लक्ष्मीनारायण संहिता़/कृतसन्तानः/294
Datewise interpretations of Purushottama masa
पुरुषोत्तम मास माहात्म्यस्य तिथि अनुसार निर्वचनम्
पुरुषोत्तम मास – लक्ष्मीनारायण संहिता 1.293 –
श्रीलक्ष्मीरुवाच-
मासास्तु द्वादश प्रोक्तास्तेषु व्रतदिनानि च । तेभ्योऽधिकोऽपि त्रयोदशः सार्धद्वयवार्षिकः ।। १ ।।
चान्द्रपूर्णत्वसम्पाद्यो भवतीति तदीयकम् । इतिवृत्तं विधिं देवं सर्वे श्रोतुं समुत्सहे ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां पुरुषोत्तमयोगिनीम् । चान्द्रमासे यत्र सूर्यसंक्रान्तिर्नहि जायते ।। १ ।।
एकराशिप्रभोगस्थोऽर्को न संक्रमतेऽपरे । सूर्यसंक्रान्तिशून्योऽयं मासोऽधिकतया मतः ।। २ ।।
मध्येऽमावास्ययोश्चान्द्रमासः पूर्णः प्रजायते । सौरमासस्तु संक्रान्त्योर्मध्ये पूर्णः प्रजायते ।। ३ ।।
चान्द्रमासे सावनाहान्येकोनत्रिंशदित्यथ । षड्विंशतिघटिकाश्च पञ्चाशत्पलिकास्तथा ।। ४ ।।
भुज्यन्तेऽथ च सौरे तु त्रिंशदहानि वै तथा । षड्विंशतिश्च घटिकाः पलान्येकोनविंशतिः ।। ५ ।।
विपलान्येकत्रिंशच्च द्वापंचाशत्क्षणानि च । प्रभुज्यन्ते तयोश्चान्द्रे यः कालः शिष्यतेऽर्कितः ।। ६ ।।
तेषां तु शिष्टकालानां समवाय प्रजायते । पूर्णस्त्रयोदशश्चान्द्रमासोऽयं त्वधिको मतः ।। ७ ।।
द्वात्रिंशत्सौरमासेषु षोडशाहाधिकेषु तु । त्रयस्त्रिंशच्चान्द्रमासाः षोडशाहाधिकाः खलु ।। ८ ।।
निष्पद्यन्तेऽधिको मासश्चान्द्रः सोऽयं मतोऽधिकः । पंचवर्षेष्वधिमासौ द्वौ चान्द्रौ प्रायशो मतौ ।। ९ ।।
अधिमासः पुनः सोऽष्टवर्षे वैकोनविंशतौ । एकचत्वारिंशदधिके शते वा स एति वै ।। १ ०।।
स एवायाति चेत्येवं प्रायशो नियमोऽस्ति हि । सोऽयं पुण्यप्रकार्यार्थं निश्चितो मुनिभिः पुरा ।। ११ ।।
शृणुष्वैनां कथां लक्ष्मि! नौ गेहाद्युद्भवाऽस्ति सा । मलमासस्त्वयं प्रोक्तो मलशेषात्मसंचयः ।। १२।।
पुरुषोत्तमसंयोगात् पुरुषोत्तमसंश्रयात् । पुरुषोत्तममासोऽयं देवोऽस्य पुरुषोत्तमः ।। १३।।
कृष्णनारायणः श्रीमान् परब्रह्म परात्परः । ब्रह्ममुक्तैः सदा सेव्यो भगवानक्षराधिपः ।। १४।।
अवतारस्वरूपाणामवतारी हरिः स्वयम् । यस्माद् व्यूहाः प्रजायन्ते वासुदेवादयोऽखिलाः ।। १५।।
यस्माद् गोलोकधामाद्याः प्राविर्भवन्ति चाश्रयाः । यत्र सर्वपराकाष्ठा यत्र सर्वं प्रतिष्ठितम् ।। १६ ।।
यस्मात् प्रकाशते सर्वं यन्मयं जडचेतनम् । सोऽयं श्रीभगवान् राजाधिराजः परमेश्वरः ।। १७।।
पुरुषोत्तममासस्याधिदेवः पुरुषोत्तमः । अक्षरे परमे व्योम्नि मुक्तमण्डलसेवितः ।। १८।।
अनाथं मलमासं तु दृष्ट्वा कृपावशः प्रभुः । स्वीचकार शरण्यस्तं शरणागतमेव सः ।। १९।।
अधिष्ठानतया तस्य ततोऽक्षरसमानताम् । प्राप्तः श्रीमलमासस्तु निर्मलः पुरुषोत्तमः ।।।२०।।
सर्वे मासाः प्रथमं तु गर्जन्ति स्म मुहुर्मुहुः । नाऽस्मादृशं किंचिदस्ति तारकं भुवनत्रये ।। २१।।
किन्तु श्रीहरिणा यावन्मलमासस्त्वधिष्ठितः । ततो द्वादशमासास्ते बभूबुर्भग्नगर्वकाः ।।२२।।
किं वक्तव्यं महालक्ष्मि! यत्र नारायणः स्वयम् । प्रसन्नस्तिष्ठते तस्य भाग्यं पुण्यं कथानकम् ।।२३।।
अन्यमासकृतात्पुण्याज्जपाद्धोमात्प्रदानकात् । अनन्तगुणकं त्वत्र कृतं भवति सर्वथा ।।२४।।
मासोऽयमधिकः सर्वपुण्याऽऽधिक्यप्रदो मतः । गयागंगाहरिद्वारपुष्करादिषु यत् कृतम् ।।२५।।
तत्कृतस्याऽधिके मासे फलं भवति शाश्वतम् । कुरुक्षेत्रे ग्रहणे यत्स्नानस्य फलमाप्यते ।। २६ ।
गयायां पिण्डदानस्य पितॄणां तृप्तिरस्ति या ।। तत्फलं तादृशी तृप्तिरधिमासस्य सेवनात् ।। २७।
जगन्नाथपुरे स्याद् यद् रथयात्राफलं महत् । पुरुषोत्तममासे तत्फलं त्वाप्लवनाद् भवेत् ।।।२८ ।।
यत्फलं सरयूस्नानात् साकेते तीर्थदर्शनात् । तत्फलं त्वधिके चाद्यदिने स्नानाद्धि जायते ।। २९ । ।
यत्फलं द्वारिकायां तु गोमतीसागराप्लवे । तत्फलं मलमासे स्यात् प्रतिपत्स्नानमात्रतः ।। ३० । ।
यत्फलं बदरीक्षेत्रे स्वर्णद्यां स्नानतो भवेत् । मलमासाऽऽद्यदिवसेऽधिकं स्यात्स्नानतः फलम् ।। ३१ ।।
यत्फलं दक्षिणे वार्धौ रामसेतौ जलाप्लवात् । मलमासेऽधिकं स्नानात् ततः स्यात्प्रथमे दिने ।। ३२ । ।
यत्फलं रैवते स्वर्णरेखायां स्नानतो भवेत् । प्रभासे यत्फलं वा सन्निधावाप्लवनाद्भवेत् ।। ३३ ।
ततोऽधिकफलं त्वाद्यदिने स्नानेऽधिकस्य च । यत्फलं कुंकुमवाप्यामश्वपट्टसरोवरे ।। ३४। ।
ततोऽधिकफलं त्वाद्यदिवसेऽधिकमासिनः । नर्मदायां शुक्लतीर्थे ओंकारेश्वरतीर्थके ।। ३५ । ।
पुष्करे पश्चिमे नारायणे सरसि यत्फलम् । तडागे मानसे चापि प्रयागे चापि यत्फलम् ।। ३६ । ।
यमुनायां मथुरायां गण्डक्यां चापि यत्फलम् । यत्फलं च हरिशंभुक्षेत्रे कपिलवारिधौ ।। ३७ ।।
गोदावर्यां तथा कुंभलग्ने कृष्णाजले च यत् । सिन्धौ ताम्रपर्णिकायां कावेर्यां चापि यत्फलम् ।। ३८ ।
महोदये तथा सोमाऽमायां पर्वणि पट्टने । स्नानेन यत्फलं यद्यत्त्वाद्येह्नि स्नानतोऽत्र तद् ।। ३९ ।
पुरुषोत्तममासस्य प्रथमायां समाहितः । ब्राह्मे मुहूर्ते सञ्चिन्त्य श्रीकृष्णं पुरुषोत्तमम् ।।४० ।
स्नायान्नद्यां तडागे वा सरसि प्रस्रवे गृहे । कूपे वाप्यां प्रवाहे वा तत्पुण्यं शाश्वतं भवेत् ।।४ १ ।।
नहि लोकेऽधिकमाससदृशं पापनाशकम् । पुण्यार्जकं तथा त्वन्यत् स्वर्गमोक्षप्रदं परम् ।।४२।।
पूर्णिमायां चाद्येऽहनि त्वमावास्यादिनेऽपि च । एकादशेऽन्तिमे चापि मासेऽह्नि पुरुषोत्तमे ।।।४३ । ।
स्नानेन सदृशं त्वन्यत्त्वखण्डपुण्यकृन्नहि । तेषु स्नानेन वै लोका निर्धूय पापपुञ्जकम् ।।४४।।
जायन्ते पुण्यपुञ्जेन पारावारसमा भुवि। स्नानमात्रेण वै स्वर्गे कोटिकल्पात्मकं मिलेत् ।।४५।।
हरेस्तु पूजनात्तत्र वैकुण्ठं शाश्वतं व्रजेत् । पुरुषोत्तमनैवेद्यदाने मुक्तिचतुष्टयम् ।।४६ ।।
लभतेऽत्र न सन्देहः श्रीकृष्णो वदति स्वयम् । कृष्णनारायणः सर्वं लक्ष्मीयुक्तं ददाति वै ।।४७।।
मलमासाऽऽद्यदिवसे स्नातुश्चार्चयितुस्तथा । स्वत्वं श्रीकृष्णवद्धाम्नि गोलोकेऽस्य प्रवर्तते ।।४८।।
पूर्णिमायाममायां वा प्रातः स्नानं सरित्सु चेत् । क्रियतेऽवभृथतुल्यफलं विष्णुक्रतोर्मतम् ।।४९।।
मध्याह्ने चेत्कृतं स्नानमश्वमेधान्तपुण्यदम् । स्नानं सायं वाजपेययज्ञस्य फलदं भवेत् ।।५० ।।
स्नात्वा व्रती हरिं कृष्णनारायणं सुवर्णजम् । आवाहयेत् तथा पंचामृतैः संस्नापयेच्छनैः ।।५१ ।।
एकादशीकृतं पुण्यं मलमासे तु पर्वणि । स्नानमात्रेण भवति किमन्यत् तत्कृते पुनः ।।५ २।।
लक्षगवां महिषीणामयुतस्य शतस्य तु । वारणानां च दानेन कुरुक्षेत्रे तु यत्फलम् ।।।५३।।
लक्षाश्वानां तथा दानाद्यत्फलं कौरवे स्थले । प्रातःस्नानान्मलमासे तत्फलं प्रतिपत्तिथौ ।।५४।।
द्वादशानां तु मासानां पापानि मलमुच्यते । मलप्रक्षालनशक्तो मलमासः कृतोऽस्ति वै ।।।५५।।
स्नापयेच्छ्रीकृष्णनारायणं पञ्चामृतैस्ततः । शुद्धोदकैस्तैलसारैर्मर्दयित्वा पुनः पुनः ।।५६।।
स्नापयेद् वै ततो वस्त्रैर्मार्जयेत् पुरुषोत्तमम् । पीताम्बरं चोत्तरीयं स्वर्णप्रान्तं समर्पयेत् ।।५७।।
किरीटं कुण्डले चापि चन्दनं कुंकुमं तथा । कज्जलं कण्ठहाराँश्चोर्मिकाश्च कंकणानि च ।।५८।।
पुष्पहारान् रशनाश्चाऽऽभूषणान्यम्बराणि च । द्रव्याऽलंकारभूषाश्च समर्पय्य प्रपूजयेत् ।।५९।।
धूपं दीपं तथाऽऽपीडान् शेखरान् मालिकास्तथा । गुच्छं कन्दं स्वर्णयष्टिं छत्रं च चामरेऽर्पयेत् ।।६० ।।
नैवेद्यानि सुमिष्टान्नपक्वान्नानि फलानि च । मृष्टस्वादूनि पेयानि ताम्बूलानि जलानि च ।।६१ ।।
समर्पयेत्ततो नीराजयेत् क्षमां तु याचयेत् । प्रदक्षिणां नमस्कारं दण्डवच्च स्तुतिं चरेत् ।।६२।।
पुष्पाञ्जलिं प्रदत्वैव श्रीहरिं पुरुषोत्तमम् । प्रार्थयेन्मलमासस्य व्रतस्य पूर्तये मुहुः ।।६३।।
उपोषणान्येकभुक्तं नक्तं फलाशनं च वा । करिष्ये मलमासे तद्व्रतं ते कृपया प्रभो ।।।४।।
निर्विघ्नं पूर्णतां यायादिति तुष्टो हरे कुरु । स्नानं तीर्थेऽथवा कूपे गृहे नद्यां प्रगेऽन्वहम् ।।६५।।
दानं पूजां यथाशक्ति करिष्ये पुरुषोत्तम! । तत्सर्वं भजनं चापि निर्विघ्नं मे भवेदिति ।।६६।।
कृपां कुरु महाराजाऽऽलस्यं नाशय देहतः । मानसानि मलान्यत्र प्रक्षालय प्रभावतः ।।६७।।
आत्मीयानि च पापानि प्रज्वालय परेश्वर । आत्ममुक्तिं च मे देहि पुरुषोत्तम केशव ।।६८।।
कृष्णनारायण स्वामिन् लक्ष्मीनाथ प्रभापते । पार्वतीमाणिकीस्वामिन् सम्पत्कुरु गृहे मम ।।६९।।
एवं सम्प्रार्थ्य देवेशं स्वापयेद्वा विसर्जयेत् । मध्याह्ने भोजयेत् सायं भोजयेत् पूजयेत् तथा ।।७० ।।
नीराजयेच्च दोलायां गुरुं त्वान्दोलयेद्धरिम् । बालकृष्णं कृष्णनारायणं हरिनरायणम् ।।७१।।
रमयेद्वा जले रम्ये तूद्याने भवनेऽपि वा । नृत्यं गीतं सवाद्यं च कारयेत् तत्समीपतः ।।।७२।।
अन्नवस्त्रजलपुष्पफलदानानि वै ददेत् । भोजयेद् बालकान् साधून् विप्रान् गोग्रासमर्पयेत् ।।७३ ।।
कृष्णनारायणवार्ता पुरुषोत्तममाःकथाम् । लक्ष्मीनारायणसंहिताकथां वाचयेदव्रती ।।७४।।
मालां कृष्णहरिकृष्णकृष्णनारायणाभिधैः । कुर्याज्जपं च भजनं स्मरणं कीर्तनं मुहुः ।।७५।।
वन्दनं दासतां सेवां पादयोश्चापि मर्दनम् । मार्जनं परिचर्यां क्षालनं विष्णुग्रहस्य च ।।७६।।
गुरोः सेवां प्रकुर्वीत व्रतपुष्टिकरीं शुभाम् । गुरौ तुष्टे व्रतं पूर्णे भवेद्वै मनसेप्सितम् ।।७७।।
फलेत्सर्वं प्रसंपूर्णं स्वर्गमोक्षादिदायकम् । गौरीः साध्वीः सतीर्बालान् बालिकाः सधवाऽधवाः ।।७८।।
अनाथाऽनाश्रिताः संभोजयेद् दानानि संददेत् । गृहं दद्याज्जीविकां च क्षेत्रं वाटीं च वेतनम् ।।७९।।
साहाय्यं विविधं दद्याद् यथा सन्तोषमाप्नुयात् । संफलेत् तेन वै मासः पुरुषोत्तमसंज्ञकः ।।८० ।।
नित्यं वै मन्दिरे दद्याद् देवाय जलगाः शुभाः । आमान्नानि च शाकानि लवणं शर्करादिकम् ।।८ १ ।।
फलानि तण्डुलान् मुद्गान् द्विदला घृतवर्तिकाः । घृतं तैलं निवाराँश्च मरीचकान् सुजीरकम् ।।८२।।
शुण्ठीश्च मेथिकां दद्याद् दधि दुग्धं च तक्रकम् । पत्राणां भाजिकां खर्जूरकं श्रेष्ठं सुराजिकाम् ।।८३।।
भूमिकन्दान् बदामाँश्च काष्ठानि मृत्तिकास्तथा । इष्टिका वंशपात्राणि धातुपात्राणि मृद्धटान् ।।८४।।
घासग्रासान् गवाद्यर्थे पारावातेभ्य इत्यपि । कणान् दद्यात्पिपीलिकाद्यर्थे पिष्टादिकं तथा ।।८५।।
जलस्थेभ्यश्चणकाँश्च श्वादिभ्यो रोटकाँस्तथा । जलं तु वृक्षवल्लीभ्यो दद्याच्छ्रीपुरुषोत्तमे ।।८६।।
पिप्पलेभ्यो बर्बुरेभ्यो जलं दद्याच्छिवोपरि । बिल्वेभ्यः श्रीफलेभ्यश्च वटेभ्यो जलमर्पयेत् ।।८७।।
तुलसीभ्यः कमलेभ्यः पुष्पवल्लीभ्य इत्यपि । जलं खाद्यं प्रदद्याच्च कुर्याद्वृत्तिं सुरक्षिकाम् ।।८८।।
एवं दानानि वस्त्राणां वस्तूनां चापि कारयेत् । भूशायी ब्रह्मचारी च शान्ते भूत्वाऽधिके पुनः ।।८९।।
मासे वै साधुवद्भूत्वा साध्वीवच्च व्रतान्वितः । ऐहिकं त्वात्मनः कुर्यात्पुण्यं परं च मोक्षणम् ।।९०।।
पतिः पत्नी च दासी च सुतः सुता च बान्धवाः । बन्धुपत्न्यो जनन्यश्च पितरश्च पितामहाः ।।९१।।
माता मातामही चापि बालाश्च बालिकाश्च याः । शिष्या स्वसा चाश्रिताश्च प्राघूर्णिकाः समाश्रिताः ।।९२।।
ये च गृहे जनाः स्वस्याऽभिजनाश्च कुटुम्बिनः । सर्वे ते वै व्रतं कुर्युः पुरुषोत्तममासि तु ।।९३।।
एकभक्तेन नक्तेन फलेनाऽयाचितेन वा । जलेन पयसा दध्ना निवारादिभिरेव वा ।।९४।।
शाकेन भर्जितेनापि देहयात्रां विधाय च । पुरुषोत्तममासस्य व्रतं कुर्युस्तु शक्तितः ।।९५ ।।
एकान्नेनाऽथवा कुर्याद्भिक्षान्नेनापि सर्वथा । उञ्च्छवृत्त्याऽथवा कुर्यादाजगर्याऽथवा चरेत् ।।९६।।
देवान्नं वा ग्रसेत्सायं पूजयित्वा जनार्दनम् । देवानां दर्शनं नित्यं साधूनां चरणामृतम् ।।९७।।
पेयं धार्यं मस्तके च धूल्यामालुण्ठनं तथा । हरेः पादोदकं पेयं स्त्रिया पुंसा व्रते सदा ।।९८।।
पर्यंकाऽशयनं कार्यं कामक्रोधविवर्जनम् । क्षौरविवर्जनं कार्यं मैथुनस्य विवर्जनम् ।।९९।।
रसनायास्तपः कार्यं त्यागः प्राप्ताऽर्जितस्य च । नार्या तु स्पर्शनं पुंसः पुंसा स्पर्शश्च योषिताम् ।। १० ०।।
त्याज्यो वै सर्वथा मासेऽधिके श्रीपुरुषोत्तमे । गृहाद्बहिर्न गन्तव्यं तीर्थार्थं गम्यमेव वा ।। १०१ ।।
वाटिकायां समुद्याने वस्तव्यं क्षेत्रके तथा । वनेऽरण्ये दैवभूमौ साधुमध्ये सतीजने ।। १ ०२।।
त्यागिभूमौ निवासश्च तीर्थतटेऽथ सीम्नि वा । पर्णशालोत्तमायां वा व्योम्नि वासोऽधिके मतः ।। १ ०३।।
श्रवणं कीर्तनं कृष्णनारायणस्य वै स्मृतिः । पादयोः सेवनं चापि पूजनं वन्दनं तथा ।। १०४।।
दास्यं चात्मात्मीयवस्त्वर्पणं कृष्णविचिन्तनम् । एवमादिक्रियारूपां भक्तिं कुर्यान्मलेऽधिके ।। १ ०५।।
मं मुक्तिं लाति गृह्णाति मलोऽयं मास उच्यते । मा माया लीयते येन मलोऽयं मास ईरितः ।। १०६।।
मां लक्ष्मीं माति यो मासस्तस्मान्मलः प्रकीर्त्यते । पुरुषोत्तमनाम्मो वै मकारस्त्वन्त्यवर्णकः ।। १ ०७।।
लक्ष्म्याश्चाद्याक्षरो लोपि 'मलः' कृष्णः श्रिया युतः । मं मल लीयते येन मलक्षालनको हरिः ।। १ ०८।।
मलमासे कृतं यद्यद्दानं पुण्यं तदीयकम् । कं सुखं जायते चाध्यधिकं ह्यधिकमास्स हि ।। १ ०९।।
यत्र नारायणः कृष्णः प्रत्यहं तु गृहे गृहे । व्यवस्थितः शुभां पूजां गृह्णाति पुरुषोत्तमे ।। ११० ।।
मासेऽत्र रमया लक्ष्म्या पार्वत्या प्रभया तथा । माणिक्यया कृष्णनारायणः श्रीपुरुषोत्तमः ।। १ ११।।
गोलोकाच्चापि वैकुण्ठादव्याकृताच्च धामतः । भुवनेऽत्र समायाति लोकानां दर्शनाय वै ।। १ १२।।
सत्कर्माण्यर्चनादीनि पूजनानि व्रतानि च । के कुर्वन्ति च मे मासे स्नानं पूजां प्रदानकम् ।। १ १३।।
एवं देवः सदा प्रातर्व्योममार्गेण पश्यति । दृष्ट्वा स्नातॄन् भक्तिकर्तॄन् भक्तान् देवग्रहस्य च ।। १ १४।।
दातॄन् संपालयितॄँश्च नियमानां नरान् प्रियाः । विलोक्य दिव्यदृष्ट्या श्रीसहितः पुरुषोत्तमः ।। १ १५।।
प्रसन्नो भवति श्रेयः कर्तुं यातुं च तद्गृहे । स्थातुं चिरं श्रियै कृष्णः प्रदिशति तोषितः ।। १ १६।।
पुरुषोत्तममासस्य व्रतिनां भवनानि वै । सर्वस्मृद्धिप्रपूर्णानि कुरु लक्ष्मि! ममाऽऽग्रहात् ।। १ १७।।
मलमासाऽवमन्तॄणां गृहे वासो च मा तव । यत्र नास्ति ममाऽऽवासस्तत्र तेऽपि च माऽस्तु सः ।। १ १८।।
इत्यादिश्य हरिः प्रातस्ततो मध्याह्नकेऽपि च । नैवेद्यं त्वर्पितं लब्ध्वा पुनर्याति स्वधाम वै ।। १ १९।।
सायं पुनः स्वपत्नीभिः समायाति हरिः स्वयम् । आरार्त्रिकादिका सेवां त्वंगीकर्तुं गृहे गृहे ।। १२० ।।
घृतदीपं तथा धूपं पुष्पं जलं सुभोजनम् । सर्वं प्राप्य स्वकं धाम विसर्जितः प्रयाति सः ।। १२१ ।।
नित्यं मासेऽधिके ह्येवं पश्यति श्रीहरिर्विभुः । भक्तानुकम्पया तस्मात् पूज्यौ श्रीपुरुषोत्तमौ ।। १ २२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीपुरुषोत्तममासमाहात्म्ये तदाद्यदिवसीयव्रततपोदान- स्नानाराधननियमादिकर्तव्यतानिरूपणनामा त्रिनवत्य-धिकद्विशततमोऽध्यायः ।। १.२९३ ।।
श्रीनारायण उवाच-
पुरुषोत्तममासस्य स्वामी लक्ष्मि! कृपानिधिः । पुरुषोत्तमसंज्ञो वै यथा जातो वदामि तत् ।। १ ।।
एकदा पूर्णमासे श्रीनरनारायणाश्रमम् । समायाता दर्शनार्थं श्रीहरेर्मुनयस्तथा ।। २ ।।
ऋषयो दिव्यविज्ञाना वेदवेदांगपारगाः । पत्नीवतो लोमशश्च मार्कण्डेयश्च नारदः ।। ३।।
व्यासः पैलः सुमन्तुर्देवलोऽसितश्च काश्यपः । जाबालिः सुमतिर्याज्ञवल्क्यश्च पिप्पलायनः ।। ४ ।।
वामदेवः सुतीक्ष्णश्च पर्वतो भुगुरंगिराः । आपस्तम्बः शरभंगः कपिलो रैभ्य आरुणिः ।। ५ ।।
कात्यायनो रथीतरः ऋभुर्माण्डव्य एकतः । द्वितस्त्रितो ह्यगस्त्यो मुद्गलः क्रतुश्च गौतमः ।। ६ ।।
कौशिको गालवो बभ्रुरत्रिः शक्तिर्बुधो वसुः । बोधायनः पृथुर्धूम्रः शंकुः संकृतिरार्तिहन् ।। ७ ।।
कौण्डिन्यश्च शिनिर्विभाण्डकः पंकश्च धूमपः । जमदग्निः कणादश्च गर्गो मौनश्च भार्गवः ।। ८ ।।
भरद्वाजः कर्कशश्च शतानन्दश्च शौनकः । विशालो विष्णुवृद्धश्च जर्जरश्च तनुर्जयः ।। ९ ।।
पारः पाशधरः पूरो जंगमो जैमिनिर्मखः । उद्दालको महाषेण आमलकी - च पिंगलः ।। १ ०।।
शाण्डीरकः प्रभुश्चात्रि करुणः श्वेतकेतुकः । रोमपादश्च कद्रुश्च जाजलिश्च्यवनः शमः ।। ११ ।।
दीर्घतमाः पृथुश्रवाः श्वेताश्वतर आसुरिः । जैगीषव्यस्तथाऽऽवट्यो धर्मश्च भर्ग ऐश्वरः ।। १२।।
वसिष्ठश्च मरीचिश्च पुलहश्च पुलस्त्यकः । एते चान्ये सहस्राणि नरनारायणाश्रमम् ।। १ ३।।
समाजग्मुर्दर्शनार्थं ब्रह्मिष्ठाः शिष्यकोटिभिः । लोकानुग्रहकर्तारः परोपकृतिधर्मिणः ।। १४।।
नेमुर्नारायणं कृत्वा दण्डवत् जयघोषणाम् । निषेदुः पुरतः सर्वे सत्कृता ब्रह्मपारगाः ।। १५।।
ते च नारायणं शान्तं सौम्यं वल्कलधारिणम् । प्रसन्नवदनं तुर्यपुरुषार्थाश्रयं प्रभुम् ।। १६।।
अशेषदिव्यकल्याणगुणाऽऽनन्दपयोनिधिम् । ऊर्ध्वपुण्ड्रधरं दिव्यजटं दिव्यश्रियाऽऽश्रितम् ।।१७।।
दिव्यहारादिसंशोभं तुलसीमालिकाधरम् । परब्रह्म जपन्मालाकरं शरण्यमच्युतम् ।। १८।।
जितेन्द्रियं तपोमूर्तिं तेजश्चक्रान्विताननम् । बदरीश्रितसर्वस्वं पश्यन्ति स्म समाधिवत् ।। १ ९।।
ततस्तत्र समायाताः सुराश्च पितरस्तथा । नद्यस्तीर्थानि सर्वाणि क्षेत्राणि च वनानि च ।।२०।।
अरण्यानि नगराणि सरांसि सागरास्तथा । सिद्धाश्च योगिनश्चापि समाजग्मुः सुहर्षिताः ।।२१ ।।
निराहाराः फलाहाराः फेनाहाराश्च केचन । वाताम्बुपर्णकाहाराः श्वासाहाराश्च केचन ।।२२।।
नारायणं द्रष्टुकामाः दृष्ट्वा शान्तिं परां ययुः । ते सर्वेऽपि प्रणेमुस्तं नारायणं महामुनिम् ।।२३।।
परे ब्रह्मणि संलग्नं प्रास्फुरद्बहुलप्रभम् । दृष्ट्वा निषेदुस्ते सर्वे पुरतः श्रीहरेस्ततः ।।२४।।
युगाश्च सन्धयः संवत्सराश्च क्रतवस्तथा । समाययुस्तथा मासाः पक्षा दिनानि रात्रयः ।।२५।।
कलाकाष्ठामुहूर्तानि घटिकाः प्रहरास्तथा । समाययुः कुटुम्बाढ्याः सस्वामिनः सुमूर्तयः ।।२६।।
तत्र वै कार्तिको लक्ष्मीनारायणाधिदैवतः । मार्गशीर्षो रमावासुदेवाधिदैवतोऽपि च ।। २७।।
पौषः संक्रान्तिशक्तिश्रीविष्णवाख्यादित्यदैवतः । माघो वसन्तविजयामाधवाधिसुदैवतः ।।२८।।
फाल्गुनश्च महारात्रिलक्ष्मीब्रह्माधिदैवतः । चैत्रस्तु पार्थिवीशक्तिसीताश्यामाधिदैवतः ।।२९।।
वैशाखो हेतियुग्दुर्गालक्ष्मीनृसिंहदैवतः । ज्येष्ठो गंगामहालक्ष्मीत्रिविक्रमाधिदैवतः ।।३ ० ।।
आषाढश्च महाविद्यालक्ष्मीव्यासाधिदैवतः । श्रावणो वार्षिकीदोलारमाकृष्णाधिदैवतः ।।३ १ ।।
भाद्रपदो महागौरीवामनब्रह्मदैवतः । आश्विनं शारदालक्ष्मीनारायणाधिदैवतः ।।।३ २।।
राजन्ते स्म नरनारायणाश्रमे तु सेश्वराः । न तेषां कश्चिदप्यस्ति ह्यपूर्वः स्वामिवर्जितः ।।३३ ।।
स्वस्वामियोगमाहात्म्यात्सर्वे सौभाग्यशालिनः । वर्तन्ते स्वस्वाधिकारे सर्वेभ्यः फलदायिनः ।। ३४।।
ततः पश्चात् समायातो मलमासो निरीश्वरः । अधिकः पुच्छवत्यश्चाल्लग्नः सर्वैर्जुगुप्सितः ।। ३५।।
कृष्णवर्णो मलिनश्च पानभोजनवर्जितः । स्नानपूजाविहीनश्चाऽस्पृश्यः सर्वैस्तिरस्कृतः ।।३६।।
तमूचुः सकलास्तत्र ह्यनाथं च जुगुप्सितम् ।। अनर्हो मलमासोऽयं सूर्यसंक्रमवर्जितः ।। ३७।।
अस्पृश्यो मलरूपत्वाच्छुभे कर्मणि गर्हितः । उद्योगविलयो नष्टलाभो भाग्यविवर्जितः ।। ३८ ।।
समायातः कुतश्चैनं दूरे कुर्वन्तु सेश्वराः! । दक्षश्चन्द्रमसे प्रादात् सप्तविंशतिकन्यकाः ।। ३ ९।।
ततश्चायं समुत्पन्नस्तासां मलोऽयमस्ति वै । तासामुच्छिष्टरूपोऽयं समुत्पन्नस्त्रिदोषकृत् ।।३८ ।।
सार्धद्विवर्षदोषान्तमलोऽयं त्वपसार्यताम् । श्रुत्वैतद्वचनं तेषां चिन्ताग्रस्तैकमानसः ।।४ १ ।।
मुमूर्षुरभवत्तेन हृदयेन विदूयता । दूरं चाऽस्पृश्यवत्तस्थौ पश्यन्मां बदरीस्थितम् ।।४२।।
ते सर्वे दर्शनं कृत्वाऽभवन्समाधिनिष्ठिताः । मलो धैर्यं समालम्ब्य मदीयकरसंज्ञया ।।४३ ।।
प्राप्तो वैकुण्ठभवनं यत्राऽहमवसं रमे! । उद्धारार्थ समागत्य मामसौ दृष्टवांस्ततः ।।४४।।
रुदन् संभग्नहृदयो दण्डवत्पतितो भुवि । प्रांजली रुद्धनेत्रोऽसौ बभाषे स्वहितं वचः ।।४५।।
अपि नाथ कृपासिन्धो दीनानां शरणप्रद! । दीन तिरस्कृतं चान्यैर्मलं मां रक्ष चागतम् ।।४६ ।।
निरीश्वरं च मलिनं वर्जितं शुभकर्मसु । सदैवतैर्बहिर्नीतं दीनवत्सल रक्ष माम् ।।४७।।
सत्यव्रतो गजेन्द्रश्च धर्मः सुरेश्वरादयः । अविता भविता विष्णो रक्ष मां परमेश्वर ।।४८ ।।
इत्युक्त्वाऽऽविलचक्षुष्को मौनमास्थाय निम्नदृक् । बभूव तादृशं वीक्ष्य कृपापूर्णो हरिर्जगौ ।।४९।।
वत्स! भग्नमना मा भूरुद्धरिष्यामि मा शुचः । वद दुःखं वारयामि न वै शोचितुमर्हसि ।।५ ० ।।
न मे शरण्यमापन्नो दुःखलेशाय कल्प्यते । अशोकाऽऽनन्दवैकुण्ठं प्राप्तस्त्वं नासि शोकभाग् ।।५ १ ।।
मलमासः समाश्वासं लब्ध्वोवाच नमन् हरिम् । सर्वज्ञोऽस्यन्तरात्माऽसि वेत्सि सर्वं यथातथम् ।।५२।।
वच्मि तथापि ते नाथ दुःखं मृत्युसमं मम । कला काष्ठा मुहूर्ताश्च धटिका दिवसाः समाः ।।५३ ।।
पक्षा मासा युगाः सर्वे मोदन्ते स्वाम्यधिष्ठिताः । पर्युषितान्ममोत्पत्तिरुच्छिष्टाच्छिष्टकच्चरात् ।।५४।।
मालिन्यं मलरूपत्वमस्पृश्यत्वमसत्कृतिः । अस्वाम्यत्वमवमानमशुभत्वं सदा मम ।।।५५।।।
अकार्यकत्वमफलित्वं मे नाऽधिकृतिः क्वचित् । ऋषिदेवाऽधिदेवाद्यैर्बदर्याश्रममागतैः ।।५६ ।।
मासादिभिर्भर्त्सितश्चाऽस्पृश्यीकृतो निराकृतः । कर्महीनीकृतश्चैव तर्जितः सर्वथाऽर्दितः ।।५७।।
तस्माद्विनष्टुमिच्छामि वरं मृत्युः कुजीवनात् । परदुःखाऽसहिष्णुस्त्वं तूपकारी पुमुत्तमः ।।५८ ।।
कुरु श्रेयो मम नाथाऽन्यथा तु पामरोऽगुणः । मरिष्यामि मरिष्यामि मरिष्यामि न संशयः ।।५९ ।।
इत्युक्त्वा पादयोः श्रीनारायणस्य पपात सः । पाहि पाहि जगन्नाथ पाहि कृष्ण रमापते ।।६ ० ।।
पाहि लक्ष्मीपते नाथ शरणं मामुपागतम् । इत्युक्तवन्तं श्रीकृष्णो वैकुण्ठनिलयो हरिः ।।६ १ ।।
प्रोवाचोत्तिष्ठ भद्रं ते शोकं मा कुरु पश्य माम् । समागच्छ मया सार्धं गोलोकाधिपतिं प्रभुम् ।।६२ ।।
कृष्णनारायणं गोपीवृन्दस्थं पुरुषोत्तमम् । निनादयन्तं मुरलीं द्विबाहुँ श्यामसुन्दरम् ।।६ ३ ।।
कंजनेत्रं पार्वणेन्दुमुखं कन्दर्पधामकम् । पीताम्बरं वनमालामणिकौस्तुभभूषणम् ।।६४।।
चन्दनोक्षितवक्षस्कं कस्तूरीतिलकाऽन्वितम्! सद्रत्नाढ्योर्मिकायष्टिकिरीटकुण्डलान्वितम् ।।६५।।
श्रीवत्सशोभितवक्षःस्थलं सिंहासनस्थितम् । गोपगोपीगणाकीर्णं पुराणपुरुषोत्तमम् ।। ६६।।
गच्छावः स हरिः कृष्णस्त्वद्दुःखं व्यपनेष्यति । इत्युक्त्वा तं करे धृत्वा गोलोके गतवान् हरिः ।।६७ ।।
लक्ष्मीनारायणः श्रीमान् पूजासामग्रिकायुतः । श्रीकृष्णार्थं राधिकार्थे वस्तूनि विविधानि च । ।६८ ।।
रत्नानि भूषणानि वस्त्राणि श्रांगारिकाणि च । सुगन्धद्रवरम्याणि पेयानि भोजनानि च ।।६९।।
फलानि मुखवासानि दिव्यस्वर्णादिकानि च । असंख्योपकरणानि राजयोग्यानि वै प्रभुः ।।७ ० ।।
सह नीत्वा तु गोलोकं प्राप्तौ कृष्णनरायणम् । विरजायां च तौ स्नातौ शतशृंगं गतौ च तौ ।। ७१ ।।
मलमासमलान्यत्र नष्टानि विरजाऽऽप्लवात् । मलमासद्वितीयायां तिथौ स्नातुर्मलानि वै ।।७२।।
बहुजन्मोपार्जितानि नाशमेष्यन्ति मूलतः । विरजास्नानपुण्यं च प्राप्स्यन्ते व्रतिनो जनाः ।।७३ ।।
स्नानमात्रेण गोलोकप्राप्तिः स्यान्नात्र संशयः । रासमण्डलभूमिं चाऽऽलोक्य वृन्दावनादिकम् ।।७४।।
धूलीं च मस्तके कृत्वाऽक्षयभाण्डीरसद्वटौ । विलोक्य मुख्यदुर्गं च प्रविश्य गोपिकाश्रिताम् ।।७५।।
वसतिं षोडशगोपुराभ्यन्तरनिवासिनीम् । ययतुश्च भवनान्तः राधाकृष्णसमीपतः ।।७६ ।।
विलोक्य दिव्यं युगलं चक्रतुर्दण्डवच्च तौ । नेमतुः पादयोर्द्वाभ्यां प्रसन्नाभ्यां सभाजितौ ।।७७।।
सुसत्कृतौ यथायोग्यासने तौ तु निषेदतुः । नारायणं तदा कृष्णो हस्तेनादाय हर्षतः ।।७८ ।।
निमिमील तु बाहुभ्यां वक्षः कृत्वा च वक्षसि । ध्वजे सिंहासने नारायणं निषाद्य वै मुहुः ।।७९ ।।
हास्यप्रसन्नतायुक्तो जिज्ञासां कृतवान् प्रभुः । हेतुश्चागमने नारायणेन कथितस्तदा ।।८ ० ।।
पूजितश्च ततो नारायणेन भगवान् स्वयम् । पञ्चामृतैः स्नापितश्च राधया सहितः प्रभुः ।।८ १ ।।
दुग्धेन स्नापितः पश्चात्पयसा स्नापितः प्रभुः । वस्त्रेणाऽऽवर्तितः पश्चादर्चितश्चन्दनादिभिः ।।८ २।।
शृंगारितो विभूषाभिर्दिव्यवस्त्राद्यलंकृतः । सधूपदीपाऽऽरार्त्रिकप्रदक्षिणास्तवादिभिः ।।८३ ।।
सरत्नमणिसौवर्णस्थालोपदाभिरर्चितः । फलैः रसैर्भोजनैश्च विविधैस्तर्पितः प्रभुः ।।८४।।
राधिकाद्याः कृष्णपत्न्यो योग्योपट्टाभिरर्चिताः । शक्त्याऽपि मलमासेन श्रीकृष्णश्चार्चितस्तदा ।।८५।।
प्रसादं लब्धवान् मासो मलश्चाप्याशिषं सतीम् । श्रीकृष्णो राधया युक्तः प्राहाऽनुग्रहपूर्वकम् ।।८६।।
यथाऽहं पूजितश्चात्र द्वितीयादिवसे त्वया । तथा तव तिथौ लोके द्वितीयायां प्रगे निशि ।।८७।।
राधाकृष्णं यथाशक्ति पूजयिष्यन्ति ये जनाः । तत्सर्वे संग्रहीष्यामि राधया सहितस्तदा ।।८८।।
गोदुग्धेन द्वितीयायां स्नपनीयो विशेषतः । पञ्चामृतैर्जलैर्वापि सुवर्णमूर्तिकः प्रभुः ।।८९।।
सुवर्णाम्बरभूषाभिरलंकार्यो द्रवादिभिः । श्रंगारिकोपकरणेरलंकार्यः सराधिकः ।।९ ० ।।
धूपदीपादिभिः पूज्यः कंकणैर्मुकुटादिभिः । मिष्टान्नैस्तर्पणीयश्च रत्नभूषादिभिस्तथा ।।९१ ।।
अत्यर्थं पूजनीयोऽहं तृप्तो भवामि सर्वथा । दास्ये प्रत्युपदां तेभ्यो विविधाऽसंख्यसम्पदः । । ९२ । ।
यथा सन्ति मम लोके तथा दास्ये न संशयः । अन्ते दास्ये च गोलोकं स्मृद्धं सुखं च शाश्वतम् ।। ९ ३ ।।
इत्याशीर्वादमादाय मलमासोऽपि भाग्यवान् । नारायणसमक्षं वै जातोऽधिकप्रतापवान् ।। ९४।।
उवाच तु ततः कृष्णं त्वया भाग्येन वर्धितः । यथा सस्वामिको भूयासं तथा नाथ मे कुरु ।। ९५ ।।
अज्ञानान्धतमोहर्तर्ज्ञानमार्गप्रदीपक । असंख्यगोलकोत्पत्तिविनाशादिप्रकारण ।। ९६ ।।
योग्यदृश्य स्वभक्ताभिर्दृश्य दिव्यसुविग्रह । शंखचक्रगदापद्महेतिश्चतुर्भुजार्चित ।। ९७।।
असंख्यराधिकालक्ष्मीसमपत्नीप्रसेवित । इन्दीवरदलश्याम पंकजारुणलोचन ।।९८ ।।
कोटिशारदपूर्णेन्दुशोभातिरोचनानन । कोटिमन्मथसौन्दर्यलीलाधाममनोहर ।।९९।।
श्रीवत्सवक्षःसंराजत्कौस्तुभहारराजित । सद्रत्नकोटिसन्नद्धकिरीटकटकोज्जल ।। १०० ।।
भक्तमंगलकृद्विष्णो कृष्णनारायणप्रभो । निरस्याऽमंगलं सर्वे मम मंगलमावह ।। १०१ ।।
इति स्तुतस्तदा कृष्णः प्रसन्नोऽभूदुवाच ह । एतत्स्तोत्रप्रपाठेन सत्फलं प्राप्स्यते जनः ।। १० २।।
भक्तिर्भविष्यति कृष्णो पुत्रपौत्रविवर्धिनी । भविष्यत्यपकीर्तेश्च क्षयः कीर्तिर्भविष्यति ।। १०३ ।।
पूजायां यानि वस्तूनि त्वर्पितानि च तानि तु । लक्षगुणानि भक्ताय प्रदास्ये प्रवदाम्यहम् ।। १ ०४।।
अधिमासद्वितीयायां पूज्यश्चाऽहमनन्तकैः । दास्येत्वनन्तकं तस्मै यद्यदिष्टं व्रतार्थिनः ।। १०५ ।।
जलं वटाय दातव्यं भोज्यं विप्राय साधवे । शाटीं कन्याप्रवर्यायै दातव्या फललब्धये ।। १०६ । ।
आमान्नानि च देयानि विष्णुभक्ताय साधवे । स्वर्णदानं प्रदातव्यं विद्यार्थिने च योषिते । । १०७ । ।
द्वितीयायां प्रदातव्यं सर्वे वै द्विगुणं शुभम् । कोटिगुणं प्रपद्येत फलं चात्र परत्र च ।। १०८ । ।
इति कृष्णो वदन्नारायणं प्राह पुनः पुनः । नारायण हरे लक्ष्मीपते वैकुण्ठभास्कर । । १०९ ।।
मलमासस्य वृत्तान्तं जानेऽहं सकलं विभो । भवता श्रीपतिना च कथितं तद्विशेषतः ।। ११० ।।
अयं त्वधिकमासोऽस्ति व्यपेतरविसंक्रमः । मलिनोऽयमनर्होऽस्ति शुभकर्मणि वर्जितः ।। १११ ।।
इति मत्वा सृष्टिदेवैस्तिरस्कृतोऽपि मद्गृहम् । समायातो ह्यतश्चायं मलिनो नास्ति चाऽद्यतः ।। ११ २ ।।
दिव्योऽस्ति परिशुद्धोऽस्ति पूजनीयोऽस्ति सर्वथा । किन्तु तस्य भवेत् स्वामी कोऽद्य चात्र विचार्यताम् ।। ११३ ।।
अन्येषामपि मासानां कृष्णः स्वामी भवाम्यहम् । भवानपि तथा स्वामी भवतीति विचार्यताम् ।। १ १४।।
तस्मात्त्रयोदशे मासि स्वामित्वं त्वावयोर्नहि । तदर्थे ननु गच्छामो यत्र श्रीपुरुषोत्तमः । । ११५ ।।
विराजते परे धाम्न्यक्षरे राजाधिराजकः । अवतारा असंख्याता यस्माद्भवन्ति मादृशाः ।। ११ ६।।
गोलोकादिकधामानि यद्धामांशा भवन्ति वै । स विचार्यैव चैतस्य स्वामिनं कल्पयिष्यति । । १ १७।।
अवतारी त्वनादिश्रीकृष्णः श्रीपुरुषोत्तमः । योजयिष्यति यं त्वस्मिन् सोऽस्य स्वामी भविष्यति ।। ११८ ।।
इति विचार्य सहसा कृष्णोनारायणोऽधिकः । ययुस्त्रयोऽक्षरे धाम्नि यत्र श्रीपुरुषोत्तमः ।। ११ ९।।
इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये बदरिकाश्रमे नरनारायणदर्शनार्थमृषि मुनि पर्वत नदी वृक्ष वल्ली सुर सम्वत्सर मासादिभिरागतैर्मलमासस्याऽस्पृश्यत्वेन तिरस्कारे कृते मलमासस्य वैकुण्ठगमनं तत्रत्यनारायणेन सह गोलोकगमनं तत्रत्य श्रीकृष्णराधिकापूजनोत्तर सभाग्यतां प्राप्याशीर्वादान् संगृह्याऽक्षरब्रह्मलोकं प्रति सस्वामिकत्वार्थे गमनमिति निरूपणनामाचतुर्नवत्यधिकद्विशततमोऽध्यायः ।। १.२९४।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! ययुः कृष्णो नारायणोऽधिमास्तथा । गोलोकादुपरि दिव्यव्योममार्गेण वै क्षणात् ।। १ ।।
सच्चिदानन्दसन्दोहान्वितमक्षरधाम यत्। । ब्रह्महृदे त्रयः स्नात्वा पुरुषोत्तमरूपिणः ।। २ ।।
भूत्वाऽवलोकयन्तश्च मुक्तानां मण्डलानि ते। द्विभुजान्द्व्यष्टवर्षीयान् रूपानुरूपविग्रहान् ।। ३ । ।
कोटिनारायणतुल्यान् रूपतेजःसुसिद्धिभिः । गोलोकादपि सौन्दर्ये तेषु कोटिगुणं च वै ।। ४ । ।
वर्तते तादृशान् दृष्ट्वा पुरुषोत्तमरूपिणः । त्रय आश्चर्यसम्पन्ना बभूवुः कृष्टमानसाः ।। ५ । ।
उद्यानानि च सौधानि मुक्तानामवलोक्य ते । विमानान्युपकरणान्यालोक्य विस्मयं गताः ।। ६ ।।
अक्षरं वस्तु चालोक्य विरागोऽभूत् स्वधामसु । अक्षरधामवस्तूनां तुलनायां स्वधामजम् ।। ७ ।।
वस्तुमात्रं निरानन्दमिवाऽऽभातं तदा तु तैः । नीतं यद्वस्तु वैकुण्ठात् पुरुषोत्तमपूजने ।। ८ ।।
गोलोकाद्वा च तत्सर्वं निरानन्दमभासत । निस्तेजस्कमिवैभिस्तद्दृष्टं स्वधामवस्तुकम् ।। ९ । ।
ततस्ते भग्नमनसो ह्युपदाविषये खलु । सञ्जातास्तावता ब्रह्मसरस्तत्र व्यलोकयन् ।। १० ।।
अनन्तयोजनायामं दिव्यवारिरसात्मकम् । यत्र स्नानेन वस्तु श्रीपुरुषोत्तमभोग्यताम् ।। ११ ।।
लभते ते त्रयः स्नाता ब्रह्मसरसि वै मुदा । उपदाः प्रोक्षितास्तेन योग्यं वस्तु तदाऽभवत् ।। १२ ।।
अथ दृष्टो विशालश्च लक्षयोजनविस्तृतः । प्रासादो रक्षकान् पृष्ट्वा द्वारमुक्ताँस्त्रयस्ततः ।। १३ ।।
विविशुर्यत्र वै राजाधिराजः पुरुषोत्तमः । राजतेऽसंख्यदिव्यात्ममुक्तैः संसेवितः प्रभुः ।। १ ४।।
कृष्णनारायणौ वीक्ष्य त्वागतौ पुरुषोत्तमः । अतीव जहृषे स्वामी नमन्तौ तौ पुनः पुनः ।। १५ ।।
पप्रच्छ कुशलं स्वस्वधाम्नः स्वस्ति च शाश्वतम् ।। भगवत्कृपया सर्वं स्वस्तिमत्कुशलं बहु ।। १६ ।।
इत्युक्त्वाऽऽसनयोस्तौ संराजितौ नृनरायणौ । ततीयाऽधिकमासोऽपि कृत्वा वै पञ्चदण्डवत् ।। १७।।
