ॥८९॥
नन्दी शशाप मां दृष्ट्वा शूकरोऽरण्यके भव ।
मया प्रसादितो नन्दी शापान्तं वरमादिशत् ।।1.564.९०।।
दर्शनाद् धुन्धुमारस्य कोटितीर्थनिषेवणात् ।
त्यक्त्वा तु सौकरीं योनिं कैलासं चागमिष्यसि ॥११॥
एवमुक्त्वा स्वस्ति तेऽस्तु समुचार्य ययौ गणः ।
राजा शिलातले तत्र निषसाद् क्षणं ततः ।।९२।।
राज्ञो हयो नर्मदाया जलपानं समाकरोत् ।
तावत् सोऽप्यभवद् दिव्यो विमानस्थोऽम्बरेऽभवत् ll९३ll
द्विजो भूत्वाऽब्रवीद् भूपं गालवोऽहं पुराऽभवम् ।
ब्रह्मर्षिः कौरवे क्षेत्रे वाजिदानप्रतिग्रहात् ॥९४॥
दग्धो वाजितनुं प्राप्य रेवायोगेन मोक्षणम् ।
प्राप्तोऽस्मि यामि वै सत्यं ब्रह्मलोकं ममालयम् ॥९५॥
मया राजन् पुरा राज्ञो दुमत्सेनात् प्रतिग्रह: ! (द्रुमत्सेनात्, द्युमत्सेनात्)
गृहीतः कारणवशाच्छृणु तत्कथयामि ते ॥९६॥
राजा मध्यप्रदेशस्य गजवाजिरथादिकम् ।
स्वर्णरत्नाम्बराभूषादिकं नीत्वा रविग्रहे ।ll९७ll
कुरुक्षेत्रं समायातो दानार्पणाय सर्वथा ।
किन्तु विप्रा विमृश्यैव राज्ञो घोरं प्रतिग्रहम् ॥९८॥
न जगृहुस्तदा राजा स्थानं विप्रान् निनिन्द च ।
अब्रह्मण्यमिदं स्थानं ब्रह्महीनं न याजनम् ॥९९॥
लीनं ब्रह्मबलं सर्वं दानपात्रं न विद्यते ।
आाकर्ण्य नृपतेर्वाक्यं मया बलं प्रदर्शितम् ॥1.564.१००॥
गालवोऽहं देहि दानं ग्रहीष्ये विद्यते बलम् ।
राजा राज्योपयोग्यानि ददौ वस्तूनि मे तदा ॥१०१॥
अहं राजसमो जातो राज्यभोगसमन्वितः ।
राजा ययौ ततश्चाहं त्यक्त्वाऽग्निहोत्र प्रभृति ।।१०२।।
व्यचरं बहुभोगेषु मृत्वा वाश्वोऽभवं तव ।
सोऽहं रेवाजलेनाऽद्य मुक्तोऽस्म्यस्तु च ते शुभम् ।। १०३॥
एवमुक्त्वा गालवस्तु ययौ सत्यं निजालयम् ।
राजा विचारयामास विनाऽश्वं यामि कुत्र वै ॥१०४॥
तावत् त्रिनेत्रा युवती साक्षादागत्य चाह तम् ।
अस्म्यहं कपिला नाम्नी सरिन्नार्मदवारिगा ।।१०५॥
त्वं च राजन् मम वार्षुं स्नात्वा जलं पिबाऽत्र मे ।
राज्यं कृत्वा दिवं याहि सान्तःपुरपरिच्छदः ।१०६॥
यं यं चिन्तयसे कामं तं तं प्राप्नोषि सुव्रत ।
एवमुक्त्वा ययौ चान्तर्धानं सा कपिला नदी ॥१०७॥
प्रणिपत्य च भूपस्तां स्वपुरं प्रति संययौ ।
श्रवणात् कीर्तनादस्थ मुच्यते भवबन्धनात् ॥ १०८॥
इत्येवं कथितं तीर्थमाहात्म्यं शंकरेण वै ।
शिवायै तन्मयोक्तं ते लक्ष्मि ! मोक्षप्रदं परम् ।। १०९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कोटितीर्थे सूत्रवेष्टनं सूर्यपिंगललिंगं लक्ष्मीनारायणालयः, कावेरीपयोष्णीसोमगंगाचण्डवेगासंगमाः, चन्द्रसेनस्य चण्डालतामुक्तिः, एरण्डीसंगमः, शल्याविशल्यासंगमः, धुन्धुमारस्य वाराहतामुक्तिः, गालवस्य वाजितामुक्तिरित्यादिनिरूपणनामा वतु:षष्ट्यधिकपञ्चशततमोऽध्यायः ।। १.५६४ ।।