दासवत् तिष्ठते पार्श्वे तयोस्तावत्पुमुत्तमः । अक्षराधिपतिस्तौ च पप्रच्छ तं तदा प्रति ।। १८ ।।
कोऽयं 'किमर्थमायातो युवाभ्यां धाम्नि मे त्विह । मन्ये शरण्यमाश्रित्य महालाभार्थमागतम् ।। १९ ।।
एवं पृच्छति सर्वेशे कृष्णनारायणावुभौ । पूजयामासतुर्दिव्यैः पारिबर्हैरनन्तकैः ।। २ ० ।।
ब्रह्मसरोजलैः पूर्वे सम्यक् पादावनेजनम् । पञ्चामृतैर्दिव्यरसैराप्लवनं तदुत्तरम् ।। २१ ।।
जलैः रसात्मकैश्चाभिषेचयित्वाऽक्षराधिपम्। चन्दनादिद्रवैः सम्यक्पूजयित्वा ततश्च तौ ।।२२।।
वस्त्राभूषण हारादि चार्पयामासतुर्मुदा । छत्र चामर रत्नादि पादुका यष्टिकादिकम् ।।२३।।।
ऊर्मिकांगद मुकुट शृंखला कल्गिमण्डनम् । स्वर्णफुल्लरिका माला रशना कंकणादिकम् ।।२४।।
भक्ष्यभोज्य लेह्य चोष्य शर्करावृतमिश्रितम् । भोज्यान्नपेयसुस्वाद्य भोग्यचर्वणकादिकम् ।।२५।।।
स्वर्णाम्बरासन पात्र दिव्यफलरसादिकम् । यद्यद् योग्यं समर्प्यं चाऽभूत्तदाऽर्पयतां तदा ।।२६।।।
आरार्त्रिकं कृतवन्तौ स्तुत्वा निषेदतुः सुखम् । गृहीतातिथ्यसत्कारौ प्रोचतुश्चाधिमासिकम् ।।२७।।
अयं मासोऽधिकमासो मलमासोऽस्ति धिक्कृतः । सर्वमासैः ऋषिभिश्च निषिद्धः शुभकर्मसु ।। २८।।
तदयं वै मया कृष्णेनाऽस्य सौभाग्यता कृतो । किन्तु विनाधिदेवं स गणनां तेषु नार्हति ।।२९।।
एतदीयं महद्दुःखमनिवार्य भवदृते । अत एनं निरातंकं सानन्दं कृपया कुरु ।।।३०।।
अस्मदर्थं च कर्तव्यमस्य दुःखनिवारणम् । श्रुत्वैवं त्वक्षरातीतः प्राह श्रीपुरुषोत्तमः ।।३ १ ।।
समीचीनं कृतं कृष्ण यदत्रागतवान् भवान् । नारायणोऽपि चात्राद्यागतस्तदपि शोभनम् ।।३२।।
मलमासे करे कृत्वा लोके कीर्तिमवाप्स्यथः । भवद्भ्यां संधृतो हस्ते स मयैव करे धृतः ।। ३३ ।।
अत एन करिष्यामि सर्वोपरि मया समम् । यथाऽहं स्वगुणैर्युक्तस्तथैनं विदधामि वै ।। ३४।।
सामर्थ्यैश्चाऽर्च्यभावेन तथा वरपराक्रमैः । मम तुल्यं विदधामि न तोऽन्यत् किमपेक्ष्यते ।।३५।।
विनष्टसर्वपाप्मत्वं सत्यसंकल्पदायिता । कामनाफलदायित्वं मत्सारूप्यप्रदायिता ।।३६।।
स्वर्गादिप्रापयितृत्वं मोक्षस्थानप्रदायिता । एभिः सामर्थ्यकैर्युक्तो भवत्वधिकमासकः ।।३७।।
मम सर्वे गुणाश्चान्येऽधिमासाय समर्पिताः । पुरुषोत्तमसंज्ञा मे वस्तुष्ट्यै चार्पिता तथा ।। ३८।।
अस्य स्वामी भवाम्येव ब्रह्मेशः पुरुषोत्तमः । मम नाम्ना जगत्सर्वं तन्नामाऽपि ग्रहीष्यति ।।३९।।
विधूय स्वानि पापानि पावनं च भविष्यति । मत्स्वरूपो ह्ययं भूत्वा जगत्पूज्यो भविष्यति ।।४० ।।
सर्ववन्द्यः सर्वमासोत्तमो मासो भविष्यति । एनमाश्रित्य वै लोका व्रतिनो जापकाऽर्चकाः ।।४ १ ।।
दातारः स्नानकर्तारो भोजयितार इत्यपि । किंचित्पुण्यस्य कर्तारश्चापि मे तु प्रभावतः ।।४२।।
दुःखदारिद्यतापाऽधिव्याधिपीडाविधूय च । सुखसम्पद्धनदाराऽपत्यारोग्यसमृद्धिभिः ।।४३।।
राजमानसुभवना भविष्यन्त्युत्सवान्विताः । शृंगाराभरणान्नार्थपात्रपरिच्छदादिभिः ।।।४४।।
दासदासीजनमित्रसेवकाश्चितभूमिभिः । योगक्षेमबलाऽदैन्यैर्भविष्यन्ति महोत्सवाः ।।४५।।
भोज्यपानोपभोग्यैश्च सत्ताविद्याप्रथादिभिः । उद्यानयानवाहाद्यैर्भविष्यन्ति समन्विताः ।।४६।।
रसैर्वृक्षफलैःपुष्पैर्गोधनैः स्वर्णरूप्यकैः । मणिरत्नहीरकाद्यैर्भविष्यन्ति सदोज्ज्वलाः ।।४७।।
पुरुषोत्तममासस्य व्रतिनो मद्गता हि ते । मत्तः प्राप्स्यन्ति सर्व ते यथा चिन्तामणेर्जनः ।।४८।।
स्वर्गे वा वैधसं वापि वैराजं वैष्णवं च वा । रौद्रं भौमं च वा क्षैर स्थलं प्राप्स्यन्ति यन्मतम् ।।४९।।
पत्नीः पतीन् गृहं सौधान् सुपुत्रान् रूपवैभवान् । अक्षतानव्ययान् प्राप्स्यन्त्यधिमासस्य सेवनात् ।।५० ।।
सकामा वापि निष्कामाः प्राप्स्यन्तीष्टतमं ह्यतः । सकामश्चाथ निष्कामो यथाऽहं पुरुषोत्तमः ।।५ १ ।।
तथाऽयं वै जनेष्टस्य पूरको मोक्षदः कृतः । यथाऽहं परिपूर्णोऽस्मि तथाऽयं चाऽव्ययः कृतः ।।५२।।
एवं ये चेषणावन्तो यद्वेषणाविवर्जिताः । पूजयिष्यन्ति ते स्वेष्टं लब्ध्वा मोक्षमवाप्नुयुः ।।९३।।
एनं प्रपूज्य कर्माणि कर्मिणां यान्ति भस्मताम् । आत्मा दिव्यो महाशुद्धो मामेवैष्यति चाक्षरे ।।५४।।
मदर्थं वै महायत्ना यतयो ब्रह्मचारिणः । साधवश्च महात्मानो योगिनस्तापसास्तथा ।।।९५।।
योगिन्यः सांख्ययोगिन्यः साध्व्यः सत्यस्तथाऽधवाः । विरागाश्च विरागिण्यो निर्वाणसत्कृतादराः ।।५६।।
निर्मोहिन्यस्तथा ब्रह्मवादिन्यो न्यासतत्पराः । प्रयतन्ते वत्सराणां सहस्रात्प्रासहस्रकम् ।।५७।।
तथापि नैव यान्त्येते मद्धाम परमात्परम् । पुरुषोत्तमभक्तास्तु यान्ति मद्धाम मासतः ।।५८।।
अन्ये तपस्विनः शान्ता निराहारा निराशयाः । पत्रपुष्पफलाहारा जलमात्रनिषेविणः ।।५९।।
वायुमात्र कृताहारा बाष्पभोजिन एव च । धूम्रपाना जलावासाः शीतातपसहास्तथा ।।६ ० ।।
शुष्कदेहा भग्नशिश्ननाडिका ब्रन्धरन्ध्रगाः । परकायप्रवेशार्हा व्रतदार्ढ्ययुता अपि ।। ६१ ।।
मम भक्तिं विना नैव यान्ति मद्धाम ते खलु । पुरुषोत्तममासस्य व्रतिनो ये तु ते मम ।। ६२।।
भक्ता मम व्रतिनस्ते मासमात्रेण मत्पदम् । मत्कृपया प्रयास्यन्ति शाश्वतं त्वमृतं पदम् ।।६३ ।।
कृष्ण! नारायण! तस्मान्मासोऽयं भवतोः कृते । कृतो मया तु मूर्धन्यः सर्वकामार्थसाधकः ।।६४।।
ये जनाः सेवयिष्यन्ति मासं श्रीपुरुषोत्तमम् । धर्मार्थकाममोक्षाणां सिद्धिमाप्स्यन्ति ते जनाः ।। ६५ ।।
तस्मात् संसेव्यतां सर्वैर्मासोऽयं पुरुषोत्तमः । श्रेष्ठक्षेत्रनिभो मासोऽधिको बीजप्ररोहणे ।।६६ ।।
फलं कोटिगुणं पुण्यं ददाति पुरुषोत्तमः । स्वर्गे भुक्त्वा पुनर्यांति चातुर्मास्यप्रयाजिनः ।। ६७।।
अक्षरं शाश्वतं यान्ति पुरुषोत्तमयाजिनः । सप्ताऽधिकसप्तशतकुलान्युद्धारयत्ययम् ।। ६८ ।।
अन्यमासव्रतकर्ता पुनर्जन्मातिगो न वै । मम मासे व्रतकर्ता पुनर्जन्मगमो न हि ।।६९।।
अत्र मासे त्वहं साक्षान्निवसाम्यधिदैवतः । मन्नामाऽपि कृतं चास्य तस्मात्तदात्मको ह्यहम् ।। ७० ।।
तदाश्रितानां सर्वेषां पूरयिष्यामि वाञ्छितान् । गणयिष्ये नाऽपराधान् भक्तां त्वस्य सर्वथा ।। ७१ ।।
मे भक्त्यपेक्षया मदीयस्य भक्तिर्मम प्रिया । विलम्बो न मदीयमासभक्तानां मनोरथे ।।७२।।
मम भक्तं विहायैव तेषां पूर्णं करोम्यहम् । सर्वं ददामि तेभ्यो वै यतो मन्मासयाजिनः ।।७३ ।।
ममातिवल्लभास्ते वै न तथा मुक्तकोटयः । मम मासं समासाद्य जपदानादिवर्जिताः ।।७४।।
स्नानपूजाविहीनाश्च सत्कार्यपरिपन्थिनः । कूपवापीतडागादिपूर्तयज्ञविवर्जिताः ।।७५ ।।
देवतीर्थद्विजसाधुसाध्वीदेवालयद्विषः । निन्दकास्ते भविष्यन्ति काकवर्चस्कभक्षिणः ।।७६ ।।
कुष्ठिनः श्वशृगालास्ते भविष्यन्ति निराश्रयाः । दुर्भाग्यानां निन्दकानां सुखं न स्याद्दिवानिशम् ।। ७७ ।।
मम मासे व्रतिनां ये दुःखं कुर्वन्ति चाऽधमाः । परताडनपाशास्ते भविष्यन्ति प्रगर्दभाः ।।७८ ।।
तिरस्कुर्वन्ति मे मासं ये च धर्मविदूषकाः । भक्तिमार्गेऽत्र विघ्नस्य कर्तारो येऽप्यसूयकाः ।। ७९ । ।
वृक्षवागूरिकास्ते तु भविष्यन्ति मलादनाः । प्रतितृतीयवर्षे ये ह्यासाद्य पुरुषोत्तमम् ।।८ ० । ।
आत्मश्रेयो न कुर्वन्ति ते यास्यन्ति ममालयम् । दुःखदामानलव्याप्ताश्चात्र भूत्वा प्रदुःखिनः ।।८ १ । ।
श्रीदः सम्पत्करस्तस्मादतिमृत्युजयप्रदः । व्यर्थश्चायं न नेतव्यो मासो मे पुरुषोत्तमः । ।८ २ । ।
कन्यका वा युवत्यश्च सधवाश्चाऽधवास्तथा । सपत्न्यो योषितो वृद्धाः सुभगा दुर्भगा अपि । । ८३।।
असुखाः सुसुखाश्चापि स्वेष्टप्राप्त्यर्थमेव याः । मम मासे करिष्यन्ति व्रतं दानं मदर्चनम् । ।८४ ।।
स्नानं मालां देवसेवां पुण्यकार्याणि यान्यपि । तासां सर्वप्रदश्चाहं भगवान्पुरुषोत्तमः ।।८५ । ।
धर्मं कामं तथा द्रव्यं सुखं मोक्षं ददाम्यहम् । भोज्यं पाचनसामर्थ्यं रतेः शक्तिं वरं पतिम् ।।८ ६ । ।
पुत्रं पौत्रं दासदासीः तत्तदिष्टं ददाम्यहम् । भ्रातृपितृकुटुम्बस्य सुखदाता भवाम्यहम् ।।८७।।
याभिर्मासो योषित(?)श्च शून्यो मे पुरुषोत्तमः । तासां शून्य भवेत्सर्वं सद्भाग्यं शून्यतां व्रजेत् ।। ८८ ।।
धनाढ्या ये गृहस्थाश्च विना दानादिकं मम । मासं शून्यं यापयन्ति तत्कोशः शून्यतां व्रजेत् । । ८९ ।।
ब्रह्मचारिवानप्रस्था यतयस्त्यागमार्गगाः । मासं शून्यं विना भक्तिं यापयन्ति च ते यदि ।। ९० ।।
तपस्विनोऽपि ते सर्वे मुक्तिशून्या भवन्ति वै । शूद्राः स्त्रियस्तथा दासवर्गाः श्रीपुरुषोत्तमम् ।। ९१ ।।
गुरोर्देवस्य च सेवां विना निर्गमयन्ति चेत् । तेऽपि सम्पद्विहीनाः स्युर्दुःखदारिद्र्यपीडिताः ।। ९२ ।।
गुरुः सेव्यो हरिः सेव्यः सेव्याः पित्रादयो जनाः । गौः संसेव्या पतिः सेव्यः सती सेव्या यथा ह्यहम् ।। ९३ ।।
तत्र तत्र स्थितश्चाहं फल दास्यामि सर्वथा । तस्मात् सर्वात्मना सर्वैः सेव्यः श्रीपुरुषोत्तमः । । ९४ ।।
आत्मश्रेयः प्रकर्तव्यं धर्मो भक्तिश्च मोक्षणम् । विधुरत्वं च वैधव्यं मलमासस्य नाऽऽवहेत् ।। ९५ ।।
कृष्णनारायणमासाः शृण्वन्तु मद्वचो ध्रुवम् । ममाज्ञया तु ये लोका ब्रह्माण्डवर्तिनः खलु ।। ९६ । ।
यत्र यत्राऽस्त्ययं मासस्तत्र तत्रापि मामकम् । अधिष्ठानस्वरूपं मां पूजयिष्यन्ति सर्वथा । । ९७।।
ते मद्भक्ता मम धामाऽक्षरं प्राप्स्यन्ति शाश्वतम् । गोलोकं चापि वैकुण्ठं चामृतं वापि चैश्वरम् ।।९८।।
यथेष्टं कृपया ते ते तत्तद्भक्तास्तथा तथा । यास्यन्ति परमं स्थानं मम मासप्रभावतः ।।९९।।
तृतीयायां मम मासे युवाभ्यां पूजितोऽस्म्यहम् । तथा ये पूजयिष्यन्ति तेषां पूर्णमनोरथाः ।। १०० ।।
सर्वथैव भविष्यन्ति स्नानदानजपादिभिः । युवां चिन्तां कुरुतं मा लक्ष्मीश राधिकेश्वर ।। १०१ ।।
यातं निजं निजं लोकं गृहीत्वा पुरुषोत्तमम् । इत्यादेशमधिप्राप्य ते प्रणम्य ययुस्त्रयः ।। १ ०२।।
शृणु लक्ष्मि! तृतीयायां स्नास्यन्ति येऽधिके जलैः । तेषां ब्रह्महदे स्नानं तथा ब्रह्मसरोवरे ।। १० ३।।
कृतं स्नानं तु यद्वद् वै तत्पुण्यं संभविष्यति । मम पूजा यथा ताभ्यां कृता तत्र यदर्पितम् ।। १ २४।।
तथा पूजां मम मासे करिष्यन्ति च ये जनाः । दानान्यपि करिष्यन्ति तत्पुण्यं शाश्वतं भवेत् ।। १ ०५।।
तृतीयायां मम पूजा कृता ताभ्यां यतो मम । तृतीयायां महापूजा कर्तव्या मानवैरपि ।। १०६।।
नारायणस्य कृष्णस्याऽपि पुरुषोत्तमस्य च । कर्तव्या महती पूजा सुखमोक्षादिदायिनी ।।१ ०७।।
यथाऽहं ब्रह्मधाम्न्यस्मि तथा मासात्मकोऽपरः । ब्रह्माण्डे सर्वथा चास्मि तथाऽस्म्यन्तर्हृदि स्थितः ।। १०८।।
कृष्णनारायणश्चास्मि राधालक्ष्म्यादिसेवितः । अहं सर्वं विजानामि नान्ये जानन्ति मां तथा ।। १ ०९।।
पार्वत्या प्रभया साकं माणिक्या विहरामि च । नैकरूपोऽप्येक एवाऽस्मीति विद्धि मदंगने! ।। ११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये श्रीकृष्णनारायणमलमासानामक्षर-धामगमने ब्रह्मह्रदब्रह्मसरोवरस्नानोत्तरं श्रीपुरुषोत्तमस्य-सन्निधिगमनं सुपूजनं स्वनिवेदनोत्तरमधिकमासस्य पुरुषोत्तमनामैश्वर्यस्वामिकत्वादिप्राप्तिस्तृतीया-तिथिकृत्पूजनदानादिफलनिरूपणं कृष्ण-नारायणमासानां पुनः स्वस्वधामाऽ- ऽगमनमित्यादिनिरूपणनामा-पञ्चनवत्यधिकद्विशततमोऽध्यायः ।।।१.२९५।।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! त्रयस्तेऽपि गत्वा गोलोकमित्यथ । विशश्रमुः क्षणं पश्चात्। कृष्णो द्वाभ्यां प्रपूजितः ।। १ ।।
पुरुषोत्तममहिमा गोलोके बहुधाऽभवत् । कृष्णं नत्वा चाययतुरधोमास नरायणौ ।। २ ।।
वैकुण्ठं चाथ तत्रापि मासो महत्त्वमाप्तवान् । पुरुषोत्तममासं च वासयामास वै हरिः ।। ३ ।।
वासमासाद्य मासोऽपि रमते विष्णुना सह । मासानामधिपो भूत्वा गौरवेण व्यवस्थितः ।। ४ ।।
अथात्र च महालक्ष्म्या गौरवेण प्रपूजितः । द्रुतं नारायणेनापि प्रतिब्रह्माण्डमेव ह ।। ५ ।।
तृतीयायाश्चापराह्णे प्रेषयित्वा स्वपार्षदान् । समुद्धोषितमेवाऽयं मलमासो महोत्तमः ।। ६ ।।
पुरुषोत्तमनामाऽसौ पुरुषोत्तमदैवतः । पुरुषोत्तमनाथेन स्वर्गदो मोक्षदः कृतः ।। ७ ।।
स्वगुणाश्चार्पिता ह्यस्मै न न्यूनः पुरुषोत्तमात् । पूजने वन्दने जापे दाने स्नाने व्रतेऽपि च ।। ८ ।।
पुरुषोत्तमतुल्योऽयं पुरुषोत्तमयोगदः । नरो नारी सुरो देवी येऽपि स्थावरजंगमाः ।। ९ ।।
भावतोऽप्येककालेऽपि व्रतं चाथ प्रपूजनम् । अधिमासस्य सर्वांगं करिष्यन्ति मदिच्छया ।। १० ।।
प्राप्स्यन्ति स्वेप्सितं सर्वं नारायणो ब्रवीम्यहम् । किमु तर्हिं त्रिकाले च व्रते वक्तव्यमस्य हि ।। ११ ।।
मासव्रते तु नैवैव वक्तव्यं शिष्यते मम । तस्मात्पूज्यश्चैककालं द्विकालं समयत्रयम् ।। १२।।
यथेष्टं प्राप्स्यति नारी नरोऽपीष्टमवाप्स्यति । क्षणं क्षणार्धं घटिकां सायं प्रातः प्रमध्यके ।। १३ ।।
यथाशक्ति यथावस्तु पूज्योऽयं पुरुषोत्तमः । नारायणो ब्रवीम्यत्र पुरुषोत्तमसाक्षिकः ।। १४।।
श्रीकृष्णसाक्षिकश्चापि पुरुषोत्तमसंज्ञके । मासेऽत्र मां क्षणमात्रं पूजयिष्यन्ति भावत ।। १५ ।।
स्वर्गे सत्यं चैशलोकं प्राप्स्यन्ति स्वेष्टमित्यपि । प्राप्स्यन्ति मां सुखवार्धि परंब्रह्म परात्परम् ।। १६ ।।
नारायणेच्छया येऽत्र पूजयिष्यन्ति भावतः । वैकुण्ठस्थं च ते मां वै प्राप्स्यन्त्येव नरायणम् ।। १७।।
श्रीमत्कृष्णेच्छया येऽत्र पूजयिष्यन्ति भावतः । गोलोकस्थं च ते मां वै प्राप्स्यन्त्येव हि माधवम् ।। १ ८।।
पुरुषोत्तमकामेन पूजयिष्यन्ति ये जनाः । ब्रह्मधामगतं प्राप्स्यन्त्येव मां पुरुषोत्तमम् ।। १९।।
यद्यद्रूपं च मां येऽत्र पूजयिष्यन्ति देहिनः । तत्तद्रूपं तत्र तत्र प्राप्स्यन्ति ते तु मां तथा ।।२०।।
इति प्रश्रावितं लक्ष्मि! ब्रह्माण्डेषु पुनः पुनः । महादुन्दुभिभिर्दूतैः पार्षदैर्दिव्यविग्रहैः ।।२१ ।।
मलमासस्तृतीयायां निश्येव बहुकोटिभिः । सत्कृतः पूजितः सम्यग्भोजितः श्रममाप वै ।।२२।।
चतुर्थ्यां तु प्रगे सप्तद्वयलोकनिवासिभिः । स्नानव्रतार्चनदानाद्यैरतीव प्रतोषितः ।।२३।।
बहवः स्थावराश्चापि चेतना व्रतकारिणः । समाजग्मुर्हरेर्धाम लक्षशः कोटिशस्तथा ।।२४।।
चतुर्थ्यास्तु प्रगे कोटिदासीयुक्ता विमानगा । रमादेवी समायाता वैकुण्ठं क्षैरसागरात् ।।२५।।
वधूटीरूपतां प्राप्ता वरमालासमन्विता । लक्ष्मीसमा तु सर्वांगे न वै न्यूना मनागपि ।।२६।।
नारायणाऽऽज्ञया सा तु लक्ष्म्यादिभिः सुसत्कृता । सभाजिता ततो नारायणेनांऽके निषादिता ।।२७।।
लक्ष्म्यादयस्तदाश्चर्ये सम्प्रापुस्तद्विलोक्य वै । कथं पत्नीस्वरूपेयं स्वामीनांऽगीकृता द्रुतम् ।।२८।।
अथ लक्ष्म्या रमा पृष्टा तदितिवृत्तवित्तये । कथं कस्मात् समायाता कथं नारायणः पतिः ।।२९।।
कस्य पुत्री कथं प्राप्ता किं कृत्वैनं नरायणम् । वद सुभ्रु स्वसः सर्वं परिवेद्यं सुखोत्तरम् ।।३०।।
लक्ष्म्या नारायणेनापि भोजिता सत्कृता हि सा । समारेभे प्रवक्तुं च स्वकं वृत्तं यथातथम् ।। ३१ ।।
वरमालां हरेः कण्ठे प्रसमर्प्याऽग्रतः स्थिता । नारायणांऽगुष्ठवारि पीत्वा कृत्वा प्रदक्षिणम् ।।३६।।
कुंकुमतण्डुलैः कृत्वा भाले शोभनचन्द्रकम् । वरमालाऽर्धकं स्वस्याः कण्ठे कृत्वाऽथ पायसम् ।।३३।।
भोजयित्वा हरिं दत्वा ताम्बूलं तत्प्रसादकम् । गृहीत्वा च स्वयं नारायणांके कुसुमांजलिम् ।।३४।।
साक्षतां च सलाजां च प्रसमर्प्याऽऽसने स्थिता । पत्नी भूत्वा जगादेदं शृणु लक्ष्मि! रमोदितम् ।।३५।।
शृण्वत्सु सर्वभक्तेषु भक्तासु प्राह यद् रमा । मम पूज्ये महालक्ष्मि! तृतीयारात्रिसंचरे ।।३६।।
दुन्दुभिः सुश्रुतः सर्वैर्नारायणस्य नामतः । अधिमासे पूजकस्य पूरयिष्ये मनोरथान् ।।३७।।
मयाऽपि कन्यया क्षीरोदधेर्गृहे स संश्रुतः । वाञ्छितश्च पतिर्नारायणो लक्ष्मीपतिः प्रभुः ।।३८।।
मलमासे तृतीयायां सायं वै भोजनं विना । विना जलं व्रतं कृत्वा स्नात्वा चाऽपूजयं हरिम् ।।।३६।।
पृष्ट्वा मे जनकं क्षीरसागरं च तदाज्ञया । मण्डपं कदलीस्तम्भैः शोभितं पत्रतोरणैः ।।४० ।।
कारयित्वा च तन्मध्ये दोलां रम्यां सुशोभनाम् । लक्ष्मीनारायणमूर्तिं सौवर्णीं रत्नराजिताम् ।।४१।।
संस्नाप्य सर्वसामुद्रैः रत्नैः प्रपूज्य भावतः । दिव्यवस्त्रैर्विभूषाभिश्चालंकृत्य द्रवादिभिः ।।।४२।।
सम्पूज्य धूपदीपैश्च भोजनैर्जलपानकैः । आरार्त्रिकस्तुतिप्रदक्षिणाभिरभिवन्द्य च ।।४३।।
पुष्पांजलिं प्रदायैव संकल्प्य मनसा पुनः । पतिर्मे भव विश्वात्मन् रमायास्त्वं नरायण! ।।४४।।
इति संस्तूय चरणामृतं पीत्वा सुकोमले । पर्यंके श्रीहरिः प्रेम्णा मया प्रस्वापितः सह ।।४५।।
ध्यातो मया स निद्रायां सेवयामि हरिं ततः । पादसंवाहनं तस्य करोमीति निभालितः ।।४६।।
क्षणं स्वप्ने हरिर्दृष्टो मया स्वे शयने सह । हसन्मां स्वकटाक्षेणाऽऽकर्षयन्निव भावतः ।।४७।।
वदन् श्रुतो व्रतेन त्वां स्वीकरोमि प्रियां रमे! । प्रातर्नेतुं मम लोकं त्वागमिष्ये पुनः प्रिये ।।४८।।
इति द्रागेव संश्राव्य स्वयमदृश्यतां गतः । सोऽयं नारायणः स्वामी लक्ष्मीपतिर्विराजते ।।४९।।
मया नारायणे याते मुहूर्ते ब्राह्मसंज्ञके । चतुर्थ्यामधिमासस्य ध्यात्वैनं पुरुषोत्तमम् ।।५०।।
स्नात्वा शय्यागतं देवं स्नापयित्वाऽतिभावतः । क्षीरादिभिस्तथा वार्भिश्चन्दनादि प्रमर्द्य च ।।५१।।
श्रांगारिकाण्यर्पयित्वा विवाहवरवत् कृतः । दत्तं पीताम्बरं चातिमूल्यं पीतांगरक्षकम् ।।५२।।
प्रावारं स्वर्णताराढ्यं चोत्तरीयं तथोत्तमम् । मस्तके स्वर्णमुकुटः सकल्गिः कुण्डले श्रुतौ ।।५३।।
तिलकं चन्द्रको भाले कज्जलं नेत्रयोर्भ्रुवि । चन्दनं गण्डयोर्बिन्दू चिबुके स्वल्पचन्द्रकः ।।५४।।
पुष्पप्रावरणं भाले वरमाला च कण्ठके । वक्षसि स्वर्णहाराश्च कंकणे करयोः शुभे ।।५५।।
ऊर्मिकाश्चांगुलिग्रामे भुजबन्धौ भुजद्वये । तुलसीपुष्पहाराश्च खङ्गो हस्ते सुवर्णजः ।।५६।।
नारिकेलफलं चापि करे कट्यां च मेखला । नुपूरे पादयोश्चापि पादुके कानकी शुभे ।।५७।।
कामफलं प्रकोष्ठे वै भोजने पायसं शुभम् । ताम्बूलकं जलपानं फलं द्राक्षा रसात्मिका ।।५८।।
पूगीफलं ततो दानं दक्षिणा वरमालिका । हवनानि शतं चाष्टौ घृतेन वह्निमण्डले ।।५९।।
आरार्त्रिकं पञ्चवर्ति प्रदक्षिणचतुष्टयम् । वरेण्यो वरदश्चासि वरो मे भव सद्वचाः ।।६० ।।
पुष्पांजलिस्तथाऽर्घ्यं च नमस्कारः क्षमार्थना । विसर्जनं पादवारिपानं च शेषभक्षणम् ।।६१।।
स्वप्नदृष्टस्य संध्यानं प्रतीक्षा च कदाऽऽगमः । कृष्णनारायणनाम्ना भजनं चातिहर्षणम् ।।।६२।।
भोजनं बालिकाभ्यश्च दानं कन्याभ्य इत्यपि । ध्यानं नारायणे देहः क्षीरसागरके गृहे ।।६३।।
नेत्रे व्योम्नि परे मार्गे ह्यात्मा वैकुण्ठवासिनि । इत्येवं परिवाराढ्येऽधिमासे पूजिते हरौ ।।६४।।
नत्वा च जनकं कृत्वा पारणां पयसा मनाक् । यावत् तिष्ठामि भवने तावन्नारायणो ह्ययम् ।।६५।।
प्रादुर्भूतो ममाग्रेतिरूपानुरूपराजितः । प्रसन्नश्चातितेजस्वी चाऽस्पृशन्मां करेण वै ।।६६।।
स्वसमीपं समाकृष्य समागच्छेत्युवाच माम् । मलमासे ह्येककाले तृतीयायां त्वयाऽर्चितः ।।६७।।
निशि सवाहितश्चापि चतुर्थ्यां चातिपूजितः । प्रातरेव त्वया मान्ये! चार्जितोऽस्मि व्रतेन वै ।।६८।।
यथा भावनया सुभ्रु त्वया चाद्य प्रपूजितः । तथा प्राप्तोऽस्मि कल्याणि! सुभगेऽसि मम प्रिये! ।।६९।।
समागच्छ मया सार्धं जाताऽसि शाश्वती वधूः । तव व्रतेन ते दास्यः सर्वा अपि मम गृहम् ।।७०।।
समायान्तु मम दास्यो भाविन्यः सर्वथा रमे । इति कृत्वा गरुडं स्वं दर्शयामास सद्वरः ।।७१।।
यानानि वाहनान्यत्र यानि सन्ति सहस्रशः । मया मत्पितरं गत्वाऽऽवेदितं सर्वमेव तत् ।।७२।।
सोपि तत्र समागत्य दत्तवान् मां हरेः करे । पित्राज्ञया कृतकृत्या जाताऽरुरोह पक्षिणम् ।।७३।।
पित्रा प्रस्थापिता सैन्ययुता सत्कारपूर्वकम् । यौतकं संगृहीत्वैव समायाता हरेः पुरम् ।।७४।।
सोऽयं नारायणश्चात्र भवनेऽपि विलोकितः । मया सहापि स एव वर्तते पश्य भामिनि! ।।७५।।।
अधिमासे निशि प्रातः पूजनेऽस्य फलेन वै । प्राप्ताऽहं सत्पतिं नारायणं चात्र समागता ।।७६।।
नीता तेनैव कृष्णेन प्रापितांऽकमनेन वै । कृता नववधूश्चापि पत्नी वैकुण्ठवासिनी ।।७७।।
रमाऽस्मि ते सखी दासी त्वत्कृपाकांक्षिणी सदा । इत्येवं चाऽधिमासस्य फलं प्राप्तं मयाऽनघे ।।७८।।
मया नारायणपूजा कृता तद्वत् करिष्यति । कन्यका युवती वापि प्राप्स्यत्येनं नरायणम् ।।७९।।
कृष्णनारायणं चाधिमासे संपूज्य सर्वथा । चतुर्थ्यां प्रातरेवापि मध्याह्ने वा निशीथके ।।८० ।।
पूजयिष्यन्ति यद्वृत्त्या पूरयिष्यत्ययं तथा । धनं पुत्रान् सुखं दारान् पतिं धान्यानि सद्गृहम् ।।८ १ ।।
यानं च वाहनं तेजो रूपमैश्वर्यमुत्तमम् । राज्यं सत्तां प्रियां भार्या दासान् दासीश्च वैभवान् ।।।८२।।।
भोग्यान् भोगोपसम्बद्धान् भोज्यान्पेयाननन्तकान् । पदार्थान् दिव्यतत्त्वस्थान् यथेष्टान् सुरतान् रतिम् ।।८३।।
स्वर्गान् सत्यपरान् लोकान् पारमेष्ठिस्थलान्यपि । वैराजाँश्चापि वैकुण्ठभूमिका धेनुभूमिकाः ।।८४।।
गोलोकं चाक्षरं चापि दिव्यं चाऽदिव्यमेव यत् । संकल्प्याऽधिकमासे वै नारायणस्य पूजकाः ।।८५।।
नरा नार्यो देवदेव्यश्चतुर्दशस्तरस्थिताः । प्राप्स्यन्ति स्वेप्सितं सर्वे पुरुषोत्तमवाञ्छया ।।८६।।
यथाऽहं स्वल्पयत्नेन संजाता शाश्वतीसमाः । सुसौभाग्यवती लक्ष्मि! तथाऽन्यापि भविष्यति ।।८७।।
विधवापि यदि स्त्री वै मद्वत् कृष्णस्य पूजनम् । करिष्यत्यधिमासे सा वैकुण्ठं प्राप्स्यति ध्रुवम् ।।८८।।
नारायणं पतिं लब्ध्वा स्यात् सौभाग्यवती सदा । वृद्धा वा रोगिणी यद्वा तिरस्कृता च बान्धवैः ।।८९।।
कर्मणा या परिभ्रष्टा पश्चात्तापेन संयुता । अनाथा चैकला चात्याश्रिता रण्डा च पुंश्चली ।।९ ०।।
स्वैरिणी कामिनी वापि येन केनापि संगता । ज्ञातिहीना व्रतहीना पशुसंसर्गकारिणी ।।९ १ ।।
जैह्व्ये रत्यां सदा लुब्धा मद्यमांसादिनी किमु । राजस्वल्यादिदोषस्था सांकर्यदोषसंस्थिता ।।।९२।।
श्वपचाद्याश्रयापन्ना सुसंस्कारविवर्जिता । या कापि वा भवेन्नारी शुभसंस्कारयोगतः ।।९३।।
श्रुत्वा कथां व्रतं कृत्वाऽधिमासे तु यथाबलम् । हरिप्राप्तीच्छया चैकभुक्तं नक्तमयाचितम् ।।९४।।
फलाहारं पयःपानं कृत्वापि श्रीहरेर्बलात् । प्रमार्ज्य सर्वपापातिपापानि चातिपावनी ।। ९५।।
पंक्तिसंपावनी भूत्वा वेश्या वा गणिकापि वा । नर्तकी वा प्रभण्डा वा कुट्टिनी वा प्रसाधिनी ।। ९६।।
या वा का वा भवेल्लोके भूत्वा पवित्रविग्रहा । क्षेत्रं विष्णोः कृपायाश्च भूत्वा कांचनसदृशी ।।९७।।
दिव्या शुद्धा पापहीना पुण्यपुञ्जान्विता सती । कृष्णनारायणविष्णुकृपाभिरतिपाविता ।। ९८।।
स्वसमानास्तथाऽन्याश्च पावयित्वा स्वसंगतः । सनातनं परं धाम विष्णोर्यत् तत्प्रयास्यति ।। ९९ ।।
रमाऽहं संस्थिता नारायणांऽके लक्ष्मि! सर्वथा । कथयामि पुनः सत्यं सा प्राप्स्यति हरेः पदम् ।। १०० ।।
षण्ढो वा षण्ढतुल्यो वा षंढा वा षण्ढसदृशी । अनार्तवी विचित्ता वा वानरीव व्रतच्युता ।। १०१ ।।
या कापि वा भवेत् साऽपि मासे श्रीपुरुषोत्तमे । व्रतं कृत्वा वरं नारायणं समर्जयिष्यति ।। १० २।।
निष्कामो वाऽथ निष्कामा मुक्ततां प्राप्य सर्वथा । हरेर्दिव्याक्षरं धाम प्राप्स्यत्येव न संशयः ।। १०३ ।।
किम्वधिकं कथयामि मायाऽप्यमायिकी भवेत् । यद्योगात्तर्हि नारीणां का कथा मुक्तिसंगमे ।। १ ०४।।
तस्माद्व्रतं प्रकर्तव्यं त्वधिमासस्य सर्वथा । भुक्तिर्मुक्तिस्तथा स्वर्गं सर्वं प्राप्येत यद्बलात् ।। १ ०६।।
अहं चात्र स्थिता ज्येष्ठे! निभाल्याऽनुग्रहेण वा । इत्युक्त्वा प्रणनामैनां लक्ष्मीं वात्सल्यवर्धिनीम् ।। १०६ ।।
नारायणोऽपि तामेनां भवनानि निनाय च । रमयामास सत्कामैः पूरयामास भावनाः ।। १ ०७।।
एवं प्रिये! रमा जाता कथं नारायणप्रिया । क्षीरसागरपुत्रीयं सा तुभ्यं कथिता कथा ।। १०८ ।।
अस्याः श्रवणमात्रेण पठनेन च पूजया । अधिमासव्रतजन्यं फलं विन्देत्तु मानवः ।। १० ९।।
इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममास माहात्म्ये नारायणाधिमासयोर्वैकुण्ठवसतिर्ब्रह्माण्डेष्वधिकमासव्रतार्थे दुन्दुभिघोषणा, तां श्रुत्वा क्षीरसागरपुत्रीरमया तृतीयासायं चतुर्थीप्रातर्व्रतपूजादि-करणेन वैकुण्ठे नारायणपत्नीत्वप्राप्तिरित्यादि-निरूपणनामा षण्णवत्यधिकद्विशत-तमोऽध्यायः ।। १.२९६ ।।
श्रीनारायण उवाच
श्रूयतां च त्वया लक्ष्मि! शारदायाः कथा शुभा । अधिमासस्य पंचम्यां व्रतं कृत्वा च पूजनम् ।। १ ।।
ऐश्वर्यमतुलं प्राप कौमार्यं शाश्वतं च सा । राजस्वल्यविहीनत्वं प्रसारणं मुखे मुखे ।। २ ।।
तथा वैकुण्ठनाथस्य पत्नीत्वं दिव्यमव्ययम् । अवाप शारदा लोके पूज्यतां पद्मजा यथा ।। ३ ।।
पत्नीत्वे सति कौमार्ये कुमारीत्वे वधूत्वकम् । विरुद्धधर्मयोश्चास्यां स्थितिः श्रीहरितोषणात् ।। ४ ।।
अधिमासबलोपेतां चमत्कारमयीं कथाम् । शृणु लक्ष्मि! महापुण्यां पुरुषोत्तममासिकीम् ।। ५ ।।
ब्रह्मधामस्थिताऽनादिकृष्णनारायणांऽगतः । ब्रह्मविद्या शारदाख्या प्रकटीभूय सुन्दरी ।। ६ ।।
वैराजलोकमागत्याऽऽज्ञया नारायणस्य सा । वैराजे लीनतां प्राप्य ब्रह्मविष्णुमहेश्वरैः ।। ७ ।।
सहोत्पन्ना कन्यका सा वैराजी शारदा सुता । बहुकालं पितृगेहे वासं चक्रे कुमारिका ।। ८ ।।
ब्रह्मज्ञानात्मिका नित्यं विचारयति वर्ष्मणि । यदर्थं ब्रह्मणा चाहमाविष्कृता तु देवता ।। ९ ।।
वाङ्मयी वेधसः सृष्टौ स्थातुं प्रतिमुखं खलु । ततोऽहं वैधसी भूत्वा गच्छामि यदि सृष्टिषु ।। १० ।।
कुमारी चेन्निवत्स्यामि ह्यशुद्धा चाप्यसंस्कृता । अस्पृश्या वै भविष्यामि सर्वैर्बहिष्कृता सदा ।। ११ ।।
तदा तु मरणं तत्र शरणं मे भविष्यति । कुमारिकाशरीरं वै गर्भीयं पापकं हि तत् ।। १ २।।
कस्यापि कर्मणो योग्यं भवत्येव न सर्वथा । मूत्रेन्द्रियप्रजन्माऽसौ मूत्रकुक्षौ प्रवर्धितः ।। १३।।
मूत्रात्मजलमग्नोऽसौ मूत्रद्वारेण निर्गतः । बाल्येऽपि मलमूत्रात्माऽस्पृश्याऽशुद्धमलावृतः ।। १४।।
यज्ञोपवीतसंस्कारहीनो देहः सदाऽशुचिः । अशुद्धकफफीतादिविकृतिपूत्तलात्मकः ।। १५।।
कुमारिकास्थितौ नारीदेहः कथं शुभो भवेत् । विवाहकरणे शुद्धिर्नान्यथा तु कदाचन ।। १६ ।।
विवाहोऽपि महादुःखप्रदः पुरुषवश्यता । मूत्रेन्द्रियपराधीनमालिन्यकर्मकारिता ।। १७।।
मूत्रकुक्षौ गर्भवासो गर्भजन्ममलाक्तता । सूतकं सर्वथा चार्ते रक्तस्रावो मलान्वयः ।। १८।।
मलमूत्रसमुत्पत्तिरपानानिलसंसृतिः । मालिन्यं सर्वथा पत्नीभावे मैथुनकर्मणि ।। १९।।
तस्मात् पराश्रयः पत्नीभावोऽत्यधिकदुःखकृत् । किं कर्तव्यं क्व गन्तव्यं नारी कृता पराश्रया ।।।२ ० ।।
नारीदेहः पराधीनः परभोग्यः परार्थकः । येन तादृक् कृतं पापं नारीतां सः प्रपद्यते ।।२१ ।।
तन्न मया परनार्या भवितव्यमधीनया । एवं रजस्वलाधर्मो मालिन्यं पापकारकम् ।।२२।।
नेष्यते येन तदपि पारवश्यं न मे भवेत् । मदिष्टं यदि नैव स्यान्मरिष्यामि न संशयः ।।२३।।।
अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्मविहीनत्वं कौमार्ये च यथा मम ।।२४।।
शाश्वतं स्याद् यथा यत्नस्तथा कार्यो ह्यतः परम् । इति नित्यं चिन्तयाना मार्गयामास साधनम् ।।२५।।।
शुश्राव दुन्दुभिं विष्णोरधिमासव्रताय वै । पुरुषोत्तममासस्य व्रतिनां वै मनोरथाः ।।२६।।
परिपूर्णा भविष्यन्तीत्याह श्रीपुरुषोत्तमः । एककालं द्विकालं वा पूजयिष्यन्ति मां जनाः ।।२७।।
नरो नारी च षण्ढो वा मत्कृपालेशतो हि सः । अलभ्यलाभवान् स्याच्च दास्ये सर्वं तदीप्सितम् ।।२८।।
कुमारी शारदा वैराजस्य पुत्री प्रघोषणाम् । श्रुप्वाऽतिहर्षमापन्ना मनश्चक्रे व्रतार्चने ।।२९।।
पञ्चम्यां सा तिथौ प्रातः शीघ्रं शीघ्रं समुत्थिता । श्रुत्वैवं दुन्दुभिं स्नात्वा ध्यात्वा मूर्ति हरेस्तथा ।।३० ।।
पूजाद्रव्याणि दिव्यानि संगृह्य भवने स्वके । विष्णुं नारायणं देवं पूजयामास भावतः ।।३ १।।
लक्ष्मीं नारायणं स्वर्णं श्रीहरिं पुरुषोत्तमम् । आवाह्यासनमास्तीर्य पाद्यार्घ्याचमनानि च ।।३२।।
दत्वा पंचामृतैः कृष्णं स्नापयित्वा जलेन च । अमृतेन रसेनापि सुगन्धिद्रववस्तुभिः ।।३३।।
सम्मर्द्य गात्रमुरुधा शृंगारमकरोत्ततः । अलंकारविभूषाश्च धारयित्वाऽम्बराणि च ।।३४।।
प्रपूज्य कस्तूरिकाभिश्चन्दनाक्षतकुंकुमैः । तुलसीपुष्पमन्दारचम्पकैः परिपूज्य च ।।३५।।
धूपदीपसुनैवेद्यैः फलैः पानैश्च चर्वणैः । ताम्बूलकैस्तोषयित्वाऽऽरार्त्रिकं त्वकरोत्ततः ।।३६।।
प्रदक्षिणं स्तुतिं कृत्वा दण्डवत् प्रणनाम सा । क्षमाऽपराधं स्वाभीष्टं प्रार्थयत् सा कुमारिका ।।३७।।
दुन्दुभिना प्रवक्तर्हे लक्ष्मीनारायण प्रभो । ब्रह्मगोलोकवैकुण्ठवासिन् श्रीपुरुषोत्तम ।। ३८।।
सत्यं ददासि भक्ताय यथेष्टं व्रतकारिणे । तदा मह्यं तथा देहि यथाऽहं प्रवृणोमि तत्। ।। ३९।।
कुमारीत्वं शाश्वतं मे राजस्वल्यं कदापि न । अशुद्धत्वं च मे मास्तु तथा सत्यपि मे पुनः ।।४० ।।
पतिमत्त्वं सुमांगल्यं सौभाग्यं सर्वदाऽस्तु मे । सगर्भात्वं च मे मास्तु पत्नीत्वेऽपि कदाचन ।।४१ ।।
एतद्वै दुर्लभं याचे विरुद्धं सर्वथा तनौ । यदि सत्यप्रवक्ता त्वं ह्येककालव्रते कृते ।।४२।।
अधिमासे पूजिते चेद् ददासि देहि मे तथा । अन्यथा दुन्दुभिं देव मा प्रवादय चाऽनृतम् ।।४३ ।।
छत्रं ददामि ते नाथ चामरेऽपि ददामि ते । पादुके ते प्रददामि शय्यां ददामि कोमलाम् ।।४४।।
पादसंवाहनार्थाय मा ददामि समर्पिताम् । शरणागतपाल त्वं भक्तवाञ्च्छाप्रपूरक ।।४५ ।।
पुष्पांजलिं गृहाणैनां करं गृहाण वा न वा । देहि मदर्थितं नाथ शाश्वतं सुखदं हि तत् ।।४६।।
कुमारी नैव पत्नी स्यात् पत्नी स्यान्न कुमारिका । पत्नीत्वे बहवो दोषा मा स्पृशेयुश्च मां यथा ।।४७।।
कुमारीत्वेऽपि ये दोषा मा स्पृशेयुश्च मां यथा । तथा देहि कृपानाथ सत्यार्थो दुन्दुभिर्यदि ।। ४८।।
कर्तुं चाकर्तुमेवाप्यन्यथाकर्तुं प्रभोस्तव । किमप्यशक्यं नास्त्येवाऽन्यथा ते दुन्दुभिर्वृथा ।।४९।।
इति स्तुत्वा फलैर्युक्तमर्घ्यं समर्प्य विष्णवे । अक्षतैर्वर्धयामास कुमारी शारदा ततः ।।५ ० ।।
देवं तु दक्षिणां स्वीयसमर्पणात्मिकां हृदि । दत्वा विसर्जयामास ध्यायमाना नरायणम् ।।५ १ ।।
तावन्नारायणो लक्ष्मीपतिः श्रीपुरुषोत्तमः । रमापतिर्हसन्मन्दं प्राविर्बभूव चाग्रतः ।।।५२।।
दक्षदोष्णाऽभयदश्च वामेन मस्तके स्पृशन् । उवाच शारदं किन्ते मनस्यस्ति प्रकाशय ।।५३ ।।
पूजया ते प्रसन्नोऽस्मि विश्वासव्रतचारिणि । सुभ्रु विश्वासपाशेन बद्धोऽस्मि सर्वदा त्वया ।।५४।।
दातुं सर्वं समर्थोऽस्मि तथापि शृणु मे वचः । कुमारीत्वं च पत्नीत्वं नैकत्र क्वापि दृश्यते ।।५५।।
अन्यतरं तयोस्तस्माद् वृणु तुभ्यं ददाम्यथ । कुमारीत्वं कलकाय लोके त्वाजीवनं भवेत् ।।५६।।
तस्मात् पत्नीत्वमेवात्र वृणु सौभाग्यदं ददे । अन्यच्चापि च ते काम्यं ददामि वृणु कन्यके ।।५७।।
स्त्रीराज्यं वा महद्राज्यं मायाराज्यं ददामि ते । विरुद्धं मा वृणु कन्ये ब्रूहि विचार्य मा चिरम् ।।५८।।
इत्याश्रुत्य हरेर्वाक्यं शारदा प्राह केशवम् । भक्तेष्टपूरक स्वामिँस्तवोद्धोषान्मयाऽर्थितम् ।।।५९।।
स्वसत्यरक्षणार्थाय यथेच्छसि तथा कुरु । नहि भक्ते त्वाग्रहः स्यादाग्रही नहि भक्तिमान् ।।६० ।।
अहं तव प्रपन्नाऽस्मि भक्तचिन्तां हर प्रभो । तवाऽस्मि तव भक्ताऽस्मि पादयोः पतिता तव ।।६ १ ।।
नारीदुःखानि मे मा स्युरिति भक्तेष्टमावह । इत्यर्थितश्च दृष्टश्च स्पृष्टो नतः कृतादरः ।।६२।।
पूजितो भोजितस्तत्रात्यन्तप्रेम्णा विलोकितः । भक्तार्तिहा प्रभुः स्वभक्तायाः कृते व्यचिन्तयत्। ।।६३।।
कथमस्या मनोभीष्टं प्रदातव्यं भवेदिति । कया रीत्या पूरणीयो भवेन्मनोरथोऽपि च ।।६४।।
ददाम्यस्यै महासिद्धिं व्याप्यव्यापकरूपिणीम् । नैकरूपभवित्रीं च दिव्यां सिद्धिं ददामि ह ।।६५ ।।
इति संकल्प्य भगवान् ददौ शंखजलं मुखे । तावत्सा सर्वसामर्थ्यनिधिरूपा बभूव वै ।।६६।।
भगवाँस्तु ततः प्राह शारदे शारदात्मिका । दिव्यरूपा मम पत्नी सदा वैकुण्ठवासिनी ।।६७।।
गर्भादिदोषशून्या त्वं भवसीति विभावय । दत्तं मदीयपत्नीत्वं यौनमालिन्यवर्जितम् ।।६८।।
मलमूत्राद्यनास्पृष्टं दिव्यं रूपं सदाऽस्तु ते । अथ रूपं द्वितीयं त्वं गृहाण वाङ्मयं प्रिये ।।६९।।
कुमारीभावसम्पन्नं सरस्वतीस्वरूपकम् । ददामि तादृशं रूपं सुकुमारं तथा भव ।।७०।।
गच्छ तेन स्वरूपेण वेधोद्वारा प्रजासु वै । व्यापकं ते स्वरूपं स्यां वाणीरूपं मुखे मुखे ।।७१ ।।
कुमारीत्वं सदा तत्र स्वरूपे तेऽस्तु शारदे । अन्तर्मुखप्रचारित्वे त्वराजस्वल्यमस्तु ते ।।७२।।
सात्त्विकत्वं कुमारीत्वं सर्वदा तत्तथाऽस्तु ते । अथ तृतीयरूपेग केनचित्सन्मिषेण वै ।।७३।।
सरस्वती नदीरूपा त्वन्तर्जलप्रवाहिणी । अरजस्का कुमारी त्वं सदा तिष्ठतु शारदे ।।७४।।
चाञ्चल्यं च बहिर्भावो राजस्वल्यं च माऽस्तु ते । पावित्र्यं सर्वदा तेऽस्तु ऋतुधर्मविवर्जनम् ।।७५।।।
राजस्वल्यं विलीनं ते मालिन्यभाववर्जितम् । भवताच्छारदे! काऽप्यशुद्धिर्मास्तु त्वयि क्वचित् ।।७६ ।।
सर्वैश्वर्यवती पूज्या लोकेषु व्यापिनी भव । लोकानां राजसं पापं मास्तु त्वयि सरस्वति! ।।७७।।
बहिर्भावे त्वयि राजस्वल्यादि लोककृद् यदि । दृश्येत तद्दूषणं तु लोकानां न तु तत् त्वयि ।।७८।।
राजस्वल्यकृतं पापं वक्तॄणां स्यादशुद्धता । पावित्र्यं सर्वदा तेऽस्तु सन्तु ते दिव्यसम्पदः ।।७९।।
कुमारीत्वं च पत्नीत्वं तेऽस्तु शुद्धं यथेप्सितम् । मम पत्नी शारदा त्वं कुमारी ब्रह्मपुत्रिका ।।८० ।।
सर्वं दत्तं मया तुभ्यं वद् त्वन्यत् किमिच्छसि । इत्युक्ता प्राह सा देवी मम पूजाकृतस्तु ये ।।८ १।।
सरस्वत्याः शारदाया नद्या वाण्या उपासकाः । वैकुण्ठं ते समायान्तु स्वामिनस्ते प्रतापतः ।।।८२।।
अधिमासस्य पञ्चम्यां प्रातः सम्पूज्य वै क्रमात् । नारायणं यथा प्राप्ताऽस्म्यहं पूर्णमनोरथा ।।८३।।।
तथा ते पूजकाश्चाधिमासस्य पूजकास्तथा । नरा नार्यः समायान्तु वैकुण्ठं तव पादयोः ।।८४।।
जन्ममृत्युजराव्याधिदुःखदारिद्र्यवर्जिंतम् । शाश्वतं सच्चिदानन्दसन्दोहमूर्तिराजितम् ।।८५।।
तथास्त्विति प्राह कुर्वन् हरिदुन्दुभिघोषणाम् । सार्थका सत्यफलदां त्वाधिमासस्य पुष्टिदाम् ।।८६ ।।
अधिमासोऽपि तां प्राह भक्ता ये या मयि त्वयि । तेषां तासां समुद्धर्ता त्वहं वै पुरुषोत्तमः ।।८७।।
दोषहर्ता सुखदाता मनोऽभीष्टप्रदस्तथा । पावयिता सिद्धिदाता भवाम्येव न संशयः ।।८८।।
शारदाया इदं प्रार्थ्य श्रोष्यन्ति ये तु दुर्लभम् । पठिष्यन्ति च वा तेषां दुर्लभं सुलभं भवेत् ।।८९।।
अपतर्क्यं सुतर्क्यं स्यादप्राप्यं प्राप्यतां व्रजेत् । अभाव्यं भाव्यतां यायादनिष्टं चेष्टतां व्रजेत् ।।९० ।।
भुवि स्वर्गे तथाऽन्यत्र दुर्लभं सुलभं भवेत् । कृष्णनारायणः साक्षाल्लभ्येतान्यस्य का कथा ।।९ १ ।।
नारायणः स्वकृपया ददात्यस्य वै बहु । अधिमासि कृतस्यात्राऽसंख्यफलं ददाति हि ।।९२।।
लब्ध लक्ष्मि! यथा देव्या शारदाया विचित्रकम् । तथा विचित्रां भुक्तिं च मुक्तिं च लभतेऽर्चकः ।।९३ ।।
जपो होमो व्रतं दानं ध्यानं माला तपः श्रुतम् । पञ्चम्यां तत्कृतं सहस्रादिगुणं भविष्यति ।।९४।।
इत्युक्त्वा शारदां नीत्वा वैकुण्ठं हरिराययौ । सरस्वतीस्वरूपां तां प्राहिणोद् वैधसीं प्रजाम् ।। ९५।।
अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्माऽनभिभूतिः कौमार्ये चेति रक्षितम् ।। ९६ ।।
इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैराजपुत्र्याः शारदाया अधिकमासपञ्चम्यां व्रतपूजनादिकरणेन नारायणपत्नीत्वं पवित्रत्वम् अराजस्वल्यं कुमारिकात्वम् अगर्भाकत्वं सरस्वतीता चेत्यादिप्राप्तिनिरूपणादिनामा सप्तनवत्यधिकद्विशततमोऽध्यायः ।। १.२९७ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां सुखसम्पत्प्रदायिनीम् । कामनापूरिकां दैवीं पुरुषोत्तमयोगिनीम् ।। १ ।।
सृष्ट्यारंभे तु पितॄणां कन्या आसन् सुसद्गुणाः । तिस्रो नाम्ना स्वधापुत्र्यो मेना धन्या कलावती ।। २ ।।
सर्वसद्गुणसम्पन्ना योगिन्यः कामरूपगाः । विहरन्त्यः पितृगेहे शुश्रुवुर्दुन्दुभिं हरेः ।। ३ ।।
पुरुषोत्तममासोऽयं मन्नाम्ना तु मयाऽऽदृतः । एककालं द्विकालं वा तद्व्रतस्थमनोरथान् ।। ४ ।।
पूरयिष्याम्यहं नारायणो ब्रवीमि वै स्वयम् । पितृगेहे तिथौ षष्ठ्यां प्रातराकर्ण्य घोषणाम् ।। ५ ।।
तिसृभिश्चिन्तितं त्वद्य व्रतं कार्यं हरेः खलु । येनाऽस्माकं स्वभीष्टं दास्यति नारायणः स्वयम् ।। ६ ।।
पितॄणां नित्यसन्तोषस्तृप्तिर्वै शाश्वती भवेत् । तद्धेतुं मार्गयित्वाऽत्र याच्यः श्रीपुरुषोत्तमः ।। ७ ।।
पतित्वेन तु विष्णुः स याचनीयो न वै क्वचित् । यतस्तस्य तु पत्नीनां बाहुल्यं विद्यते ततः ।। ८ ।।
सापत्न्यं सर्वदा दुःखं सुखनिकृन्तनं हि तत् । पितृत्वेनाऽथवा भ्रातृत्वेनाऽध्येष्टव्य एव न ।। ९ ।।
बालिकानां तदाऽस्माकमज्ञानां किं सुखेन वै । विवाहावधिवासस्तु तद्गृहे वै भवेत् ततः ।। १० ।।
वियोगो बान्धवानां च पितुश्च दुःखमेव तत् । पुत्रत्वेनापि विष्णुः स याचनीयो न वै क्वचित् ।। ११ ।।
ताडने शिक्षणेऽधिक्षेपादौ स्यादपराधिता । श्वशुरादिस्वरूपे तु मर्यादा दुःखदा भवेत् ।। १२।।
अपराधोऽतिनैकट्येऽतिदूरे स्यादसेवनम् । अतियोगेऽतिमर्यादा विमर्यादाऽपि दुःखदा ।। १३ ।।
विष्णुस्तस्माद् याचनीयः केन रूपेण वै भवेत् । परस्परमिति कृत्वा संविदं तिस्र एव ताः ।। १४।।
समादधुः क्षणं मौनं चिन्तयन्त्यो नरायणम् । तावद् व्योमगता वाणी ता जगाद् पुनः पुनः ।। १५ ।।
कृष्णनारायणं जामातृत्वेन वृणुताऽबलाः । सर्वं सुखं भवेत् तस्मै पुत्रीदानेन शाश्वतम् ।। १ ६।।
पुत्री माता स्वयं प्रोक्ता पुत्रीमुखेन नित्यदा । सुखिता मन्यते पुत्रीदानं स्वदानवद् भवेत् ।। १७।।
जामाता पुत्रवत् स्याच्च दानपात्रं परं मतः । पूजनीयस्तोषणीयो विविधैः सेवनैरपि ।। १८ ।।
पुत्र्या सेवा कृता या तत्फलं मातुर्भवेदपि । मात्राऽनुनीतया पुत्र्या सेवनं यद् विधीयते ।। १९ ।।
शिष्यकृते गुरोर्भागस्तद्वन्मात्राऽपि लभ्यते । ऐहिकी सुखसम्पत्तिर्यशः ख्यातिर्ध्रुवा भवेत् ।।२ ० ।।
श्रेयांसि बहुरूपाणि लोके जामातृवैभवात् । भवन्त्येवेति निश्चित्य जामातारं समीच्छत ।। २१ ।।
पुत्री वैकुण्ठनाथस्य धाम्नि यस्या वसेत् सदा । तन्मातापितरौ पुण्यौ क्वचिद् वैकुण्ठगौ मतौ ।। २२।।
सप्तकुलशतैकानां भवेदुद्धरणं तथा । माता मातामहाद्याश्च भवेयुर्मोक्षगास्तथा ।। २३ ।।
पितॄणां सर्वदा वासो जामातृभवने भवेत् । तस्माद्भवत्यो याचन्तु जामातारं हरिं सदा ।।२४।।
पुत्रीणां तत्र सापत्न्यं मा भवेदित्यपि ध्रुवम् । याचन्त्वधिकमासस्य व्रतं कृत्वा तथाऽर्चनम् ।। २५ ।।
विररामेति सम्बोध्याऽऽकाशवाणी ततश्च ताः । चकिता अतिसंहृष्टा विनिर्णीय तथैव ताः ।। २६।।
ब्रह्म भवताज्जामाता जामाता भवताद्धरिः । कृष्णो भवतु जामातेत्युक्त्वा वै चक्रिरे व्रतम् ।। २७।।
षष्ठ्यां प्रातश्च ताः स्नात्वा व्यधुस्तिस्रोऽपि पूजनम् । तिस्रो मूर्तीः सुवर्णस्य मेना धन्या कलावती ।। २८।।।
विधाय पूजयामासुः क्रमादावाहनादिभिः । देवान् पञ्चामृतैस्त्रींश्च स्नपयामासुरादरात् ।। २९ ।।
चन्दनादिभिरामर्द्य स्नपयामासुरब्वरैः । सम्मार्ज्य वस्त्रभूषाभिरलंचक्रुर्द्रवादिभिः ।। ३० ।।
कुंकुमाऽक्षतकस्तूरीसुगन्धिवस्तुपुष्पकैः । हारमालामुकुटाद्यैर्धूपदीपादिभिस्तथा ।। ३१ ।।
नैवेद्यैर्विविधैर्मिष्टैः पानताम्बूलचूर्णकैः । सम्पूज्य त्रीन् छत्रशय्याचामरोपानहादिभिः ।। ३२।।
फलैश्च शर्कराभिश्च त्रीन् देवानभिवर्ध्य च । अर्घ्यं रत्नादिसंयुक्तं कदलीफलसंयुतम् ।। ३३ ।।
ददुस्ताश्च नमस्कृत्य ततः पुष्पाञ्जलीन् ददुः । क्षमां सम्प्रार्थ्य ववरुर्जामाता भव केशव ।। ३४।।
भवद्दुन्दुभिनिर्घोषादस्माभिर्हृत्सु संधृतः । सर्वथा सुखदो देव पुत्रीद्वारा भवात्र नः ।। ३५। ।
पुरुषोत्तममासस्य षष्ठीयं पालिता व्रते । करिष्यामो वयं नक्तं पुनः पूजां विधायते ।। ३ ६।।
ततो विसर्जयामासुस्तान्देवान्प्रातरेव ह । दिवाव्रतं कृतं ताभिर्विप्रद्वाराऽनले घृतैः ।। ३७।।
मध्याह्ने हवनं कारयित्वा पुपूजुरादरात् । पितॄन् ऋषींस्तथा देवान्मुनीन् जनतपःस्थितान् ।। ३८ । ।
पायसैर्दुग्धसारैश्च पिण्डकैः शाकपत्रकैः । रसैर्नानाविधैर्मिष्टैस्तर्पयामासुरीश्वरान् ।। ३९ ।।
प्रसन्नास्ते शुभाशीर्भिर्युयुजुस्तिसृकन्यकाः । ब्रह्म नारायणः कृष्णो भवद्व्रतफलप्रदाः ।।४० ।।
भवन्तु भवतीनां च यथेष्टसुखकारिणः । अथ सायं पुनस्ताभिर्दीपमालां प्रकाश्य च ।।४१ ।।
मण्डपं कदलीस्तम्भपत्रतोरणराजितम् । कारयित्वा स्वर्णपात्रदर्पणोल्लेखशोभितम् ।।।४२ ।।
वस्त्रविद्युद्विचित्रं सच्चित्रौज्ज्वल्यमनोहरम् । कारयित्वा च मध्ये सद्रत्नखचितकानकम् ।।४३ ।।
मखमल्लकशिप्वाद्यैरास्तृतं शोभनं महत । सिंहासनं कारयित्वा ब्रह्म कृष्णं नरायणम् ।।४४।।
मूर्तित्रयं प्रतिष्ठाप्य गीतवादित्रपूर्वकम् । चक्रुः सुपूजनं तत्र सुवर्णाक्षतकुंकुमैः ।। ४५ ।।
हरिद्रारक्तसद्द्रव्यैः सौभाग्यार्हसुवस्तुभिः । नर्तनं गायनं चक्रुः किंकिणीनादमिश्रितम् ।।४६ ।।
आरार्त्रिकं धूपदीपौ जलमर्घ्यं विधाय च । पूरिका दुग्धपानं च शाकं सर्षपपत्रजम् ।।४७।।
भोजयित्वा त्रयं वारिपानमर्पय्य सत्फलम् । प्रदत्वा च क्षणं ध्याने स्थितवत्योऽभवँश्च ताः ।।४८ ।।
तत्र ध्याने समायाता ब्रह्मकृष्णनरायणाः । एतासु मेनया दृष्टः कट्यम्बरोऽतिपुष्टिमान ।।४९ ।।
निहारधवलो व्याघ्रचर्मधृक् चन्द्रशेखरः । सजटः परितो व्याप्त ब्रह्मतेजोऽतिभासुरः ।।५ ० ।।
युवा मनौहारिमूर्तिर्ब्रह्म निर्गुणमेव यत् । सगुणत्वं समापन्नं नररूपं स एव सः ।।५ १ ।।
निर्मलान्तर्वृत्तिगम्यः शंकरो भावपूरकः । प्रसन्नताप्रवर्षा प्रख्यापयन् स्मितहास्यतः ।।५२।।
तावत्तदङ्कमासीनां पुत्रीं स्वां भाविनीं शुभाम् । अपश्यन्नाह्वयन्तीं च ह्यम्बे माऽम्बेति वै मुहुः ।।५३ ।।
शंकरो ब्रह्मरूपोऽयं भगवान् प्राह मेनकाम् । मेनके त्वं ममांशस्य हिमाद्रेः संभविष्यसि ।। ५४।।
पत्नी तत्र च कन्येयं पार्वती ते भविष्यति । तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ।।५५। ।
पुरुषोत्तममासस्यैकदिनस्य व्रतस्य च । तवेष्टं तु फलं सर्वसुखदं संभविष्यति ।।५६ ।।
इत्युक्त्वाऽन्तर्हितो देवः शंकरो ब्रह्म यत्परम् । अथैव धन्यया दृष्टः स्वयं वै सधनुर्हरिः ।।५७।।
जटावल्कलशोभाढ्यः पुनः सद्राज्यचिह्नवान् । युवा मनोहरो देवो वासुदेवो गुणातिगः ।।५८ ।।
तेजःपरिधिसंव्याप्ताननहास्यान्वितः प्रभुः । चतुर्भुजो द्विभुजोऽयं सिंहासनविराजितः ।।५९ ।।
तस्य पार्श्वे सुरूपां स्वां कन्यां सीतां ददर्श सा । आह्वयन्तीं च मो हेऽम्ब! इति मिष्टगिरा मुहुः ।।६ ० ।।
श्रीरामो भगवाँश्चायं प्रसन्नः प्राह धन्यकाम् । धन्ये त्वं वै जनकस्य गृहिणी भाविनी ततः ।।६ १ ।।
इयं तु ते सुता सीता महालक्ष्मीर्भविष्यति । तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ।। ६२।।
पुरुषोत्तममासस्यैकस्याऽह्नस्तु व्रतस्य वै । तवेष्टं तु फलं स्निग्धं भविष्यति सुखात्मकम् ।। ६३ ।।
इत्युक्त्वाऽन्तर्हितो वासुदेवो नारायणः प्रभुः । अथ दृष्टः कलावत्या कृष्णः सुदर्शनान्वितः ।।६४।।
मयूरपिच्छमुकुटः पीतवस्त्रौष्ठवेणुकः । गोपालबालकः पश्चात् स एव नृपतीश्वरः ।।६५।।
राजाधिराजो भगवान् सर्वशोभातिसुन्दरः । नवजीमूतसत्कान्तिर्युवा भूषाविभूषितः ।।६६ ।।
दिव्यसिंहासनश्रेष्ठस्थितो राजाधिराजकः । द्विभुजो मन्दहास्येन दर्शयन्सुप्रसन्नताम् ।।६७।।
तस्य पार्श्वे स्थितां दिव्यां रूपानुरूपशेवधिम् । पुत्रीं राधां भाविनीं तां सा ददर्श कलावती ।। ६८ ।।
कृष्णकण्ठे निजं हस्तं ददती प्रेमविह्वलाम् । आह्वयन्तीं च मो अम्बे हेऽम्बेति सद्गिरा मुहुः ।।६ ९ ।।
श्रीकृष्णः सुप्रसन्नः सन् स्पृशन् राधां कलावतीम् । प्राहेयं तव वैश्यत्वे पुत्री राधा भविष्यति ।।७०।।
तां त्वं दास्यसि मह्यं वै भाण्डीरवटसन्निधौ । मदीया सा सदा पत्नी मूर्धन्या स्याद्धि शाश्वती ।।७१।।
मत्तः सर्वे सुखं पुत्रीद्वारा त्वं समवाप्स्यसि । पुरुषोत्तममासस्यैकदिनस्य व्रतस्य वै ।।७२।।
फलं चाभिलषितं ते भविष्यति सुखात्मकम् । इत्यभिधाय कृष्णस्तत्स्थलादन्तर्हितोऽभवत् ।।७३।।
अथाऽचिरात्तु तिस्रस्तास्ततो ध्यानात्समुत्थिताः । प्रसन्नास्याः कृतकृत्या नत्वा नारायणं मुहुः ।।७४।।
व्यसर्जयन् सुकुसुमांजलीन् दत्वाऽथ तन्निशि । पारणां समकुर्वंस्ता भोजयन्त्योऽपि कन्यका ।।७५।।
ब्रह्मनारायणकृष्णमूर्तिदानं प्रचक्रिरे । अथाऽचिरादाद्ययुगे पितृभिस्ताः क्रमान्ननु ।।७६।।
हैमजनकगोपेभ्यो मेना धन्या कलावती । विवाहिता तु विधिना तासां पुत्र्योऽभवँश्च ताः ।।७७।।
क्रमात्तु पार्वती सीता राधा ब्रह्मपरात्मिकाः । सृष्ट्यारंभे साधिकायामाद्यावताररूपिणे ।।७८।।
शिवाय रामरूपाय कृष्णाय त्वर्पिताश्च ताः । जामातॄँस्तान् परब्रह्मावताराँश्चाभिपद्य वै ।।७९।।
सर्वान्कामानवापुस्ता मेना धन्या कलावती । एवं लक्ष्मि! व्रतं नक्तमधिमासे प्रपूजनम् ।।८०।।
षष्ठ्यां कालत्रये कृत्वा पुराणपुरुषोत्तमात् । प्राप्तं व्रतफलं प्राप्ता जामातारो हरिः स्वयम् ।।८ १।।
पुत्र्यस्ताः शंभुना रामेण च कृष्णेन शाश्वते । कैलासे चाथ वैकुण्ठे गोलोके च रमन्ति हि ।।८२।।
तन्मातापितरश्चापि नित्यं मुक्तास्तदीयकम् । सुखं त्वत्यन्तमाप्ताश्च यथेष्टं कीर्तिमित्यपि ।।८३।।
किम्वधिकं च ते वक्ष्ये लक्ष्मि! लोके परत्र च । माता स्वीयां सुपुत्रीं वै सुखिनीं कर्तुमिच्छति ।।८४।।
तदा तया प्रकर्तव्यं व्रतं चाधिकमासिकम् । षष्ठ्यां व्रतं पूजनं च यथा मेनादिभिः कृतम् ।।८५।।
कृष्णनारायणं जामातरं प्राप्स्यति वै ततः । भुक्तिं मुक्तिं तथा चान्यत् सर्वे प्राप्स्यंत्ययत्नतः ।।८६।।
पुत्रीदानस्य सत्पात्रं कृष्णनारायणो यदि । तत्र प्राप्तं परां काष्ठां पुरुषार्थचतुष्टयम् ।।८७।।
कर्तव्यं लौकिकं वाऽन्यलौकिकं नाऽवशिष्यते । सर्वशेषी हरिर्यत्र रमते सुतया सह ।।८८।।
सुतया तुष्यति देवस्तस्य तोषे नु किं पुनः। दुर्लभं त्वथवाऽप्राप्यं भवेत् कृष्णस्य सन्निधौ ।।८९।।
एवं ते कथिता लक्ष्मि! कृपा नारायणस्य सा । अधिमासे व्रतिनां मानसानि पूरयत्यजः ।। ९० ।।
यदीच्छेद्गुणसामर्थ्य रूपविद्यादिभिः समः । कृष्णेन तुल्यो जामाता स्यादिति चेत्तथा भवेत् ।।९१।।
यदीच्छेल्लोकविख्यातो राजसत्ताप्रवर्तक । जामाता मे भवेच्चेति तदा वै तादृशौ भवेत्। ।९२।।
यदीच्छेद्भगवद्भक्तो धनधान्यसमृद्धिमान् । जामाता मे चिरंजीवी भवेदिति तथा भवेत् ।।९३।।
यदीच्छेद् ब्राह्मणगुणो यद्वा क्षत्रियधर्मवान् । जामाता मे भवेदेव व्रतकर्त्र्यास्तथा भवेत् ।।९४।।
यदीच्छेद् गृहजामाता सुखदो मे भवेदिति । पुत्रपौत्रादिमान् स्याच्च व्रतकर्त्र्यास्तथा भवेत् ।।९५।।
यथा तु यादृशं जामातारं वाञ्छति तं तथा । तादृशं समवाप्नोति श्वश्रूः श्रीहर्यनुग्रहात् । । ९६ । ।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तम मासमाहात्म्ये पितृ मानस कन्याभिः मेनाधन्या- कलावतीभिः अधिकमासदुन्दुभिश्रवणेन षष्ठ्यां त्रिकाल-व्रतेन क्रमात् पार्वतीसीताराधाऽभिधपुत्रीलाभे जामा-तृत्वेन शंकररामकृष्णानां सम्बन्धोपलब्धिरूप-फलप्राप्तिप्रभृतिनिरूपतानामाऽष्टनवत्यधिक-द्विशततमोऽध्यायः ।। १.२९८।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! दुन्दुभेस्तु निनादेन कृतं व्रतम् । सत्यलोकस्थिताभ्यां तु कन्याभ्यां विश्वकर्मणः । ।। १ । ।
सत्यस्वर्गादिलोकानां राज्ञां पातालवासिनाम् । नगराणां भवनानां सभानां यज्ञकर्मिणाम् ।। २ । ।
मण्डपानां विनिर्माता नारायणांश एव यः । तस्य कन्या सिद्धिनाम्नी ज्येष्ठा बुद्धिः कनीयसी । । ३ । ।
सिद्धिबुद्धी सुरूपे च सुशीले देवपूजिके। नित्यं नारायणं स्मृत्वा प्रातः स्नात्वा तदुत्तरम् । । ४ । ।
पित्रोश्चरणयोर्नत्वा ब्राह्मसंज्ञे मुहूर्तके । गृहे देवगृहे चापि दीपं प्रज्वाल्य वै ततः ।। ५ । ।
धूपं कृत्वा सुगन्धं च कीर्तनं कुरुतश्च ते । देवं नत्वा तु पुष्पाणि जलं च शर्करादनम् ।। ६ ।।
समर्प्य गृहकार्याणि कुरुतश्चोभये ततः । सिद्धिस्तत्र सरोमध्याज्जलं त्वाहरति द्रुतम् ।। ७ ।।
मार्जयित्वा गृहं बुद्धिर्वह्निं प्रज्वालयत्यपि । चुल्लिकायां जलपात्रमुष्णीकरणहेतवे ।। ८ ।।
स्थापयित्वा च पितरो प्रस्नापयति भावुका । सिद्धिस्तावद्गृहशय्यादिकं संगृह्य शय्यधौ ।। ९ ।।
रक्षयित्वाऽथ पर्यंकान् सम्मार्ज्योन्नीय सुस्थले । संक्लृप्य रात्रिपात्राणां मञ्जनं प्रकरोति वै ।। १० ।।
तावद् बुद्धिः स्नातयोश्च पित्रोरार्द्राम्बराणि तु । प्रक्षाल्य रज्ज्वां विन्यस्य गत्वोद्यानं गृहानुगम् ।। ११ ।।
देवपूजादिकार्यार्थं पुष्पाण्यानयति द्रुतम् । माता चाथ पिता यावत्तूपयांति हरेर्गृहम् ।। १ २।।
आसने तावदास्तीर्य सन्ध्याद्यर्थे ददात्यपः । तुलसीपत्रकाऽम्भोजकुन्दचम्पकमालिकाः ।।१ ३।।
ददाति देवपूजार्थं पित्रोः परमभावतः । चन्दनाऽक्षतकुंकुमपञ्चामृतजलानि च ।। १४।।
पात्राणि पूजनार्हाणि घृतवतीश्च शर्कराः । द्राक्षादाडिमबीजानि विविधानि फलानि च ।। १५।।
एलालवंगताम्बूलनैवेद्यान्यानयत्यपि । पूजास्थां मातरं चाथ पूजास्थं पितरं तदा ।। १६।।
दश प्रदक्षिणाः कृत्वा कृत्वा दश नमस्क्रियाः । मातापितृचरणयोर्धौतं प्रगृह्य वै जलम् ।। १७।।
पार्श्वे तिष्ठति सेवार्थं दर्शनं प्रकरोति च । तावत्तत्र समागत्य सिद्धिरपि तथैव तत् ।। १८।।
प्रदक्षिणानमस्कारादिकं कृत्वा प्रसादजम् ।जलं पीत्वा पुनर्याति चुल्लिकासन्निधौ गृहे ।। १ ९।।
महानसे तु पाकार्थं सामग्री सकलाश्च सा । सुशोधयित्वा सन्न्यस्य बुद्धिमाहूय तामनु ।।२० ।।
करोति भक्ष्यभोज्यानि पेयानि विविधान्यपि । दुग्धपानं तु सा पित्रोः सिद्धिः कारयति द्रुतम् ।।२१ ।।
पूजापात्राणि सर्वाणि मृदा संघृष्य वै ततः । शुद्ध्वा प्रातर्विधेयं यत् कृत्वा सर्वं ततो ह्युभे ।।२२।।
विद्याभ्यासं च कुरुते वैश्वदेवान्तकं ततः । कृत्वा तौ भोजयित्वा च विधिं माध्याह्निकं पुनः ।। २३ ।।
कृत्वा चातिथिगोजन्तुभागान् दत्वाऽऽश्रितादनम् । ततः स्वे भोजनं प्रासादिकं चक्रतुरादरात् ।। २४।।
महानसप्रशुद्धिं च पात्रशुद्धिं प्रमार्जनम् । जलाहरणमन्नादिशोधनं त्वपराह्णके ।। २५।।
देहश्रांगारिकं कृत्वा विरामं प्राप्नुतः क्षणम् । ततस्तीर्थकथादेव दर्शनादि विधाय तु ।। २६ ।।
सायं कृष्णस्य संपूजा षोडशोपसुवस्तुभिः । कृत्वा पक्वान्नमिष्टानि भोजयित्वाऽतिभावतः ।। २७।।
पितरौ तु ततः शय्यादिकं संस्तीर्य ते ह्युभे । पादसंवाहनं पित्रोः कृत्वा सेवनमित्यपि । । २८ ।।
दैनं तु यत् स्वकं गोसेवनं कीर्तनमैश्वरम् । यन्न्यूनं तत्तु सम्पूर्णं कृत्वा निःशेषमित्युभे ।। २९।।
किंचिदध्ययनं कृत्वा गृह्णीतः स्वापमल्पकम् । ब्राह्मकाले समुस्थायाऽभ्यस्तां विद्यां विचार्य च ।। ३० ।।
पुनश्च नैत्यकं कार्यं कुरुतः कन्यके ह्युभे । एवं तु सेवया हृष्टौ पितरौ त्वतिभावतः ।। ३१ ।।
युयुजतुः शुभाशीर्भिः 'सुखिन्यौ भवतं ह्युभे । ईश्वरे प्रेमयुक्तत्वान्नारायणहरिप्रभुः ।। ३ २।।
युवाभ्यां प्राप्स्यते काले सेवनीयतमः शुभः । इत्याशीर्वादपात्रे ते नित्यं हृदि हरिं मुहुः ।। ३३ ।।
वाञ्छतः श्रीहरिं कृष्णं नारायणमधीश्वरम् । एवं व्रते सत्यलोके ताभ्यां मे दुन्दुभिः श्रुतः ।। ३४।।
अधिमासस्य सप्तम्यां प्रातर्वै व्रतबोधकः । स तु बोधयते लोकान् अधिमासव्रतानि वै ।। ३५।।
करिष्यन्ति यथाशक्ति ये ब्रह्माण्डगता जनाः । नरा नार्योऽथवा त्वन्ये तेषामभीष्टदायकः ।। ३ ६।।
अलभ्यलाभदाताऽस्मि ह्यहं श्रीपुरुषोत्तमः । मासिकं पाक्षिकं साप्ताहिकं दैनिकमेव वा ।। ३ ७।।
नैशं पौर्वाह्णिकं यद्वा पाराह्णिकं च मध्यगम् । उपवासान् फलाहारान् पयःपानं जलाशनम् ।। ३८ ।।
कन्दाशनं निवाराद्यशनं सायं निशाशनम् । दिवाशनं वैकभुक्तं तिलभुक्तमयाचितम् ।। ३९ ।।
कृत्वा यथाबलं पुष्पैः सम्पूज्य पुरुषोत्तमम् । जलेन वा फलैर्वापि मूलेन कुंकुमेन वा ।।४० ।।
अक्षतैश्चन्दनेनापि सम्पूज्य पुरुषोत्तमम् । वस्त्रेण च सुदुग्धेन गूडेन मिष्टयाऽथवा ।। ४१ ।।
शर्कराभिर्जलपानैस्ताम्बूलेनच्छदादिना । पत्रेण वाऽतिभावेन प्रेम्णा मां पुरुषोत्तमम् ।।४२ ।।
सन्तुष्याऽधिकमासे ते मत्तोऽर्जयन्तु दुर्लभम् । इदानीं कृपया दास्ये कृते स्वल्पेऽपि साधने ।।४३ ।।
अन्यमासेषु यत् कष्टसाध्यं भवति चात्र तत् । स्वल्पस्यापि ददाम्येव कोटिगुणितमद्य वै ।।४४।।
पश्चान्नैव प्रदास्येऽहं तस्माद् गृह्णन्तु भो जनाः । फलं पूगीफलस्यापि पारमेष्ठ्यपदाधिकम् ।।४५।।
जलपात्रव्रतेनापि क्षीरसागरशायिताम् । एकभुक्तव्रतेनापि गोलोकस्याऽधिकारिताम् ।।४६।।
नक्तमात्रव्रतेनाऽपि नारायणसमानताम् । पत्रपुष्पप्रदानेऽपि महेन्द्रपदशालिताम् ।।४७।।
दीपमात्रप्रदानेऽपि सूर्यचन्द्रादिदेहिताम् । नरो वा यदि वा नारी कुमारो वा कुमारिका ।।४८।।
इच्छति चेन्ममलक्ष्मीमपि मां पुरुषोत्तमम् । पत्नीं पतिं च वा पुत्रं दास्ये लक्ष्मीं च मामपि ।।४९।।
प्रगृह्णन्तु वरानस्मत् प्रकुर्वन्तु च सञ्चयम् । महाकृपामहावृष्टिलभ्यं पुण्यबलोदयम् ।।५०।।
सत्यं सत्यं नाऽनृतं वै घोषयत्येव दुन्दुभिः । अधिमासव्रतं कृत्वा गृह्णन्तु स्वेप्सितं प्रजाः ।।५१ ।।
इत्याश्रुत्य ह्युभे कन्ये सप्तम्यां प्रातरेव ह । दुन्दुभिं मे प्रणम्यैव वर्धयित्वाऽञ्जलिद्रवैः ।।।५२।।
पूजयित्वा सुपुष्पैश्च हर्षयुक्ते बभूवतुः । पुनस्तावद्दुन्दुभेश्च कृपावाक्यं श्रुतं शुभम् ।।५३।।
कुमारिके यदीच्छेतां पतिं मां पुरुषोत्तमम् । एकभुक्तव्रतेनापि भविष्यामि पतिस्तयोः ।।५४।।
पूजां माध्याह्निकीं कृत्वा यथालब्धोपचारकैः । मिष्टान्नं भोजयित्वा मां प्राप्स्यतः पुरुषोत्तमम् ।।५५।।
इत्येवं संवदन्तं तं मत्वा स्वयोः कृते शुभम् । सिद्धिबुद्धी विदित्वा स्वं भाग्योदयमुपागतम् ।।५६।।
पूजयित्वा स्वपितरौ भोजयित्वा विधानतः । गृहकार्यं विनिर्वर्त्य पुष्पचन्दनवारिभिः ।।५७।।
अक्षतैश्चापि मिष्टान्नैर्धूपदीपसुचर्वणैः । यान्यासन् स्वगृहे तैस्तैरर्चयित्वा तु कानकम् ।।५८।।
नारायणं हरिं देवं पतिप्राप्तीच्छया शुभे । नीराजयामासतुश्च ह्यर्थे कामफलं शुभम् ।।५९।।
दत्वा संप्रार्थयामासतुश्च नौ त्वं पतिर्भव । इत्युक्त्वाऽक्षतसंपूर्णाञ्जली ददतुरादरात् ।।६० ।।
तावच्छ्रीभगवान् साक्षात् कृष्णनारायणः स्वयम् । युवा कटाक्षबाणेन निरीक्षन् प्राविरास वै ।।६१ ।।
द्वयोः प्रकोष्ठे संगृह्य स्वकरेण हरिः स्वयम् । मस्तकयोः करौ कृत्वा वक्षस्याकृष्य ते ह्युभे ।।६२।।
प्रिये इति च संभाष्य निभाल्य च मुहुर्मुहुः । मिलितोऽस्मि च जातोऽस्मि मिलिते विधिवत् प्रिये ।।६३।।
इत्युक्त्वाऽन्तर्दधे कृष्णस्ते ह्युभे तं हरिं सदा । जाग्रत्यपि तथा स्वप्ने पश्यतो वै मनोहरम् ।।६४।।
पार्वत्यंकस्थितं कृष्णमेकशुण्ढं क्वचित्पुनः । अशुण्ढं मुरलीयुक्तं गोलोकस्थं व्यपश्यताम् ।।६५।।
वरयोग्यं पुनस्तं च गणेशं शंकरात्मजम् । सशुण्ढं च सुरूपं च ददृशतुः क्षणान्तरे ।।६६।।
श्वेतवर्णं सुनेत्रं च सुभालं यौवनान्वितम् । कृष्णात्मकं च तं दृष्ट्वा मुमूहतुः पुनः पुनः ।।६७।।
क्वचित्स्वप्ने च ते कन्ये कुर्वन्त्यौ मोदकान् बहून् । पश्यतः स्म च तत्रैत्य गणेशः फलकासने ।।६८।।
निषद्याऽर्थयते लड्डून् अन्येऽपि ददतुस्तदा । पार्श्वद्वये ह्युभे स्थित्वा ददतुर्लडडूऽकान् मुहुः ।।६९।।
गणेशः स्वल्प शुण्डेन पार्श्वद्वये कृतेन च । वारंवारं प्रदत्तान् सुलड्डून्प्राप्य निजे मुखे ।।७०।।
न्यस्यत्यतीव मिष्टाँश्च प्रेम्णा भक्षयति द्रुतम् । प्रशंसति करौ दत्वा कन्ययोः पृष्ठयोस्तदा ।।७१।।
एकैकं लडडुकं ताभ्यां दत्वा संभोजयत्युभे । हसन् हास्यं प्रकुर्वन् रामयन् संरमयन्मुदा ।।७२।।
दर्शयित्वैवमात्मानं तिरोभावं प्रगच्छति । कन्येऽपि जाग्रते भूत्वा मुहुः संस्मरतुश्च तम् ।।७३।।
एवं हृद्ये गणपतौ जाते कालेऽप्युपस्थिते । विश्वप्रकर्मणा ज्ञात्वा प्राग्वृत्तान्त तदीयकम् ।।७४।।
गणेशं तु समाहूय विधिना लग्नशालिना । गणेशायाऽर्पिते कन्ये सिद्धिबुद्धी समाह्वये ।।७५।।
विवाहोत्तरकालेऽत्रऽऽश्चर्यं जातं महच्छृणु । गणेशेन कृते रूपे द्वे तदानीं गृहान्तरे ।।७६।।
एकं श्रीकृष्णरूपं च गणेशात्म द्वितीयकम् । कन्ययोश्चापि रूपे द्वे द्वे कृते सुमनोहरे ।।७७।।
राधातुल्ये तु रूपे द्वे श्रीकृष्णो गरुडोपरि । नीत्वा ययौ स्वकं धाम गोलोकं शाश्वतं तदा ।।७८।।
तत्र वै रमते सिद्ध्या बुद्ध्या च दिव्यरूपया । एवं ताभ्यां फलं मुक्यात्मकं दत्तं व्रतस्य वै ।।७९।।
अथाऽन्येन स्वरूपेण गणेशाख्येन तेन ते । उभे कृत्वा स्वके त्वंके प्रेम्णा निभालिते मुहुः ।।८०।।
चुम्बिते गण्डयोश्चापि तोषितेऽन्तर्गृहे गते । नवयौवनभावस्य फलं वै प्रापिते रतेः ।।८१।।
इति लक्ष्मि! फलं ताभ्यां लब्धं कृष्णधवात्मकम । दिव्यं लोकेऽपि विख्यातिं प्राप्तं रूपं द्वयं द्वयम् ।।।८२।।।
पूज्यभावं प्रतिष्ठां च प्राप्तेऽधिमास सत्कृतात् । एकभुक्तव्रताद् यद्वा प्राप्तवस्तुभिरर्चनात् ।।८२।।।
एवं या कन्यका कुर्यात्पुरुषोत्तमपूजनम् । सप्तम्यां त्वेकभुक्तं च वाञ्च्छया कृष्णसत्पतेः ।।८४।।
साऽवश्यं यत्र कुत्रापि प्रादुर्भूतं स्वकं पतिम् । कृष्णनारायणं दिव्यं मानवं सा त्ववाप्स्यति ।।८५।।
भुक्तिं कृत्वा बहून लोकान् सम्प्राऽनुभूय शाश्वतान् । ततः श्रीकृष्णगोलोकं वैकुण्ठं वाऽऽप्स्यति ध्रुवम् ।।८६।।
तस्माद् व्रतं प्रकर्तव्यमधिमासप्रसंभवम् । अनायासेन मुक्तिः स्यात् पुनर्जन्म न शिष्यते ।।८७।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विश्वकर्मणः सिद्धिबुद्धिपुत्रीभ्यां माता- पितृसेवयाऽऽशीर्वादोत्तरमधिकमासव्रत बोधकदुन्दुभिश्रवणोत्तरं कृतेन सप्तम्यां एकभुक्तव्रतेन तयोः श्रीकृष्णदर्शनरूपद्वयप्राप्तिर्गोलोकवासो गणपत्यात्मककृष्णेन सह विवाहश्चेत्यादिनिरूपण-नामैकोनशताधिकद्विशततमोऽध्यायः ।। १.२९९।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! युगारंभे सृष्ट्यादौ यदभूत्पुरा । षट्कं जातमपत्यानां ब्रह्मणो मानसान्निशि ।। १ ।।
तपसा क्लेशितस्याऽस्य ललाटादभवन्महान् । रुद्रः सोऽप्याज्ञयाऽजस्य रुद्रैर्जगदपूरयत् ।। २ ।।
तांस्तु भयंकरान्क्रूरान् जगद्विप्लवकारकान् । दृष्ट्वा तोषं न वै लेभे ब्रह्माऽऽज्ञामकरोत्पुनः ।। ३ ।।
संहारार्थं तु रुद्राणां सृष्टेस्तदा सुतेन वै । रुद्रेण संहृताः सर्वे जगच्छून्यमभूत्ततः ।। ४ ।।
सत्यलोकं गृहं स्वस्य शून्यं विलोक्य विश्वसृङ् । औदासीन्यं जगामाऽति बालकाकलिकां विना ।। ५ ।।
यत्र गृहे न वै बालो बालानां रोदनं न वा । क्रीडनं कलहो नो न श्रूयते बालभाषितम् ।। ६ ।।
तद्गृहं कालरात्रेर्वै फेरुराजगृहोपमम् । विना पुत्रं विना पुत्रीं स्वर्गं तु नरकायते ।। ७ ।।
हीश्वराणां भवनानि रणायन्ते प्रगर्तवत् । जीर्णवृक्षायते सौधः केवलवृद्धमण्डलः ।। ८ ।।
अनपत्यं कुटुम्बं च शुष्कपर्वतशृंगवत् । अनपत्यः पिता दग्धज्वालामुखिस्थलीसमः ।। ९ ।।
अबालकाकलीशब्दं महाप्रलयवद्ग्रहम् । रसा अप्यरसाः सौधे जायन्ते बालकं विना ।। १० ।।
भोज्यान्यपि कवोष्णानि जायन्तेऽतृप्तिदानि च । उत्सवा यद्विना नैव भवन्त्येव नवा नवाः ।। ११ ।।
यदुन्नतिकृतोत्साहा अपि नश्यन्ति यद्विना । शुष्कायन्ते मुखचन्द्रा ग्रीष्मे कर्दमपिण्डवत् ।। १ २।।
रूक्षायन्ते मानसानि तापे बर्बुरकाष्ठवत् । तिक्तायन्ते च पेयानि ज्येष्ठे निम्बरसादिवत् ।। १३ ।।
सुखदानि त्वपत्यानि जायन्ते पुण्यशालिनाम् । दुःखदानि दरिद्राणि जायन्ते दुष्प्रकर्मिणाम् ।। १४।।
ऋणानुबन्ध एवात्र कारणं प्राग्विसर्गजः । नूतनं चापि कर्तव्यं स्वपत्यदायकं तपः ।। १ ५।।
इति संकल्प्य च ब्रह्मा संयम्येन्द्रियमण्डलम् । तपश्चचार घटिकामात्रं समाधिसंस्थितः ।। १ ६।।
अपत्यार्थी स्वपत्यार्थी सस्मार तानि वै हृदि । तावत् तन्मानसा जाता दुन्दुभिघण्टकम्बवः ।। १७।।
त्रयः पुत्राः सुतास्तिस्रो घण्टा नीराजना तथा । झल्लरी चेति मानस्यः पश्चाज्जातं त्रिकं पुनः ।। १८ ।।
कांस्यं च पञ्चपात्रं च धूपध्रं चेति मानसम् । तिस्रः पुत्र्यस्त्रयः पुत्रास्त्रयं षण्ढं प्रजापतेः ।। १९।।
संकल्पान्नवसंख्यानि त्वपत्यानि प्रजज्ञिरे । निषेके वाथ संकल्पे भावना यादृशी भवेत् ।। २० ।।
तादृशं जायतेऽपत्यं तथा जातानि पद्मजे । तत्र षट् खलु वाचालान्याक्रोशकारकाणि हि ।। २१ ।।
कम्बुर्घण्टो दुन्दुभिश्च घण्टा च झल्लरी तथा । कांस्यं च जातमात्राणि चक्रुः कोलाहलं गृहे ।। २२ ।।
औदासीन्यं गतं तेन शून्यतापि गता विधेः । गृहं क्रीडदपत्यैश्च सोत्सवं समजायत ।।२ ३ ।।
ब्रह्मा तेन प्रसन्नोऽभूत् संसक्तो लालनेऽवने । गृहं सापत्यकं मंगलायतनं त्वमन्यत ।। २४।।
नीराजना पञ्चपात्रं धूपध्रं मौनवृत्तितः । षड्भिस्तानि रमन्ते वै नर्तनाद्यैस्तदा क्षणे ।।२५।।
नित्यं प्रातस्तथा सायं मिलित्वा नव तानि वै । कुर्वन्ति कीर्तनं स्वस्व कर्तव्यार्थैः प्रपूजनम् ।। २६।।
कृष्णनारायणस्यैव बभूवुर्भक्तिमन्ति वै । ब्रह्मा जहर्ष चातीव स्वपत्यलाभतः खलु ।।२७।।
एवं प्रयाते समयेऽधिमासस्याऽष्टमी प्रगे । महादुन्दुभिरेतैस्तु श्रुतो विष्णुपदीतटे । । २८ ।।
प्रातः स्नानं प्रकुर्वद्भिः श्रुतं तत्र शुभावहम् । शृण्वन्तु चेतनाः सर्वे स्थावराश्च जडा अपि ।।२९।।
मूर्तिमन्तो ह्यमूर्ताश्च बाला वा बालिकास्तथा । बालकान्यपि शृण्वन्तु स्वल्पायास फलोत्तमम् ।। ३० ।।
पुरुषोत्तमवाद्योऽहं याथातथ्येन वच्म्यहम् । पुरुषोत्तममासोऽयं पुरुषोत्तम एव सः ।। ३१ ।।
सर्वमासातिगः प्रापयति श्रीपुरुषोत्तमम् । मनसा कर्मणा वाचा त्वादृतः पुरुषोत्तमः ।। ३५।।
येन स त्वादृतः स्याच्छ्रीपुरुषोत्तमशार्ङ्गिणा । अद्य मौनं विधातव्यं भोजनं चैककालिकम् ।। ३३ ।।
प्रातः संपूजनं कार्यं मध्याह्ने च तथा निशि । कृष्णनारायणस्याऽद्य रूपं ध्यातव्यमैश्वरम् ।। ३४।।
प्रातः स्नात्वा हरिं नत्वा पूजासामग्रीरानयेत् । सुवर्णप्रतिमां विष्णोः स्थापयेन्मण्डले घटे ।। ३५।।
पञ्चामृतेन दुग्धेन दध्ना क्षौद्रेण सर्पिषा । शर्करया शुद्धवार्भिः स्नापयेत् पुरुषोत्तमम् ।। ३६ ।।
वस्त्रैः सम्मार्ज्य धौत्रादि धारयेत् पुरुषोत्तमम् । आभूषणानि कटककिरीटादीनि धारयेत् ।। ३७।।।
चन्दनात्तरकस्तूरी कुंकुमादिभिरर्चयेत् । भोजयेद् दुग्धपाकादि ताम्बूलादि समर्पयेत् ।। ३८ ।।
धूपदीपनमस्काराऽऽरार्त्रिकाद्यैर्विवर्धयेत् । प्रदक्षिणा दण्डवद्भिः प्रार्थयेन्मनसेप्सितम् ।। ३९ ।।
जलं पेयं तथाऽर्घ्यं च फलं पुष्पाञ्जलिं ददेत् । प्रार्थयेच्च कृपानाथ पुरुषोत्तम केशव ।।४० ।।
व्रतं तव कृते चाद्य पुरुषोत्तममासिकम् । अष्टम्यां पालितं चाहर्निशं कृत्वा ह्युपोषणम् ।।४१ ।।
एकभक्तं च वा कृत्वा यथाशक्ति कृतं प्रभो । क्रियते वा करिष्ये वा निर्विघ्नं तत् समाप्यताम् ।।।४२।।
यथेष्टं च फलं देहि कृपासिन्धो जनार्दन । इति संप्रार्थ्य देवेशं लभन्तां मनसेप्सितम् । ।४ ३ ।।
महादुन्दुभिं श्रुत्वैवं वेधोबालानि तत्क्षणम् । स्नात्वाऽऽश्चर्यभराण्येवाऽऽययुस्तस्याऽन्तिकं मुदा । ।४४। ।
पप्रच्छ दुन्दुभिः स्वल्पो महादुन्दुभिमुत्सुकः । कोऽसि कस्मात् समायातः किं प्रवक्षि ददासि किम् । ।४५। ।
क्व ते वासश्च किं कार्यं करोषि त्वत्प्रभुश्च कः । इति दुन्दुभिना पृष्टो महादुन्दुभिराह तम् । । ४६ । ।
अहं वैकुण्ठपुत्रोऽस्मि वैकु्ण्ठादागतोऽस्मि च । वैकुण्ठे मे सदा वासो नारायणस्य मन्दिरे । ।४७। ।
कार्यं नारायणनीराजनकाले प्रवादनम् । मम स्वामी कृष्णनारायणः श्रीपुरुषोत्तमः ।।४८ ।।
यस्याऽऽज्ञया जनको मे वैकुण्ठधामरूपधृक् । भूत्वा नित्यं वर्तते तु सेवायामपि सेवकः ।। ४९ ।।
पित्राज्ञया तथा नारायणाज्ञयाऽप्यहं सदा । विचरामि त्रिलोक्यां वै प्रेष्यकार्यकरोन्वहम् । ।५ ० । ।
या त्वाज्ञा जायते तस्य नारायणस्य तामहम् । प्रवदामि घोषयामि पुनर्गच्छामि तत्र च । ।५ १ । ।
स्वरूपे द्वे मम स्तो वै चतुर्बाहुस्तु पार्षदः । सेवायां सर्वदा वर्ते द्वितीयोऽस्मि सुदुन्दुभिः । ।५२ ।।
घोषयामि हरेराज्ञां दण्डेन ताडितो मुदा । अनेकानि स्वरूपाणि धर्तुं शक्तोऽस्म्यनुग्रहात् ।।५३ । ।
सेवया मत्कृपया च सन्तुष्टो भगवान् स्वयम् । ददाति भोजनं श्रेष्ठं सर्वं प्रासादिकन्तु मे । ।५४। ।
उद्यानानि भवनानि दिव्यान्युपस्कराणि च । यथा नारायणस्येव मेऽपि सन्ति च तान्यपि । ।५५ ।।
सर्वे नारायणतुल्यं न्यूनं किञ्चिन्न मेऽस्ति तत् । आनकः पटहो भेरी ढक्का रूपाणि सन्ति मे । ।५६। ।
यथापेक्षं निवसामि सेवायां मन्दिरेषु वै । दुन्दुभिस्तं समाकर्ण्य तत्सुखाकृष्टमानसः । ।५७। ।
पप्रच्छ दुन्दुभिश्रेष्ठं कथं वै प्राप्यते हरेः । वैकुण्ठं वा तदीयं च स्मृद्धं धाम तु मादृशैः । ।।९८ । ।
महादुन्दुभिराहैनं जिज्ञासुं स्वल्पदुन्दुभिम् । अधिमासेऽप्येककालं द्विकालं वा त्रिकालिकम् । ।५९ । ।
यस्मिन् कस्मिन् दिने कृष्णपूजनं तस्य चाप्तिदम् । उपवासाऽयाचितादिव्रतेनैकाऽदनेन वा । । ६०। ।
नक्तेन वा पयसा वा कृतव्रतेन चाप्यते । कृतेनाऽल्पेन बहु तत् फलं वै लभ्यते जनैः ।। ६१ ।।
जलमात्रप्रदानेन हरये लभ्यतेऽपि तत् । यस्याऽग्रे किंचन नास्ति भक्त्या तेनापि लभ्यते ।।६ २।।
देवाग्रे नर्तनं कार्यं गायनं सुस्वरान्वितम् । तुष्टस्तेनापि भगवान् वैकुण्ठं प्रददाति वै ।। ६३ ।।
वैकुण्ठं चापि गोलोकं ब्रह्मधामाऽक्षराह्वयम् । तदुत्तरोत्तरं श्रेष्ठं यदिच्छति ददाति सः ।।६४।।
एतच्छ्रुत्वाऽऽह वै स्वल्पदुन्दुभिर्दुन्दुभीश्वरम् । किं वैकुण्ठात्परं चास्ति गोलोकं वै स्थलान्तरम् ।।६५ ।।
गोलोकात् किं परं व्रह्मधामाऽस्त्यन्यत् स्थलं किमु! । कस्तत्र वसति स्वामी वयं तं प्राप्नुमो न वा ।।६६।।
महादुन्दुभिराह श्रीलक्ष्मीनारायणः प्रभुः । स्वामी वैकुण्ठलोकस्य यदीष्येताऽऽप्यते स वै ।।६७।।
स्वामी गोलोकधाम्नः श्रीराधाकृष्णो महान् प्रभुः । यदीष्येताऽऽप्यते सोऽधिमासे कृतव्रतेन वै ।।६८।।
स्वामी च ब्रह्मलोकस्याऽक्षरेशः पुरुषोत्तमः । यस्मात्परो न वै कश्चिन्न च येन समोऽस्त्यपि ।।६९।।
अनादिश्रीकृष्णनारायणः सोऽस्ति परेश्वरः । यस्याऽऽज्ञां मस्तके धृत्वा घोषयामि व्रतार्चनम् ।।७० ।।
अधिमासस्य स स्वामी ददाति व्रतिने हि तत् । व्रती यदीहते दिव्यं सर्वं ददात्यनुग्रहात् ।।७१ ।।
वः समिच्छा तु यस्यास्ति कार्यं तन्मूर्तिपूजनम् । वैकुण्ठात् कोटिगुणकं सुखं गोलोकधामनि ।।७२।।
गोलोकादप्यसंख्यं च परे धाम्न्यक्षरे सुखम् । आनन्दानां तथाऽऽनन्त्यमैश्वर्याणामसंख्यता ।।७३ ।।
नान्यद् वै तादृशं श्रेष्ठं भवतीत्यवगम्यताम् । ब्रह्मविष्णुमहेशानां लोकास्तन्निरयोपमाः ।।७४।।
गन्तव्यं यदि चेत् तत्राऽर्चयन्तु पुरुषोत्तमम् । अद्याऽष्टम्यां यथाशक्ति यथाभावं स पूज्यताम् ।।७५।।
नृत्यं विधीयतां चापि गायनं च विधीयताम् । इष्टं फलं हरिः सर्वं भावानुगं प्रदास्यति ।।७६।।
निवासार्थं यदा सर्वधामसु गोलकेषु च । प्रत्यच्युतग्रहं चापीष्यते सोऽपि ददाति तत् ।।७७।।
श्रुत्वा त्वहो ह्यहो कृत्वा महाश्चर्ययुतानि वै । वेधोऽपत्यानि तत्रैव नृत्यं चक्रुश्च गायनम् ।।७८।।
पुपूजुर्दुन्दुभिश्रेष्ठमर्थयामासुरादरात् । वयं तत्राऽऽगमिष्यामो यत्र श्रीपुरुषोत्तमः ।।७९।।
त्वया तस्मै कथितव्यमस्माकं व्रतपूजनम् । व्रतं कुर्मो वयं त्वद्याऽष्टम्यामुपोषणान्वितम् ।।८० ।।
पूजनं त्वक्षरेशस्य गोलोकेशस्य चापि वै । वैकुण्ठेशस्य वै कुर्मो येन सर्वत्र नो गतिः ।।८ १।।
दुन्दुभीशः सत्कृतस्तैर्नीत्वा वेधो गृहान्तरे । यथा नारायणः पूज्यः सर्वैस्तैः पूजितस्तथा ।।८२।।
शृंगारितः सेवितश्च विभूषाभिरलंकृतः । भोजितो मर्दितश्चैव दक्षिणाभिरलंकृतः ।।८३।।
पादसंवाहितो देहे मर्दितो विश्रमीकृतः । स्वापितश्च क्षणं पश्चाद् बोधितः संविसर्जितः ।।८४।।
सेवयाऽतिप्रसन्नः स परावृत्य पुनः पुनः । दुन्दुभिप्रभृतीन् प्राह कुर्वन्तु व्रतमादरात् ।।८५।।
ब्रह्माण्डे घोषणां कृत्वा सायमागत्य चात्र वै । मिलित्वा भवतः पश्चाद् यास्ये वैकुण्ठमेव ह ।।८६।।
इत्युक्त्वा दुन्दुभिश्रेष्ठो लोकान् बोधयितुं ययौ । दुन्दुभिप्रभृतयश्च प्रातर्मध्याह्नके निशि ।।८७।।
स्नानं कृत्वा त्रिषवणं त्रिकालं पूजनं तथा । लक्ष्मीनारायणस्यापि राधाकृष्णस्य वस्तुभिः ।।८८।।
अक्षराधिपतेश्चापि दिव्यैः षोडशकोत्तमैः । दुग्धपाकादिभिर्देवान् भोजयित्वा ततो मुदा ।।८९।।
निर्णयं स्म प्रकुर्वन्ति भगवन्मूर्तिसन्निधौ । कृष्णनारायणब्रह्मेश्वराः शृण्वन्तु निर्णयम् ।।९० ।।
भगवत्सदनेऽस्माभिः स्थातव्यं सर्वदा ध्रुवम् । पूजायां च प्रसेवायां सर्वसृष्टौ हरेः पुरः ।।९१ ।।
यथास्वाभिलषितं स रक्षत्वस्मान् स्वसन्निधौ । सेवामुक्तिः सदाऽस्माभिर्ग्रहीतव्या नहीतरा ।।९२।।
दास्यं वै सर्वतः श्रेष्ठं तत् किं न रोचयामहे । नियोजनं हरिर्विनिमयं स्वामी करोतु नः ।।९ ३ ।।
इति ते प्रार्थनां कृत्वा सवाद्यनृत्यगायनम् । कुर्वन्ति स्म नवैवैवं हावभावस्वरान्वितम् ।।९४।।
कृष्णनारायणब्रह्माधिपास्तुष्टा दयालवः । पुरुषोत्तममासोऽपि तत्र पश्यति भावनाम् ।।९५।।
तावत्तत्र समायातो दुन्दुभीशो हरेर्निशि । दृष्टवन्तः श्रुतवन्तो भक्तिं सर्वातिशायिनीम् ।।९६।।
नवानां वेधसोऽपत्यानां परप्रेमयुञ्जताम् । प्रसन्नाश्चातितुष्टाश्च सर्वे ते परमेश्वराः ।।९७।।
साक्षाद् दिव्यसुरूपास्ते प्रादुर्बभूवुरन्तिके । सर्वे दिव्यकिरीटास्ते दिव्यमालाद्यलंकृताः ।।९८।।
कोटिविद्युल्लतातुल्यलक्ष्मीराधाप्रभायुताः । दिव्याम्बरधराः छत्रिचामरिभिः सुसेविताः ।।९९।।
कोटिकन्दर्पलावण्यसौन्दर्यमृदुतान्विताः । दिव्यैश्वर्यमहावीर्याऽऽनन्दसंभृतमूर्तयः ।। १० ०।।
प्रसन्नवदनाः प्रोचुः किमपत्यानि चेष्यते । युष्मद्भक्त्या दुन्दुभीशपूजनेन च सेवया ।। १०१ ।।
अतितुष्टाः स्म पुत्रा वो यदिष्टं ब्रूत तच्च नः । दृष्ट्वा श्रुत्वा ततोऽपत्यान्यतिहृष्टानि वेधसः ।। १०२।।
प्राहुर्युष्मद्गृहाण्यस्मान्नयत श्रीपरेश्वराः । नियोजयत सेवायां पादयोर्वः सुसन्निधौ ।। १ ०३।।
प्रतिगृहं प्रतिलोकं युष्माकं भवनं च यत् । तत्र तत्र सदा सेवां करिष्यामो नवैव ह ।। १०४।।
वयं समप्रजन्मानः स्वसारो भ्रातरस्तथा । परस्परं ततोऽस्माकं वियोगो मा भवेत् क्वचित् ।। १ ०५।।
यत्र युष्मत्सु सेवायां रक्षन्त्वस्मान् दिवानिशम् । तत्राऽस्मान् संहतानेव रक्षन्तु परमेश्वराः ।। १ ०६।।
युष्मत्सेवां परां मुक्तिं लब्ध्वा स्यामः सुखालयाः । विज्ञापितं यदस्माभिस्तदावहत यन्मतम् ।। १ ०७।।
वयं तु किंकरा दासा दास्ये तुष्टा न चाऽर्थने । स्वामी तुष्टो यथा स्यात्तत्कर्तव्यं. किंकरस्य वै ।। १ ०८।।
इति तेषां भावगर्भं श्रुत्वा ते परमेश्वराः । पप्रच्छुर्दुन्दुभीशं किमेभ्यो देयं वदाऽऽज्ञया ।। १ ०९।।
महादुन्दुभिराहाऽत्र दायादाः सुलभा ननु । किंकरा दासवर्गाश्च लोके सर्वत्र दुर्लभाः ।। ११ ०।।
दासवर्गाय सर्वस्वं स्वामिनो भवति ध्रुवम् । एतादृशेभ्यो दासेभ्यः किं किं देयं न विद्यते ।। १११ ।।
देयश्चाऽक्षरलोको वै देयो गोलोक इत्यपि । देयो वैकुण्ठ एवापि धामान्यन्यानि यान्यपि ।। १ १२।।
मन्दिराणि तथान्यानि ब्रह्माण्डेषु भवन्ति च । यत्र यत्र तु वो मूर्तिरवतारादिमूर्तयः ।। १ १३।।
तत्र तत्र तु सर्वत्र वास एभ्यः प्रदीयताम् । मयापि सह वस्तव्यं ह्येते भक्ता हि मादृशाः ।। १ १४। ।
एषां रूपाण्यसंख्यानि भवन्तु भवतां यथा । भवद्भिः सह तिष्ठन्तु जयगायननर्तनैः ।। १ १५। ।
आरार्त्रिके च पूजायां भ्रामणैरुत्सवेषु च । घोषणैरर्घ्यदानेन सुगन्धाद्यर्पणेन च ।। १ १६।।
सायं प्रातस्तु पूजायां प्रत्येके मन्दिरे तु वः । नीराजना नर्तनं भ्रामणं करोतु साग्निका ।। ११७ ।।
दुन्दुभिः पटहात्माऽयं जयध्वानं करोतु वै । घण्टी ह्यनुजयं तस्य करोतु वश्च मन्दिरे ।। १ १८।।
कांस्यं करोतु मोक्षस्य घोषणां सुमनोहराम् । नीराजनादिवेलायां भजन्तां देहिनो हरिम् ।। १ १९।।
अभजन्तो निन्दकाश्च नास्तिकाश्च विरोधिनः । भविष्यन्ति यमैर्दण्ड्याः करोत्वित्यपि घोषणाम् ।। १२०।।
घण्टा करोतु गीतिं च नृत्यं वै सुस्वरा करे । झल्लरी गायनं लोकाऽऽह्वानं करोतु मन्दिरे ।। १२१ ।।
कम्बुस्तीर्थजलेनैव करोतु भ्रामणं पुरः । पञ्चपात्रं पादजलं रक्षत्वर्घ्यं ददात्वपि ।। १२२।।
धूपध्रं तु सुगन्धं वै धूपं करोतु मन्दिरे । दुन्दुभीशस्त्वहं सर्वान् दूरस्थानाह्वयामि ह । । १२३ । ।
आगच्छन्तु महाभागा दर्शनार्थं हरेरिह । मुमुक्षवो नरा नार्यो दुष्टास्तु यान्तु दूरतः ।। । १२४ । ।
एवं सर्वे वयं युक्ताः करिष्यामः प्रसेवनम् । व्रतस्याऽस्य फलं त्वेभ्यो ददत श्रीपरेश्वराः ।। १२५ । ।
किं च मद्वत् किलैतेषां ब्रह्माक्षरे द्विहस्तता । गोलोके द्विभुजत्वं वैकुण्ठे करचतुष्टयम् ।। १ २६।।
तत्तत्स्वामिस्वरूपैश्च साम्यं भवतु दिव्यता । असंख्यरूपधारित्वं स्यादेषा प्रतिमन्दिरम् । । १२७ ।।
युष्मादृशं च पावित्र्यं सत्कार्यता भवादृशी । पूज्यता रक्ष्यता चापि सर्वदाऽस्तु भवादृशी । । १२८ ।।
एषां निन्दाप्रकर्तारो भवन्तु निरयं गताः । एषां नाशं तथा चौर्यं भर्त्सनं भञ्जनादिकम् ।। १२९ ।।
करिष्यन्ति जना ये ते भवन्तु निरयं गताः । एषां त्वंगप्रघातेषु सन्धानादिप्रकारिणाम् ।। १३० ।।
एषां प्रतिमाकर्तृणां प्रतिमादानिनां तथा । प्रतिमापुष्टिकर्तॄणां जीर्णोद्धारादिकारिणाम् ।। १३१ ।।
पुरुषोत्तमलोकस्य प्राप्तिर्भवतु सेविनाम् । एतद्वाद्यनिनादादीन् कुर्वाणानां तु देहिनाम् ।। १३२।।
भगवद्धामसम्प्राप्तिर्भवत्विति वृणे ह्यहम् । महादुन्दुभिना दुन्दुभ्यादिकृते तथाऽर्थितम् ।। १३३ ।।
भगवद्भिश्च तत्रैव तथास्त्विति समर्पितम् । नवाऽपत्यानि चाऽऽकृष्य संश्लिष्य परमेश्वराः ।। १ ३४।।
दत्वा दिव्यस्वरूपाणि चतुर्द्विहस्तकानि वै । निषाद्य वाहने नैजे निन्युर्धाम स्वकं स्वकम् ।। १३५ । ।
नीराजना तथा घण्टा झल्लरी दिव्यरूपिणी । तत्र लक्ष्मीसमा जाता हरिसेवापरायणा ।। १३६ ।।
अन्यत्र तु यथापेक्षाकृतयस्ता विरेजिरे । कम्बुर्घण्टो दुन्दुभिश्च कांस्यं च पञ्चपात्रकम् । । १३७ ।।
धूपध्र चेति षट् सौम्या दिव्यरूपधराः प्रभोः । मुक्तरूपाश्च सेवायां समवर्तन्त धामसु ।। १३८ ।।
अन्यत्र तु यथापेक्षाकृतयस्ता विरेजिरे । एवं लक्ष्मि! प्रदिव्या वै जाता विधातृबालकाः ।। १३९ ।।
पुरुषोत्तममासस्याऽष्टमीव्रतेन वै खलु । एवं ये व्रतकर्तारस्तेऽपि यास्यन्ति धाम तत् ।। १४० ।।
एवं वै मलमासेऽत्र कृतं स्वल्पं फलेद् बहु । अल्पादानन्त्यलाभो यः कृपा सा पारमेश्वरी ।। १४१ ।।
यावज्जीविष्यति ब्रह्मा यावत् स्थास्यति मेदिनी । तावत् दुन्दुभिघण्टाद्याः स्थास्यन्त्यच्युतमन्दिरे ।। १४२ ।।
मुक्तौ तु सर्वदा दिव्याः स्थास्यन्ति केशवालये । तस्माद् व्रतं प्रकर्तव्यं नैतादृक् स्यात् प्रवर्षणम् । । १४३। ।
ब्रह्मा विचारमकरोत् पुत्रा मे मुक्ततां गताः । अथान्यानुत्पादयेयं गृहं शून्य न मे भवेत् ।। १४४। ।
योगेश्वराः सनकाद्याः ऋषयश्चापि मानसाः । उत्पादिता ब्रह्मणा हि ततो वै ब्रह्मवादिनः । । १४५। ।
एवं सृष्टिप्रकर्तारश्चान्येऽपि प्रकटीकृताः । शान्तोऽभवत्प्रजा वीक्ष्य प्रवाहोऽप्यभवत्तथा ।। १४६ । ।
एतदाख्यानकं ये वै श्रोष्यन्ति मानवादयः । पठिष्यन्ति च तेऽष्टम्याः फलं प्राप्स्यन्ति वै ध्रुवम् । । १४७। ।
इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये ब्रह्मणो मानसानां दुन्दुभिघण्टकम्बुनाम्नां पुत्राणां घण्टानीराजनाझल्लर्याख्यानां पुत्रीणां कांस्यपंचपात्रधूपध्राख्यानामपत्यानां च महादुन्दुभिघोषणाश्रवणोत्तरमष्टम्यां अधिकमासे व्रतकरणेनाऽक्षरेशगोलोकेश वैकुण्ठेशदर्शनं, तत्तद्धामसु सृष्टिषु च प्रति-मन्दिरमनेकरूपैः स्थापनं मुक्तिराशीर्वादाश्चेत्यादिनिरूपणनामा त्रिशततमोऽध्यायः । । १.३०० । ।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पुरुषोत्तमयोगिनी । पुरुषोत्तममासस्य कथा दिव्याऽघनाशिनी । । १ । ।
परब्रह्मसकाशात्तु वासुदेवो व्यजायत । वासुदेवात् समभवद् भूमाख्यः पुरुषोऽग्रणीः । । २ । ।
भूम्नोऽभवद् विराडस्य मुखादग्निरजायत । अग्नेरपत्यं लोकेषु हिरण्यं विश्रुतं त्रिषु । । ३ । ।
सृष्ट्यारंभे न वै कश्चिदग्नेः सत्कारमाचरत् । अत्युष्णत्वाद् दाहकत्वात् कृष्णवर्त्मकृतेस्तथा । । ४ । ।
आश्रयापयितुर्भस्मीकरणप्रकृतेस्तथा । अग्निमेतादृशं दृष्ट्वा ब्रह्माद्या अपि बान्धवाः ।। ।५ । ।
भयं प्राप्ता न सत्कारं सहवासं चरन्त्यपि । भोजने तूत्सवे पाने दूरं कुर्वन्ति चाऽनलम् । । ६ । ।
त्रैलोक्ये नाऽऽप स क्वापि विश्रान्तिं भोजनादिकम् । सर्वदिग्भ्यः सर्वदेहिभ्यस्तिरस्कारमाप्य सः । । ७ । ।
केभ्यश्चित्तु स्थलेभ्यः स प्राप्तवाँस्ताडनादिकम् । अतो ज्वालादिकं तूष्णगुणं जिह्वा निगूह्य च ।। ८ ।।
अन्यैरलक्षितो वह्निर्लोकालोकाचलं ययौ । क्षुधितः शिखरं लोकालोकाचलस्य जग्धवान् ।। ९ ।।
उदरे पच्यमानं तद् पुत्ररूपं व्यजायत । हिरण्यं तत्तु संजातं कांचनी भूमिका तु सा ।। १० ।।
लोकाऽलोकाचलपार्श्वे प्रकाशिता व्यजायत । एवं स पर्वते प्रदक्षिणां कुर्वन् प्रयाति वै ।। १ १।।
भवति क्षुधितो यत्र शृंगं तत्राऽत्ति पार्वतम् । पचमानं तु तत्पुत्ररूपेण जायते ततः ।। १२।।
एवं पुत्राः सुवर्णानि समजायन्त सर्वतः । सर्वत्र काञ्चनी भूमिर्लोकालोकाचलं त्वनु ।। १३।।
सञ्जाता वर्तुलाकारा पश्चात् शृंगं महत्तमम् । ब्रह्माण्डसदृशं भक्षयित्वा पृथ्व्यां समन्तरे ।। १४।।
मध्यदेशे ययौ दिव्यानलस्तत्राऽश्रमत् क्षणम् । पच्यमानं महच्छ्रंगं पुत्ररूपं व्यजायत ।। १५।।
सुवर्णे तन्महामेरौ व्याप्तं चाऽभूत् समन्ततः । मेरुस्तस्मात् सुवर्णस्य प्रख्यातिमगमत्ततः ।। १६।।
जडं सुगन्धहीनं च खनिग्रावात्मकं गुरु । यत्र यत्र पतितं तत् तत्र तत्रैव संस्थितम् ।। १७।।
वह्नेरिव सुवर्णस्यापि न मानं कृतं जनैः । कल्पवृक्षजवस्त्वाद्यैर्निर्वहन्ति हि देहिनः ।। १८।।
किं सुवर्णं च कौ वह्निरित्येवं नाऽभवद्धि धीः । किं कायं वै सुवर्णस्य किं कार्यं चाऽनलस्य वै ।। १९।।
अप्येवं नाऽभवत्प्रज्ञा कल्पवृक्षबलात्तदा । सुवर्णं चाऽनलश्चोभौ मूल्यहीनौ शुशूचतुः ।।।२० ।।
अथात्र खलु नास्माकं ब्रह्माण्डेस्ति परीक्षकः । विना प्रयोजनं नैव मूल्यं कस्यापि जायते ।।।२१ ।।
तृणं प्राप्तेऽपि समये कोटिस्वर्णसमं भवेत् । अग्निर्वै शैत्यकलहे बहुमूल्योऽभिजायते ।।।२२।।
त्यक्तं मयूरपिच्छं तु गोलोके कृष्णसंधृतम् । स्वस्यैव मकुटे तेन पूज्यतां मूल्यतां गतम् ।।२३।।
ब्रह्मणा विधृतं गंगाजलं पुरा कमण्डलौ । विसृष्टं मूल्यवज्जातं महद्भूतं हि मूल्यवत् ।।२४।।
कंकरः खलु कृष्णेन धृतो वक्षसि मूल्यवान। न धृतः कर्दमः कैश्चिन्मूल्यं नाप्तो मनागपि ।।२५।।
तस्मादहं महानग्निर्मम पुत्रः सुवर्णकम् । विना प्रयोजनं यद्वा महद्भिः संधृतिं विना ।।२६।।
मूल्यवन्तौ न वै स्याव दुःखं तद्वै महत्तमम् । गुणिनां गणनारंभे यद्यंगुलिर्न तिष्ठति ।।२७।।
वरं तस्यात्र मृत्युर्वै प्राणनं क्लेशदं वृथा । विद्या वा राज्यसत्ता वा सिद्धिरैश्वर्यमेव वा ।।२८।।
ख्यातिर्वा धनिता वापि भक्तिर्वा जीवने वरम् । तद्विहीनेन मर्तव्यं मरिष्यावस्ततोऽद्य वै ।।२९।।
इति विचार्य वह्निस्तत्पुत्रो ययतुरुच्चकैः । मेरोस्तु शिखरे तस्मात्पातेन मरणार्थिनौ ।।३ ०।।
तावत् तत्र सत्यलोके घोषयन् दुन्दुभिर्हरेः । ताभ्यां श्रुतोऽधिके मासे शोकं कुर्वन्तु मा जनाः ।।३ १।।
नारायणं तु संस्मृत्य नवम्यामद्य ये जनाः । करिष्यन्ति व्रतं पूजां तेषामिष्टं भविष्यति ।।३२।।
एकभुक्तेन नक्तेन तथैवाऽयाचितेन वा । फलेन पयसा त्वद्य द्विकालं त्वैककालिकम् ।।३३।।।
व्रतं कृत्वाऽर्चनं कृत्वा कृष्णस्य शरणागताः । अपि चेत्ते मानहीना दरिद्रा निष्प्रयोजनाः ।।३४।।
गणनाहीनकाश्चापि यास्यन्ति चोत्तमं पदम् । अहं वै दुन्दुभिर्वच्मि पुरुषोत्तमदेशनाम् ।।।३५।।।
दुःखो वा क्लेशसन्दृब्धोऽतितिरस्कृत एव वा । अस्थानो वाऽल्पमूल्यो वा जडो वा तूग्र एव वा ।।३६।।
यः कश्चिच्छरणं प्राप्याऽधिकमासे व्रतं चरेत् । विधूय तस्य दुःखानि करिष्याम्यवनं सदा ।। ३७।।
पुरुषोत्तममासस्य मानकृन्मान्य एव मे । पुरुषोत्तममासे वै पुण्यकृत्पूततां व्रजेत् ।।३८ ।।
ममाऽर्चनप्रकर्ताऽत्र सर्वाऽर्च्यतामवाप्नुयात् । यस्य वै रक्षिता कोऽपि भवत्येव न वै क्वचित् ।।३९।।
चेत् स रक्षत्यधिमासं तथा मां पुरुषोत्तमम् । रक्षयिष्ये तु तमहं वदामि पुरुषोत्तमः ।।४०।।
पूजयन्तु च मां भक्त्या भोजयन्तु सुपायसम् । प्रार्थयन्तु यथेष्टं च मत्तो गृह्णन्त्वभीष्टकम् ।।४१।।
अनुग्रहेण दातास्मि त्वकृतस्यापि चेष्टदः । अल्पस्य बहुदश्चापि गृह्णन्तु पुरुषोत्तमात् ।।४२।।।
अद्य ये न करिष्यन्ति व्रतं वा वरणं च वा । तेषां हानिरलाभश्च नान्यः कश्चिदतोऽधिकः ।।४३।।
तस्मादायान्तु गृह्णन्तु वरान् कुवन्तु पूजनम् । आचरन्तु मलमासे नवम्यां व्रतमुत्तमम् ।।४४।।
प्रदाताऽस्मि समृद्धोऽस्मि समुदारोऽस्मि सर्वथा । दुन्दुभिः प्रवदाम्यत्र नारायणान्तरात्मकः ।।४५।।
नारायणस्वरूपोऽहं पुरुषोत्तमदेशनः । प्रसन्नं दासभक्तं वा करोमि पुरुषोत्तमम् ।।।४६ ।।
पत्रं पुष्पं फलं तोयं यो मयि सन्नियोक्ष्यते । अहं तस्मिन्नियोक्ष्यामि श्रेष्ठं रत्नादिकं पुनः ।।४७।।
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं यो मेऽर्पयिष्यति । तस्मै कोटिगुणितं तदर्पयिष्येऽप्यहं तथा ।।४८।।
यस्य द्रष्टाऽऽश्रयदाता पोष्टा मानयिताऽविता । कोऽपि नास्ति तु तस्याऽहं सर्वकर्ताऽविताऽस्मि वै ।।४९।।
आगच्छन्तु महाभागाः सत्कृता वाऽप्यसत्कृताः । बाला वा बालिका वापि युवत्यः सधवाऽधवाः ।।५०।।
युवानो भाग्यवन्तो वा भाग्यहीना दरिद्रकाः । वृद्धा पलितवल्यंगाः सुचित्ता वाऽप्यचित्तकाः ।।५१ ।।
तृतीयप्रकृतिव्याप्ता नामसंज्ञाविहीनकाः । स्थावरा जंगमाः केऽपि जडा वा जडसन्निभाः ।।५ २ ।।
तिर्यञ्चोऽपि विवरस्था गर्तस्थाः खनिखातजाः । मुखजाः पृष्ठजाश्चापि मलजा अमलोद्भवाः ।।५ ३ ।।
मलमासं समाश्रित्य तोषयित्वा पुमुत्तमम् । पारमेष्ठ्यपदं यान्तु यान्तु वाऽक्षरधाम तत् ।।५४।।
स्वर्गे सुखं परं यान्तु यान्तु श्रीपुरुषोत्तमम् । सुतं यान्तु पतिं यान्तु पत्नीं यान्तु च पद्मिनीम् ।।५५।।
गृहं कीर्तिं धनं यान्तु यान्तु शाश्वतपूजनम् । सर्वाधिक्योत्तमस्थानं गृह्णन्त्वनुग्रहान्मम ।।५६।।
इत्युदारां घोषणां संश्रुत्वाऽग्निश्च सुवर्णकम् । लेभाते स्म महाधैर्यं शोकं तत्यजतुस्ततः ।।५७।।
मेरोः शृंगे सत्यलोके दुन्दुभिं शरणं गतौ । नत्वा च दुन्दुभिं तस्य पूजां चक्रतुरादरात् ।।५८।।
वह्निना तु सुतं स्वर्णं दुन्दुभेस्तस्य पादयोः । अकारयन्नतिं तावद् दृष्ट्वा रूपोत्तरं सुतम् ।।५९।।
दुन्दुभिना समुत्तोल्य गृहीत्वा करयोनिजे । मस्तके च तथा स्कन्धे क्षणं सुवर्णको धृतः ।।६० ।।
अर्पितो वह्नये पश्चाद् वह्निः प्राह सगद्गदः । नावयोः रक्षिता कोऽपि सत्कर्ताऽपि न विद्यते ।।६ १।।
महद्दुःखमनुभूय मृत्य्वर्थं त्वागतावुभौ । दुन्दुभे यदि ते वाक्याद् व्रतं कुर्वोऽद्य नक्तकम् ।।६२।।
पूजनं च हरेः कुर्वो रक्षिता चेद्भवेद्धरिः । एवं संवदतोर्नेत्रादश्रवो न्यपतन् भुवि ।।६३।।
रजतं तत्समुत्पन्नं स्थले स्थल्यां समुज्ज्वलम् । वीक्ष्यैवं भग्नहृदयं दयमानं महानलम् ।।६४।।
सपुत्रं दुन्दुभिस्तं चाऽऽश्वासयामास सद्गिरा । नवम्यां अधिमासस्य व्रतं कुरुत नक्तकम् ।।६५ ।।
पूजां कुरुत वै कृष्णनारायणस्य चाद्य ह । सौवर्णीं प्रतिमां कारयित्वा नारायणस्य च । ।६६।।
पञ्चामृतेन संस्नाप्य समर्च्याऽक्षतचन्दनैः । विभूष्य स्वर्णभूषाभिर्हारैर्मालाभिरित्यपि ।। ६७।।
सद्रत्नैरम्बरैर्द्रव्यैर्विभिन्नैर्भोजनैः फलैः । जलैस्ताम्बूलपानैश्च धूपदीपप्रदक्षिणैः ।।६८ ।।
तोषयित्वाऽर्थयेद् देवं कृष्णं श्रीपुरुषोत्तमम् । असत्कृतमनाधारमनादृतमनाश्रयम् ।। ६९ ।।
क्षुधितं तृषितं द्वेष्यं दाहकं मां समुद्धर । जडं निर्गन्धमतिं वै गुरुं प्रस्तररूक्षकम् । ।७ ० । ।
निर्गुणं चेतनाहीनं वाऽकिञ्चित्करमित्यपि । समुद्धर कृपासिन्धो गणनां प्रापय प्रभो । ।७ १ । ।
एवं स्तुतिं प्रकुर्याच्च श्रीफलार्घ्यं समर्पयेत् । पुष्पांजलिं प्रदद्याच्च नत्वा नाथं विसर्जयेत् । ।७२ । ।
मध्याह्नेऽपि तथा कुर्यात् कुर्यान्निशीथके तथा । सवाद्यनर्तनगीतैर्नीराजयेद्विसर्जयेत् । ।७ ३ । ।
एवं कुरु कृशानो त्वं हाटक त्वं तथा कुरु । नारायणः प्रसन्नः सन् युवामुद्धारयिष्यति । ।७४। ।
इत्याश्रुत्य महादुन्दुभ्युक्तं नारायणोदितम् । वह्निश्चकार सौवर्णीं मूर्तिं नारायणस्य वै । ।७५। ।
लक्ष्म्या मूर्तिं चकाराऽथ पूजयामासतुश्च तौ । पिता पुत्रश्च विधिवद् व्रतं नक्त प्रचक्रतुः । ।७६। ।
रात्रौ प्रार्थयतो यावत् कृष्णनारायणं हरिम् । लक्ष्मीसमन्वितं तावत् प्रादुर्बभूव चाग्रतः । ।७७ । ।
तेजःपरिधि संव्याप्ताननं लक्ष्मीप्रसेवितम् । मन्दं मन्दं हसन्तं तं विलोक्य पुरुषोत्तमम् ।।७८ ।।
वह्निस्वर्णौ प्रार्थयतः कृपानाथ समुद्धर । ऊष्णस्वभावयुक्तस्य दाहकस्य मम स्थलम् ।।७९।।
नास्ति कुत्रापि तन्नाथ देहि मे भोजनं तथा । मूल्यं मूर्खस्य पुत्रस्य सुवर्णस्य तु नास्ति वै ।।८ ० ।।
प्रस्तरस्य न सत्कारो दृश्यते तद्यशः कुरु । सर्वदा तव सेवां च प्रदेहि भगवन् विभो ।।८ १ ।।
शरणे तेऽस्मि पतितो मामुद्धर सपुत्रकम् । इत्यर्थितो हरिकृष्णो वह्निं प्राह नरायणः ।।८२ ।।
शोकं त्यज कृशानो त्वं तुष्टोऽस्मि त्वद्व्रतेन वै । ममाऽऽननात् समुत्पन्नः सदा त्वस्तु ममाननम् ।।८ ३ ।।
वरं ददाम्यहं पुत्र यज्ञादौ भोजनं त्वयि । स्थापयिष्यन्ति ये होष्यन्त्यनले कुण्डमध्यगे ।।८४।।
अग्निहोत्रस्य हवनं त्वयि न्यस्यन्ति ये जनाः । त्वद्द्वारा तन्मया सर्वं जक्षितव्यं न चाऽन्यथा ।।८५।।
वह्नि विना जना ये मे दास्यन्ति भोजनादिकम् । तदहं न ग्रहीष्यामि सर्वथाऽनुग्रहात् त्वयि ।।८६।।
अद्यदिनादहं लोकेऽग्निमुखो भगवानिति । ख्यातिं यास्ये जनास्तेन मदर्थे भोजनादिकम् ।।८७।।
त्वयि क्षेप्स्यन्ति तत्सर्वं भक्षयिष्यामि त्वन्मुखात् । शमीष्वदृश्यरूपेण तव वासो विशेषतः ।।८८।।
हीरकादिषु तद्वच्च सर्वत्राऽस्तु तवाऽऽश्रयः । यथा वस्तुप्रदहनं न स्याद्वासस्तथा तव ।।८९।।
सर्वत्राऽस्तु कृशानो त्वं सुखी भव जनादिषु । सम्मानं सर्वथा तेऽस्तु सत्कारः सर्वथा तव ।।९० ।।
कल्पवृक्षलये काले चूल्यादौ पाचनाय वै । प्रज्वालनं तवैवाऽस्तु सर्वथैव गृहे गृहे ।।९ १।।
चिन्तामण्यादि नाशे तु प्रदीपस्य गृहे गृहे । सम्मानं सर्वथा ते स्याद् धैर्यमावह तावता ।।९२।।
द्वितीयेन च दिव्येन रूपेण पार्षदेन मे । धाम्नि सेवां वह नित्यं वह्ने मुक्तोऽसि मेऽनघ ।।९३।।
प्रथमे युगपर्याये व्यतीते त्वनलं विना । कार्यं किमपि सर्वेषां भविष्यति न वै तदा ।।९४।।
तव मूल्यं च सम्मानं सत्कारादरपूजनम् । पराकाष्ठागतं सर्वे भविष्यति न संशयः ।।९५।।
सुवर्णोऽयं च ते पुत्रो ममाऽतिवल्लभः खलु । अद्यारभ्य मया स्वस्य मस्तके धार्य एव च ।।९६।।
मुकुटोऽयं तु मे ह्यस्तु भवतां कुण्डले मम । मम भूषास्वरूपोऽस्तु शृंखलाकटकोर्मिकाः ।।९७।।
रशनाहारपात्राणि स्वर्णोऽस्तु सर्ववस्तुकः । मया धृतस्तव पुत्रो मस्तके मुकुटात्मकः ।।९८।।
सोऽथ सर्वत्र सत्कारं यास्यति कालनिर्गमे । समूल्यश्च सुगूह्यश्च संरक्ष्यश्च भविष्यति ।।९९।।
कल्पवृक्षादिविलये कल्पद्रुः स भविष्यति । किञ्च दिव्यं स्वरूपं वै सुवर्णाय ददामि ह ।। १०० ।।
मूलरूपेण मे धाम्नि सेविष्यते स मां सदा । हाटकाख्यः पार्षदो मेऽक्षरे धाम्नि निवत्स्यति ।। १०१ ।।
अथ कालान्तरे कार्यावश्यकत्वेऽनलात्मकः । महातेजोमयः सोऽयं हाटकेश्वरसंज्ञकः ।। १० २।।
पाताले च पृथिव्यां च महादेवो भविष्यति । ममाऽवतारः सर्वत्र पूजां प्राप्स्यति मद्बलात् ।। १० ३।।।
भक्तानां मुक्तिदाता च भविष्यति महेश्वरः । सर्वब्रह्माण्डसृष्टौ च ख्यातिं त्वमिव यास्यति ।। १ ०४।।
यथाहं भगवान् व्याप्तस्तथा वह्निः सुवर्णकम् । व्याप्तिं यास्यति सृष्टौ मे सत्कारं च प्रयास्यति ।। १ ०५।।
रक्षणं चापि संस्थानं सर्वं भविष्यति ध्रुवम् । इत्युक्त्वा च तयोर्दिव्ये रूपे कृत्वा हरिः स्वयम् ।। १ ०६।।
निनाय स्वालयं चान्ये रूपे वस्तुषु वासिते । एतद्रूपं च वृत्तान्तं परिज्ञाय सुरादयः ।। १ ०७।।
वह्निद्वारा भक्षयन्ति तृप्यन्ति तत्र भोजनात् । सुवर्णस्य विभूषाश्च धारयन्ति स्थले स्थले ।। १०८ ।।
एवं वह्निस्तथा स्वर्णो नवमीपूजनं व्रतम् । कृत्वा मुक्तौ प्रशस्तौ संमूल्यकौ च बभूवतुः ।। १० ९।।
पावित्र्यं सर्वदा प्राप्तौ यत्र क्वापि गतौ हि तौ । वृद्धिं च सर्वदा प्राप्तौ तथा सुखं तु शाश्वतम् ।। ११० ।।
नवम्यास्तु व्रताख्यानं पठिष्यन्ति तु ये जनाः । श्रोष्यन्ति वा नरा नार्यो यास्यन्ति भुक्तिमोक्षणे ।। १११ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विराटपुत्रस्य वह्नेस्तत्पुत्रसुवर्णस्य च दाहकत्वजडत्वादिदोषान्वितस्य कल्पवृक्षाश्रितजनताभिरनादरे कृते मेरौ मरणोन्मुखस्य दुन्दुभिश्रवणेऽधिमास- नवमीव्रतपूजनकरणेन यज्ञादौ सर्वमान्यताभगवन्मुखता भगवदाभूषणरूपता धामप्राप्तिर्दिव्यपार्षदता चेत्यादिनिरूपणनामैकाधिकत्रिशततमोऽध्यायः ।।१.३०१ ।।
श्रीनारायण उवाच-
अथापि ते कथां लक्ष्मि! कथयामि सुरञ्जनीम् । अधिमासे हरेश्चानुग्रहाऽन्तो नैव विद्यते ।। १ ।।
नवम्यां तु निशि पृष्टं दुन्दुभये तु शार्ङ्गिणा । उद्धोष्यते नु सर्वत्र किं वा क्वचित्क्वचित्स्थले ।। २ ।।
दुन्दुभिः प्राह सर्वत्र यां दिशामभिलक्ष्य तु । प्रातःकालाद् घोषयामि सायंकालावधिं प्रभो ।। ३ ।।
बहवः खलु कुर्वन्ति देहिनो व्रतमत्र वै । कृपालाभं च गृह्णन्ति भुक्तिं मुक्तिं मनाक् कृतात् ।। ४ ।।
तावत् तत्र समायाता पृथ्वी सम्प्रार्थनाय वै । भगवन् देवदेवेश वैकुण्ठनाथ माधव ।। ५ ।।
असंख्यप्राणिनां मोक्षोऽधिमासे साम्प्रतं त्वया । विधीयतेऽतिकृपया ततोऽहं सुखिनी भृशम् ।। ६ ।।
ममापि देवदेवस्य व्रतं कार्यं समादरात् । पुरुषोत्तममासस्य व्रतिनां संप्रमोक्षणम् ।। ७ ।।
स्वर्गयोगस्तव योगो धनधान्यादिसम्पदः । पुत्रपौत्रयशोलाभा यद्यदिष्टं भवेच्च तत् ।। ८ ।।
कृपया दीयतं सर्वे गतं वैकुण्ठतुल्यताम् । अहं तु धन्यभाग्याऽस्मि दुन्दुभिस्तव यन्मयि ।। ९ ।।
मुक्तकण्ठेन सर्वेभ्यो विज्ञापयत्युदारताम् । अधिमासे कृपा या च कृता त्वया दयालुना ।। १० ।।
मयि सैव कृपा जाता जीवा यत्पुण्यभागिनः । पापहीनाः पवित्राश्च भविष्यन्ति सदा मयि ।। ११ ।।
पापभारेण भगवन् कदापि पीडिता नहि । भविष्यामि भवद्भक्तबाहुल्यात्पुण्यशालिनी ।। १२।।
सार्धद्वयाऽब्दाधिमासेऽप्येकाऽहं च व्रतं तव । करिष्यन्ति जना ये ये ते सर्वे धूतपापकाः ।। १ ३ ।।
अन्योद्धारसमर्थाश्च भविष्यन्ति सदा मयि । इत्यहं बहु तुष्टाऽस्मि भाविस्वास्थ्यप्रलाभतः ।। १४।।
असज्जनानां भारेण भवामि पीडिता प्रभो । असन्तश्च जनाः काले प्रभविष्यन्ति भाविनि ।। १५ ।।
ब्राह्मणा वेदहीनाश्च वेदमातृविहीनकाः । वैदिकैः कर्मभिर्हीना भाररूपा मयि प्रभो ।। १६ ।।
शौचसन्तोषहीनाश्च तपोभिर्वर्जितास्तथा । स्वाध्यायेशप्रणिधानैर्हीना भारात्मका मयि ।। १७।।
अहिंसाव्रतहीनाश्च पिशुनाः सत्यवर्जिताः । अस्तेयव्रतहीनाश्च व्यवायाभिरतास्तथा ।। १८।।
तृष्णाऽऽवृता परस्वापहरा भारात्मका मयि । दयाहीनाः शीलहीनाः परावनतिचिन्तकाः ।। १ ९।।
मिथ्याकलंकवक्तारो निन्दका द्वेषिणस्तथा । श्रैष्ठ्यौन्नत्यासहा ये ते भाररूपाः सदा मयि ।। २० ।।
परात्मदुःखकर्तारो गुणे दोषाऽभिधायकाः । स्वार्थमात्रपरा विप्रा भाररूपा मयि स्थिताः ।। २ १ ।।
स्नानसन्ध्याविहीनाश्च देवपूजादिवञ्चिताः । आत्मनिष्ठादिरहिता जडा भारात्मका मयि ।।२२।।।
यज्ञविघ्नप्रकर्तारो वैश्वदेवविनाशकाः । संस्कारभावनाहीना विप्रा भारात्मका मयि ।। २३।।
सूतकानतिमन्तारो हेतुवादाश्च नास्तिकाः । ब्रह्मोपासनया हीना विप्रा भारात्मका मयि ।।२४।।
भक्तिभावविहीनाश्च शून्या अध्यात्मविद्यया । पितृतर्पणशून्याश्च विप्रा भारात्मका मयि ।।२५।।
परोपकारहीनाश्च दानपुण्यविवर्जिताः । जिह्वाशिश्नकृताऽधर्मा विप्रा भारात्मका मयि ।।२६।।।
परकष्टप्रदातारः परकार्यप्रभञ्जकाः । परापराधकर्तारो विप्रा भारात्मका मयि ।।२७।।
अयोग्ये बीजदातारो ह्ययोग्यक्षेत्रकर्षुकाः । छलधर्मातिघाताश्च विप्रा भारात्मका मयि ।।।२८।।
प्रसह्य भोगिनः क्रूराः पराक्रन्दनहेतवः । कूटचाराः क्ष्वेडगुप्ता मधुवाचः प्रतारकाः ।। २९।।
वार्तया विषसेक्तारो भाररूपाः सदा मयि । विश्वासघातका ये च कृतघ्ना बालघातकाः ।।३ ०।।
अज्ञप्रघातका ये च शरणागतघातकाः । कुटुम्बघातका मातापितृनारीप्रघातकाः ।।३१।।
धर्मघ्ना मोक्षघाताश्च भाररूपा मयि प्रभो । अभक्ष्यभक्षका जातिभ्रंशसंकरकारकाः ।।३२।।
स्त्र्यपत्यनाशका वृत्तिधनप्राणापहारकाः । आततायिक्रियादुष्टा अग्निदा गरदास्तथा ।।३३।।।
मारणोच्चाटनकृत्या गर्भघातादिकारिणः । अस्थानताडने क्रूरकर्माढ्या भारका मयि ।।३४।।
अब्राह्मणा ब्राह्मणत्वे स्वकर्तव्यविहीनकाः । परसौख्यविहन्तारः सदा भारात्मका मयि ।।३५।।
अनुद्योगाः सदालस्या परभाग्योपजीविनः । दृप्ताश्चैवाऽनधिकारे सदा भारात्मका मयि ।। ३६।।
अमार्गगा मृदूनां स्वबलेनाऽर्दनकारकाः । अदण्ड्ये दण्डकर्तारः सदा भारात्मका मयि ।।३७।।
पाल्यानां पालका ये न पूज्यानां पूजकाश्च न । मान्यानां मानकर्तारो न ये ते भारका मयि ।।।३८।।
पशूनां दुःखकर्तारश्चाश्रितानामरक्षकाः । दासानां दुःखकर्तारो भाररूपा सदा मयि ।।३९।।
शिष्यप्रतारकाः शिक्षकाश्च शिष्या विवर्तिनः । भृत्यप्रतारका आढ्या आढ्यघ्नाः कर्मचारिणः ।।४०।।
शिष्याश्च गुरवश्चापि स्वस्वकर्तव्यवर्जिताः । प्रतारकास्तथाऽन्योन्यं सर्वे भारात्मका मयि ।। ४१।।
सेवकाः स्वामिहन्तारः स्वामिनः सेवकार्दनाः । दासा दासत्वहीनाश्च सर्वे भारात्मका मयि ।।४२।।
राजा न रक्षको यत्र न प्रजा पुण्यकारिणी । शठाः प्रजासु ये राज्ञि सर्वे भारात्मका मयि ।।४३।
अत्राता क्षत्रियोऽदाता वैश्यः शूद्रोऽप्यसेवकः । स्वस्वधर्महनः सर्वे भाररूपा मयि प्रभो ।।४४।।
जनन्याज्ञाकरी या न पुत्री स्नुषापि तादृशी । माता या हितकर्त्री न श्वश्रूश्चापि च तादृशी ।।।४५।।
दम्पत्योर्यत्र नैक्यं च कलहश्च द्वयोः सदा । पतिसेवाघृणा पत्नी पत्नीदुःखकरः पतिः ।।४६।।
पुत्राः पितृनिदेशे न पिता पुत्रविनिन्दकः । सेव्यसेवकताहीनास्ते सर्वे भारका मयि ।।४७।।
ब्रह्मचारी ब्रह्मचर्ये यो न तिष्ठति रागतः । गृहस्थस्त्यागधर्माश्च पुरस्कृत्य प्रवर्तते ।।४८।।
वानप्रस्थोऽपि सतृष्णः सन्न्यासो न्यासवर्जितः । अन्यधर्मग्रहीतारस्ते सर्वे भाररूपिणः ।।४९।।
दधिदुग्धघृततैलरससांकर्यकारकाः । अन्नपत्रकणशाकपुष्पसांकर्यकारकाः ।।५०।।
खाद्यपेयसुसंधार्यभोग्यसांकर्यकारकाः । जीवघातकरा वैद्याः सर्वे ते भाररूपिणः ।।५१ ।।
मद्यमांसाशना मर्त्याः परपिण्डोपजीविनः । वस्त्रभूषादिसांकर्यकरा वै भाररूपिणः ।।५२।।
कूटपण्याः कूटमानाः कूटतुलाप्रमापिनः । कूटसंख्याकरा दैवज्ञा अपि भाररूपिणः ।।५३।।
व्यापाराऽऽदेयदेयादो प्रतारणकराः खलाः । प्रसह्य लुञ्चका मर्त्याः सदा भारात्मका मयि ।।५४।।
अकर्मठा व्यसनिनः शनिग्रहसमा भुवि । राहुग्राससमा ये च सर्पदंशसमास्तथा ।।५५।।
चिपीटकासमा ये च बद्रीकण्टकरूपिणः । मीनश्येनसमा ये च बकमार्जारकर्मका ।।५६।।
बहिः शुक्ला हृत्सु रक्ताश्चात्मनि कृष्णकज्जलाः । मर्त्या देवा दानवा वा स्वर्ग्याः पातालवासिनः ।।५७।।
सर्वे ते भाररूपा वै पापकर्माण एव ते । पीडयेयुश्च मां काले येषां माहात्म्यमेव न ।।५८।।
नाऽधिमासव्रतं येषां न येषां पुरुषोत्तमः । न भक्तिश्चास्तिकभावस्ते स्युर्भारात्मका भुवि ।।५ ९।।
तस्मान्मया हरे कृष्ण काले काले च तादृशाम् । भाविनां भारनाशाय प्रार्थ्यते परमेश्वरः ।।६० ।।
किं कर्तव्यं मया तेषां भारनाशाय केशव । यच्छ्रेयस्तत्समब्रूहि भाविमच्छ्रेयइच्छया ।।६१।।
इत्यर्थयन्त्यां क्ष्मायां तां दुन्दुभिः प्राह मेदिनीम् । किं त्वया न श्रुतं पृथ्वि मयोद्धोषितमिष्टदम् ।।६२।।
अधिमासे व्रतं कार्यं पुण्यं वै शाश्वतं भवेत् । विधास्यत्यवनं ते च भगवान्पुरुषोत्तमः ।।६३।।
इदानीं श्रीहरिः कृष्णनारायणः परप्रभुः । प्रसन्नः फलदश्चास्ते दशम्यास्त्वं व्रतं कुरु ।।६४।।
व्रतान्ते भगवान् कृष्णः स्वयं दास्यति दर्शनम् । करिष्यत्यवनं ते च सर्वकालेषु भारतः ।।।६५।।
इदानीं याहि देवेशि सत्यलोके स्थितिं कुरु । व्रतं दशम्यास्तत्रैवाधिमासस्याऽधिवर्तय ।।६६।।
व्रतान्ते यदि देवस्ते दर्शन न ददाति चेत् । श्वः सायं वै त्वया त्वत्राऽऽगन्तव्यं चार्थनाय वै ।।६७।।
इत्युक्ता दुन्दुभिनैव नत्वा देवं प्रभुं तथा । दुन्दुभिं च नमस्कृत्य सत्यलोकं समाययौ ।।६८।।
स्वनिवासे पृथिव्या च दशम्याश्च व्रतं कृतम् । प्रातः स्नात्वा हरिं ध्यात्वा कृत्वा मूर्तिं तु कानकीम् ।।६९।।
पञ्चामृतैर्हरिं प्रार्च्य स्नपयित्वा जलैः शुभैः । सुगन्धचन्दनाद्यैश्च चर्चयित्वाऽतिभावतः ।।७०।।
वस्त्रैः स्वर्णैर्विभूषाभिः कुंकुमाऽक्षतसद्दलैः । तुलसीमंजरीभिश्च कमलैर्धूपदीपकैः ।।७१ ।।
पूजयित्वा सुनैवेद्यं मिष्टान्नं हरये ददौ । जलं ताम्बूलमिष्टेष्टं फलं चार्घ्यं ददौ ततः ।।७२।।
नीराजयित्वा कुसुमांजलिं नमः स्तुतिं तथा । प्रदक्षिणं दक्षिणां चार्पयित्वा च ततः क्षितिः ।।७३।।
ववन्दे परमात्मानं व्रतं वै दशमीकृतम् । अधिमासस्य सम्पूर्णे सनक्तं भवतान्मम ।।७४।।
प्रातरेवं पूजयित्वा पुपूज प्रहरद्वये । भोजयित्वा यथापेक्षं त्वर्पयित्वाऽथ शार्ङ्गिणे ।।७५।।
सायमेवं षोडशोपसुवस्तुभिः समपूजयत्। । आरार्त्रिकं च नैवेद्यं जलं ताम्बूलकं फलम् ।।७६।।
ददौ कृष्णाय कुसुमांजलिं सत्पायसं ददौ । ततश्च पाययामास ववन्दे करुणाकरम् ।।७७।।
सजागरं नर्तनं च गीतं चक्रेऽर्धरात्रिकम् । मध्यरात्रौ हरिश्चाऽऽयात् साक्षाच्छ्रीपुरुषोत्तमः ।।७८।।
वद पृथ्वि किमिष्टं ते व्रतात् तुष्टोऽस्मि संवृणु । अधिमासे व्रतिनस्तु सर्वमिष्टं करोमि वै ।।७९।।
इति मेऽस्ति व्रतं तस्मात् सुलभं दुर्लभं तथा । यत्किंचित् तत् सर्वथाऽहं पूरयिष्ये वदाऽत्र माम् ।।८०।।
इत्युक्ता सा मही तत्र प्रोवाच परमेश्वरम् । भगवन् यदि तुष्टोऽसि सत्यवाक्यकरोऽसि च ।।८ १ ।।
सर्वं ददासि चेन्मह्यं सर्वो मे पुरुषोत्तमः । विना नेच्छामि चान्यद्वै त्रातारं पुरुषोत्तमम् ।८२ ।।
अहं सदा तु ते नाथ सेवायां संवसामि वै । तादृशं मे दिव्यरूपं देहि भूत्राणकृत् प्रभो ।।८३ ।।
अन्यच्च भाररूपाणां विनाशाय महाप्रभो! । अधर्माऽगुणनाशाय मल्लोके विहर प्रभो ।।८४।
अधिमासं विनाऽन्येषु मासेषु प्रजया कृतम् । पापं प्रज्वालयितुं त्वं मयि वासं प्ररोचय ।।।८५।।
येन मे सर्वदा देव रक्षणं स्याज्जनार्दन । आगच्छ दिव्यरूपेण भौतिकेन च वा प्रभो ।।८६ ।।
भौतिकं यदि ते वर्ष्म क्वचित् स्विष्टं सुसंभवेत् । तदा माता भविष्यामि पालयिष्यामि मत्सुतम् ।।८७।।
लालयिष्यामि गोविन्द भोजयिष्यामि भावतः । करिष्यामि च ते सेवां यथेष्टं देहि चार्थितम् ।।८८ ।।
इत्युक्त्वा विररामेयं ननाम पुरुषोत्तमम् । कृष्णनारायणः श्रुत्वा पृथिव्या हृदयोद्भवम् ।।८९।।
दिव्यं रूपं ददौ चास्यै वैकुण्ठे सेवनार्हणम् । दिव्या सती सुरूपा च चतुर्हस्ता रमासमा ।।९० ।।
भूत्वा वसुमती पृथ्वी दीव्यति स्माऽथ माधवः । निनाय तां वसुमतीं वैकुण्ठे सलिलोपरि ।। ९१।।
तत्र तिष्ठति नित्या सा दासी भूत्वाऽतिवैष्णवी । अथ द्वितीयं तद्रूपं पृथिव्यावरणे स्तरे ।। ९२ ।।
पृथिव्या भवने नित्यं वासार्हं विद्यते सदा । सा देवी सर्वभूतानामधिष्ठात्री तु भूर्मता ।। ९३ ।।
नारायणेन सा नित्यं सत्यलोकोपरि ध्रुवा। पृथिव्यावरणे स्थातुमाज्ञप्ता तत्र वर्तते । । ९४ ।
तृतीयं कार्यरूपं यत् पार्थिवं प्रस्तरादिकम् । स्थल्यात्मकमिदं सर्वं ब्रह्माण्डं ब्रह्मणा कृतम् ।।९५ ।।
तत्र पृथ्व्यां यथाऽपेक्षं भारं हर्तुं भुवो ननु। हरिणा तु समागन्तुं प्रतिश्रुतं तु वै मृहुः ।। ९६
हरिः प्राह शृणु क्ष्मे! त्वं प्रथमे युगपर्यये। व्यतीते भाररूपा वै भविष्यन्ति प्रजा मुहुः । ९७।।
प्रथमेऽपि युगे देवकार्यार्थं त्वयि साम्प्रतम् । आगमिष्यामि ते भक्त्या वरदानेन वै मुहुः ।९८।।
अवतारान् ग्रहीष्यामि रक्षयिष्यामि मा शुचः। दशम्यामधिमासस्य व्रतेन तोषितोऽस्म्यहम् ।।९९।।
अतो युगचतुष्के वै तत्तत्कार्यार्थमेव ह । अवतारान् ग्रहीष्यामि दश मुख्याँस्ततोऽपि च ।। १०० ।।
गौणानन्यान यथापेक्षं बहून् वै दिव्यविग्रहान् । तेन तेन स्वरूपेण करिष्यामि तवाऽवनम् ।। १०१ ।।
संहरिष्याम्यदेवाँश्च नाशयिष्यामि दानवान् । दैत्यान् विपोथयिष्यामि करिष्यामि सुखं तव ।। १० २ ।।
एवं भारं हरिष्यामि गच्छ देवि यथासुखम् । इत्याभाष्य हरिस्तत्र क्षणादन्तरधीयत । । १०३ ।।
पृथ्वी तुष्टाऽभवच्चापि ददौ पुष्पांजलिं पुनः । व्रतं समाप्य सा देवी ततो नत्वा तु दुन्दुभिम् ।। १ ०४।।
जगाम स्वालयं पृथ्व्यावरणे स्वीयमन्दिरम् । एवं लक्ष्मि दशम्याः सा कृत्वाऽधिमासिकं व्रतम् ।। १० ५।।
नाम्ना वसुमती दासी जाता वैकुण्ठवासिनी । युगे युगे दिने चाह्नि ममाऽविर्भाववत्यपि ।। १०६ ।।
मया प्रतिज्ञया सर्वाधिलाभगामिनी कृता । अन्यायै न मयैतादृक् लाभोऽर्पितः कदाचन ।। १ ०७।।
यद्यद् वाञ्छति यः कोऽपि स्वल्पेनाऽपि व्रतेन मे । तत्तत्तस्मै प्रददामि नकारस्तत्र नाऽस्ति हि ।। १०८ ।।
यः श्रोष्यति वसुमतीकथां यश्च पठिष्यति । प्राप्स्यति व्रतपुण्यं स दशम्या नात्र संशयः ।। १०९ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे भगवन्तं पृथिव्याः प्रार्थना, भाररूपाणां परिचयः, दशमीव्रतेन पृथिवी वसुमती भूत्वा वैकुण्ठवासिनी जाता, स्वस्यां प्रतियुगे भगवदवताराणां प्राकट्यार्थं भगवत्प्रतिज्ञेत्यादिनिरूपणनामा द्व्यधिकत्रिशततमोऽध्यायः ।। १.३०२ ।।
श्रीनारायण उवाच--
अधिमासैकादशिकाकथां दिव्यां हरिप्रदाम् । शृणु लक्ष्मि! समारंभे सृष्टेर्जाता तपोमयीम् ।। १ ।।
ब्रह्मणो वक्षसो जातो धर्मदेवः समूर्तिकः । मूर्तिर्देवी तिरोभूता सदाऽऽस्ते धर्मवर्ष्मणि ।। २ ।।
सा च धर्मे समुत्पन्ने सहैवोत्पद्यतेऽपि सा । लोकरीत्या तु संजज्ञे दक्षपुत्रीस्वरूपिणी ।। ३ ।।
पुनर्धर्मस्य सा पत्नी लोकरीत्या तु जायते । यदा साऽभूद् धर्मदेवे ह्यदृश्या चाविवाहिता ।। ४ ।।
तदा लक्ष्मि! कुमारी सा ब्रह्मचर्यसमन्विता । सेवते सर्वदा भक्त्या स्वामिनं ब्रह्मचारिणम् ।। ५ ।।
सत्यलोके स्थिता वेधोगृहे धर्मसहायिनी । ब्रह्मा जानाति वै सर्वं नान्ये जानन्ति तां स्थिताम् ।। ६ ।।
बाला बालस्वरूपाद्वै समारभ्यैव नित्यशः । स्नानं पूजां जपं होमं ध्यानं स्वामिप्रसेवनम् ।। ७ ।।
करोत्येव च वृद्धेभ्यो नमनं वन्दनं तथा । दयाशान्तिप्रसन्तोषाऽऽर्जवोपकारकादयः । । ८ ।।
सत्यातिमार्दवकृच्छ्रगुणा मूर्तौ वसन्ति हि । सिद्धदेहा तु सा मूर्तिस्तपस्सु वर्ततेऽति वै ।। ९ ।।
वृष्टौ तिष्ठति वर्षासु शैत्ये शीतजलादिषु । आतपे पञ्चवह्निस्था निराहारा व्रतेषु च ।। १० ।।
आर्द्राम्बरान्विता नित्यं स्वर्णदीतो गृहं स्वकम् । समागत्य पतिं नत्वा करोति कृष्णपूजनम् ।। ११ ।।
पतिं जलादिभिः पूर्वं स्नपयित्वा समर्च्य च । ददाति भोजनं चास्मै जलं खाद्यं फलादिकम् ।। १ २ ।।
स्वयं तु तुलसीपत्रैः कमलैः पारिजातकैः । पतिं नित्यं पूजयति दिव्यज्ञानातिभक्तितः ।। १३ ।।
एवं प्रातः सदा स्नानं देवपूजां धवाऽर्चनम् । पतिसेवा भोजनादि कारयित्वा विधाय च ।। १४।।
पत्युर्देहे विलीना सा मूर्तिर्भवति सर्वदा । एवं नित्यानुवृत्त्या सा प्रेमपात्रोत्तमोत्तमा ।। १५ ।।
धर्मदेवस्य वै जाता सुखदाऽपि कुमारिका । धर्मदेवोऽप्यनुवृत्तिसेवाभक्त्याऽतितोषणम् ।। १६ ।।
प्रत्यहं समवाप्नोति ददात्यस्यै शुभाशिषः । पतिसेवापरा नित्यं सुखिनि मूर्तिके भव ।। १ ७।।
लोकरीत्याऽऽप्तदेहेन विवाह्य सेविका भव । ततः सौभाग्यसत्पुत्रस्मृद्ध्यादिसंभृता भव ।। १८ ।।
नित्यभक्तिफलरूपः साध्यस्ते केशवो भवेत् । हरिः कृष्णः परब्रह्म श्रीपतिः पुरुषोत्तमः ।। १९ ।।
इत्याशीर्वादभूमिः सा महापुण्याधिवासनी । अधिमासैकादशिकाप्रातरुत्थाय नित्यवत् ।। २० ।।
स्नातुं सा स्वर्णदी याता तत्र शुश्राव दुन्दुभिम् । अद्याऽस्त्येकादशी देव्यः पुरुषोत्तममासगा ।। २ १ ।।
अस्या व्रतेन सन्तुष्टः कृष्णनारायणः प्रभुः । यथेष्टं दास्यते सौख्यमैहिकं पारलौकिकम् ।। २२ ।।
यद् ददाम्यधिमासस्य दिनेष्वन्येषु वै व्रतान् । ततः कोटिगुणं दास्ये फलमेकादशीव्रते ।। २३ ।।
एकादशीनामन्यासां व्रतेन यत्फलं भवेत् । ततोऽर्बुदगुणं पुण्यं दास्ये ह्यस्या व्रतेन वै ।।२४।।
अहं ब्रह्मेश्वरश्चाधिमासस्यास्म्यधिदैवतः । तत्राप्येकादशीनाथोऽस्म्यहं श्रीपुरुषोत्तमः ।।२५।।
मासोऽपि पुण्यश्च दिनं च पुण्यं देवोऽस्मि पुण्यश्च व्रतं कृपालोः ।
ममाऽऽज्ञया येऽनुचरन्ति भक्त्या तेभ्यो यथेष्टं वितरामि सर्वम् ।।२६ ।।
यथा यथा स्यान्मनसीषणात्रयम् व्रतस्य कर्तुश्च तथातथाऽन्वहम् ।
परार्धतुल्यं तु ददामि तत्फलं लक्ष्मीं च मां चापि च धाम मामकम् ।।२७।।
सिंहासनं मेऽपि ददामि तस्मै ददामि सिद्धीश्च चमत्कृतिं च ।
ऐश्वर्यसर्वस्वमथापि भूतिं सकौस्तुभं मे मुकुटं च भूषा ।।२८।।
यथाऽधिमासे कृपया प्रवर्षये जनार्थितं पूरयितुं च वर्षितुम् ।
तथा न कुत्रापि तु नैजवाञ्च्छया प्रवर्षयिष्येऽधिकमासमन्तरा ।।२९।।
व्रतं प्रकुर्वन्तु नराः स्त्रियश्च बालाश्च वृद्धाश्च सुतोषणाय ।
फलं प्रदास्ये मम शाश्वतं वै पदं सुदिव्यं तु परात्परं यत् ।। ३० ।।
गोलोकं चापि वैकुण्ठं धामाऽव्याकृतमेव वा । श्वेतद्वीपं च वा सौर्यं त्वन्ये भौमं तथाऽपरम् ।।३ १।।
यद्यदिच्छेद् व्रतं कृत्वा प्रदास्यामि कृपावशः । अल्पायासे फलानन्त्यं गृह्णन्तु व्रतीनो मम ।। ३२।।
नात्र यज्ञाः पृथक् कार्या नात्र तप्यं तपः पृथक् । तीर्थं नात्र पृथक् कार्यं ह्येकाहस्य फले हि तत् ।। ३३।।
पयोव्रतं च पुत्रेष्टियजनं नेष्यते पृथक् । एकादश्या व्रतेनात्र दास्यामि पुत्रमित्यपि ।।३४।।
ज्योतिष्टोमेन यजनं पृथक् साध्यं न वेष्यते । स्वर्गं ददामि तस्मै य एकादश्या व्रतं चरेत् ।। ३५ ।।
न तस्य राजसूयेन साध्यं किमपि शिष्यते । एकादशीव्रतेनाऽत्र सार्वभौमं ददाम्यहम् ।।३६।।
अग्निहोत्रेण किं तस्य दास्ये वैराजकं पदम् । एकादश्यां तु मे येनार्पितं फलजलादिकम् ।।३७।।
श्राद्धैर्विविधकल्पैश्च विविधैर्देवपूजनैः । या तृप्तिस्त्विष्यते तां वै दास्ये चैकादशीव्रते ।।३८।।
यां मुक्तिं यां च सम्पत्तिं यां सिद्धिं योगमैश्वरम् । यद्यद् वाञ्च्छति यत् कृत्वा तद् दास्येऽत्र दिने व्रते ।। ३ ९।।
यावज्जीवं फलाहारैर्यत् सुपुण्यं समर्ज्यते । तत्पुण्यं यान्तु वै चैकादशीव्रतेन मे जनाः ।। ४० ।।
एकभुक्तं कृतं येनाऽऽजीवनं तत्फलं त्वहम् । ददाम्यधिकमासैकादशीव्रतेन मेंऽजसा ।।४ १ ।।
मस्तके ज्वलदङ्गाराङ्गिष्ठिकां मध्यरात्रिके । काले उदूह्य या नारी ह्येकार्द्रवस्त्रसंवृता ।।।४२।।
अनुपानच्चरणाभ्यामसहायाऽप्यरण्यके । गत्वा कालीं प्रपूज्यैव प्रत्यहं वार्षिकं व्रतम् ।।४ ३ ।।
एकभुक्तं माषमात्रादनं कुर्यादखण्डितम् । वर्षायां शीतकाले चातपकालेऽपि सर्वदा ।।४४।।
गत्वाऽऽपूज्य पुनरायाद् गृहं स्वं मध्यरात्रिके । ततो रन्धितमाषान्नं गृह्णीयाच्च जलं सदा ।।४५।।
एवं कष्टतरं पुत्रप्राप्त्यर्थं यन्महद्व्रतम् । तद्वै पृथङ् न कर्तव्यमेकादश्या व्रते कृते ।। ४६।।
महाकालीव्रतं तद् यद् वार्षिकं प्रतिरात्रिकम् । यद् ददाति फलं पुत्रात्मकं तत्तु विनश्वरम् ।।४७।।
एकादशीव्रतं त्वेतत्पुत्रस्वर्गप्रमुक्तिदम् । एकेन दिवसेनैव तद्व्रताधिकपुण्यदम् ।।४८ ।।
सहस्रवर्षपर्यन्तं वाय्वाहारं व्रतं तु यत् । पृथक् तन्नास्ति कर्तव्यं ह्येकादश्या व्रते कृते ।।४९।।
सहस्रकन्यकादानं यत्र कन्या विभूषिताः । प्रत्येकं स्वर्णसाहस्रमुद्राश्च दक्षिणास्तथा ।। ५ ० ।।
प्रतिकन्यं तु दासीनां शतं स्वर्णविभूषितम् । प्रतिदासि च हस्तीनां शतं त्वम्बालिकायुतम् ।। ५ १ ।।
प्रतिहस्ति तुरगाणां शतं स्वर्णविभूषितम् । प्रत्यश्वं गोवृषभाणां शतं द्वन्द्वं रथान्वितम् ।। ५२।।
रथं रथं प्रति दोग्ध्रीगवा चापि शतं शतम् । गां गां प्रति ह्यजानां च शतं शतं ददेत्तु यः ।।५३ ।।
अजां अजां प्रति वृत्तिं क्षेत्रं गृहं ददेच्च यः । तस्य दातुः कुरुक्षेत्रे फलं सूर्यग्रहे तु यत् ।।।५४।।।
तस्माल्लक्षगुणं पुण्यं ददाम्येकादशीव्रते । अहं नारायणश्चास्मि शाश्वतः पुण्यशेवधिः ।।५५ ।।
नाऽन्तोऽस्ति मयि पुण्यानां गृह्णन्तु वृष्टिवज्जनाः । संकल्पो मे पुण्यभूमिर्भक्तिर्मे मोक्षभूमिका ।।५६ ।।
संकल्पस्य च भक्तेश्चाऽक्षयवार्धिरहं हरिः । ददाम्येव ददाम्येव रिक्तताभयवर्जितः ।।५७।।
पुरुषोत्तममासस्यैकादश्यां व्रतकारिणे । सर्वं ददामि चोन्मत्तत्यागिवत् कमलामपि ।।५८ ।।
अहं स्वयं तु मां समर्पये किमुत चापरम् । वृणुताऽतो यथेष्टं वै वदामि दुन्दुभिर्हरेः ।।५९।।
एतल्लाभं न चेदीयुर्नेदृशः शास्यते पुनः । इति श्रुत्वा दुन्दुभिं तु पुरुषोत्तमघोषणाम् ।।६० ।।
चिन्तयामास मूर्तिः सा जन्म लग्नं सुतं हरिम् । दुन्दुभीशं समपृच्छन्नत्वा नम्रा विधिं व्रते ।।६ १ ।।
दुन्दुभिस्तु तदा प्राह मूर्तिं त्वेकादशीविधिम् । स्नात्वा ब्राह्मे मुहूर्ते च ध्यात्वा श्रीपुरुषोत्तमम् ।।६२।।
सर्वोपचारैरन्यूनैः पूजयेत्परमेश्वरम् । मूर्तिं तु पौरटीं लक्ष्मीनारायणस्य शोभिताम् ।।६३ ।।
सत्पात्रे पञ्चपात्रे वै निधाय सोपचारिकाम् । ततो व्रती जलपात्रं स्थापयेज्जलसद्धटम् ।।६४।।
पञ्चामृतादि सन्न्यस्य पूजां मूर्तौ समाचरेत् । प्रथमं देहशुद्ध्यर्थं त्र्याचमनानि कल्पयेत् ।।६५ ।।
ततः पूर्वे मुखं कृत्वा निषद्य च शुभासने । मूर्तावावाहयेत् कृष्णनारायणं समन्त्रकम् ।।६६ ।।
घण्टां प्रवादयेदावाहनकाले शुभस्वराम् । आसनं पट्टिकां स्थालीं स्वर्णां दद्यात्तु शार्ङ्गिणे ।।६७।।
पादप्रक्षालनार्थाय पाद्यं दद्याज्जलं शुभम् । ततस्तीर्थजलं दद्यादर्घ्यं पूजानिमित्तकम् ।।६८ ।।
ततस्तीर्थजलमाचमनार्थं च ददेच्छुभम् । पुनश्चाऽथ प्रशुद्ध्यर्थं दद्याद् दर्भजलं शुभम् ।।६ ९।।
ततो दन्तप्रशुद्ध्यर्थं दद्याद्वै दन्तधावनम् । जिह्वोल्लेखनकार्यार्थं दद्यात् स्वर्णशलाकिकाम् ।।७० ।।
ततः शुद्धं जलं दद्याद् गण्डूषार्थे ततः पुनः । मुखप्रक्षालनार्थाय जलं दद्यात्पुनर्नवम् ।।७ १ ।।
अथ शौचं प्रकल्प्यैव दद्याज्जलघटं तथा । मृदं वापि प्रदद्याच्च करादिशुद्धिहेतवे ।।७२।।
जलं शुद्धं तथा दद्याद्धस्तप्रक्षालनाय वै । ततः शुद्धं जलं दद्यान्मुखादिक्षालनाय च ।।।७३ ।।
स्वर्णासनं शुभं दद्यात् स्नानार्थं पट्टिकात्मकम् । तैलेन तु सुगन्धेन मर्दयेत्परमेश्वरम् ।।७४।।
आमलकैस्तिलचूर्णैस्तथा संमर्दयेद्धरिम् । तत उष्णोदकेनापि स्नापयेत्पुरुषोत्तमम् ।।७५।।
ततो दुग्धेन दध्ना च घृतेन मधुना तथा । स्नापयेच्छर्करा वार्भिः समृद्य पुरुषोत्तमम् ।।७६ ।।
ततः शुद्धजलैरुष्णैः स्नापयेत्परमेश्वरम् । ततो नैर्मल्यकारिण्या प्रोष्णोदकेन मिश्रया ।।७७।।
हरिं गूटिकयाऽऽमृद्य स्नापयेदभिषेचनम् । कस्तूरिकाचन्दनादिपुष्पसारादि लेपयेत् ।।७८ ।।
वस्त्रेण मार्जयेत् कृष्णं धौत्राम्बराणि धारयेत् । केशप्रसाधनं तैलं दत्वा कुर्याच्च दन्तकैः ।।७९ ।।
ललाटे तिलकं चन्द्रं कुर्याच्चन्दनकुंकुमैः । नेत्रयोः कज्जलं दद्यादोष्ठयोः रंगरञ्जनम् ।।८० ।।
हस्तपादतलादीनि रञ्जयेद् रंगसुद्रवैः । स्वर्णकिरीटसद्रत्नमालिकाकुण्डलादिकम् ।।८ १ ।।
मणिमौक्तिकहारादि रशनाकंकणादिकम् । ऊर्मिकाशृंखलासत्किंकिणीनुपूरकादिकम् ।।८ २।।
आभूषणानि सर्वाणि यथास्थानं प्रधारयेत् । पादयोः पादुके दद्याद्धस्तयोर्यष्टिमालिके ।।८३ ।।
कण्ठे सत्पुष्पहाराँश्च तुलसीपत्रमालिकाम् । पुष्पाणां शेखरान् गुच्छानर्पयेत्परमादरात् ।।८४।।
पवित्रं त्वर्पयेद् यज्ञोपवीतं योगपट्टकम् । तुलसीमणिमालां च दद्यान्मंगलसूत्रकम् ।।८५।।
कौस्तुभं च मणिं दद्यात् तथा रक्षां प्रकोष्ठके । नक्तकं हस्तके दद्यात् प्रोक्षयेद् गन्धसारकम् ।।८६।।
राजाधिराजसद्वेषं शृंगारं कारयेत्परम् । छत्रं च चामरे दद्याद् व्यजनं वायुदं तथा ।।८७।।
दर्पणं मुखलोकार्थं दद्यात् पर्यंकमित्यपि । गेन्दुकं प्रच्छदपटीं कशिपुं गुप्तदोरकम् ।।८८।।
कपोलकशिपुं दद्यात् दंशमशकरोधिनीम् । धूपं सुगन्धं कृत्वा च दीपं प्रज्वालयेत्तथा ।।८९।।
श्वेतचूर्णं रक्तचूर्णं कुंकुमं चाक्षतान् ददेत् । नैवेद्यं लड्डुकान् मिष्टं विविधान्नं सुपायसम् ।।९ ० ।।
शाकानि चारनालानि दधि दुग्धं सशर्करम् । सूपौदनादिकं दद्यात् क्वथिकां चटनीं तथा ।।९ १ ।।
भक्ष्यं भोज्यं लेह्यचोश्ये पेयं दद्याज्जलं तथा । चुलुकं कारयेत्ताम्बूलकं चूर्णं समर्पयेत् ।।९२।।
एलालवंगधानात्वग्वरीयः पूगिकाफलम् । दद्याच्च फलमाम्रस्य जम्बूपनसकादलम् ।।९३ ।।
द्राक्षाश्रीफलदाडीम नवरंगादिकं ददेत् । शुष्कफलान्यपि दद्याद् बदामकाजुखारिकाः ।।९४।।
एवं समर्पणं कृत्वा हरिं सन्तर्प्य भावतः । कदलीस्तम्भवशादिकृते वस्त्रादिशोभिते ।।९५।।
अशोकाऽऽम्रदलपुष्पफलतोरणराजिते । मण्डपे मध्यदेशे वै सप्तधान्यैः कृते शुभे ।।९६।।
सर्वतोभद्रके तत्र मण्डले मध्यवर्तिनि । सुवर्णस्य घटे ताम्रे तीर्थवारिप्रपूरिते ।।९७।।
मणिमौक्तिकसौवर्णरूप्यताम्रादिकान्विते । वस्त्रेण वेष्टिते चाम्राशोकादिपल्लवान्विते ।।९८।।
सुशोभितेऽक्षतचन्दनाक्तकुंकुमपूजिते । तत्र घटे स्थापिता या स्थाली ताम्रा च कानकी ।।९९।।
खारिकाम्रफलैः पूगीश्रीफलैः शर्करातिलैः । पूरितायां तु तस्यां वै स्थापयेत् पुरुषोत्तमम् ।। १० ०।।
नीराजयेन्नववारं घृताक्तपञ्चवर्तिभिः । वस्त्रं च भ्रामयेत् पश्चाच्छंखोदकेन वर्तयेत् ।। १० १।।
धूपं संभ्रामयेच्चापि स्तुतिं कुर्याद् यथेष्टदाम् । नमेच्च दण्डवत् कुर्यात् पञ्चवारं प्रदक्षिणम् ।। १ ०२।।
क्षमां याचेत चार्घ्यं वै सफलं पुनरर्पयेत् । पुष्पांजलिं साक्षतं वै दद्याच्छ्रीहरये ततः ।। १ ०३।।
दक्षिणां कानकीं मुद्रां राजतं चाप्युपायनम् । इष्टं वस्तु प्रदद्याच्च हरये त्वभिवाञ्च्छितम् ।। १ ०४।।
आन्दोलय्रेच्च दोलायां पर्यंके शयनं ददेत् । पादसंवाहनं कुर्याद् ददेद् यानं सवाहनम् ।। १०५।।
नृत्यं कुर्यात् तथा गीतं वादित्रं वादयेत् तथा । चरणामृतदानं च भक्तेभ्यस्तत्र वर्तयेत् ।। १०६ ।।
अथापि जलपानं च कारयेत्पुनरादरात् । ताम्बूलकं पुनर्दद्यादेलालवंगकादिकम् ।। १ ०७।।
मिलेत् संश्लिष्य बाहुभ्यां समापीड्य हरिं मुदा । प्रस्थापयेत् ततो देवं दूरं गत्वा विसर्जयेत् ।। १ ०८।।
आगन्तव्यमिति ब्रूयान्नत्वा त्वायात्पुनर्गृहम् । इत्यष्टोत्तरशतकोपचारैः परमेश्वरम् ।। १ ०९।।
पूजयेद्बहुभक्त्यैकादश्यां प्रातर्व्रती जनः । यदि सम्पदधिका स्याद्धोमयज्ञादि कारयेत् ।। ११ ०।।
द्वादश्यां भोजयेद्विप्रान् सतीः साध्वी सतो जनान् । ततः स्वः पारणां कुर्यात् संभोज्याश्रितवर्गकान् ।। ११ १।।
दद्याच्छ्रेष्ठानि दानानि भजेत श्रीहरिं मुदा । एवं मध्याह्नके कुर्यात् सायं कुर्यात्तथैव ह ।। ११ २।।
रात्रौ जागरणं कुर्यान्नृत्यगीतपुरःसरम् । कीर्तनं श्रीहरेः कुर्यान्निरुन्ध्यादिन्द्रियाणि च ।। १ १३।।
एवं त्वधिकमासस्यैकादशीव्रतमत्र यः। कुर्यात् तेन कृतं सर्वं कर्तव्यं नावशिष्यते ।। १ १४।।
अधिमासश्चातिपुण्यः पुण्याः त्वेकादशी तिथिः । तद्देवः पावनश्चाहं किं तस्मादतिरिच्यते ।। १ १५।।
अधिमासो मम शाला वसामि पुरुषोत्तमः । एकादशी मदुत्पन्ना किं तस्मादतिरिच्यते ।। १ १६।।
एतत् त्रिकं महापुण्यं सर्वेभ्यः श्रेष्ठतां गतम् । तत्रापि मत्कृपा प्राप्ता किमस्मादतिरिच्यते ।। १ १७।।
तस्मादष्टोत्तरशतवस्तुभिर्मां प्रपूज्य च । गृह्णन्तु भवपारं वा गृह्णन्तु भवसाम्यताम् ।। १ १८।।
मूर्ते त्वं चाद्य दिवसे तथाविधि कुरु व्रतम् । येन ते दास्यते कृष्णो दुन्दुभ्यात्मा यथेप्सितम् ।। १ १९।।
मूर्तिः प्राह तदा ह्येनं दुन्दुभिं विनयेन वै । न मदग्रेऽस्ति सामग्र्यः प्रच्छन्नाऽहं वसामि च ।। १२० ।।
कथंकारं त्वदुक्तं वै पूजनं तु मया भवेत् । इच्छाम्यहं शुभं जन्म विवाहं च सुतं हरिम् ।। १२१ ।।
दुर्लभं तद्विना पूजा तादृशी स्यान्न चेप्सितम् । इत्युक्त्वा भग्नहृदया साश्रुकण्ठा बभूव सा ।। १ २२।।
एकादश्या व्रतं कार्यमिति संकल्प्य शोचति । स्मृत्वा नारायणं कृष्णं बाला त्वश्रूणि मुञ्चति ।। १२३।।
तावत् कृपानिधिस्तत्र हरिर्नारायणः स्वयम् । कृपां कृत्वा दुन्दुभेरग्रतः सुप्रकटोऽभवत् ।। १ २४।।
प्रमार्ज्याऽश्रूणि कन्यायाः प्राह मातर्नमाम्यहम् । शोकं मा कुरु पूज्यासि यथेष्टं प्रददाम्यहम् ।। १ २५।।
भावेनास्मि सदा तुष्टो नाऽभावे तु कदाचन । तव भावेन सन्तुष्टो ददामि वृणु तद्वरम् ।। १ २६।।
अर्च्यते भावहीनेन सहस्रवस्तुभिर्यदि । न सन्तुष्टो भवाम्यत्र भावहीनेऽर्थसाधके ।। १२७।।
पत्रपुष्पजलैश्चापि भावभक्त्या मदर्चनम् । मम सन्तोषकृत् तत्स्याद् भावस्य क्षुधितोऽस्म्यहम् ।। १२८।।
अष्टोत्तरशतसंख्योपचारैरपि हार्दिकैः । मातः सम्पूजय त्वं मां ध्यानमात्रेण चान्तरे ।। १ २९।।
मानसं पूजनं तेऽहं स्वीकरिष्येऽतिभावतः । फलं यथेष्टं ते दास्ये ह्यद्यतनव्रतस्य वै ।। १ ३ ०।।
इत्युक्त्वा श्रीकृष्णनारायणः श्रीपुरुषोत्तमः । ननाम पादयोर्मूर्तेर्मातृभावेन पुत्रवत्। ।। १३१ ।।
माता शोकं विहायैव प्रसन्नाऽभूत् हृदन्तरे । प्रोवाच शनकैः कृष्णं जन्म चेच्छामि लौकिकम् ।। १३ २।।
धर्मेण पतिना साकं लग्नमिच्छामि वैदिकम् । अंके लालयितुं पुत्रं सुतं चेच्छाम्यलौकिकम् ।। १३३ ।।
अलौकिकस्त्वमेवासि वक्तुं नोत्सहते मनः । निवेदितं हृदय्यं मे यथेच्छसि तथा कुरु ।। १ ३४।।
इत्यादिष्टो हरिः स्वाभिलषितं प्रियमुत्तमम् । मूर्तेर्मुखात्समाकर्ण्य जहर्ष भाविजन्मधृक् ।। १ ३५ ।।
उवाचाऽतिप्रसन्नः सन् सर्वं मातर्भविष्यति । इष्टं सर्वं करिष्येऽहं ददामि वचनं तु ते ।। १३६ ।।
गच्छ दक्षगृहं मूर्ते धर्ममापृच्छ्य सत्पतिम् । भव पुत्री तु दक्षस्य स ते धर्माय दास्यति ।। १ ३७।।
अहं बालस्वरूपेण सह भ्रात्रा त्वदंकके । ग्रहीष्यामि जनु मातः श्वो याहि त्वं व्रतोत्तरम् ।। १३८ ।।
मानसी त्वं हि दक्षस्य पुत्री वै भाविनी ततः । धर्मो विवाह्य मातस्त्वां हिमशैले निवत्स्यति ।। १३ ९।।
अहं ते मानसस्तत्र चतुरात्मा सुतः स्वयम् । नरो नारायणश्चेति हरिः कृष्णश्च ते गृहे ।। १४० ।।
रमिष्ये सुखदो ब्रह्मव्रतं संधारयन् सदा । लोककल्याणसंकल्पं पूरयस्तव सन्निधौ ।। १४१ ।।
इत्युक्त्वा च पुनर्नत्वा तिरोऽभूत्पुरुषोत्तमः । मूर्तिश्चापि व्रतं कृत्वाऽर्चनं तत्र च मानसम् ।। १ ४२।।
द्वादश्यां पारणं कृत्वा प्रातः कृत्वाऽर्चनं हृदि । धर्मदेवस्य संगृह्य शुभाज्ञां दक्षसद्ग्रहम् ।। १४३ ।।
ययौ जज्ञे च संकल्पादसिक्न्यां मानसी सुता । श्रद्धामैत्र्यादिकाश्चान्या द्वादशापि प्रजज्ञिरे ।। १४४।।
त्रयोदशापि दक्षेण दत्ता धर्माय पुत्रिकाः । मूर्तेर्जाता नरो नारायणः कृष्णो हरिस्तथा ।। १४५।।
लोकानां रक्षणार्थाय कुर्वन्तस्तप उत्तमम् । इति ते कथितं लक्ष्मि मासे वै पुरुषोत्तमे ।। १४६ ।।
व्रतसंकल्पमात्रेण पूर्णं व्रतफलं भवेत् । किं पुनः सांगविधिना कर्तुः फलेऽवशिष्यते ।। १४७।।
तस्मादेकादशीतुल्यं व्रतं नान्यद् भविष्यति । शाश्वताऽक्षयसत्पुण्यप्रदं मोक्षप्रदं तथा ।। १४८ ।।
यथालब्धोपचारैस्तु प्रातः संकल्प्य पूजनम् । व्रतं चापि करिष्यन्ति तेषां गृहेष्वहं सदा ।। १४९।।
वत्स्याम्येव न सन्देहस्तद्भक्त्या वश्यतां गतः । सुखयिष्ये सुतो भूत्वा व्रतिनौ दम्पती कुलम् ।। १५०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मदेवस्य भाव्यंगनया मूर्त्याधिमासैकादश्यामष्टोत्तरशतमानसोपचारैर्नारायणपूजन व्रते कृते सति मूर्तेर्दक्षगृहे जन्म धर्मेण सह विवाहस्ततो हिमालये नरो नारायणः कृष्णो हरिश्चेति- पुत्रचतुष्टयफललाभश्चेत्यादिनिरूपणनामा त्र्यधिकत्रिशततमोऽध्यायः ।।१.३०३ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! परंब्रह्म सर्वाविर्भावशक्तिकृत् । पुरुषोत्तमसंज्ञोऽसौ सविता जगतः पतिः ।। १ ।।
स्वयं कृष्णस्वरूपश्च राधां स्वस्मात् प्रसृष्टवान् । राधा कृष्णात्मिका शक्तिः साधिका भक्तकर्मणाम् ।। २ ।।
कृष्णस्य सवितुः शक्तिः प्रसूते सुचराचरम् । सा राधा कृष्णसेवायां गोलोके नित्यमस्ति हि ।। ३ ।।
स्वप्रसूतस्य लोकस्य प्रसवार्थं निरन्तरम् । ऐच्छद् रूपान्तरं धर्तुं तावत् कन्या व्यजायत ।। ४ ।।
सा तु नाम्ना कृता कन्या सावित्री प्रसवप्रदा । गोलोके राधया साकं रमते निजमन्दिरे ।। ५ ।।
सुरूपा दिव्यसामर्थ्ययुक्ता लोकमनोहरा । यथेष्टसिद्धिसम्पन्ना गुप्तैश्वर्यादिशालिनी ।। ६ ।।
यदा राधा स्वयं कृष्णसेवायां समवर्तते । तदा कन्या तु सावित्री समाधौ समतिष्ठति ।। ७ ।।
आत्मनि रमते नित्यमात्मानन्दमयी प्रसूः । आत्मसुखातिसंमग्ना ध्यायति ब्रह्म वै परम् ।। ८ ।।
योगाभ्यासबलाज्जन्मसिद्ध्या त्वैच्छद् विलोकितुम् । ब्रह्मणः कीदृशं रूपं कति वा सन्ति तानि च ।। ९ ।।
कुत्र कुत्र च वर्तन्ते किं कार्याणि वसन्ति च । तदैश्वर्याणि तेषां च कीदृश्यो वै विभूतयः ।। १० ।।
इत्येतत्सर्वमाज्ञातुं प्राणान्संकुच्य चात्मनि । अवातरच्छनैर्मूलाधारचक्रे तु योगिनी ।। ११ ।।
अत्र स्थित्वा गणपतौ संयमं सा चकार ह । तेनाऽसंख्यगणेशानां श्रीकृष्णांशस्वरूपिणाम् ।। १२।।
ब्रह्माण्डेषु त्वनन्तेषु धामान्यालोक्य सुन्दरी । गुदामूलस्थितं चक्रं परित्यज्याग्रमाययौ ।। १३ ।।
स्वाधिष्ठानाभिधं चक्रं संयमार्थं दधार सा । तत्र प्रजापतौ स्थित्वा संयमं सा चकार ह ।। १४।।
तेनाऽसंख्यप्रजेशानां परब्रह्मस्वरूपिणाम् । ब्रह्माण्डेषु त्वनन्तेषु धामानि वीक्ष्य सुन्दरी ।। १५।।
नाभिकन्दस्थितं मणिपुरं चक्रं जगाम सा । तत्र स्थित्वा तु सर्पिण्यां संयमं सा विधाय च ।। १६।।
ऊर्ध्वमुख्यां प्रविवेशाऽसंख्यलोकेषु सुन्दरी । तस्माद् यान्ति महानाड्यस्तेजोमय्योऽप्यसंख्यकाः ।। १७।।
काश्चित्पाताललोकाँश्च काश्चिल्लोकाचलातिगान् । काश्चित्स्वर्गादिसत्यान्तान् काश्चिदावरणादिकान् ।। १८।।
काश्चिदीश्वरलोकाँश्च काश्चिद्ब्रह्मगृहानपि । या या यद्यत् स्थलं यान्ति तत्तन्मार्गेण सुन्दरी ।। १९।।
जगाम बहुलोकेषु विलोक्य दिव्यभूमिकाः । ब्राह्माण्डिकविभूतीश्च पुनरागत्य तत्स्थलम् ।।२० ।।
जगामोर्ध्वं च हृदये चक्रमनाहताभिधम् । तत्र वै प्रणवं श्रुत्वा चक्रे ब्रह्मणि संयमम् ।।२१।।
यदात्मा चाप्यन्तरात्मा ब्रह्मात्मा ख्यायते स्वयम् । तत्र कृतेन सावित्री संयमेनैश्वरीकृतौ ।।२२।।
वैराजेषु भौमनेषु वैष्णवेषु च धामसु । प्राकृतेषु तया सादाशैवेष्वावरणेषु च ।।२३।।
तत्तद्धामसु सावित्री विलोक्य दिव्यभूमिकाः । तत्स्थलं पुनरागत्य ययावूर्ध्वं तु कण्ठगम् ।।२४।।
विशुद्धं चक्रमेवेयं चक्रे वै संयमं बलात् । वासुदेवेऽनिरुद्धे च प्रद्युम्ने च सुकर्षणे ।।२५।।
विलोक्य रचनास्तेषां धाम्नां धामविभूतिकाः । कण्ठं देशं पुनरायादूर्ध्वं च भ्रूकुटौ तु सा ।।२६।।
गत्वाऽऽज्ञाचक्रमासाद्य चकार संयमं शनैः । दृष्टस्तत्र गुरुः साक्षात् परब्रह्मात्मकस्तया ।।२७।।
लोकसंचालनार्थाय जातो यो विश्वसृड् विभुः । परब्रह्मस्वरूपाद् यः प्राविर्बभूव वेदकृत् ।।२८।।
सर्वलोकगुरुर्ब्रह्मा प्रजानां यः पितामहः । तस्यांऽके तु स्थितां दिव्यां स्वां सावित्री विलोक्य वै ।।२९।।
वेधःपत्नीं विनिश्चित्य जहर्षातीव सुन्दरी । क्षणं विचारयामास याऽहं गोलोकवासिनी ।।३०।।
भवाम्यद्य कथं चात्र मां पश्याम्यंकसंस्थिताम् । अजसक्थिगतं यन्मे रूपं तत्कुत आगतम् ।। ३ १।।
यदहं संप्रपश्यामि मां वधूरूपिणीं त्विह । पितामहीं च तत्सर्वं पृच्छाम्यत्रैव कारणम् ।।३२।।
इति प्रष्टुं ययावग्रे तावत् तिरोबभूव सा । पितामह्या समाकृष्टा लीना बभूव सुन्दरी ।।३३।।
तावत्समाधितश्चेयं सावित्री बहिराययौ । क्व गोलोकस्थिता कन्या क्वाऽजांऽकस्था पितामही ।।३४।।
इत्याश्चर्यान्विता कन्या दृष्टार्थस्य विनिश्चयम् । ससंभ्रमा ययौ कर्तुं राधिका यत्र राजते ।।३५।।
सावित्र्या स्वप्रदृष्टार्थो राधिकायै निवेदितः । श्रुत्वा राधा तु तां प्राह कन्ये त्वं मत्स्वरूपिणी ।।३६।।
वर्तसे ब्रह्मशक्तिश्च ब्रह्मार्थे जातविग्रहा । जगत्प्रसूस्वरूपा या मायाशक्तिः परा मता ।।३७।।
साऽहं सा त्वं च सावित्री सूयमाना जगत्प्रसूः । ब्रह्मपत्नी ब्रह्मतन्वी ब्रह्मणोऽर्थे विनिर्मिता ।।३८।।
पितामहेन संपृक्ता नित्यं जगत्पितामही । वर्तसेऽनादिकालत्वात् प्रत्यजं तु नवा नवा ।।३९।।
भवसि त्वं महामाये कन्यका मत्स्वरूपतः । अथाराधय तं देवं प्राप्स्यसे तपसो बलात् ।।४०।।
इत्याश्रुत्य तु सावित्री ब्रह्मप्राप्तिं व्यचिन्तयत् । तावत्तत्र द्वादशिकादिने प्रातः समशृणोत् ।।४१ ।।
दुन्दुभिं देवदेवस्य घोषयन्तं कृपावचः । अधिमासव्रतं देव्यः कुर्वन्तु मानसप्रदम् ।।।४२।।
हृदि दृष्टं बहिर्दृष्टं लोके लोकान्तरेऽपि वा । दिनैकव्रतमात्रेण दास्यते पुरुषोत्तमः ।।।४३।।
अनन्तगुणकं पुण्यमद्याऽस्ति हरिवासरः । त्रिस्पृशाव्रततस्त्वद्य सहस्रगुणकं फलम् ।।४४।।
यथेष्टं लभ्यते कृत्वा ह्येकभुक्तं च नक्तकम् । फलाहारं च वा दुग्धपानं दधिप्रभोजनम् ।।४५।।
जलाहारं च वा घृताहारं तिलादनं च वा । यवाहारं च वा शाकाहारं कन्दादनं च वा ।।४६।।
भर्जिताऽदनमथवा व्रतं पत्रादनं तु वा । पुष्पादनं निरदनं पवनादनमेव वा ।।४७।।
धूम्रादनं च वा बाष्पादनं कृत्वा व्रतं शुभम् । द्वादश्यामधिमासेऽत्र लभन्तां शाश्वतं सुखम् ।।४८।।
ब्रह्मपरं तथा ब्रह्म गोलोकं चामृतं पदम् । अव्याकृतं च वैकुण्ठं मायालोकं च वैष्णवम् ।।४९।।
सदाशिवपदं वापि भूमसाम्राज्यमेव वा । श्रीपुरं चापि वैराज्यं हैरण्यगार्भिकं च वा ।।५०।।
भौमाद्यावरणे धामान्यर्जयन्तु व्रतेन वै । सत्यं वा ब्रह्मणः स्थानं वह्नेर्वा सौर्यमेव वा ।।५ १।।
चान्द्रमसं च वा स्थानं नाक्षत्रं ग्राहमेव वा । ऐन्द्रं च वारुणं स्थानं याम्यं कौबेरमेव वा ।।५२।।
ऐशानं पावनं वापि नैर्ऋतं तारकं च वा । भुवो राज्यं च वा भौमं चातलेयादिकं नु वा ।।५३ ।।
आवरणानि दिव्यानि देवराज्यानि वैभवान् । कौमारं ब्राह्मचर्यं वा यौगं वाऽऽत्मपदं शुभम् ।।।५४।।
श्वेतद्वीपादिकं चाऽथ सामुद्रं चान्तरीक्षगम् । राज्यं सार्वभौमं वा साम्राज्यं वापि मानवम् ।।५५।।।
मौनमार्षं च पैत्राद्यैश्वरं वा बहुसिद्धिकम् । स्त्रीराज्यं वापि कैलासं कामराज्यं च शाश्वतम् ।।५६।।
पातिव्रत्यं परं राज्यं स्वामिसेवात्मकं च वा । पत्नीमत्त्वं पतिमत्त्वं पुत्रपुत्रीसुसम्पदः ।।।।५७।।।
आरोग्यं च धनं धान्यं रसायनं च कायिकम् । यद्यदिच्छेद् व्रती त्वद्य द्वादश्यां हरिवासरे ।।५८।।
तत्सर्वं प्रददाम्यस्मै वदामि पुरुषोत्तमः । अद्य मे पूजनं कुर्यात् प्रातः स्नात्वा गृहान्तरे ।।।५९।।।
स्थित्वा ध्यानं च मे कुर्यात् कुर्यादावाहनादिकम् । पञ्चामृतैश्च मे स्नानं शुद्धोदाप्लवनं तथा ।।६०।।
निर्वर्तयेत्ततो वस्त्रभूषाचन्दनमर्पयेत् । यथाशक्ति प्रकुर्याच्च धूपदीपाभिवन्दनम् ।।६१।।
नैवेद्ये फलमूलाद्यं मिष्टान्नान्यथवाऽर्पयेत् । जाम्बूलं जलपानं च दक्षिणां नमणं चरेत् ।।६२।।
प्रदक्षिणं स्तुतिं चारार्त्रिकं पुष्पाञ्जलिं ददेत् । कुंकुमाऽक्षततुलसीफलैरर्घ्यं समर्पयेत् ।।६३।।
पुनर्नत्वा पुनः स्मृत्वा प्रार्थयेत् स्वेष्टवस्तुकम् । व्रतं चापि प्रपूर्णं स्यात् तव केशवपूजनात् ।।६४।।
क्षमापयेत्तथा स्तुत्या मूर्तिं तु कानकीं हरेः । क्रमाऽक्रमौ न विदितौ न ज्ञातं त्वदभीष्टकम् ।।६५।।
यथाबुद्धि मया प्रेम्णा कृतं न्यूने क्षमां कुरु । अधिमासोऽसि देवेश! ह्यधिवर्षाकर! प्रभो! ।।६६।।
अर्थिनामधिकं चेष्टं ददासि पुरुषोत्तम! । कृष्णनारायण विष्णो पार्वतीश प्रभेश्वर ।।६७।।
लक्ष्मीश माणिकीनाथ सावित्रीश जगत्प्रभोः । विश्वसृड् राधिकाकान्त कमलाकान्त केशव ।। ६८।।
द्वादश्यां मे व्रतेनाऽद्य मानसेष्टं प्रपूरय । इत्यभ्यर्थ्य हरिं नत्वा प्रातर्मध्ये निशीथके ।।६९।।
भूत्वा तन्मय एवापि तत्समर्पितसत्क्रियः । रञ्जयेन्नृत्यगीतैश्च सवाद्येन विसर्जयेत् ।।७०।।
इति कृत्वा व्रतं सम्यगर्चनं व्रतकृज्जनः । नरो नारी कुमारी वा कुमारो देवताऽथवा ।।७ १।।
सुरेश्वरी च वा पितृकोटिका मुनियोषितः । पातालवासिनी यद्वा तादृशा नरवर्गिणः ।।।७२।।।
ईश्वरा ईश्वराण्यश्च मुक्ता मुक्तान्य एव वा । यदिच्छन्ति त्वाप्नुवन्ति प्रतिजाने न संशयः ।।७३।।
यथाशक्ति यथाकार्यं व्रतं च पूजनं मम । बाह्याभावे हृदि मेऽपि भावभिन्नं सुपूजनम् ।।७४।।
कुर्यात्तस्यापि भावेन प्रेम्णा तुष्टो ददाम्यहम् । अद्याऽधिमासके त्वस्मि कृपावर्षी परेश्वर ।।७५।।
न भूतो न भविष्यामि यथाऽद्य वृष्टिकृत्तथा । तस्मान्मे कृपया भक्ताः कृत्वा किञ्चिदथो व्रतम् ।।७६।।
लभन्तां शाश्वतं पुण्यं सुखं लोकं च हृद्गतम् । इति श्रुत्वा तु सावित्री जहर्ष चाति सुन्दरी ।।७७।।
नत्वा सा दुन्दुभिं प्राह शृणु दैवाकृते कृतिन् । मया समाधौ ब्रह्मा वै परमेष्ठी पितामहः ।।७८।।
दृष्टस्तस्य च वामेंऽके सावित्री च निषेदुषी । मत्स्वरूपा मया दृष्टा तस्यां लिल्येऽप्यहं तदा ।।७९।।
पुनश्चाहं समाधेरुत्थिताऽस्म्यत्र कुमारिका । विश्वस्रष्टा पतिः सोयं प्राप्तव्यो मानसे स्थितः ।।८० ।।
अतोऽधिमासद्वादश्यामेकभुक्तं व्रतं मम । पूजनं देवदेवस्याऽऽचरिष्यामि यथाबलम् ।।८ १।।
अनेन मे शरीरेण प्राप्तिस्तस्य तु दुर्लभा । नित्यगोलोकधाम्नश्च विभूतेर्मेऽस्ति वर्ष्म यत् ।।८२।।
तस्यास्ति तत्त्वजं वैराजात्मजं वर्ष्म सञ्चितम् । तस्मान्मे ब्रह्मणो योगो यथा येन च वर्ष्मणा ।।८३।।
जायेत तत्तथा ब्रूहि करोमि द्वादशीव्रतम् । इति श्रुत्वा दुन्दुभिश्च तामाह पुरुषोत्तमः ।।८४।।
शृणु सावित्रि सुभगे ह्यद्य श्रीपुरुषोत्तमम् । वह्निपुत्रसुवर्णस्य मूर्तिरूपं विधापय ।।८५।।
लक्ष्मीं तथा सुवर्णस्य मूर्तिरूपां विधापय । ब्रह्माणं च तथा तस्य सावित्रीं कानकं कुरु ।।८६ ।।
पूजयित्वा यथाशक्ति दान कुरु सुपात्रके । इत्येवं वै व्रते त्वद्य पूजनं दानमित्यपि ।।८७ ।।
कुरु तेन प्रसन्नः स श्रीकृष्णः पुरुषोत्तमः । सर्वं विधास्यते तेऽर्थं मा चिन्तां कुरु कन्यके ।।८८।।
इति श्रुत्वा तु सावित्र्या व्रते वै द्वादशीप्रगे । योगबलेन सौवर्णं मेरोर्भागात् समर्जितम् ।।८९।।
ऐश्वर्येण च तत्रैव लक्ष्मीं नारायणं च सा । ब्रह्माणं चापि सावित्रीं सौवर्णीं मूर्तिमेव ह ।।९० ।।
कृत्वा त्वावाह्य संस्नाप्य भूषयित्वा प्रपूज्य च । भोजयित्वा पाययित्वा प्रार्थ्य नीराजनं व्यधात् ।।९ १ ।।
क्षमापयित्वा संस्तूय निवेद्यार्थं च हृद्गतम् । विसर्जयति यावत्तान्देवाँस्तावद्धरिः स्वयम् ।।९२।।
प्रादुर्बभूव सावित्र्यास्त्वग्रे लक्ष्मीयुतः प्रभुः । प्रसन्नवदनः सर्वशोभाढ्यो वरदानदः ।।९३।।
प्राहाऽस्यै वद कल्याणि किं ते मनसि वर्तते । सावित्री प्राह देवेशं देहि योगं तु वेधसः ।। ९४।।
कृष्णनारायणः प्राह जातं ते मनसि स्थितम् । नेत्रे प्रमील्य मद्ध्यानं कुरु सावित्रि वै क्षणम् ।।९५।।
तावत्ते मानसं सर्वं भविष्यति करागतम् । नारायणेन यत्प्रोक्तं तथैवाऽऽचरदादरात् ।।९६।।
तावन्नारायणः कृष्णो व्यलीयत हि तत्क्षणम् । अथ प्रातः प्रपूज्यैवं मध्याह्नेऽपि तथाऽकरोत् ।।९७।।
सायं चापि तथा पूजामकरोज्जागरं तथा । दोलायां तां कृष्णनारायणं लक्ष्मीं तथा ह्यजम् ।।९८।।
सावित्रीं च निधायैव कन्यकाऽऽन्दोलयन्मुहुः । तावत्प्राह पुनस्तत्राऽऽगत्य श्रीपुरुषोत्तमः ।।९९।।
देवि! पुष्पाञ्जलिं दत्वा दत्वा चार्घ्यं फलं जलम् । विसर्जनं कुरु मेऽत्र गच्छाम्यक्षरधाम यत् ।। १०० ।।
त्वं याह्यद्यैव वैराजं यस्माद् ब्रह्मा व्यजायत । वैराजे सूक्ष्मरूपेण प्रविश त्वं पुरा ततः ।। १०१ ।।
वैराजमानसी पुत्री तन्नाभेर्भव कन्यके । जातमात्रा युवतीं त्वां वैराजोऽजाय दास्यति ।। १ ०२।।
विधिना त्वैश्वरेणैव कर्मणा त्वां नियोक्ष्यते । कल्याणि गच्छ ते स्वस्ति सौभाग्यं शाश्वतं भवेत् ।। १०३।।
इत्युक्त्वा श्रीहरिर्नारायणस्तत्र तिरोऽभवत् । सावित्रीश्रीहरेमूर्त्यै पुष्पाञ्जलिं प्रदाय च ।। १ ०४।।
अर्घ्यं च श्रीफलं प्रार्प्याकरोद् देवविसर्जनम् । दानं ददौ सुवर्णस्य मूर्तीनां ब्रह्मवर्चसे ।। १०५।।
पत्नीव्रताख्यगुरवे गोलोकधामवासिने । आशिषं च ततः प्राप्य भव सौभाग्यसुन्दरी ।। १०६ ।।
ब्रह्मपत्नी जगतां च प्रसवित्री भवेति च । राधां कृष्णं ततो नत्वा द्रागेवाऽदृश्यतां ययौ ।। १ ०७।।
वैराजे प्रविवेशाऽस्य नाभिनाले समुद्गता । प्रसवं प्राप्य कन्या सा सावित्री युवती तदा ।। १ ०८।।
जातमात्राऽभवत्तां च विदित्वा ब्रह्मणः कृते । समुत्पन्नां ददौ चेशसमाजे विधिना विराट् ।। १०९ ।।
ब्रह्मणे चतुरास्याय सापि पूर्णमनोरथा । जगन्माताऽभवत्प्राप्य ब्रह्माणं पतिमीश्वरम् ।। ११० ।।
इति ते कथितं लक्ष्मि! द्वादशीव्रतकारणात् । सावित्र्या ब्रह्मपत्नीत्वं यथाजातं तदिष्टदम् ।। १११ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये राधिकाया मूर्तन्तरसावित्र्या समाधौ जीवेशब्रह्मसृष्टिविलोकने वेधसोंऽके स्व-स्थितिं दृष्ट्वा पत्नीरूपेण वेधःप्राप्तीच्छया चिन्तने दुन्दुभिश्रवणे द्वादशीव्रतेन वैराज-पुत्र्या तया ब्रह्मा पतिः प्राप्त इत्यादि-निरूपणनामा चतुरधिकत्रिशत-तमोऽध्यायः ।। १.३०४ ।।
श्रीनारायण उवाच- -
शृणु लक्ष्मि! ब्रह्मणस्तु पुत्रीणां प्राक् चतसृणाम् । त्रयोदश्या अधिमासे व्रतेन पुरुषोत्तमः ।। १ ।।
स्वयं पतिरभूत् ताभ्यो ददौ धामाक्षरं गृहम् । भुक्तिं मुक्तिं ददौ ताभ्यः शाश्वतीं कृपया प्रभुः ।। २ ।।
आद्ये कृते युगे लक्ष्मि! सृष्ट्यर्थं ब्रह्मणा पुरा । बालाः सनकसनन्दसनातनसनद्भिधाः ।। ३ ।।
सृष्टाश्चत्वार ऐश्वर्यबलतेजःसमन्विताः । दाम्पत्यर्थे च तेषां वै चतस्रः शक्तयः कृताः ।। ४ ।।
नाम्ना जया च ललिता पारवती प्रभा शुभाः । सदृशास्ते सदृश्यस्ताः मानस्यो मानसाश्च ते ।। ५ ।।
कृत्वा चतुर्युगलानि प्रसन्नोऽभूदतीव सः । जातमात्राणि चैतानि विज्ञानवन्ति वीक्ष्य वै ।। ६ ।।
नियोक्तुं सृष्टिकार्ये तान् प्रत्येकं प्राह विश्वसृट् । सनक त्वं गृहाणैनां जयां त्वदर्थकल्पिताम् ।। ७ ।।
सनन्दन गृहाणैनां ललितां ते प्रकल्पिताम् । सनातन गृहाणैनां दत्ता पारवतीं च ते ।। ८ ।।
सनत् गृहाण ते दत्तां प्रभां सहचरीं कुरु । युगलं युगलं भूत्वा चत्वारि युगलानि वै ।। ९ । ।
सृजन्तु मानसीं सृष्टिं सर्वा युगलरूपिणीम् । गोलोकादीदृशी प्राप्ता गृहधर्मपरम्परा ।। १० ।।
वैकुण्ठेऽपि तथा दृष्टा गृहधर्मपरम्परा । वयं कृष्णाज्ञया गृह्यान् धर्मान् गृह्णीम आदरात् ।। १ १।।
तथा पुत्रा! भवन्तोऽपि गृहीत्वा पितृसम्मतान् । गृहधर्मान् पालयित्वा भवन्तु सुखिनोऽत्र वै ।। १२।।
नियुज्य भवतः सृष्टिकार्येऽप्यहं मनाक् पुनः । सृष्टिभारेण रहितो भवामीति कृतार्थकः ।। १३।।
गृहधर्मे सदा पुत्रा वंशा भवन्ति तारकाः । गृहधर्मे योषितोऽपि भवन्ति सुखदायिकाः ।। १४।।
गृहधर्मे यज्ञयागक्रिया जायन्त आदरात् । अतिथेः पूजनं देवपूजनं साधुपूजनम् ।। १५।।
सत्कारोऽन्याश्रमिणां द्युप्रदं दानं च जायते । कामधर्मोऽप्यवितः स्यादर्थश्चोपार्जितो भवेत् ।। १६ ।।
पुरुषार्थत्रयं मोक्षः पश्चाल्लभ्येत शाश्वतः । गृहधर्मं विना गुणप्रवाहविरमो न वै ।। १७।।
बाल्ये वा यौवने ज्ञानं जायते न विरामदम् । तस्माद् भोगं प्रदायैव मानसं वै प्रशान्तयेत् ।। १८।।
प्रशान्तमानसानां तु मोक्षो भवति शाश्वतः । तस्मात् कुर्वन्तु कार्याणि सृष्टिध्रौव्याणि पुत्रकाः! ।। १९।।
इति वै ब्रह्मणः श्रुत्वा वचो विश्वसृजः सुताः । चत्वारः पूर्वत एव ज्ञानिनो योगिनस्तथा ।।२० ।।
ब्रह्मवेत्तार एवैते मोक्षमर्थे विनिश्चिताः । न कर्मणा भवेन्मोक्षः कर्म वै बन्धनं पितः ।।२१।।
तत्रापि गृह्यकर्माणि बन्धनान्येव सन्ति वै । नारीधर्मो विनिवृत्तेः कारणं जायते नहि ।। २२।।
कर्मोत्तरं पुनः कर्म कारयत्येव रागतः । धर्मार्थकामनास्तत्र सान्ता भवन्ति नैव हि ।।२३।।
विना ज्ञानं पितस्तस्माद् गृहधर्मो भयावहः । गृहधर्मो भाररूपो यथा त्यक्तुं त्वयेष्यते ।।२४।।।
तथाऽस्माभिश्च तं वोढुमाद्यतो नैव चेष्यते । पुत्रा यत् तारकाः प्रोक्तास्तारकं ज्ञानमेव ह ।।२५ ।।
तद्वै पुत्राभिधानं स्यात् ज्ञानिनां योगिनां तथा । कर्मिणां तु सुताः पुत्रा न चिकीर्षालयात्मनाम् ।।२६ ।।
वंशस्तु ब्रह्मविज्ञानि मुक्ताः सन्तो भवन्तु नः । ब्रह्ममार्गप्रदेष्टारो ब्रह्मलोकनिवासिनः ।।२७।।
अध्रुवस्याऽन्वयस्याऽर्थे करिष्यामो न गृह्यकम् । योषित्संगो बही रम्यः परिणामेऽन्तरेऽसुखः ।।२८।।।
कस्तां सेवेत तत्त्वज्ञः सुखं नैजं विहाय वै । आत्मसुखं परं प्रोक्तं तदन्यत्सुखमन्तकृत् ।।२९ ।।
गृहधर्मे यज्ञयागा ये तु प्रोक्ताः पितामह । ब्रह्माराधनकार्यस्य कूलयाऽपि समा न ते ।।३०।।
ब्रह्माराधनमेवात्र क्रतुर्नो ज्ञानिनां मतः । कृते ब्रह्माराधने तु कृतमातिथ्यपूजनम् ।।३ १।।
कृतं च देवपूजादि कृतं साधुप्रपूजनम् । सत्कृते तु हरौ नित्यं सत्कृतं सर्वमेव ह ।।।३२।।
दानं तु ब्रह्मविज्ञानं कृतं स्याच्छाश्वतं पितः । स्वर्गे तल्लभ्यमेवाऽन्यन्मोक्षस्थानं तदेव ह ।।३३।।
यन्न दुःखादिसंभिन्नं न चान्ते ग्रस्यते तु यत् । सत्यसंकल्पलब्धिकृत् तत्स्वर्गे शाश्वतं पदम् ।। ३४।।
कालधर्मः सतृष्णस्य नाऽऽत्मारामस्य कस्यचित् । अर्थश्चान्नजलवस्त्रैर्नान्यैरर्थैः प्रयोजनम् ।।३५।।
एवं वै वर्तमानस्य मोक्षः करतले स्थितः । गृहधर्मेण गुणकृत्प्रवाहस्य विसर्जनम् ।।३६।।
आशामात्रं प्रबोद्धव्यं मग्ना वै गुणधर्मिणः । येषां बाल्यं न वै चास्ति यौवनं त्वागतं नहि ।।३७।।
सर्वदात्मनि चास्त्येव विरामो भोगवर्जितः । मानसं ब्रह्मणा सम्यग् रञ्जितं शान्तिविग्रहम् ।।३८।।
तेषां मोक्षः सदेहे वा विदेहे वा न शिष्यते । सदा मुक्तः स वै प्रोक्तः सदा मुक्तः स वै मतः ।।३९।।।
हर्षाऽमर्षभयोद्वेगैरस्पृष्टो मुक्त एव सः । तस्मान्नार्हा वयं सृष्टौ वयं ब्रह्माधिकारिणः ।।४०।।
निर्द्वन्द्वा द्वन्द्व शून्याँश्च करिष्यामोऽपरानपि । अयं वै पितृतत्पितृपितृपितृपितुः पितुः ।।४१ ।।
पुरुषोत्तमसंज्ञस्य धर्मोऽस्त्युपनिषन्मयः । यास्यामो येन पुरतस्तस्यैव परमात्मनः ।।४२।।
यद्वै पश्चात्प्रकर्तव्यं तदद्यैव विधीयताम् । यदि स्यात् तद्विधानस्य साधनं स्वीयकोशगम् ।।४३।।
अस्माकं तु पितुश्चानुग्रहेणाऽऽत्मनि संयमः । सहोत्थ एव सुखदो वर्तते मोक्षसाधकः ।।४४।।
तस्मादाबाल्यतो मोक्षे वत्स्यामो नान्यथा पितः । अस्मन्मोक्षे तव मोक्षो भविष्यति न संशयः ।।४५।।
वयं पुत्रास्तारकाः स्मो यथार्था इति विद्धि वै । इमाः कन्यास्तु योगिन्यो ज्ञानविज्ञानमूर्तयः ।।४६।।
ब्रह्मैव संप्रपत्स्यन्ते स्वल्पकालेन मा शुचः । इति संभाष्य पुत्रास्ते ययुर्विष्णुपदीं प्रति ।।४७।।
जया च ललिता पारवती प्रभेति कन्यकाः । अध्यात्मयोगसम्पन्नाः सस्मरुः पुरुषोत्तमम् ।।४८।।
कृष्णनारायणं त्वाराधयामासुः सदाऽऽदरात् । जपं चक्रुः ओंश्रीकृष्णनारायणाय ते नमः ।।४९।।
एवं वै वर्तमानाभिर्घोषणा दुन्दुभेः श्रुता । सत्यलोके त्रयोदश्यां प्रातरेव कृपामयी ।।५ ० ।।
या काचिद् ब्रह्मसम्पन्ना यद्वा ब्रह्मवियोगिनी । सद्योजाता कुमारी वा वरारोहा विरागिणी ।।५ १ ।।
स्थवीरा वा सुभगा वा सुवासिनी विवासिनी । सरागा वाऽऽत्मरागा वा कैवल्येहावती च वा ।।५ २ ।।
अनाथा वा सनाथा वा संस्कृता वाऽप्यसंस्कृता । सुस्थाना वाऽकृतस्थानाऽथवा प्रस्थानशालिनी ।।५३ ।।
वाग्दाना वाऽप्यदाना वा दानार्हा दानवर्जिता । दानार्थे निर्मिता चापि कुर्यात् त्रयोदशीव्रतम् ।। ५४।।
तासामभीष्टदाताऽस्मि श्रीकृष्णः पुरुषोत्तमः । अधिमासेऽत्र यस्यै यन्नवं नवमपेक्ष्यते ।।५५ ।।
अगम्यं वा सुगम्यं वा लभ्यं चालभ्यमित्यपि । पुण्यलभ्यं द्रव्यलभ्यं लभ्यं यत्साधनैरपि ।।५६।।
अतर्क्यं वा प्रतर्क्यं वा शाश्वतं चाऽध्रुवं तथा । भोग्यं चाऽभोग्यमेवाऽन्यद् यद्यद् वाञ्छति या हृदि ।।५७ ।।
तत्तत्सर्वं प्रदास्येऽहं प्रसन्नः पुरुषोत्तमः । त्रयोदश्यां कृतेनैकभुक्तेन च व्रतेन वै ।।५८।।
निशीथभोजनेनैव फलाहारेण वा व्रतम् । कुर्याद्वै श्रद्धया युक्त मम पूजनपूर्वकम् ।।५९।।
तस्या नेता गमयिता त्राता पोष्टा च भद्रकृत् । आश्रयदस्तथा त्वानन्दयिताऽस्मि परेश्वरः ।। ६० ।।
नरा नार्योऽथवा चान्ये पूजयन्त्यधिमासके । त्रयोदश्यां चन्दनाद्यैर्यथेष्टं वितराम्यहम् ।। ६१ ।।
अष्टोत्तरशतेनापि षट्पंचाशद्भिरेव वा । द्वात्रिंशद्भिश्चोपचारैः षोडशाद्यैश्च वस्तुभिः ।।६ २ ।।
यथालब्धैश्च वा पत्रपुष्पजलान्नतण्डुलैः । मानसैर्वा पूजयन्तु प्रेमोपायनकैश्च माम् ।।६ ३ ।।
पुष्पांजलिं च वा प्रेमांजलिं ददतु मे जनाः । तेषामपि करिष्यामि मानसं दानपूरितम् ।। ६ ४।।
मा संकोचं प्रकुर्वन्तु वदन्तु धारयन्तु वा । संकल्पयन्तु हृद्ये वितरिष्याम्यधिव्रते ।। ६५ ।।
श्रुत्वैवं दुन्दुभिं प्रातस्त्रयोदश्यां हरिश्रितम् । जया च ललिता तत्राऽऽययुः पारवती प्रभा ।।६ ६ ।।
नेमुस्तं दुन्दुभिं चाथ पप्रच्छुः किं ददासि वै । दुन्दुभिः प्राह नाकं वा ददामि पुरुषोत्तमम् ।। ६७।।
त्रयोदशीव्रतमूल्यं कृष्णनारायणं पतिम् । ददामि संपदस्तस्य धामाऽप्यक्षरसंज्ञितम् ।।६८ ।।
अधिमासेऽधिकदाता भवामि स्वल्पके व्रते । प्रकटोऽहमधिमासात्मकोऽस्मि सृष्टिमण्डले ।। ६ ९।।
स्वर्गे सत्यं पारमेष्ठ्यं वैराजं भौमनं ध्रुवम् । गोलोकं चापि वैकुण्ठं ददामि ब्रह्मशाश्वतम् ।।७ ० ।।
भवत्यः किन्नु वाञ्छन्ति ददामि व्रतसत्फलम् । श्रुत्वा तदा चतस्रस्ताः प्राहुस्तं दुन्दुभिं मुदा ।।७ १ ।।
जातमात्रा वयं सर्वा असंस्कृताः स्म वै ततः । संस्कृताः स्याम कृष्णेन संगता धाम संगताः ।।७२।।
कृष्णनारायणः सोऽस्मानवाप्नोतु परेश्वरः । दास्यस्तस्य भवामोऽद्य व्रतेनेच्छाम एव तत् ।।७३ ।।
दुन्दुभिश्च तदा प्राह भवत्यश्चाद्य वै मुदा । स्नात्वा प्रातश्चार्चयन्तु सौवर्णं पुरुषोत्तमम् ।। ७४।।
यथालब्धोपचारैश्च मानसैर्भावगर्भितैः । प्रेमक्षुधाश्रयः कृष्णनारायणो ग्रहीष्यति ।।७९।।
कृष्णनारायणयोग्या यूयं स्थ दिव्यविग्रहाः । कृत्वा व्रतार्चने त्वद्य प्राप्नुवन्तु हरिं वरम् ।।७६।।
इत्युक्त्वा दुन्दुभिस्तस्मात् स्थानादन्यत्र वै ययौ । जया च ललिता चक्रुः पारवती व्रतं प्रभा ।।७७।।
तास्तु स्नात्वा गृहं गत्वा कृत्वा मण्डपमुत्तमम् । त्रयोदश्यां प्रातरेव पुपूजुः पुरुषोत्तमम् ।।७८।।
मध्ये सिंहासनं कृत्वा कानकीं प्रतिमां हरेः । तत्र विन्यस्य चावाह्य ददुर्जलादिकं मुदा ।।७९।।
पञ्चामृतजलैः स्नानं कारयित्वाऽम्बराणि च । आभूषणानि सर्वाणि कुंकुमचन्दनादिकम् ।।८ ० ।।
धूपदीपसुनैवेद्यजलपुष्पफलादिकम् । ताम्बूलव्यजनच्छत्रचामराऽऽरार्त्रिकादिकम् ।।८ १ ।।
प्रदक्षिणं स्तुतिं क्षान्तिं चार्घ्यं पुष्पांजलिं ददुः । देवदेव हरे कृष्णनारायण जगत्प्रभो! ।।८२।।
दासीनां ते कराऽऽदानं कुरु स्मो दास्य एव ह । एवं संकल्प्य कुसुमाञ्जलीन् सगद्गदा ददुः ।।८३ ।।
मध्याह्नेप्येवमेवेश प्रपूज्याऽभोजयन् हरिम् । सायं चापि समर्च्यैव चक्रुर्नीराजनं हरेः ।।८४।।
ददुश्च भोजनं मिष्टं तृप्तस्तुष्टौऽभवद्धरिः । चक्रुस्ता जागरं रात्रौ नक्तं कृत्वा हरेः पुरः ।।८५।।
ननृतुस्ता जगुर्गीतिं मधुरां तालमिश्रिताम् । तावत् प्राविर्बभूवेशः श्रीकृष्णपुरुषोत्तमः ।।८६।।
चतुःस्वरूपो भगवान् प्रत्येकां तामुपाददे । चतूरूपैश्चतस्रस्ता वामे निधाय मालिकाः ।।८७।।
ताभिर्दत्ता नामयित्वा कंधरां समुपाददे । प्रसन्नश्च मुहुस्ताश्च पस्पर्शाऽऽश्लिष्टवान् मुदा ।।८८।।
अगम्यं चाऽवितर्क्यं चाऽभूतं चावर्ण्यमेव च । ताभ्यो दत्वा सुखं शीघ्रं निधाय गरुडोपरि ।।८९।।
नत्वा तु वेधसं प्राप्य यौतकं चाशिषस्तथा ।। विधिना ब्रह्मणा ताश्च नारायणाय चार्पिताः ।।९०।।
विवाहयित्वा प्रययौ कृष्णकान्तः स्वमन्दिरम् । यदक्षरं परं धाम ब्रह्म व्यापकमुत्तमम् ।।९१।।
अन्यधामानि यस्माद्वै प्राविर्भूतानि तद्वरम् । ययौ ताभिस्तु पत्नीभिः श्रीकृष्णपुरुषोत्तमः ।।९२।।
जया च ललिता पारवती प्रभाऽम्बरे परे । व्योम्नि मुक्तान्य एवैता जाताः पत्न्यो हरेश्च ताः ।।९३।।
दिव्या दिव्यप्रियतुल्या मोदन्तेऽक्षरधामगाः । एवं कृत्वा त्रयोदश्यां व्रतं श्रीपुरुषोत्तमे ।।९४।।
मासि श्रीकृष्णपूजां च कृत्वाऽवापुः परं पदम् । स्वल्पस्यापि फलं नित्यं दिव्यं वै चाप्यनन्तकम् ।।९५।।
श्रोष्यन्तीमं पठिष्यन्त्यध्यायं ये कृष्णमानसाः । तेषामपि फलं तद्वद् भविष्यति न संशयः ।।९६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये चतुःसनकादिकाद्यर्थमुत्पादितानां ब्रह्मपुत्रीणां जयाललितापारवतीप्रभाभिधानानां पुरुषो-त्तममासत्रयोदशीव्रतेनश्रीपुरुषोत्तमधाम्नि श्रीकृष्ण-नारायणस्य पत्नीत्वप्राप्तिः, सनकादीनां तु वैराग्य-वृत्तिरित्यादिनिरूपणनामा पञ्चाधिक-त्रिशततमोऽध्यायः ।। १.३०५ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! परे त्वाद्ये वैकुण्ठे प्रथमे तु यत् । सञ्जातं वै चतुर्दश्यां चरित्रं दुन्दुभेस्तु यत् ।। १ ।।
अक्षरब्रह्मधाम्नस्तु सीम्नि संविद्यते तु यत् । वैकुण्ठं प्रथमं श्रेष्ठं गृहं गोलोकसदृशम् ।। २ ।।
तत्र युक्तस्वरूपा वै वसन्ति कल्पशाखिनः । तत्पुत्री श्रीः सदा तत्र वर्तते वै कुमारिका ।। ३ ।।
दिव्यभूमिस्वरूपा च दिव्या विभूतिरस्ति च । चेतनाधिष्ठिता देवी सर्वाधारस्वरूपिणी ।। ४ ।।
तस्या विभूतेः पुत्री च माणिक्याऽस्ति कुमारिका । दिव्यदुग्धाऽमृताब्धिश्च वैकुण्ठे तत्र वर्तते ।। ५ ।।
तस्य पुत्री कुमारी च लक्ष्मीस्त्वदात्मिकाऽस्ति च । ता एतास्तिस्र ईश्वर्यो राजन्ते धाम्नि तत्र वै ।। ६ ।।
सख्यस्तिस्रः सवयस्याः कुमार्योऽतीव कोमलाः । माणिक्या श्रीश्च लक्ष्मीश्च ब्रह्मवेत्र्योऽभवन् सदा ।। ७ ।।
ब्रह्मात्मज्ञानयोगिन्यो भक्तिमत्यश्च वै हरौ । कुर्वन्ति सेवनं नित्यं कृष्णनारायणस्य ताः ।। ८ ।।
तस्यैव प्रतिमां नित्यं गृहे ध्यायन्ति भावतः । दिव्यविभूतिः कल्पद्रुः क्षीराब्धिश्चेति ते त्रयः ।। ९ ।।
पुत्रीणां ध्यानसेवादि दृष्ट्वा तुष्यन्ति वै मुहुः । वितरन्त्याशिषस्ताभ्यो भवन्त्यानन्दमूर्तयः ।। १० ।।
अनन्तधामसु कृष्णपत्न्यः सन्ति त्वनेकशः । भवत्यश्च भवन्त्येव परब्रह्मप्रियाः पराः ।। १ १।।
राजाधिराजरूपिण्यो याभ्यो नान्याः पराः क्वचित् । इति पित्राशिषः प्राप्ता दीव्यन्ति नित्यवर्धिताः ।। १२।।
प्रातः स्नान्ति हरिं स्मृत्वा ध्यायन्ति च हरिं ततः । कुर्वन्ति मण्डपं दिव्यं विद्युत्तोरणसूज्ज्वलम् ।। १ ३।।
विचित्ररत्नमणिभिर्नद्धस्तंभादिमण्डितम् । कृत्रिमोद्यानसंव्याप्तं दिव्याम्बरविभूषितम् ।। १४।।
कृष्णनारायणमूर्तिशोभितं सर्वतो दिशि । मध्ये सिंहासनं रम्यं मणिस्वर्णादिराजितम् ।। १५।।
स्थापयन्ति च तास्तत्र तूलिकाश्च सुखावहाः । मूर्तिं विन्यस्य तन्मध्ये कृष्णनारायणस्य ताः ।। १६।।
स्नापयन्ति क्षीरधाराभिश्चाद्भिः स्नापयन्ति च । सुगन्धं चन्दनं तैलं मर्दयन्ति च ता मुहुः ।। १७।।
स्नापयित्वा च वस्त्राणि दिव्यानि ददति प्रगे । धारयन्ति विभूषाश्च शृगारं धारयन्ति च ।। १८।।
पत्रैः पुष्पैः फलैस्तोयैः पूजयन्ति मुहुर्मुहुः । धूपं दीपं सुगन्धं च कुर्वन्ति कृष्णसन्निधौ ।। १ ९।।
संवाहयन्ति चरणौ गृह्णन्ति चरणामृतम् । जिघ्रन्ति ता भक्तिमत्यो गन्धं कृष्णप्रसादजम् ।।२०।।
पश्यन्ति ता हरेः रूपं स्पृशन्ति कृष्णपत्कजम् । आस्वादयन्ति पूजायां दत्तं फलादिकं तु यत् ।।२१ ।।
शृण्वन्ति भगवत्स्तोत्रं गीतं परस्परेण यत् । वदन्ति गुणचारित्र्यं कृष्णनारायणस्य ताः ।।२२।।
आददति हरेः कार्ये गच्छन्ति च प्रदक्षिणम् । विलासं हावभावादि तथाऽऽनन्दं च मानसम् ।।२३।।
चिन्तनं निर्णयं स्वत्वं कुर्वन्ति कृष्णयोगजम् । मिष्टान्नामृतपात्राणि जलपात्राणि तत्पुरः ।।२४।।
स्वर्णस्थालानि नैवेद्यपूरितानि ददुश्च ताः । भोजयन्ति भावपूर्णं रामयन्ति हरिं पुनः ।।२५।।।
वारिपानं कारयन्ति रमन्ते ता हरेः पुरः । वादयन्ति प्रवाद्यानि कुर्वन्त्यारार्त्रिकं मुदा ।।२६।।।
नमन्ति हरये ताश्च प्रशंसन्ति च तद्गुणान् । वर्णयन्ति चरित्राणि कथयन्ति कथानकम् ।।।२७।।
भावयन्ति कृष्णहृच्चार्पयन्ति हृदयं हरौ । पुष्पांजलिप्रदानैश्च तोषयन्ति नरायणम् ।।२८।।
स्तुवन्ति परमात्मानं स्मरन्त्यप्यभिधा हरेः । दास्यं कुर्वन्ति सततं सख्यं चात्मनिवेदनम् ।।२९।।
एवं भक्तिमयं दिव्यं कर्तव्यमाचरन्ति ताः । मध्याह्नेपि प्रपूज्यैनं श्रीः फलान्यर्पयंत्यपि ।।।३०।।
कल्पद्रुकन्यका कल्पपादपेभ्यो नयंत्यपि । उत्तमं चोत्तमं रम्यं सुरसं मिष्टमम्ब्लकम् ।।३ १।।
नवं नवं फलं वृक्षपुत्री श्रीरर्पयत्यपि । कदलानि सुपक्वानि कदलीभ्योऽभिगृह्य सा ।।।३२।।
आहृत्य चाम्रवृक्षेभ्यश्चाम्राणि तूत्तमानि च । कर्मदेभ्यः कर्मदानि चाम्ब्लमिष्टान्यवाप्य च ।।३३।।
कर्कटिकाश्च वल्लीभ्य आहृत्य पक्वसद्रसाः । कलिंगानि सुपक्वानि शैत्यावहानि यान्यपि ।।।३४।।
कपित्थानि च तद्द्रुभ्यः पक्वान्यानीय चाप्यथ । काजूफलानि मिष्टानि काजू द्रुभ्योऽभिहृत्य च ।।३५।।
कटीङ्गुदीभ्य आहृत्य कटीङ्गुन्दीफलानि च । इङ्गुदानि महान्त्येव पक्वस्निग्धरसानि च ।।३६।।
आहृत्याऽर्पयति श्रीश्च भुंक्ते नारायणः स्वयम् । अंजीराणि सुमिष्टानि द्राक्षाणि सुरसानि च ।।३७।।
खर्जूरखारिकादीनि तालानि श्रीफलानि च । भूफलानि सुमिष्टानि चिक्कणानि फलानि च ।।३८।।
क्षीरिकाणि पिशंगानि पनसानि महान्ति च । गर्जराणि विविधानि घृतघटानि चैव ह ।।३९।।
शिङ्गवः पक्वास्तथा जम्बूफलानि रावणानि च । अमृतानि सुमिष्टानि टिटीमा मिष्टसद्रसाः ।।४० ।।
दाडिमानि चेक्षुदण्डान् बदराणि नवानि च । टिम्बूरवाँश्च मधुकान् बदामान् बहुबीजकान् ।।४१।।
रामफलानि च सीताफलानि मधुराणि च । नस्पतीन सन्तराँश्चापि जम्बीराणि च पुप्पिनान् ।।४२।।
चिर्भटानि च सफलजनानि टिम्टिमानि च । नवरंगानि चान्यानि फलान्याहृत्य श्रीर्ददौ ।।४३।।
कृष्णनारायणाय श्रीपुरुषोत्तममूर्तये । भगवानपि भावेन समत्तिश्र्यर्पितानि वै ।।४४।।
दिव्यविभूतिकन्या तु माणिक्या भगवत्कृते । समानयति रत्नानि धारयत्यच्युतं स्वयम् ।।४५।।
रत्नमालास्तथा मुक्ताहारान् मौक्तिककंकणान् । वज्रमणीन् पद्मरागमणीन् मरकतान् मणीन् ।।४६।।
इन्द्रनीलमणींश्चापि कौस्तुभान् भीष्मकाँस्तथा । वैदूर्यान्पुष्परागाँश्च कर्केतकान् सुवर्णकान् ।।४७।।
हारितान् पुलकाँश्चैव रुधिरान् स्फटिकाँस्तथा । विद्रुमाँश्च प्रवालाँश्च माणिक्यान् चित्रकाँस्तथा ।।४८।।
गोमेदाँश्च महानीलान् कूप्याँश्चादाय सन्ददौ । कृष्णनारायणस्तानि मणिरत्नमयानि च ।।४९।।
भूषणानि धृतवाँश्च प्रसन्नोऽभूदतीव सः । अथ क्षीराब्धिकन्या वै लक्ष्मीः क्षैराणि भावुकी ।।५०।।
भोजनं कारयामास पाययामास तानि वै । दुग्धसारं पायसान्नं दुग्धपाकं सतण्डुलम् ।।५ १।।
दुग्धस्तरं दुग्धमन्थं दुग्धघट्ट पयोबलिम् । दुग्धक्वाथं दुग्धपिण्डान् दुग्धमल्लयिनीं शुभाम् ।।।५२।।।
दधि सर्पिर्वृतं तक्रं नवनीतं पयःपुटम् । क्षीरौदनं पयोमिश्रं पयःपानादिकं ददौ ।।।५३।।।
कृष्णनारायणस्तत्तद् भुक्तवान् पीतवाँश्च वै । क्षीरोत्पन्नानि रत्नानि ददौ सा विविधानि च ।।५४।।
श्रिया माणिक्यया लक्ष्म्या यान्यर्पितानि भावतः । कृष्णनारायणस्तानि जग्राह भावपूरितः ।।५५।।
फलानि रत्नानि च पायसानि भुंक्ते दधात्यत्ति च भावगर्भम् ।
श्रियं च मणिक्यवरां च लक्ष्मीं सेवापरां वीक्ष्य हरिस्तुतोष ।।५६।।
सायं च ताः पूर्ववदेव पूजनं चक्रुः समाराधनतत्पराः सुताः ।
नीराजनं भोजनमन्यदर्पणं सदैव चक्रुर्बहुभक्तिभावतः ।।५७।।
चतुर्दश्यामधिमासे मध्याह्ने पूजनोत्तरम् । श्रुतस्ताभिर्दुन्दुभिश्च कृष्णनारायणस्य हि ।।५८।।
कुर्वन्तु पूजनं नित्यं कुर्वन्त्वाराधनं मम । अर्पयन्तु च मे किञ्चित्प्राप्नुवन्तु मम गृहम् ।।५९।।
पुरुषोत्तमसंज्ञोऽहं ब्रह्मधामाधिपः पुमान् । अधिमासाधिदैवोऽहं वदामि तद् ददामि वै ।।६ ०।।
गोलोकस्था अपि याश्च वैकुण्ठस्था अपि व्रतम् । अधिमासे चतुर्दश्यां कुर्वन्ति याश्च येऽपि च ।।६ १ ।।
तासां तेषां मनोलभ्यं करिष्ये भगवानहम् । दास्यामि परमं धामाऽक्षरातीतनिवासनम् ।।६२।।।
फलैः रत्नैः पायसान्नैः पूजयिष्यन्ति मां जनाः । प्राप्स्यन्ति परमं धाम यत्रास्मि पुरुषोत्तमः ।।६ ३ ।।
अन्येभ्यो धामवासिभ्यः स्थितिं श्रेष्ठां ददाम्यहम् । गृह्णन्तु भक्तिमत्यो मे भक्ताश्च परमं पदम् ।।६४।।
नेदृशं त्वस्ति वैकुण्ठं गोलोकश्चापि नैव ह । मम धाम्ना समं त्वन्यद् विद्यते नैव नैव च ।।६५ ।।
न मत्समो वाऽप्यधिकोऽस्ति कश्चित्, न ब्रह्मणा सन्निभमस्ति किञ्चित् ।
नान्यत्सुखे मत्सुखसाम्यमस्ति, स्वल्पप्रदानेन लिहन्तु चार्याः ।।६६।।
भवन्तु दास्यः प्रभवन्तु भक्ता, आनन्दमात्रां मम मूर्तिलब्धाम् ।
भुञ्जन्तु नित्यं मयि संरमन्तु, चतुर्दशीसद्व्रतकल्पनेन ।।६७।।
मानव्यो मां समाराध्य भवन्तु दिवि देवताः । देव्यश्च मां समाराध्य भवन्त्वार्षिण्य एव च ।।६८।।
आर्षिण्यो मां समाराध्य भवन्त्वीशान्य एव वा । त्वीशान्यो मां समाराध्य भवन्त्वीश्वर्य एव च ।।६९।।
ईश्वर्यो मां समाराध्य नारायण्यो भवन्तु च । नारायण्यः समाराध्य गोप्यो भवन्तु मां मुदा ।।७०।।
ताश्च सर्वाः समाराध्य मां वरं पुरुषोत्तमम् । भवन्तु पुरुषोत्तम्यो नित्यमुक्तान्य एव ह ।।७ १ ।।
कृष्णनारायणं मां वै संराध्य पुरुषोत्तमम् । ममाऽक्षरं परं धाम गृह्णन्तु मद्व्रतार्थिनः ।।७२।।
चतुर्दश्यामधिमासे व्रतं श्रीपुरुषोत्तमे । कृतं येनाऽर्जितं तेन मामकं सर्वमेव ह ।।७३ ।।
वच्मि वच्मि पुनर्वच्मि ह्यागच्छन्तु मया सह । भवने त्वक्षरे मे वै निवसन्तु मया सह ।।७४।।
तुष्टोऽस्मि गर्जनां कृत्वा कथयामि पुनः पुनः । अधिमासे चतुर्दश्यां यान्तु व्रतेन मद्गृहम् ।।७५।।
वैकुण्ठे दुन्दुभिं श्रुत्वा कृष्णनारायणस्य ताः । सहर्षाः सत्वरं तत्र ययुर्यत्राऽस्ति घोषकृत् ।।७६ ।।
श्रीश्च हृष्टा च माणिक्या लक्ष्मीर्हृष्टा हृदन्तरे । नत्वा नत्वा पुनर्नत्वा प्राहुस्तं दुन्दुभिं हरेः ।।७७।।
नारायणस्य वैकुण्ठे वसामोऽत्र महासुखे । ततोऽतिश्रेष्ठसौभाग्यं प्रयच्छति यदि प्रभुः ।।७८।।
कन्यका स्मो वयं कुर्मोऽर्चनं तस्य हरेः सदा । अद्य व्रतं चतुर्दश्याः कुर्मोऽधिमासि निर्णयात् ।।७९।।
कदाऽक्षराधिपः कृष्णनारायणो मिलिष्यति । कदा नेष्यति परमः पुराणः पुरुषोत्तमः ।।८० ।।
दुन्दुभिस्तु तदाकर्ण्य प्राह ताश्चाऽद्य वै प्रभुः । निशि पूजोत्तरं त्वायास्यति कुर्वन्तु जागरम् ।।८ १ ।।
स्तुवन्तु परमात्मानं हृदयस्थं जनार्दनम् । भवतीनां सफलाश्च प्रभवन्तु मनोरथाः ।।८२।।
इत्युक्त्वाऽक्षतपुष्पैश्च पूजितो दुन्दुभिर्ययौ । कन्याः पुपूजुः श्रीकृष्णं निशीथे प्रतिघस्रवत् ।।८३।।
जागरं तत्र कुर्वन्त्यः श्रीश्चकार सुनर्तनम् । वाद्यं त्ववादयत्तत्र माणिक्या तालसंयुतम् ।।८४।।
लक्ष्मीस्तु गायनं चक्रे तिस्रश्च मिलिता जगुः । सुस्वरैश्च नद्धकिंकिणिका नूपुरकंकणैः ।।८५।।
सत्य ब्रह्माऽक्षरपरमपरं लोकेशं परलोकेशं, नित्यं ज्ञानमनन्तमपारमनेकाकारं कमलेशम् ।
शान्तं भास्करकान्तमघनुतं ब्रह्मानन्दमहानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८६।।
धाम्नि ब्रह्माऽक्षरमुक्तेश्वरपार्षदवृन्दार्चितचरणं, चैतन्यामृतधामविराजितमुक्तेशैकसुधाकरणम् ।
श्रीवत्सांकविरंचिगिरीशनतांऽघ्रितलं सुहृदानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८७।।
दिव्याऽखण्डमनन्तमुनीश्वरमण्डलमध्यगताकारं, निगमागमपटलैरभिवेद्यं साकारं परमाकारम् ।
दिव्यविहारमनुद्भवरूपमनादिं दिव्यगुणागारं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८८।।
सौम्याभं चिन्मालाकुण्डलमुकुटपिशंगसुचेलधरम्, सर्वज्ञामितशक्तियुतं हरिकृष्णमचिन्त्यानन्दकरम्।
निगमागमवन्दितयशसं शंसन्तं धर्मं वेदमतम्, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।८९।।
लोकालोकविभासिविभूतिमलोकनिवासमनिर्वाच्यं, जन्माद्यस्य यतो भगवन्तमशरणाधारं वृषलालम् ।
कृष्णं करुणारसमयरूपं दीनदयालुं देववरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९० ।।
भास्वरकार्तस्वरविद्युन्मणिभास्करचन्द्रविशेषाभं, सद्रूपं घनवर्णमतर्क्यमजं हृत्स्थं त्रिभुवननाभम् ।
श्यामसरोरुहदलसमनयनं स्मेरास्यं सर्वानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९ १।।
श्यामं व्यापकमुत्तमपुरुषं परमात्मानं सुखकन्दं, स्वांघ्रिसरोजसमुद्भवकान्तिद्योतितयावज्जनवृन्दम् ।
सत्यं नारायणपरमेश्वरमायेशेश्वरमुक्तवरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ।।९२।।
कल्पद्रुमदुहिता श्रीर्नित्यं ध्यायति वल्लभमात्मानं, दिव्यविभूतिसुता माणिक्या प्रार्थयति स्वाम्यात्मानम् ।
दिव्यक्षीराब्धिदुहिता लक्ष्मीरपि चेच्छति पतिमनघं, पुरुषोत्तममक्षरधामस्थं स त्वं भवसि भवार्थकरः ।।९३।।
करान् गृहाण चास्माकं मा वै मुञ्च कदाचन । यावद्वै तेऽक्षरं धाम तावत्पत्न्यो भवामहे ।।९४।।
शीघ्रं कुरु कृपानाथ कृष्णनारायण प्रभो । वरमाला गृहाणाऽस्मद्धस्तेभ्यश्चैककालिकाः ।।९५।।
इति स्तुत्वा च तास्तिस्रो विरमुस्तावदेव तु । प्राविर्बभूव भगवान् कृष्णनारायणः प्रभुः ।।९६।।
सर्वाविर्भावहेतुर्यः सर्वकारणकारणम् । सर्वेशेशेश्वरः श्रेष्ठब्रह्म श्रीपुरुषोत्तमः ।।९७।।
श्वेतहस्तियुतं यानं विमानाख्यं चिदम्बरे । वाहयन् योजनकोटिविस्तृतं मुक्तपूरितम् ।।९८।।
तिस्र आश्वास्य वैकुण्ठे कल्पद्रून् दिव्यभूतिकम् । क्षीराब्धिं च नमस्कृत्य विधिना तैः समर्पिताः ।।९९।।
पितृभिस्त्वर्थितः कृष्णे जग्राह तिसृकन्यकाः । किन्त्वस्माभिर्वियोगो मा स्यात्तथा कुरु केशव ।। १०० ।।
करे करान् समादाय ग्रहीता हरिणा तदा । श्रीश्च लक्ष्मीश्च माणिक्या कृष्णातुल्या विरेजिरे ।। १० १।।
तासां द्वेद्वे स्वरूपे च कारयित्वा पुमुत्तमः । छायारूप त्रयं तासां पित्रधीनं सुरक्ष्य च ।। १ ०२।।
दिव्यरूपं त्रयं तासां पुरुषोत्तमयोग्यकम् । अक्षरधामवासार्हं पत्नीरूपं प्रगृह्य च ।। १०३।।
तिस्र आरोहयित्वैव विमाने पुरुषोत्तमः । ययौ दिव्याक्षरं धाम पत्नीयुक्तः स्वयं हरिः ।। १ ०४।।
एवं चाधिकमासस्य चतुर्दश्या व्रतेन ताः । श्रीश्च लक्ष्मीश्च माणिक्या तिस्रः पत्न्यो हरेः सदा ।। १ ०५।।
बभूवुः शाश्वते धाम्नि किमत्र खलु दुर्लभम् । श्रोतुर्वक्तरपि त्वेवं फलं स्यान्नात्र संशयः ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे दुन्दुभिश्रवणेन कल्पद्रुम- पुत्र्याः श्रियः दिव्यविभूतेः पुत्र्या माणिक्यायाः, दिव्यक्षीरोदधिपुत्र्या लक्ष्म्याश्च, अधिकमासस्य चतुर्दश्या व्रतेनाऽक्षरधाम्नि परब्रह्मपुरुषोत्तम-श्रीकृष्णनारायणपत्नीत्वप्राप्त्यादिनिरूपणनामा षडधिकत्रिशततमोऽध्यायः ।। १.३०६ ।।
श्रीनारायण उवाच-
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ९४
शृणु लक्ष्मि! धर्मपत्न्या भक्तेः पुत्र्यो कथां शुभाम् । अधिमासे मध्यतिथौ जातां वै पावनोत्तमाम् ।। १ ।।
आदौ कृते युगे भक्तेर्मानस्यौ द्वे कुमारिके । प्राविर्भूते सुते नाम्ना प्रेयसी श्रेयसी ह्युभे ।। २ ।।
सेवेते पितरौ नित्यं यत्र तौ तत्र ते ह्युभौ । पितरौ ते परित्यज्य प्राणान् धर्तुं न शेकतुः ।। ३ ।।
पितृसेवापरे नित्यं स्वकर्तव्यपरायणे । प्रातः स्नात्वा च ते पित्रोः पादयोर्नेमतुः सदा ।। ४ ।।
पित्रोः स्नानादिविध्यर्थं ददतुश्च जलादिकम् । स्नापयित्वा च वस्त्राणि ददतुर्धारणाय ते ।। ५ ।।
चन्दनाऽक्षतसुमनः कुंकुमाद्यैः पुपूजतुः । सुमिष्टमृष्टनैवेद्यं फलं ताम्बूलकं जलम् ।। ६ ।।
समर्प्य चक्रतुश्चोभे वर्ष्मसंवाहनादिकम् । मातापित्रोर्यदिष्टं चक्रतुश्चान्यद्विहाय ते ।। ७ ।।
शयनास्तरणाद्यं च पात्राणां मंजनं तथा । गृहस्य मार्जनं वस्त्रक्षालनं त्वन्नपाचनम् ।। ८ ।।
जलस्याऽऽहरणं कामधेनूनां दोहनादिकम् । अन्नानां शोधनं पूजापुष्पाद्यानयनं तथा ।। ९ ।।
कृष्णनारायणमन्त्रजपनं देवपूजनम् । पितृसन्तर्पणं भूतयज्ञं चातिथिपूजनम् ।। १ ०।।
दानं ज्ञानं चात्मबोधं विज्ञानं ब्राह्ममित्यपि । एवं सर्वे गृहकार्ये पित्रोः सेवां मुहुस्तथा ।। १ १।।
यथापेक्षं तथाऽन्यच्च चक्रतुश्च दिवानिशम् । तेनाऽऽशीर्वादपात्रे ते बभूवतुर्बहुप्रिये ।। १२।।
यथा नाम तथा तत्र गुणा वासं प्रचक्रिरे । यथाबलं यथाशक्ति सर्वभावेन सुन्दरी ।। १ ३।।
अनादृत्यैव देहं स्वं कष्टं यत्र दिवानिशम् । सर्वस्वभोगदानेन सेवया प्रेयसी सदा ।। १४।।
अतिप्रिया ह्यतिप्रेमपात्रं पित्रोर्बभूव सा । प्रेयसी तेन सा भुक्तिरिति ख्यातिं जगाम सा ।। १५।।
पित्रोः श्रेयः परेषां च श्रेयःकर्त्री सदाऽपरा । कन्यकाऽऽर्तिजनानां च विधूयाऽऽर्तीन् मुहुर्मुहुः ।। १६।।
सुखं मोक्षसमं सम्यक् करोतीति सुकर्मभिः । श्रेयसी तेन सा मुक्तिरिति ख्यातिं ययावपि ।। १७।।
प्रेयसीश्रेयसीपुत्र्यौ धर्मभक्त्योः कृपाकणात् । भुक्तिर्मुक्तिश्चेति दिव्ये नाम्नी दध्यतुरर्थवत् ।। १८।।
ययोः पिता स्वयं धर्मो जननी भक्तिरैश्वरी । निधानं परमं दिव्यं किमाश्चर्यं तयोर्गुणे । । १९। ।
पित्रोः पवित्रयोः सेवा कं न धत्ते गुणोत्तमम् । पितरौ तोषितौ येन तोषितस्तेन माधवः ।।२०। ।
तोषिताश्च सुराः सर्वे तोषितं सकलं जगत् । अथाऽपुत्रवतोः पित्रोस्तोषदा स्यात् सुता यदि ।।२१।।
सा वै पुत्रसमा प्रोक्ता पितरौ तारितौ तया । यया त्वत्र स्वकौ वृद्धौ पितरौ तोषितौ धिया ।।।२२।।।
सास्ति पुत्रनिभा पुत्री दायभागाधिकारिणी । देहे यद्यपि कन्या सा हृदये सुत आत्मनि ।।२३ ।।
सुतवत् सा सदा रक्ष्या तया स्वर्गे तयोर्ध्रुवम् । तया दत्तं जलं चान्नं दानं पित्रोः प्रयाति हि ।।२४।।
यस्य सन्ति न वै पुत्राः पुत्री तस्य क्रियाश्चरेत् । यशं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ।।२५।।
सर्वं कुर्याद् विधिं पुत्री धारयेदुपवीतकम् । तिष्ठेच्च ब्रह्मचर्ये सा यावत् पित्रोः प्रसेवनम् ।।२६।।
जाते पुत्रेऽथवाऽऽदत्ते पश्चात् पित्राज्ञयाऽपि सा । ब्रह्मचर्यं प्रसमाप्य विधिना स्याद् विवाहिता ।।२७।।
ब्रह्मचर्यस्थितौ जाते राजस्वल्याद्यशुद्धिके । ब्रह्मचर्यस्य तपसः प्राबल्येन न दूषणम् ।।२८।।
अशुद्धिः पालनीया स्याद् यावद्दिनचतुष्टयम् । वार्षल्यं वान्यदोषो वा पापं वा नास्ति तत्कृते ।।२९।।।
ब्रह्मचर्याग्निना सर्वं दैह्यं संयाति भस्मताम् । ब्रह्मचर्यसमो धर्मो न भूतो न भविष्यति ।।३ ०।।
कन्यां वा लग्नयुक्तां वा ह्यधवां वा धवान्विताम् । अयोगां वा सयोगां वा पावयेद् ब्रह्मचर्यकम् ।।३ १।।
ब्रह्मचर्ये ब्रह्मभक्तिर्ब्रह्मव्रतं च यत्र वै । तत्र ब्रह्मातिरिक्तं वै भस्मसाद् याति वैशसम् ।।।३२।।
बीजघ्नत्वं रजोघ्नत्वं ऋतुघ्नत्वादि दूषणम् । ब्रह्मचर्ये भूषणं तद् बीजादि मोक्षकृद्धि तत् ।।३३ ।।
एवं ते कन्यके पित्रोः सेवां चक्रतुरादरात् ।। ब्रह्मचर्यस्थिते नित्यं धर्मभक्तिगृहे शुभे ।। ३४।।
प्रातस्ते सत्यलोके वै स्वर्णद्यां स्नातुमागते । ताभ्यां तु दुन्दुभिः कृष्णनारायणस्य संश्रुतः ।। ३५।।
धाम्नां धाम्न्यवताराणामवतारी पुमुत्तमः । अत्राधिके महामासे ददामि पुरुषोत्तमः ।। ३६।।
मध्यतिथेर्व्रतकर्त्रेऽक्षरं धाम च सम्पदः । मत्सान्निध्यं मम रूपं मदैश्वर्यं ददामि च ।। ३७।।
मम साम्यं मम राज्यं मम लोकं ददामि च । मम योगं मम शक्तिं दिव्यतां मे ददामि च ।।३८।।
मदंकं मम मूर्तिं च मत्समख्यातिमित्यपि । मत्समा पूज्यतां चैव श्रेष्ठतां च ददामि वै ।।३९।।
मद्भावं मम दिव्यत्वं मम तेजो ददामि च । मम सिंहासनं दिव्यं मद्वद् व्यापकतां तथा ।।४० ।।
मदात्मकत्वं तादात्म्यं मध्याव्रते ददामि च । अहं पूर्णोऽर्धमासेऽत्र व्रतं पुष्टफलप्रदम् ।।४ १ ।।
शाश्वतं सत्फलं दास्ये गृह्णन्तु चार्जयन्तु च । पुरुषोत्तममासोऽयं मम मासोऽस्ति चोत्तमः ।।४२।।
तदेकदिनजं पुण्यं सर्वेभ्योऽप्यतिरिच्यते । अशाश्वतानि चान्यानि ह्येतत्पुण्यं तु शाश्वतम् ।।४३।।
अहं वै शाश्वतो देवो मासोऽपि मम शाश्वतः । व्रतं च शाश्वतं मेऽस्ति पुण्यं गृह्णन्तु शाश्वतम् ।।४४।।
माता सन्तोषिता येन भक्त्या संतोषितः पिता । मातापितृप्रसादेन फलं गृह्णन्तु शाश्वतम् ।।४५।।
यथेष्टं कल्पयित्वैव कुर्वन्तु मध्यमाव्रतम् । पूरयिष्यामि संकल्पान् योग्यान् योग्येतरानपि ।।४६।।
दुन्दुभिः श्रावयित्वैवं क्षणं मौनं दधार च । कन्यादत्तं पत्रपुष्पफलं त्वादाय निर्ययौ ।।४७।।
कन्यके कृतसंकल्पे मध्यातिथेर्व्रताय वै । गत्वा गृहं च विधिवत् पूजयामासतुः प्रभुम् ।।४८।।
सौवर्णी प्रतिमां कृष्णनारायणस्य शोभनाम् । कारयित्वाऽऽवाहनं चक्रतुः षोडशवस्तुभिः ।।४९।।
क्रमेण पूजनं योग्यं प्रथमं पयआदिना । पञ्चामृतेन संस्नाप्य कारयामासतुस्ततः ।।५० ।।
तीर्थोदकेन संस्नानं मार्जयामासतुस्ततः । वस्त्रेणाऽङ्गं च धौत्रादि धारयामासतुस्ततः ।।५ १ ।।
भूषयामासतुराभूषणैश्चन्दनकज्जलैः । शृंगारयामासतुश्च पुष्पहारादिभिस्ततः ।।५२।।
शोभयामासतुः कृष्णनारायणं द्रवोत्तमैः । नुगन्धयामासतुश्च गन्धसारादिभिश्च ते ।।५३।।
कुंकुमाऽक्षततुलसीपत्रादि शेखरादिकम् । अर्पयामासतुस्तस्मै पुरुषोत्तमरूपिणे ।।५४।।
धूपं दीपं सुनैवेद्यं मिष्टान्नं पायसादिकम् । निवेदयामासतुश्च फलं ताम्बूलचूर्णकम् ।।।५५।।
प्रदक्षिणां दण्डवच्च नमस्कारं क्षमापनम् । आरार्त्रिकं स्तुतिं पुष्पाञ्जलिं ददतुरादरात् ।।५६।।
अर्घ्यं दत्वा च संकल्पं पुरुषोत्तमलब्धिकम् । विज्ञापयामासतुश्च हृदा प्रार्थनया मुहुः ।।५७।।
कुमारीत्वं सदाकालं योग्यं वै ब्रह्मधामनि । मुक्तत्वं तत्र योग्यं वै दिव्यावस्थादिशोभितम् ।।५८।।
ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मैव परमेश्वरः । आवयोः रक्षकश्चाऽस्तु कृष्णनारायाणो हरिः ।।५९।।
रक्षकः प्रेरको धाता विधाता धारको हि सः । पोषकः सहजो नाथः सर्वेश्वरेश्वरेश्वरः ।।६० ।।
अक्षराधिपतिः कृष्णो ब्रह्मेशः पुरुषोत्तमः । नाथः पाता तं विनाऽन्यः कश्चित्पाताऽस्ति नाऽऽवयोः ।।६ १।।
कृपानाथ क्रियानाथ यत्ननाथ फलप्रद । वर्ष्मनाथाऽऽत्मनोर्नाथ सर्वनाथाऽक्षरं नय ।।६२।।
तव स्वो दासिके कृष्णनारायण हृदिस्थित । अन्तर्यामिन् व्रतपुण्यप्रदातर्हृदयंगम! ।।६३।।
हृन्निवास हृदयज्ञ भावज्ञ पूरयाऽऽन्तरम् । करौ संगृह्य नौ कृष्ण शीघ्रं नयाऽक्षरं प्रभो ।।६४।।
इति स्तुत्वा ददतुस्ते स्वक्षतान् मूर्तये यदा । तावत्तत्र दयालुः स आविर्बभूव सुन्दरः ।।६५।।
किशोरो दिव्यरूपश्च कृष्णनारायणो हरिः । गजपृष्ठे स्थितो दिव्यरूपानुवयवः पुमान् ।।६६।।
यत्केशानां प्रान्तभागाः कोटिविद्युत्समोज्ज्वलाः । आमूलात् स्निग्धकृष्णाभा मञ्जुलाश्च तरंगिताः ।।६७।।
चमत्कृतिंभरा भंगीशोभितास्तस्य मूर्धजाः । पश्चात्तु कर्णयोर्मध्ये प्रान्तेऽप्याकर्षकाः शुभाः ।।६८।।
ललाटफलकं चोर्ध्वरेखाचन्द्रविराजितम् । भ्रूधनुःकोटिकामानां शुभं गर्वापहारकम् ।।६९।।
भालेऽविच्छिन्नसद्रेख ब्रह्ममार्गप्रसूचिका । कर्णयोर्निकषा गत्वा लोकद्वयविबोधिका ।।७०।।
शष्कुलीद्वयशोभाढ्यौ कर्णौ मोहकरावुभौ । सुरक्तपुण्डरीकाभे नेत्रे द्वे सुदलायते ।।७१।।
विद्युत्समातिसूक्ष्माभा रेखाः सन्ति मनोहराः । आकर्णान्तं सकोणं च भावगर्भं च कामिनम् ।।७२।।
एह्यागच्छेति हृदयस्थितस्य व्यञ्जकं हि तत् । सुरक्त प्रोन्नतं हास्यबोधकं नेत्रगण्डकम् ।।७३।।
तस्यासीन्नासिका रम्या तिलपुष्पसमाकृतिः । ओष्ठौ पक्वसुरक्ताढ्य बिम्बतुल्यौ बभूवतुः ।।७४।।
सूक्ष्म रम्या नातिगम्या श्मश्रुरेखा स्म राजते । कम्बुकण्ठः पुष्टवक्षाः स्कन्धौ पुष्टौ तथा हरेः ।।७५।।
भुजंगभोगवद्धस्तौ नखचन्द्रावलिश्रयौ । ध्वजधनुर्महामीनबाणस्वस्तिकराजितौ ।।७६।।
शूलचक्राब्धिजरेखान्वितौ कराञ्जली हरेः । रोमराजिमयौ शुभ्ररक्तरंगौ करावुभौ ।।७७।।
श्रीवत्सकौस्तुभलक्ष्मीरेखाहारमुरःस्थलम् । उदरं त्रिवलीशोभं नाभौ ब्रह्मासनं शुभम् ।।७८।।
कटिः कृशा तथा गुप्तं सच्चिदानन्दपूरितम् । हस्तिकरोपमे रम्ये सक्थिनी रोमराजिते ।।७९।।
जानू च वर्तुलौ तस्य जङ्घे पुष्टोत्तरे कृशे । गुल्फत्रयं प्रतिपादं मध्योन्नतं प्रकाशकृत् ।।८०।।
षोडशांकसुरेखाभी राजन्नखमणिप्रभम् । सर्वं द्व्यष्टसमं पुष्टं तेजःपूरितविग्रहम् ।।८१।।
सुरूपं श्रीकृष्णनारायणस्य परमाद्भुतम् । अपश्यतां च ते कन्ये प्रेयसीश्रेयसी ह्युभे ।।८२।।
जहर्षतुश्च वै तत्र प्राप्य श्रीपुरुषोत्तमम् । पुष्पमाले धारयामासतुः कण्ठे हरेरुभे ।।८३ ।।
उभे च ' सन्निधौ तस्य स्थिते भावाऽऽर्द्रतां गते । हरिस्ते प्राह भक्त्या मे व्रतेनाऽथ च भावतः ।।८४।।
वां नयामि मम धामाऽक्षरं सुखसुपूरितम् । मयि तादात्म्यभावेन वां नयामि च वर्ष्मणी ।।८५।।
इत्युक्त्वा भगवाँस्तत्र तिरोबभूव तत्क्षणम् । ते ह्युभे चाति संविग्ने ह्यभूतां तद्वियोगतः ।।८६।।
मध्याह्ने तादृशीं पूजां सायं चापि तथा निशि । चक्रतुर्विधिना कृष्णनारायणस्य जागरम् ।।८७।।
नर्तनं गायनं दिव्यं चक्रतुर्मध्यरात्रिके । तावत्पुनः समायातो द्रुतं रात्रौ महाप्रभुः ।।८८।।
स्वज्योत्स्नाव्याप्तधवलः सर्वेषां श्रेयसांकरः । यथा प्राप्तस्तथा रात्रौ राजते स्म हरिः स्वयम् ।।८९।।
गृहे तत्रोत्सवे प्राप्तं ज्ञात्वा श्रीपुरुषोत्तमम् । धर्मो भक्तिश्च तं नत्वा ज्ञात्वा श्रीहरिमागतम् ।।९० ।।
पुत्रीद्वयं स्वकं धाम नेतुमाज्ञां प्रचक्रतुः । प्रेयसी श्रेयसी प्राप्य हरिं श्रीपुरुषोत्तमम् ।।९ १ ।।
कृतकृत्येऽतिसम्पन्नेऽक्षरे धाम्नि विराजिते । भुक्तिर्मुक्तिश्च ते ख्याते दिव्ये धामनि तत्र वै ।। ९२।।
धर्मभक्त्योश्च सेवार्थं कृष्णनारायणेन च । द्वेधा रूपे च ते कृत्वाऽर्पिते पित्रोर्गृहेऽपि च ।।९३।।
यत्र धर्मश्च भक्तिश्च तत्र भुक्तिश्च मुक्तिका । लोकेऽपि द्वे च वर्तंते वर्तेते चापि धामनि ।। ९४।।
तेऽश्नुवाते सर्वकामान् ब्रह्मणा सह शाश्वतान् । एवं ते प्राप्तवत्यौ वै धाम श्रीपरमात्मनः ।। ९५।।
यश्चात्र धर्मवान् भक्तिमाँश्च स्यात्परमेश्वरे । भुक्तिं मुक्तिं स चासाद्य मोदते ब्रह्मणा सह ।।९६ ।।
प्रेयसीं श्रेयसीं प्राप्य मोदतेऽक्षरधामनि । श्रोता वक्ताऽस्य लभते पूर्णं व्रतफलं प्रिये ।। ९७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मभक्त्योर्मानसीपुत्र्योः प्रेयसी-श्रेयस्योः पितृसेवा, मासमध्यमायास्तिथेर्व्रतेनाऽक्षरधाम्नि श्रीपुरुषोत्तमप्राप्तिः, भुक्तिमुक्तिरिति ख्यातिश्चेत्यादि-निरूपणनामा सप्ताधिकत्रिशत-तमोऽध्यायः ।। १.३०७।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! ब्रह्मविष्णुमहेशजनकस्य वै । वैराजपुरुषस्यापि वैराज्ञ्याप्तिर्व्रताद्यथा ।। १ ।।
प्राकृतपुरुषस्याऽस्ति पुत्रः प्रधानपूरुषः । तस्य हिरण्यगर्भाख्यो महाविष्णुः सुतोऽस्ति वै ।। २ ।।
ततो विराडजायत वैराजो वेधसः पिता । तस्यायुः शतवर्षं वै तस्यैव वर्षसंख्यया ।। ३ ।।
यदा पूर्णं भवत्येव तस्यास्ति निधनं ततः । वैराजोऽन्यश्च तत्पश्चाद् वैराज्यं प्रतिपद्यते ।। ४ ।।
एवं वै क्रमशः सृष्टौ वैराजानामसंख्यता । पारम्पर्यप्रवाहेण महाविष्णोर्दिने दिने ।। ५ ।।
एकैकस्य विनाशोऽस्ति वैराजस्येश्वरस्य वै । महाविष्णोर्वर्षमध्ये पञ्चषष्ट्यधित्रिंशतम् ।। ६ ।।
वैराजानां भवंत्येव क्रमेण शतवर्षके । षटत्रिंशत्तु सहस्राणि तथा पञ्चशतानि वै ।। ७ ।।
वैराजानां भवन्त्येव तत्सर्वं वेद्म्यहं प्रिये! । अस्य वै वर्तमानस्य वैराजस्य कथां शृणु ।। ८ ।।
महाविष्णोस्तु साम्राज्ये ऐश्वरीसृष्टिके स्तरे । अष्टावरणपारे वै त्वस्मात्पूर्वो विराट् पुमान् ।। ९ ।।
स्वस्याऽन्तिमस्य वर्षस्याऽन्तिमाह्नस्त्वन्तिमक्षणे । वर्तमानेऽन्तिमवेधोब्रह्माण्डेऽस्तमनक्षणे ।। १० ।।
सम्राडासीत्सहस्राक्षाऽभिधश्चक्रप्रवर्तकः । भक्तिमान् स सहस्राक्षः सत्ये पातालके भुवि ।। ११ ।।
विमानेन सदा याति शृणोति व्योमतन्तुना । स्वच्छद्रव्येण संचष्टे स्पृशति क्षिप्रवायुना ।। १ २ ।।
क्षणेन सर्वलोकानां व्यवहारं करोति च । सर्वसाधनयुक्तस्य गन्तव्यं नाऽवशिष्यते ।। १३ ।।
स्थित्वैकत्र गृहे तस्य प्रजाश्चतुर्दिशास्थिताः । व्यवहरन्तीव निकषा विदन्ति करगं यथा ।। १४।।
सहस्राक्षः स्वयं - सत्यलोके संसदि वेधसः । यात्यायाति यथाकालं पूरितायां महाजनैः ।। १५।।
दिक्पालैर्मनुभिश्चापि सूर्येण शशिना तथा । ऋषिभिश्च महादेवैः सार्वभौमैर्नृपैस्तथा ।। १६।।
तत्रासनं स्वकीयं स न लेभे प्रथमे स्थले । इति वैषम्यदोषेण प्रेरितः स हृदन्तरे ।। १७।।
आहूय ब्रह्मविज्ञानान् पप्रच्छाऽभ्युदयं प्रति । पारमेष्ठ्यादधिकं चोत्तमं स्थानं मिलेत् कथम् ।। १८ ।।
विप्रा विज्ञापयामासुस्तमध्वरवरान् कुरु । अग्निष्टोमं वाजपेयं राजसूयं च वैष्णवम् ।। १९ ।।
महारौद्रं नरमेधं वाजिमेधं वृषक्रतुम् । सौत्रामणिं सुतेष्टिं च वह्निहोत्रं जपादिकम् ।। २० ।।
एतान् यज्ञान् महारंभान् शतसंवत्सरान् कुरु । तेन पुण्येन ते राजन् पारमेष्ठ्योत्तरं पदम् ।। २१ ।।
भविष्यति ध्रुवं राज्यं स्थानं कारय तान्मखान् । शते पूर्णे त्विन्द्रपदं सहस्रे तु रवेः स्थलम् ।। २२।।
ध्रुवराज्यमयुते तु लक्षे तु वेधसः स्थलम् । कोटियज्ञेषु पूर्णेषु शतास्यब्रह्मणः पदम् ।। २३ ।।
यज्ञपरार्धे सम्पूर्णे वैराजपदमाप्यते । न तथाऽऽयुश्च समयः कस्याऽप्यत्र तु गोलके ।। २ ४।।
तस्माद् राजँस्तेन दत्तं भुञ्जीथा भव शान्तिमान् । तृष्णायास्तु पिशाचिन्या अन्तो भोगेन नाप्यते ।। २५ ।।
अत्रैवाप्तान् प्रभोगाँश्च संप्राऽनुभूय सर्वथा । रागद्वेषौ महादोषौ क्षपयित्वा हितं कुरु ।। २६।।
श्रेयं मत्तो महानस्ति लक्ष्म्या बुद्ध्या जनैश्च वा । इति चिन्तयितुर्नैव सुखप्राप्तिर्भवेत् क्वचित् ।।२७।।।
अहमस्मि महानात्माऽऽनन्देन पूरितो हरेः । इति मन्तुर्न वै दुःखं तृष्णादोषादिजं भवेत् ।।२८।
अन्येषामधिकं दृष्ट्वा दुःखं मन्तव्यमेव न । स्वोपार्जितेन यत्प्राप्तं तत् सुखं शान्तिदं मतम् ।।२९।
यदृच्छयोपपन्ने तु वस्तुनि तूद्यमार्जिते । अलंबुद्धिर्भवेद्यस्य स सदात्र सुखी भवेत् ।। ३०।
त्रैलोक्याऽहतशास्तिसाम्राज्यं तवास्ति वै दृढम् । यदि नाप्ता ततः शान्तिरधिकात् का भविष्यति ।।३ १।
अयं मम परश्चेति द्रष्टुर्नास्ति क्वचित् सुखम् । तारतम्यं तु सर्वत्र मायालोकेऽस्ति सर्वथा ।। ३२
प्रकृतौ विकृतौ कार्ये निरतिक्रमवर्जिते । नहि क्वापि परा शान्तिर्लब्धा केनापि भूपते ।।३३।
न कश्चिल्लप्स्यते शान्तिं यदि स्यात्प्रकृतेः पतिः । प्रधानस्य पतिर्वापि काऽन्यस्यात्र कथा नृप ।।३४।।
तस्माच्छान्तिं लभ राजन् मा तृष्णां वर्धय प्रभो । विरेमुश्चेति सन्दिश्य ब्राह्मणाः पारदर्शिनः ।।३५।।
सहस्राक्षस्तु कर्णौ तानदत्वैव मखान् बहून् । कारयामास विधिवत् प्रत्यब्दं तु महत्तमान् ।।३६।
एतैः पुण्यं शतब्रह्मार्जितं प्राप्तं च तेन वै । अथाऽऽयुषोऽन्तिमे वर्षेऽधिमासेऽपरपक्षके ।।।३७।
दिने प्रतिपदि प्रातर्हरेः शुश्राव दुन्दुभिम् । यज्ञेषु वर्तमानस्य सहस्राक्षस्य भूपतेः ।।३८।
पुरुषोत्तममासस्य दुन्दुभिः श्रवणं गतः । अधिमासे द्वितीये तु पक्षे वै प्रतिपद्गते ।। ३९।
कृष्णनारायणः सर्वेश्वरः श्रीपुरुषोत्तमः । यदिष्टं यस्य तद् दास्ये कोटिकल्पैरलभ्यकम् ।।४०।
कोटियज्ञैः कोटिदानैर्यदलभ्यं ददाम्यहम् । अत्र व्रते प्रकर्तव्यं राज्ञा दानं यथाबलम् ।।४१।
पूजनं मे प्रकर्तव्यं यथालब्धोपचारकैः । भोजनं मे च दातव्यं यथायोग्यान्नसद्रसैः ।।४२।
दक्षिणा मे प्रदातव्या यथाश्रद्धा तथा धनैः । परोपकारः कर्तव्यः पुरुषोत्तमतुष्टये ।।।४३।
यदि सम्राट् सार्वभौमश्चतुर्दशभुवां पतिः । यथाविभवं कृष्णं मां पूजयेदुत्तमोत्तमैः ।।४४।
प्रातः स्नानं स्वयं कृत्वा पञ्चरत्नजलेन माम् । सुगन्धसारवार्भिश्च दन्तशुद्धिं प्रकारयेत् ।।४५।
सुगन्धं मञ्जनं दद्यान्नूतनं दन्तधावनम्। सुगन्धजलगण्डूषैर्जिह्वाशुद्ध्यादि कारयेत् ।। ४६ ।।
पुष्परसाग्र्यसारैश्च सुगन्धिभिर्जलैश्च मे । शौचादि कारयेद् राजा हस्तशुद्ध्यादि कारयेत् ।।४७।
चन्दनाक्तसुमृद्भिश्चाऽवयवानां पवित्रताम् । सुगन्धवारिभिश्चाऽद्भिः कारयेत् स्नापयेत्ततः ।।४८।।
दुग्धेन दध्ना चाप्येकाक्षरेण मधुना तथा । शर्कराभिश्चामृतैश्च स्नापयेद् वारिभिस्ततः ।।४९ ।।
सुगन्धितैलसारैश्च मर्दनं कारयेन्नृपः । तीर्थवार्भिः स्नापयेच्च वस्त्रैश्च मार्जयेज्जलम् ।।५ ० ।।
अतिसूक्ष्मातिमूल्यैः सत्सुवर्णतारचन्द्रकैः । मृदुचित्रैश्चातिसूक्ष्मवस्त्रैर्मां शोभयेत् ततः ।।५ १ ।।
राज्यासनार्हसौवर्णैर्मुकुटैः कटकादिभिः । स्वर्णोर्मिका शृंखलाद्यैः कुण्डलैर्हारशेखरैः ।।५ २।।
कोट्यधिकैर्मणिरत्नैर्मौक्तिकैर्नद्धभूषणैः । पुष्परागप्रवालैश्च वैदूर्यैः सूर्यकान्तकैः ।।५ ३ ।।
चन्द्रकान्तैर्मारकतैर्माणिक्यैः स्फटिकैस्तथा । वज्रैर्गारुत्मतैर्मुक्ताभिश्च सत्पद्मरागकैः ।।५४।।
इन्द्रनीलैः पुष्पराजैः कर्केतनैश्च भीष्मकैः । पुलकैः रुधिरैः स्वर्णै राजतैर्भूषणैस्तथा ।।५५ ।।
सामुद्रिकैः खनिजैश्च वह्निजैः स्वर्भवैस्तथा । रत्नमालाविभूषाभिः पूजयेत्परमेश्वरम् ।।५६ ।।
ऊर्णावस्त्रोत्तमैश्चान्यैः कार्पासकैश्च कौशुकैः । वार्क्षैः सुवर्णजैश्चान्यैः रसजैस्त्वक्कृतैश्च वै ।।५७।।
वस्त्रैः संशोभयेत् कृष्णं तैलैः सुगन्धसारकैः । कज्जलैर्नवनीतैश्च मर्द्यद्रव्यैः सुगन्धकैः ।।५ ८।।
सगन्धं कारयेत् कृष्णं कस्तूरीचन्दनादिभिः । कर्पूरैः केसरैर्मिश्रैः पूजयेत् तिलकादिभिः ।।५ ९ ।।
कुंकुमाऽक्षतपुष्पैश्च स्वर्णचम्पककुन्दकैः । पारिजातस्थलपद्मैः कमलैस्तुलसीदलैः ।।६ ० ।।
कल्पपुष्पैः स्वर्णवल्लीकुसुमैः पूजयेत्प्रभुम् । स्वर्णाक्षतैर्वर्धयेच्च हारमालाः समर्पयेत्। ।।६ १ ।।
करपादतले गण्डौ कपोलौ कर्णसीमकौ । भुजौ जंघे नखानोष्ठौ रंगैः संरंजयेद्धरेः ।।६२।।
सुवर्णमणिरत्नादिनद्धोपानद्युतौ पदौ । नक्तकयष्टिकागुच्छशृंखलासहितौ करौ ।।६ ३ ।।
शोभयेत् तिलकं पीतं रक्तं चन्द्रं प्रकारयेत् । धूपं दीपं कारयेच्च भोजनं शतमष्ट च ।।६४।।
अम्ब्लं मधुरं लवणं कटु तिक्तं कषायकम् । यथारुचि यथापेक्षं स्वादु सुगन्धि चार्पयेत्। ।।६५।।
भक्ष्यं भोज्यं चोष्यलेह्ये पेयं चास्वाद्यमित्यपि । अन्नं शाकद्विदलाश्चौदनानि सुफलानि च ।।६६।।
पायसान्नं सुवर्णैः संस्कृतानि सद्रसानि च । अमृताढ्यानि मिष्टानि मृष्टानि दापयेन्नृपः ।।६७।।
मुखवासानि चूर्णानि ताम्बूलं चान्यचर्वणम् । उत्तेजकानि चान्यानि त्वर्पयेद्धरये नृपः ।। ६८ ।।
शीतलान्यपि पेयानि चूर्णितरसवन्ति च । मादकानि विविधानि त्वर्पयेद्धरये नृपः ।।६ ९।।
गायनानि तु राज्ञीभिस्तालवाद्यस्वरान्वितैः । नर्तनैर्हावभावाद्यव्यंग्यरसप्रपूरितैः ।।७० ।।
सखीभिः कारयेद्राजा वर्धयेद् बहुभावनैः । लाजाभिश्चन्दनकणैरक्षतैः स्वर्णतण्डुलैः ।।७ १ ।।
मणिरत्नादिभिर्देवं वर्धयेत्तु पुनः पुनः । जयकारान् कारयेच्च नीराजयेत्प्रगे निशि ।।७२ ।।
शतैः सहस्रकैर्वर्तिकर्पूरादिभिरादरात् । आकटि सप्त चावर्तान् सप्त त्वामस्तकं तथा ।।७३ ।।
ततः सप्ताऽऽवर्तकाँश्च प्रत्येकसप्तचक्रकान् । ततश्च सप्तलहरीरूर्ध्वाऽधःप्रसृताश्चरेत् ।।७४।।
व्यावर्तान्पादयोश्चैवाऽऽवर्तयेत् क्रमशो हरिम् । ततो वस्त्रेण चावर्तांस्त्रीन् हरिं समवर्तयेत् ।।७५ ।।
ततः शंखजलेनापि व्यावर्तानवतारयेत् । आरार्त्रिकं तज्जलेन त्रिवारं समवर्धयेत् ।।७६ ।।
धूपं ततस्त्रिवारं चावर्तयेत्परमेश्वरम् । घण्टावादनमन्येषां वाद्यानां चापि वादनम् ।।७७।।
दुन्दुभिझल्लरीघण्टापटहानतिवादयेत् । ततः स्तुतिं नमस्कारं दण्डवत् प्रार्थनां चरेत् ।।७८ ।।
प्रदक्षिणादिकं कृत्वा पुष्पाञ्जलिमथार्पयेत् । एवं प्रातश्च मध्याह्ने निशि सम्राट् प्रपूजयेत् ।।७९ ।।
शृंगारयित्वा सत्सैन्यं विमाने च गजे रथे । स्थापयित्वा राजधान्युद्यानादौ भ्रामयेद्धरिम् ।।८ ० ।।
जनता वर्धयेत् कृष्णनारायणं पुमुत्तमम् । पुनस्त्वानीय च राजसौधं जलादि चार्पयेत् ।।८ १ ।।
विश्रामयेत् पादसंवाहनाद्यं वर्तयेन्नृपः । भगवत्तोषणार्थे च भूरिदानानि वै ददेत् ।।।८२ ।।
हस्तिदानं वाजिदानं चोष्ट्रघोटकदानकम् । वृषभाऽजप्रदानं च गोगरुडप्रदानकम् ।।८ ३ ।।
शुकदानं सारिकाया मेनाया दानमित्यपि । नराणां दासदासीनां कन्यानां दानमित्यपि ।।८४।।
यानानां वाहनानां च पशूनां दानमित्यपि । कम्बलाम्बरवेषाद्युत्कृष्टवस्तूनि दापयेत् ।।८५ ।।
भवनानि नगराणि क्षेत्राणि पर्वतांस्तथा । सरोवराणि खनिजान् खनींश्चारण्यकानि च ।।८६।।
दद्याद् दाने द्विजातिभ्योऽनाथेभ्योऽन्नाम्बराणि च । वृक्षान् वल्लीः प्रदद्याच्च क्षेत्राणि वाटिकास्तथा ।।८७।।
दद्यान्नदीर्नदाँश्चैवाऽखातान् स्वर्गं महस्तपः । सत्यं लोकं प्रदद्याच्च पातालान्ततलानि च ।।८८।।
देशं प्रदेशं खण्डं च राज्यं द्वीपं च दापयेत् । दाता ब्रह्माण्डनेता चेद् ग्रहीताऽपि तथा भवेत् ।।८९ ।।
मिलेन्नैव ग्रहीता चेत् संकल्प्य हरये ददेत् । विश्वंभरो विश्वपोष्टा विश्वरक्षाकरः प्रभुः ।।९० ।।
गृह्णात्येव न सन्देहो भावनाक्षुधितो हरिः । साम्राज्यमुकुटं दद्याद् दद्याद् राज्ञीं सुतास्तथा ।।९ १ ।।
सर्वे दद्याच्छर्मदाय कृष्णाय परमात्मने । कोशं सैन्यानि राष्ट्राणि दद्याच्छ्रीकेशवाय वै ।। ९२।।
यथाश्रद्धं प्रदद्याच्च सकामायाऽधिकारिणे । सत्पात्राय प्रदद्याच्च नारीभ्योऽपि ददेद् बहु ।। ९३ ।।
बालाभ्यो विधवाभ्यश्च साध्वीभ्यो जीविकां ददेत् । सतीभ्यो योगिनीभ्यश्च रंकाभ्यो भोजनं ददेत् ।।९४।।
सन्तर्पयेद् यज्ञभागैस्त्रिलोकसुरमानवान् । काश्यपान् प्राणिनः सर्वांस्तोषयेदन्नवारिभिः ।।९५ ।।
एतत्सर्वं प्रदद्याद्वा दद्यादेकं च वा नृपः । वित्तशाठ्यं न चेत् कुर्याद् दद्याच्च श्रद्धया यदि ।।९६।।
कांस्यपात्रपुटदानं सुवर्णपुटदानकम् । अष्टावरणसंयुक्तं चतुर्दशदलान्तरम् ।।९७।।
सुवर्णरत्नसंव्याप्तं पुटं दद्यात्पुटानि च । तत्फलं सर्वथा कृष्णनारायणो यथेष्टकम् ।। ९८ ।।
ददाति मास्यधिके वै शाश्वतं बहुतृप्तिदम् । सकामं चापि निष्कामं दास्यामि पुरुषोत्तमः ।। ९९।।
कुर्वन्तु दानं वितरन्तु लक्ष्मीं क्षिपन्तु पात्रे भगवत्प्रबुद्ध्या ।
श्रीकृष्णनारायण एव दाता वैराजकं चापि ददामि राज्यम्।। १०० ।।
इत्येवं दुन्दुभिर्वक्ति मासि श्रीपुरुषोत्तमे । सहस्राक्षः शृणोत्येव श्रीदं तं प्रतिपत्तिथौ ।। १०१ ।।
प्रातरेव तु राजाऽसौ कृष्णनारायणं प्रभुम् । श्रुत्वा तं दुन्दुभिं नत्वाऽपूजयच्छुद्धिमान्नृपः ।। १० २।।
दुन्दुभिना यथाप्रोक्तं राज्ञः श्रद्धा च यादृशी । तथा राज्ञा कृतं सर्वं पूजनं सविसर्जनम् ।। १ ०३।।
अथ दानं ददौ प्रातः पत्नीव्रतद्विजन्मने । आहूय ब्रह्मणः सत्ये लोके संसदि तं द्विजम् ।। १०४।।
ब्राह्ममूर्ते! द्विजश्रेष्ठ! त्वमेव पुरुषोत्तमः । अधिमासाधिदैवात्मन्! फलदाताऽसि मूर्तिमान् ।। १ ०५।।
अहं वै दुन्दुभिं श्रुत्वा करोम्यद्य दिने व्रतम् । वैराजपदलब्ध्यर्थं दानं गृहाण सार्थकम् ।। १ ०६।।
चतुर्दशभुवनानां राजाऽस्मि च ददाम्यहम् । स्वर्णदीजलसाक्ष्येऽत्र वेधसः संसदि द्विज ।। १ ०७।।
चतुर्दशभुवनानि ददामि फललब्धये । दत्तानि च गृहीतानि प्रत्युवाच द्विजोत्तमः ।। १ ०८।।
तावत्पत्नीव्रतरूपे भगवान् पुरुषोत्तमः । प्राविर्बभूव सहसा कोटिभास्करकान्तिमान् ।। १ ०९।।
प्रहसंस्तं सहस्राक्षं प्रोवाच पुरुषोत्तमः । दानं प्राप्तं मया राजन् द्विजरूपेण सर्वथा ।। ११ ०।।
मया दत्तं फलं तस्य ते वैराजपदं ध्रुवम् । आयुषोऽन्ते तु लब्धाऽसि वैराजं पदमैश्वरम् ।। ११ १।।
इति कृत्वा प्रसादं तं नृपं प्रदर्श्य विग्रहम् । तिरोबभूव सहसा स्पृशन् मूर्ध्नि नृपस्य सः ।। १ १२।।
राज्ञा व्रतं तथा पूजां सर्वं वै श्रद्धया कृतम् । ददौ ब्रह्माण्डदानं स यत्र किञ्चिन्न शिष्यते ।। १ १३।।
स्वयं दासोऽभवत्तस्य किंकरो ब्राह्मणस्य वै । वर्षान्तः पूर्णतां प्राप्तः सहस्राक्षः समाधिना ।। १ १४।।
पश्यति स्वकृते चाग्रे वैराजं पदमस्ति यत् । पूर्ववैराजविगमे नैकट्ये दृश्यते हि तत् ।। १ १५।।
इत्येवं वर्तमानेन राज्ञा तेन महात्मना । क्रमयोगाद् दैवयोगात् त्यक्तं देहं नृपात्मकम् ।। १ १६।।
सहस्राक्षशरीरं च विहायेमं तु गोलकम् । दिव्यमार्गे ययौ चेशसृष्टौ यत्रास्ति तत्स्थलम् ।। १ १७।।
प्राप्तवान् स सहस्राक्षो वैराजं पदमैश्वरम् । योऽद्यास्ति नाभिकमलः पिता वै वेधसः प्रभुः ।। १ १८।।
सोऽयं वैराजसाम्राज्यं प्राप्तवान् प्रतिपद्व्रतात् । भूम्ना हैरण्यगर्भेण तथाऽन्यैरीश्वरैरपि ।। १ १९।।
तत्राभिषिक्तो राजा सः योऽसौ नारायणोऽभवत् । यत्कमलेऽभवद् ब्रह्मा यल्ललाटाच्छिवापतिः ।। १ २०।।
यस्य वै हृदयाद्विष्णुर्यस्योदरे त्विदं जगत् । सोऽयं व्रतप्रभावेण सहस्राक्षो नृपः खलु ।। १ २१।।
पुरुषोत्तमसद्भक्त्या जातो नारायणो विराट् । एवं त्वधिकमासस्य मध्योऽर्ध्वप्रतिपद्दिने ।। १ २२।।
व्रतपूजनदानेन फलं ते कथितं प्रिये । प्रसन्नः श्रीहरिस्तत्र किं न ददाति पद्मजे ।। १२३।।
अस्य श्रावयिता चापि पाठकर्तापि तादृशम् । फलं संलप्स्यते लक्ष्मि! वदामि पुरुषोत्तमः ।। १२४।।
नास्तिकश्चाऽश्रद्दधानो मृषावादी प्रदूषकः । न प्रसादं फलं वापि लभते मम निन्दकः । । १२५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सार्वभौमेन सहस्राक्ष-नामकराज्ञा सहस्रेषु यज्ञेषु कृतेषु ततोऽधिकमासोत्तर-पक्षीयप्रतिपद्व्रतदानादिना प्राप्तं वैराजनारायण-पदमित्यादिनिरूपणनामाऽष्टाधिकत्रिशत-तमोऽध्यायः ।। १.३०८ ।।
श्रीनारायण उवाच--
शृणु लक्ष्मि! कथां दिव्यां प्राक्सम्पन्नां मनोहराम् । अस्मात्तु ब्रह्मणः पूर्वो ब्रह्मा वर्षशतोत्तरम् । । १ ।।
निधनोन्मुखतां प्राप्तस्तदानीं ब्रह्मगोलके । अन्तिमेऽजक्षणे राजा पृथ्व्यां सर्वहुताभिधः ।। २ ।।
बभूव भगवद्भक्तो मम पूजापरायणः । मदर्थे कृतसर्वस्वो मदर्थे न्यस्तमानसः ।। ३ ।।
मम कण्ठीं मम मालां ममैव तिलकं शुभम् । दधार बुभुजे चान्नं मे प्रसादात्मपावनम् ।। ४ ।।
चातुर्मास्ये व्रतं तेन गृहीतं बहुदायिता । सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपभूमिषु ।। ५ ।।
यत्र यत्राऽभवत् स्वस्य राज्यं सर्वत्र तत्र च । ममान्नं वै प्रदातव्यं जलं पातव्यमेव मे ।। ६ ।।
यावत्तृप्तिर्भिक्षुवर्गैरदनीयं ममैव ह । ब्राह्मणैर्मम भोक्तव्यं क्षत्रियर्षिभिरित्यपि ।। ७ ।।
वैश्यर्षिभिस्तथा शूद्रैर्भक्तिकृद्भिर्ममान्नकम् । भोक्तव्यं सर्वथा ब्रह्मचारिभिर्वनवासिभिः ।। ८ ।।
यतिभिः साधुभिस्त्यागिजनैः साध्वीभिरित्यपि । अनाथैश्चातिथिप्रख्यैर्याज्ञिकैर्देवपूजकैः ।। ९ ।।
अन्नार्थिभिः कदर्यैश्च किंकरैर्वृत्तिवर्जितैः । ममान्नमेव भोक्तव्यं जलं पातव्यमेव मे ।। १० ।।
वस्त्राणि मम धार्याणि नान्यग्राह्यं तु कैरपि । तदर्थं च मया राज्ये प्रतिस्थलं क्षणे क्षणे ।। ११ ।।
अन्नसत्राणि वस्त्राणि प्रपावारीणि सर्वथा। संस्थापितानि सेवास्था नियुक्ताश्च प्रतिस्थलम् ।। १२।।
क्षुधितोऽन्नस्य पात्रं स्यात् तृषितो जलपात्रकम् । नग्नस्त्वम्बरपात्रं स्याद् ग्राह्यं तेन मुदा मम ।। १३ ।।
कदर्ये हृदयं यस्य यस्य तृष्णाऽस्ति मानसे । सोऽपि तृष्णादिनाशार्थं गृह्णात्वन्नं जलं मम ।। १४।।
इत्येवं घोषितं तेन कुड्यफलकलेखितम् । चातुर्मास्ये ममान्नं वै फलं वारि तथाऽम्बरम् ।। १५।।
ग्रहणीयं पुष्कलं नाऽन्यग्राह्यं धर्मभिक्षुकैः । इत्येवं वर्तमानस्य सर्वहुतस्य भूभृतः ।। १ ६।।
अग्निहोत्रेऽन्ययज्ञे च यत्किञ्चिद्धामिकं मतम् । देवानां पूजने वस्तुप्रदानं चापि तस्य वै ।। १७।।
विद्यार्थिनां च विद्याया दाने व्ययो गवां तृणे । श्वप्रभृतिग्राम्यपशुपक्षिणां च कणान्नकम् ।। १८ ।।
जलं वस्त्रं तथा चान्यद् यथापेक्षं सुवस्तुकम् । आसीत् सर्वहुतस्यैवाऽतिथीनां तृप्तिकृत्तथा ।। १९ ।।
ग्रामेषु खेटेषु जनस्थलेषु क्षेत्रेषु घोषेषु नदीतटेषु । वनेष्वरण्येषु च पर्वतेषु द्वीपेषु वार्धौ रणनिर्जनेषु ।।२ ० ।।
उपत्यकायां नगरेषु राज्यविश्रान्तिभूमौ च करस्थलीषु । सर्वत्र वै सर्वहुतस्य राज्ञोऽभवन् सुसत्राणि सुदानकानि ।। २ १ ।।
ग्रामान्तराणां युगमार्गसन्धौ वनान्तराणां सृतिमूलयोगे । नदीनदानां तरणार्थभूमौ कृतानि सत्राणि तु तेन राज्ञा ।। २२ ।।
सीमान्तरेषु प्रखनिस्थलेषु यानस्य मार्गेषु दिगन्तरेषु । तीर्थेषु यात्रालुगतागतेषु स्थलेषु सत्राणि हुतस्य राज्ञः ।।२३ ।।
देवानां पूजने नाम प्रोच्यते सर्वतो दिशि । प्रातः सायं च मध्याह्ने तस्य सर्वहुतस्य वै ।। २४।।
सत्ये तपसि तस्यैव जने महरि स्वर्गके । भुवि चाप्यथ पातालेष्वस्य कीर्तिर्हि गीयते ।। २५ ।।
देवाश्च ऋषयश्चापि दैत्याश्चान्येऽपि देहिनः । सर्वहुतं लोकितुं वै ययुर्हंसादिरूपिणः ।। २६।।
आश्चर्यं परमं प्रापुर्दृष्ट्वा पुण्योज्ज्वलं नृपम् । अतितेजोमण्डलाढ्यमुखमण्डलशोभितम् ।। २७।।
दूरे चातिप्रतेजस्काः सर्वे शुशुभिरे सुराः । किन्तु तन्निकटे गत्वा निस्तेजस्का बभूविरे ।। २८ ।।
इति पुण्यप्रतापोऽसौ सर्वहुताऽर्थसार्थकः । अग्निप्रख्योऽभवद्भक्तो देवगर्वहरो नृपः ।। २९ ।।
देवैः सम्मानितः सर्वैरिन्द्रार्धासनयोजितः । दिक्पालैः पूजितः सोऽपि विस्मयं नाप वै मनाक् ।। ३० ।।
रागशून्यस्य तस्यैव पत्न्यासीत् पतिसेविनी। औदार्यगुणसम्पन्ना नाम्ना वै गोऋतम्भरा ।।३ १ ।।
देवीभ्योऽप्यतिरूपाढ्या कायाकल्पातिसुन्दरी । कामरूपा कामभोगा कामकाराऽतिसात्त्विकी ।।३२।।
देवीषु तिष्ठते पश्चाद् देवदेवीसमाजके । सलज्जाऽवाङ्मुखी तत्र भवति क्षणमान्तरे ।। ३३।।
तया स्वस्वामिने प्रोक्तं मया पश्चान्निषद्यते । यथापूर्वं तूत्तमे ह्यासने तिष्ठामि तत्कुरु ।।३४।।
इन्द्राणी वारुणी सौर्या चान्द्रद्यो वाऽन्यसुरस्त्रियः । प्रणमेयुश्च मां स्वामिन् यथा तत्कुरु भूपते ।।३५।।
राजा प्राह सतीं राज्ञीं मानुषी भवसि प्रिये । तत्रापि देवसंघेऽस्मद्वासोऽस्त्यतिमहत्तमः ।।।३६।।
मा तृष्णां कुरु कल्याणि मानुषे तु न तद्भवेत् । तथापि पुण्यबाहुल्ये कदाचित् तद्विभाव्यते ।। ३७।।
करिष्ये स्तवनं यत्नं नारायणसमीपतः । प्राप्ते योगे तथा स्याद्वै तृष्णाशान्तिस्तथापि न ।।३८।।
नित्यं राज्ञी नृपं काले प्रस्मारयति तद्वचः । राजाऽपि समयं प्राप्तं तदर्थं वै प्रतीक्षते ।।३९।।
एकदाऽधिकमासस्य द्वितीयायां प्रगेऽसिते । स्नात्वा देवप्रपूजायां तिष्ठते तावदेव वै ।।४०।।
श्रुतवान् दुन्दुभिं रम्यं घोषयन्तं हरेर्वचः । शुश्राव सर्वहुतस्य राज्ञ्यपि गोऋतम्भरा ।।४१।।
उभौ स्थैर्येण तच्छब्दमानसौ संबभूवतुः । शुश्रुवाते दुन्दुभेस्तु घोषणां हृदयंगमाम् ।।४२।।
अधिमासद्वितीयायां व्रतं कुर्वन्ति ये जनाः । तेषामभीष्टदाताऽहं मासः श्रीपुरुषोत्तमः ।।४३।।
एकभुक्तं च वा नक्तं फलभुक्तिर्जलाशनम् । वाय्वाशनं च वा कृत्वा करिष्यन्ति व्रतं तु ये ।।४४।।
तेभ्यो दास्ये सुतदाराधनसम्पद्गृहादिकान् । यानवाहनहस्त्यादीन् वारीक्षेत्रधरादिकान् ।।४५।।
खण्डं द्वीपं च सामुद्रं भौमं राज्यं भूमण्डलम् । स्वर्गं जनं तपः सत्यं चैन्द्रं सौर्यं च चान्द्रकम् ।।४६।।
साम्राज्यं चातलं पातालकं चापि रसातलम् । दास्ये चतुर्दशलोकाधिपत्यं पारमेष्ठ्यकम् ।।४७।।
वारुणं वाह्निकं चैशं याम्यं तथा च पावनम् । कौबेरं नैर्ऋतं चापि दिक्पालत्वं महत्पदम् ।।४८।।
लोकपालपदं दास्ये वासवं ग्रहमण्डलम् । नैधेयं चापि रौद्रं च मारुतं नाकपृष्ठकम् ।।४९।।
सिद्धीरष्टविधा दास्ये गुणं ब्रह्माण्डसर्जनम्। रक्षणं पालनं दास्ये सामर्थ्यं व्रतिने तु मे ।।५० ।।
अधिमासस्य देवोऽहं श्रीकृष्णः पुरुषोत्तमः । स्वल्पेऽपि मत्कृते कृच्छ्रे फलं दास्ये त्वनन्तकम् ।।५ १ ।।
ददामि नाऽन्यमासे यत् तद्ददाम्यत्र पुष्कलम् । अत्राहं कृपया दाता दातास्मि स्वेच्छया खलु ।।५२।।
मद्वचोधारयत्यद्धा मूर्ध्ना तस्मै ददाम्यहम् । उपायनं तथा पारितोषिकं वा स्वनुग्रहम् ।।५३ ।।
नात्र विनिमयो न्यायो न्यायस्त्वत्र कृपा मम । कृपयाऽहं स्वयं स्वामी वितरामि त्वशेषकम् ।।५४।।
कोटिगुणं वितरामि वितरामि त्वनन्तकम् । यथासंकल्पितं तस्माद् गृह्णन्तु पुरुषोत्तमात् ।।५५ ।।
इति शुश्रुषतुः सर्वहुतश्च गोऋतम्भरा । तौ नत्वा दुन्दुभिं पुष्पैः पूजयामासतुस्तदा ।।५६ ।।
दुन्दुभिस्तु गतोऽन्यत्र दम्पती दध्यतुः प्रभुम् । स्वेष्टलाभस्तथा कुत्र प्राप्स्यते चेति दध्यतुः ।।५७।।
सर्वहुतस्तदा राज्ञीं सम्प्राह गोऋतंभराम् । श्रुतं देवि द्वितीयाया व्रतेनेष्टमवाप्यते ।।५८ ।।
तवास्ति मानसं पूज्यस्थाने स्थातुं महत्तमे । चतुर्दशस्तरस्थानां सर्वासां सुरयोषिताम् ।।५९ ।।
तत्प्राप्त्यर्थं व्रतं कार्यमावाभ्यां फलदं भवेत् । दुन्दुभिना तदुक्तं वै स्वल्पेऽपि बहुलं फलम् ।।६ ० ।।
अहं ब्रह्मा भविष्यामि भव त्वं सहचारिणी । ब्रह्माणी मम पत्नी च माता वै सुरयोषिताम् ।।६ १ ।।
तथा सति तवेहा तु प्रपूर्णार्था भविष्यति । कृष्णनारायणो देवो फलं व्रतस्य दास्यति ।।६२।।
एवं कृत्वा तु संकल्पं व्रतं चक्रतुरादरात् । प्रातः स्नात्वा हरिं ध्यात्वा कारयित्वा तु कानकीम् ।।६३ ।।
मूर्तिं तत्राऽधिकदेवं श्रीकृष्णं पुरुषोत्तमम् । आवाह्याचमनं दत्वाऽऽसनं पाद्यं समर्प्य च ।।६४।।
तस्मै त्वाचमनं तीर्थजलस्य ददतुश्च तौ । दुग्धेन पिच्छलदध्ना घृतेन मधुना तथा ।।६५।।
शकर्राभिश्च संस्नाप्य कारयामासतुस्ततः । शुद्धजलैः सुगन्धैश्चाप्लवनं चन्दनान्वितैः ।।६६।।
मार्जयामासतुर्वस्त्रैः शोभयामासतुर्हरिम् । सुवर्णाऽम्बरभूषाभिर्मणिरत्नोत्तमादिभिः ।।६७।।
हारैश्चन्दनगन्धैश्च द्रवैः सारद्रवैस्तथा । कज्जलैस्तैलसारैश्च पुष्पैः कुंकुमतण्डुलैः ।।६८ ।।
पूजयामासतुः कृष्णं किरीटकटकादिभिः । सद्रत्नमणिहाराद्यैश्छत्रचामरयष्टिभिः ।।६९।।
धूपदीपसुनैवेद्यफलताम्बूलचूर्णकैः । कारयामासतुस्तृप्तिं श्रीहरिं पुरुषोत्तमम् ।।७०।।
जलं दत्वा सवाद्यं तौ नीराजनं प्रचक्रतुः । प्रदक्षिणां स्तुतिं नमस्कारांश्चक्रतुरादरात् ।।७१ ।।
प्रार्थयामासतुर्देवं व्रतेनानेन केशव । प्रसन्नो भव विश्वात्मन् गृहाणाऽर्घ्यं फलादिकम् ।।७२।।
इति कृत्वा ददतुस्तौ फलार्थं ससुवर्णकम् । पुष्पांजलिं ददतुश्च चक्रतुः सेवनं ततः ।।७३।।
मध्याह्नेऽपि तथा चोभौ चक्रतुः पूजनादिकम् । सायं प्रपूज्य देवेशं कृत्वा त्वारार्त्रिक निशि ।।७४।।
चक्रतुर्जागरं वाद्यनृत्यकीर्तनसूत्सवम् । दानं कृष्णाय ददतुः सिंहासनं तु कानकम् ।।७५।।
छत्रचामरवेत्रादिशोभितं बहुलोज्ज्वलम् । मणिरत्नसुमौक्तिकदामभूषाविराजितम् ।।७६।।
भवनं चापि ददतुश्चतुर्दशप्रभूमिकम् । सौवर्णकूप्यवस्त्वाढ्योपस्कराद्यभिराजितम् ।।७७।।
शय्यास्तरणभोज्यादिभागभुवनशोभितम् । पुण्यसारगृहं यत्र यत्राग्निहोत्रसद्गृहम् ।।७८।।
पितृतर्पणभवनं यत्रास्ति दानसद्गृहम् । मणिरत्नादि पूर्णं च यत्र कोशगृहं त्वपि ।।७९।।
यानवाहनपूर्णं च गृहं चिदचिदात्मकम् । दासदासीवनोद्यान नदीनद समन्वितम् ।।८०।।
गृहं यत्रास्ति भूमौ च विश्रान्तिगृहमित्यपि । सुरतस्य गृहं चैव भोजनस्य गृहं तथा ।।८१ ।।
स्नानागारं तथा गुप्तपातालादि सुसम्पदम् । गृहं यत्रास्ति कल्पानां द्रुमाणां च गवां गृहम् ।।८ २।।
एवमादीनि सर्वाणि भवनानि च यत्र वै । वर्तन्ते तन्महत्सौधं सप्राकारं सुशोभितम् ।।८३।।
ददतुस्तौ कृष्णनारायणायाऽर्पणमेव हि । तावत्तत्र समायातः श्रीकृष्णः पुरुषोत्तमः ।।८४।।
प्रोवाच तौ प्रसन्नोऽस्मि दानेन च व्रतेन च । ददाम्येषः कृपां कृत्वा वृणुत वरदानकम् ।।८५।।
दम्पती प्राहतुस्तत्र पारमेष्ठ्यं पदं प्रभो । देहि पश्चात्तवधामाऽक्षरं मोक्षं च शाश्वतम् ।।८६।।
तथास्त्विति हरिः प्राह तथाऽऽह गोऋतम्भराम् । भाविनि पुष्करे तीर्थे पृथ्व्यां वै क्षत्रियो नृपः ।।८७।।
आभीराणां च गोपानां पुष्करारण्यवासिनाम् । नृपो भविष्यति नाम्ना गायत्रो वै विराट्सुतः ।।८८।।
तस्य भार्या ऋषीनाम्नी राज्ञी पुष्करपुत्रिका । भविष्यति तयोः पुत्री आर्षिनाम्नी सुकन्यका ।।८९।।
सेयं त्वं भाविनी गोपी गोमती गोऋतम्भरा । गायत्री गोकुलसेवाकर्त्री तत्र भविष्यसि ।।९०।।
अयं राजा सर्वहुतस्तत्र ब्रह्मा भविष्यति । आद्ये युगे च यज्ञार्थे पुष्करे स गमिष्यति ।।९१ ।।
सुरर्षिमुनिपित्राद्यैर्मानवैस्तलवासिभिः । चतुरशीतिलक्षात्मदेहिभिः सह विश्वसृट् ।।९२।।
यज्ञं करिष्यति त्वाद्यं प्रवृत्त्यर्थं जगत्त्रये । तत्राग्निषु प्रोद्धृतेषु दीक्षाकाले ह्युपागते ।।९३।।
अध्वर्युणा तदाऽऽहूता सावित्री दीर्घसूत्रिणी । सज्जी भूत्वा यज्ञभूमौ तत्काले नाऽऽगमिष्यति ।।९४।।
ब्रह्मा शक्रं समाहूय कथयिष्यति कालिकम् । पत्नीं त्वन्यां मदर्थे तु शीघ्रं शक्र समानय ।।९५।।
यथा प्रवर्तते यज्ञः कालहीनो न जायते । तथा शीघ्रं विधेहि त्वं नारीं पत्न्यर्थमानय ।।९६।।
एवमुक्तस्तथा शक्रो गायत्रराजकन्यकाम् । यज्ञभूमिविलोकायाऽऽगतां त्वां स हि नेष्यति ।।९७।।
आर्षिणीं कन्यकां रम्यां गायत्रीं नवयौवनाम् । गान्धर्वेण विवाहेन ग्रहीष्यति स विश्वसृट् ।।९८।।
प्रारप्स्यते ततो होत्रं ब्राह्मणैर्वेदपारर्गेः । यज्ञो दिनसहस्रं वै पुष्करे स भविष्यति ।।९९।।
तत आरभ्य गायत्री ब्रह्माणी त्वं भविष्यसि । लोकमाता वेदमाता सृष्टिमाता भविष्यसि ।। १० ०।।
सर्वपूज्या सर्वमान्या द्विजजाप्या भविष्यसि । ब्रह्मदात्री ब्रह्मवधूर्भविष्यसि ऋतम्भरे ।। १०१ ।।
अयं सर्वहुतो ब्रह्मा त्वं गायत्री च दम्पती । द्वितीयाया व्रतेनैव कृपया मे भविष्यथः ।। १ ०२।।
शतवर्षोत्तरं धामाऽक्षरं मे प्राप्स्यथो ध्रुवम् । महानगरतुल्यस्य सौधस्य दानकर्मणा ।। १ ०३।।
ब्रह्माण्डाख्यं गृहं राज्यं दास्ये स्मृद्धं परात्परम् । इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् ।। १ ०४।।
पूर्वजस्य ब्रह्मणोऽपि लये जातेऽथ दम्पती । पारमेष्ठ्यं पदं श्रेष्ठं प्रापतुः शाश्वतं चिरम् ।। १ ०५।।
एवं सर्वहुतो राजा तत्पत्नी गोऋतम्भरा । सञ्जातौ दंपती ब्रह्मा गायत्री पितरौ सृजेः ।। १ ०६।।
इति ते कथितं लक्ष्मि! प्राक्सृष्टीयमुदन्तकम् । पुरुषोत्तममासस्य द्वितीयायास्तु सद्व्रतम् ।। १०७।।
पारमेष्ठ्यपददातृ श्रोतुर्वक्तुस्तथा फलम् । भविष्यति न सन्देहो वक्ति श्रीपुरुषोत्तमः ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सर्वहुतराज्ञा गोऋतम्भराराज्ञ्या च द्वितीयपक्षद्वितीयाव्रतेन नगरसमभवन-दानादिना पूजनादिना च पारमेष्ठ्यपदे ब्रह्मणोऽव-तारो गायत्र्यवतारश्च प्राप्तं इत्यादिनिरूपण-नामा नवाधिकत्रिशततमोऽध्यायः ।।१.३०९।।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! प्राक्कल्पस्य कथानकम् । सृष्ट्यारंभे भुवो भागे सम्राडासीज्जनाऽधिपः ।। १ ।।
नाम्ना ब्रह्मसविताख्यस्तस्य पत्नी पतिव्रता । पतिधर्मपरा भक्ता भूरिशृंगाभिधाऽभवत् ।। २ ।।
सेवते सा सदा कृष्णनारायणात्मकं पतिम् । दम्पती भगवद्भक्तौ गृहधर्मपरायणौ ।। ३ ।।
कुर्वन्तौ दानधर्मादि सेवयन्तौ गुरून् जनान् । वर्तयन्तौ हरेर्मार्गे विष्णुसेवापरायणौ ।। ४ ।।
अतिथीन् पूजयन्तौ च वृद्धेषु विनयान्वितौ । गवां सेवां प्रकुर्वन्तौ दयावन्तौ प्रजासु च ।। ५ ।।
दीनानां दुःखहन्तारौ निर्धनानां प्रपोषकौ । सतां सेवां प्रकुर्वन्तौ दुष्टानां तु नियामकौ ।। ६ ।।
आस्तां धर्मपरौ त्राणपरौ कष्टहरौ हि तौ । राजा ब्रह्मसवित्राख्यो नित्यं स्नात्वा नदीजले ।। ७ ।।
सन्ध्यां जपं तथा होमं स्वाध्यायं स्म करोति वै । अन्नदानं वस्त्रदानं द्रव्यदानं करोति च ।। ८ ।।
देवालयेषु देवानां दर्शनार्थं प्रगच्छति । नैवेद्यार्थे सुमिष्टान्नं फलाद्यर्पयति प्रधीः ।। ९ ।।
योग्ये तु समये पूजां कारयत्येव भावतः । भोजयत्यतिथीन् विप्रान् साधून् साध्वीर्यतीन् मुनीन् ।। १० ।।
ददाति दक्षिणां स्वर्णरूप्यात्मिकां सुतोषदाम् । अन्नसत्रेषु चान्नानि दापयत्यपि कोशतः ।। ११ ।।
दासदासीप्रवर्गाणां शृणोति प्रार्थनां मुहुः । अपेक्षितं प्रदत्वैव सुखयत्यतिधर्मवान् ।। १२।।
राज्ञी चापि तथा देवान् पूजयत्यनिशं गृहे । दर्शनार्थं च देवानां प्रयाति यानमन्तरा ।। १३।।
अनुपानच्चरणाभ्यां यात्रां करोति नित्यदा । जलं पत्रं फलं पुष्पं चन्दनं स्वर्णदक्षिणाम् ।। १४।।
देवाय गुरवे दत्वा समागच्छति तद्गृहम् । भोजयित्वा जनान् भुंक्ते सा नृपोऽत्ति तथोत्तरम् ।। १५।।
चातुर्मास्ये व्रतं राज्ञा गृहीतं घृतदीपकाः । दातव्या हरयेऽखण्डाः सर्वदेवालयेषु वै ।। १६।।
सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपकेषु च । यत्र यत्राऽभवन् देवालया राज्ये स्वके भुवि ।। १७।।
परमेशावताराणामीश्वराणां च योगिनाम् । देवानां सर्वजातीनां चमत्कारात्मना तथा ।।१८।।
विभूतीनां च तत्त्वानां देवीनां च चितां तथा । तीर्थानामधिदैवानां जडानां चेतनावताम् ।। १९।।
चैत्यानां स्थावराणां च जंगमानां चमत्कृताम् । यत्र यत्राऽभवन् सुरक्ष्मालयास्तत्र तत्र च ।।।२०।।
घृतदीपानखण्डान् स सुतेजस्कानकारयत् । स्वर्णपात्रेषु संशुद्धगोघृतानि सुवर्तिकाः ।।२१।।
धारयित्वा प्रकाशं वै सर्वदेवेभ्य आददौ । तस्य राज्ये यदि कस्मैचिदप्यर्हसुराय चेत् ।।२२।।
अनर्पितः प्रदीपश्चेज्जानात्ययं नृपस्तदा । सोपवासः सुवर्णानां सहस्रं च ददात्यपि ।।२३।।।
उद्धोषयति सर्वत्र चातुर्मास्ये व्रतं मम । मम राज्ये तु सर्वत्र देवेभ्यो मम दीपकाः ।।२४।।
प्रदेयाः पूजकैस्तीर्थजलेभ्यश्चैत्यशाखिने । देवालयेषु सर्वत्र भवन्तु मम दीपकाः ।।२५।।
सर्वपर्वकार्तिकादौ भवन्त्वाकाशदीपकाः । गवां घृतेन मे श्रेष्ठज्योतींषि सन्तु सर्वथा । ।२६।।
पञ्चामृताप्लवनं च देवानां मम भूयताम् । मिष्टान्नानि मम सन्तु देवेभ्यो विनिवेदने ।।२७।।
उपचारास्तथा सन्तु सर्वथा मम षोडश । नवधा श्रीहरेर्भक्तिर्जायतां मत्प्रभोजितैः ।।२८।।
चातुर्मास्ये तु शाकानि दुग्धानि च रसास्तथा । विप्राणां साधुसाध्वीनां देवानां भोजने मम । ।२९। ।
दीनाऽनाथकृपणानां भोजनानि भवन्तु मे । गवां ग्रासाः शुनकादिग्राम्यादनानि सन्तु मे ।।३०।।
कणान्नादिप्रदानं च पारावतादिपक्षिणाम् । पिपीलिकाप्रभृतीनां पिष्टाद्यन्नं समस्तु मे ।।३ १।।
यज्ञानां कर्मणां सिद्धिः साधनैरस्तु मे तथा । आरार्त्रिकादिकं देवालयेषु चास्तु मेऽन्वहम् ।।३२।।
जलदानं वस्त्रदानं ममास्तु वैभवात् सदा । स्वर्णरूप्यादिमुद्राणां प्रदानं चास्तु मे सदा ।।३३।।
इत्येवं ब्रह्मसविता राजा प्राघोषयद् भुवि । भूरिशृंगा च तत्पत्नी चक्रे पत्या सह व्रतम् ।।३४।।
नित्यं स्नात्वाऽर्चयति स्म श्रीकृष्णपुरुषोत्तमम् । मण्डपं कदलीस्तम्भैः शोभितं तोरणादिभिः ।।३५।।
कारयित्वा नवं नित्यं पूरयित्वा च मण्डलम् । सप्तधान्यमयं श्रेष्ठं सर्वतोभद्रनामकम् ।।३६।।
कारयित्वा च सौवर्णीं मूर्तिं श्रीपौरुषोत्तमीम् । उपचारैर्बहुविधैः पुपूज बहुभावतः ।।३७।।
मध्याह्ने भोजनं चापि षट्पंचाशद्विधं ददौ । सायं नीराजयित्वा च नृत्यति दासिकायुता ।।३८।।
एवं करोत्यनुदिनं पुरुषोत्तमस्य, तोषाय मानमहतं विगणय्य राज्ञी ।
कृष्णोऽपि नृत्यमवलोक्य सुकण्ठमिश्रं, तुष्टो भवत्यपि न दृष्टिपथं प्रयाति ।।३९।।
दम्पती तौ तथावृत्तौ नित्यभक्तौ हरिप्रियौ । तृतीयायाः प्रगे त्वाकर्णयामासतुरैश्वरीम् ।।४०।।
घोषणां दुन्दुभिप्रोक्तां महाश्चर्यकरीं यथा । शृण्वन्तु नागरास्तद्वदारण्यका दिवौकसः ।।४१।।
नरा नार्यश्च शृण्वन्तु वच्मि श्रीपुरुषोत्तमः । ब्रह्मधामेश्वरः साक्षादधिमासाधिदैवतः ।।४२।।
परपक्षतृतीयायां व्रतं तु श्रद्धयान्वितम् । करिष्यन्ति नरा नार्यो मम पूजनपूर्वकम् ।।४३।।
एकभुक्तेन नक्तेन फलेनाऽयाचितेन वा । राजानो यदि वा राज्ञ्यः प्राप्स्यन्ति परमं पदम् ।।४४।।
प्राप्स्यन्ति धर्मकामार्थमोक्षान् लोकानभीप्सितान् । पुत्रपौत्रादिवंशाँश्च कुलविस्तारसद्यशः ।।४५।।
ऐश्वर्याणि समग्राणि प्राप्स्यन्ति मद्व्रतेन वै । गृह्णन्त्वेकदिवसस्य व्रतेन शाश्वतं सुखम् ।।४६ ।।
परमौदार्यसम्पन्नो दास्येऽहं पुरुषोत्तमः । कृष्णनारायणः सर्वसम्पदामस्मि योजकः ।।४७।।
अद्य भोजनदानेन दास्ये नवनिधीन् ध्रुवान् । अद्य सुवर्णदानेन दास्ये कुबेरगद्दिकाम् ।।४८।।
अद्य रसप्रदानेन दास्ये वारुणसत्पदम् । अद्य रत्नप्रदानेन दास्ये सुरेन्द्रतां शुभाम् ।।४९।।
अद्य पुण्यप्रदानेन दास्ये वै धर्मराजताम् । अद्य धनप्रदानेन दास्येऽष्टवसुविग्रहान् ।।५० ।।
अद्य सर्वस्वदानेन दास्येऽष्टसिद्धिवैभवान् । अद्य दीपप्रदानेन दास्ये त्रिलोकनेत्रताम् ।।५ १ ।।
अद्य पयःप्रदानेन दास्ये शीतामृतात्मताम् । अद्यान्नजलदानेन दास्ये साम्राज्यमर्थवत् ।।५२।।
अद्य रथादिदानेन दास्ये स्वर्गविमानकम् । अद्य वस्त्रप्रदानेन दास्ये वार्ध्यम्बरा क्षितिम् ।।५३ ।।
अद्य कन्यादिदानेन दास्ये सहस्रयोषितः । अद्य गवां प्रदानेन दास्ये पृथ्वीं रसान्विताम् ।।५४।।
अद्य गृहप्रदानेन दास्ये ब्रह्माण्डगह्वरम् । अद्य फलप्रदानेन दास्ये कल्पद्रुमावलिम् । ।५५। ।
अद्य भूषाप्रदानेन दास्ये स्वर्गं सुभूषितम् । अद्य मे पूजया दास्ये त्रिलोकिपूज्यतां सदा ।।५६ । ।
यद्यदिच्छन्तु मे भक्तस्तत्तद् दास्ये न संशयः । दुन्दुभिस्त्वेवमाख्याय क्षणं मौनो बभूव ह । ।५७। ।
राजा ब्रह्मसविता च भूरिशृंगा च तत्प्रिया । नत्वा तं दुन्दुभिं पूजां ददौ कृष्णप्रदूतकम् । ।५८। ।
अधिमासे परपक्षे तृतीयायास्तु दम्पती । चकार व्रतमेकान्नं भुक्त्वा द्युमणिवाञ्च्छया । ।५९।।
चातुर्मास्ये दीपदाने सूर्यो भवामि केशव । सपत्नीकस्त्रिलोकानां नेत्रात्मा संभवाम्यहम् । ।६ ० । ।
एवं संकल्प्य राजाऽसौ तत्पत्नी चक्रतुर्व्रतम् । प्रातः स्नात्वा हरिं स्मृत्वा ध्यात्वेष्टरूपमुज्ज्वलम् । ।६ १ ।।
मण्डपे मण्डले कृष्णनारायणं घटे शुभे । आरोप्याऽऽनर्चतुर्भक्त्या सौवर्णं पुरुषोत्तमम् । ।६२। ।
पञ्चामृतैः शुद्धवार्भिः संस्नाप्याऽऽदिश्य चाम्बरे । भूषाः पुष्पाणि हाराद्यान् समर्पय्याऽथ चन्दनैः ।।६ ३ ।।
धूपदीपादिभिर्देवं संपूज्याऽक्षतकुंकुमैः । षटपंऽचाशद्विधं त्वन्नं मिष्टं मृष्टं जलं फलम् ।। ६४।।
अर्पयामासतुश्चोभौ भक्त्या श्रीपुरुषोत्तमम् । नीराजयामासतुश्च चक्रतुः सुप्रदक्षिणम् ।।६५ ।।
दण्डवन्नमनं कृत्वा चक्रतुः स्तवनं ततः । पुष्पांजलिं ददतुश्च प्रार्थयामासतुः क्षमाम् ।।६६।।
मध्याह्नेऽपि तथा सायं रात्रौ चक्रतुरर्चनम् । नृत्यं सजागरं तत्र चक्रतुर्बहुमानवैः ।।६७।।
प्रादुर्बभूव भगवान् सर्वतेजोनिधिर्हरिः । पूजया च व्रतेनापि चातुर्मास्यव्रतेन च ।। ६८ ।।
दीपदानेन सर्वत्र प्रसन्नोऽस्म्यतिभक्तितः । तवेष्टं यत् त्रिलोकानां नेत्रस्थानं महत्तमम् ।।६९।।
दास्ये त्वम्बरसूर्यत्वं सभार्यस्त्वं रविर्भव । इत्याख्याय हरिस्तस्मात् स्थानादन्तर्हितोऽभवत् ।।७० ।।
कृत्वा ब्रह्मसविता च नृत्यं प्रजागरं तथा । भूरिशृंगासहितः सः प्रातर्दानानि सन्ददौ ।।७ १ ।।
मणिरत्नानि च गाश्च महिषीर्गजवाजिनः । अजाऽविकास्तथा स्वर्णरूप्यपात्राम्बराणि च ।।७२।।
दासदासीश्च पर्यंकान् गृहाणि भवनानि च । क्षेत्राणि वाटिकाश्चैवोद्यानानि च वनानि च ।।७३ ।।
अन्नानि कूपवापींश्च भूमिं कार्पासकानि च । कौशेयानि तथौर्णानि ददौ चानर्घ्यकाणि सः ।।७४।।
ब्राह्मणीभ्यस्तु शृंगारवस्तूनि विविधानि च । यतिभ्यस्तु बृसीपात्रकमण्डल्वादिकानि च ।।७५।।
गृहस्थेभ्यस्तु गार्हस्थ्ययोग्यवस्तूनि सन्ददौ । क्षुधितेभ्यो ददौ भोज्यं तृषितेभ्यो जलं ददौ ।।७६ ।।
तत्तत्सुखार्थिकेभ्यः स ददौ तत्सुखसाधनम् । अर्थिभ्यः प्रददौ त्वर्थान् सर्वं ददौ तु शार्ङ्गिणे । ।७७ । ।
एवं लक्ष्मि! कृतं ब्रह्मसवित्रा दानमुत्तमम् । कृतं तथैव च भूरिशृंगया पतिसम्मतम् । ।७८। ।
भोजयित्वाऽथ साध्वादीन् भोक्तुं याति च दम्पती । तत्राऽऽयातस्तदा भिक्षुरूपः श्रीपुरुषोत्तमः । ।७९।।
स्वर्णरेखात्मिका लक्ष्मीः राजते यस्य वक्षसि । पाण्डुराऽङ्कमयी श्रीश्च राजते सक्थ्नि वामके । ।८० । ।
करे दक्षे ध्वजो मत्स्यः स्वस्तिकश्च धनुस्तथा । राजन्ते पद्मपत्राक्ष तेजःपरिधिकस्य वै । ।८ १ । ।
दृष्ट्वा राज्ञी नृपो भिक्षुं ज्ञात्वांऽकैस्तु नरायणम् । भोजयित्वा पादसंवाहनं चक्रतुरादरात् । ।८२। ।
तावद् द्वयोस्तत्र मूर्तौ जातः समाधिरान्तरः । दृष्टं ब्रह्मसवित्रा तु सूर्याख्यं गोलकं महत् । ।८३ । ।
तत्र हिरण्मयं स्वस्य वर्ष्म दृष्टं परात्परम् । येन तेजोमयं सर्वं जगद् याति प्रकाशिताम् । ।८४। ।
दृष्टं संज्ञास्वरूपं च स्वस्या वै भूरिशृंगया । हिरण्मयीं सूर्यपत्नीं दृष्ट्वा तुष्टिं जगाम सा ।।८५।।
हरिस्तिरोभवत् तावदुत्थितौ तौ समाधितः । आश्चर्यचकितौ जातौ मेनाते पूर्णमानसौ । ।८६ । ।
सेवेते स्म सदा कृष्णं प्रतीक्षेते स्म सूर्यताम् । तावद् बभूव कल्पस्य निधनं क्रमयोगतः । ।८७। ।
राजा राज्ञी लयं यातौ प्राप्तौ सुदिव्यविग्रहौ । यानेन सूर्यकान्तेन ययतुश्च महस्स्तरम् ।।८८ । ।
निशां तु क्षपयित्वा तौ कल्पादौ सर्जनान्वये । सूर्यरूपो बभूवाऽयं ब्रह्मसवितृभूपतिः । ।८ ९। ।
तत्पत्नी भूरिशृंगा च बभूव विश्वकर्मजा । संज्ञानाम्नी सुता सा च पित्राऽर्पितांऽशुमालिने । । ९० । ।
भूरिशृंगासवितारौ संज्ञासूर्यौ बभूवतुः । सर्वनेत्रप्रदौ देवौ कोऽन्यो लभेद् रवेः पदम् । । ९१ ।।
इति प्राप्तौ परं स्थानं यावत्स्वर्गं प्रकाशते । दीपदानप्रभावेण तृतीयाया व्रतेन च । । ९२।।।
तस्माद् दीपाः प्रदातव्या देवालयेषु .नित्यदा । अनन्धत्वं प्रकाशित्वं दिव्यत्वं तेन चाप्नुयात्। ।। ९३ ।।
यथा ब्रह्मसविता स प्राप्तवान् सूर्यतां नृपः । श्रोतुर्वक्तुः कथायाश्च लाभो वै तादृशो भवेत् ।। ९ ४। ।
इति ते कथितं लक्ष्मि! सूर्यनारायणीयकम् । आख्यानं परमं दिव्यं पावनं पुण्यदं हितम् ।। ९५ ।।
इतिश्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये पूर्वकल्पीयस्य ब्रह्मसवित्राख्यराज्ञो भूरिशृंगाख्यपत्नीसहितस्य द्वितीयपक्षतृतीयाया व्रतेन दीपादिविविधदानेन च सूर्यनारायणतायाः संज्ञा-भिधपन्नीप्राप्तिसहिताया लब्धिरितिनिरूपण-नामा दशाऽधिकत्रिशततमोऽध्यायः ।। १.३१० ।।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पूर्वकल्पोद्भवा कथा । सौराष्ट्रे रैवतभूमौ समित्पीयूषनामकः ।। १ ।।
राजा बभूव तत्पत्न्यो बभूवुः सप्तविंशतिः । ऊर्जाहुतिः पुष्करिणी पद्मपत्रा करीषिणी ।। २ ।।
विश्वप्रियाऽऽदित्यवर्णा हरिणी हेममालिनी । वसुधीतिर्वह्निशिखा पद्माक्षी पद्ममालिनी ।। ३ ।।
प्रभासा जगती पंक्तिर्बृहतीडा पिशंगिनी । सुषुम्णा च पुरीततिर्विश्वार्चिः पद्मनेमिका ।। ४ ।।
हिरण्यवर्णा चन्द्रा च पद्मवर्णा च वम्रिका । विद्युल्लेखा च ताः सर्वाः पातिव्रत्यपरायणाः ।। ५ ।।
कुर्वन्त्यो भगवद्भक्तिं दानधर्मपरायणाः । अतिथीनां च सत्कारं कुर्वन्त्यो भावपूर्वकम् ।। ६ ।।
स्नानं ध्यानं देवपूजां जपं कुर्वन्ति चादरात् । होमं दैवं तथा पैत्र्यं भौतं कुर्वन्ति सत्क्रतुम् ।। ७ ।।
आश्रितान् भोजयित्वैव भुञ्जन्ति च पिबन्ति च । शतसाहस्रदासीषु सतीष्वपि स्वहस्तकैः ।। ८ ।।
विष्णोः सेवां धवसेवां कुर्वन्ति स्वीयधर्मतः । विष्णोरर्थं पाचनं च तण्डुलादिविशोधनम् ।। ९ ।।
कण्डनं वारिभरणं गृहमार्जनमित्यपि । पात्राणां देवपूजाया घर्षणं क्षालनादिकम् ।। १० ।।
तुलसीपत्रपुष्पाणामाहृत्याद्यं च ताः सदा । कुर्वन्त्येव महाभक्त्या नान्यद्वारा कदाचन ।। ११ ।।
हर्यर्थं खलु भक्तानां किमकार्ये भवेन्ननु । सर्वस्वं त्वर्पितं यत्र वर्ष्मणा किं न जायते ।। १२ ।।
अनित्येन तु देहेन नित्यं पुण्यं समर्जयेत् । येन भुक्तिस्तथा मुक्तिः कृष्णस्य कृपया भवेत् ।। १३ ।।
स एव सर्वथा वन्द्यः पूज्यस्तोष्यः परेश्वरः । यस्मात् सर्वं प्रभवति भोग्यं भोज्यं सुखादिकम् ।। १४।।
सम्पत् स्मृद्धिर्धनं पत्नी पतिः सुतसुतादिकम् । क्षेत्रं स्वर्गं महाराज्यं यस्मात्तं वै भजेद् बुधः ।। १५।।
यावत् स्वास्थ्यं भवेद् देहे वश्यमिन्द्रियमण्डलम् । जाठराग्निर्युवा पक्ता दैहिके सानुकूलता ।। १ ६।।
तावदात्महितं साध्यं काम्यं वा कामवर्जितम् । परमेशपदं नित्यानन्दपूर्णं तु शाश्वतम् ।। १७।।
विगमे विकले भावे न स्याद्वै दर्शनादिकम् । श्रीहरेस्तत् सदा कार्यं दर्शनं चक्षुषा मुदा ।। १८।।
विकर्णे बधिरे भावे न स्यान्नामश्रवो हरेः । सुगमे साऽनुकूलेऽस्मिन् कार्यं श्रवणमाच्युतम् ।। १ ९।।
वृक्णे वा विकले सेवा न भवेद्वै सतां हरेः । सुबले सानुकूले च हस्ते सेव्यो हरिः स्वयम् ।। २० ।।
प्रबले सुगमे पादे गम्यं मन्दिरमैश्वरम् । अनुद्विग्नेऽप्रमत्ते च मानसे वाजसंभृते ।। २ १ ।।
मन्तव्यो भगवान् कृष्णनारायणः सुखप्रदः । अन्तरात्मा स्वात्मना वै समुपास्यः सदा प्रभुः ।। २२।।
भग्ने तु नगरे सर्वे त्यक्त्वा यास्यन्ति विष्टयः । दृढपादात्मके तत्र साध्यः श्रीपुरुषोत्तमः ।। २३।।
एवं निर्णीय सर्वास्ताः समित्पीयूषयोषितः । सेवन्ते श्रीहरिं नित्यं मन्दिरे निर्मिते शुभे ।। २४।।
समित्पीयूषनृपतिश्चक्रे त्रिषवणं सदा । त्रिकालं प्रार्चनं कृष्णनारायणस्य सन्दधे ।। २५।।
एवं वै वर्तमानानां तासां कालो महान् गतः । तत्कल्पे कार्तिककृष्णाष्टमी कृष्णाष्टमी ह्यभूत् ।। २६।।
दीपोत्सवतिथेः पूर्वं सप्ताहव्यवधानिकी । इषपूर्णां समारभ्य चक्रुस्ता एकभुक्तकम् ।।२७।।
अष्टम्यामुपवासं च चक्रुस्ता निर्जलं मुदा । पुरुषोत्तमसंज्ञस्य कृष्णस्य प्रतिमां शुभाम् ।।२८ ।।
कानकीं कारयित्वा च तथा कृष्णस्य मातरम् । कंभराख्यां कानकीं च कारयित्वा च तास्तथा ।। २९ ।।
गोपालं कृष्णपितरं कारयित्वा तु कानकम् । मण्डपं कारयित्वा चाऽऽनर्चुः श्रीपुरुषोत्तमम् ।। ३० ।।
नृत्यं सवाद्यं चक्रुस्ताः कण्ठस्वरविमिश्रितम् । तावदाविर्बभूव श्रीकृष्णनारायणो हरिः ।। ३१ ।।
चतुर्भुजः कौस्तुभाढ्यः पीताम्बरादिकाम्बरः । नवीनजलदश्यामः श्वेतकान्तिविराजितः ।। ३ २ ।।
दृष्ट्वाऽऽश्चर्य तु ताः प्रापुः क्षणं श्रीपुरुषोत्तमम् । ततस्ता मुमुहुस्तत्र दिव्यमूर्तौ मनोहरे ।। ३३ ।।
दिव्याऽऽभूषादि चानीयाऽर्पयामासुः ससंभ्रमाः । ऊर्जाहुती ददौ तस्मै पौरटं मुकुटं तदा ।। ३४।।
पुष्करिणी ददौ तस्मै पौरटे कुण्डले शुभे । पद्मपत्रा तल्ललाटे चक्रे पुण्ड्रं तु चान्दनम् ।। ३५।।
करीषिणी दृशोस्तस्य चक्रे सत्कज्जलांजनम् । विश्वप्रिया स्वर्णपुष्पहारान् ददौ तु शार्ङ्गिणे ।। ३६ ।।
आदित्यवर्णा प्रददौ कटके भुजबन्धकौ । हरिणी त्वर्पितवती ह्यूर्मिकाः कानकीर्नवाः ।। ३७।।
हेममालिनी प्रददौ रशनां शृंखलां शुभाम् । वसुधीतिर्ददौ स्वर्णनूपुरौ किंकिणीयुतौ ।। ३८ ।।
वह्निशिखाऽर्पितवती पादुके स्वर्णनिर्मिते । पद्माक्षी प्रददौ यज्ञोपवीतं योगपट्टकम् ।। ३९ ।।
पद्ममालिनी प्रददौ मिष्टान्नं शाकपायसम् । प्रभासा प्रददौ तस्मै पानाय शीतलं जलम् ।।४० ।।
जगती त्वर्पितवती फलं ताम्बूलकं तथा । पंक्तिर्ददौ सुगन्धं च पुष्पसारं च धूपकम् ।।४१ ।।
बृहती प्रददौ तस्मै घृतदीपं सुमंगलम् । इडा छत्रं दधाराऽस्य शिरसि स्वर्णभास्वरम् ।।४२।।
सुषुम्णा पिंगला श्वेते दध्यतुश्चामरे ह्युभे । पुरीतत् व्यजनं धृत्वा करोति पवनार्पणम् ।।४३ ।।
विश्वार्चिर्नक्तकं रम्यं कृष्णहस्ते ददौ तदा । पद्मनेमिर्ददौ पुष्पगुच्छं कृष्णकरे तदा ।।४४।।
हिरण्यवर्णा प्रददौ चक्रं सहस्रनेमिकम् । चन्द्रा ददौ कृष्णहस्ते पद्मं सुवर्णनिर्मितम् ।।४५।।
पद्मवर्णा ददौ शंखं वम्री ददौ तदा गदाम् । विद्युल्लेखा ददौ चास्मै चूम्बनं परमात्मने ।।४६।।
सा सर्वाभ्यो बभूवाऽतिप्रेमपात्रं परात्मनः । तत्पुण्येनाऽत्यधिकं सा पत्युः प्रेमास्पदा पुनः ।।४७।।
चन्द्रपत्नी रोहिणी सा जन्मान्तरे बभूव वै । इत्येवं तूपदाः दत्वाऽऽरार्त्रिकं ताश्च चक्रिरे ।।४८।।
अन्यास्तु चूम्बनं दृष्ट्वा लज्जां हृत्सु प्रपेदिरे । फलं तासां नातिमानं चन्द्रात् तास्तु प्रपेदिरे ।।।४९।।
दासी सर्वजितानाम्नी पादसंवाहनं व्यधात् । सा तु सेवापरा यस्मात् स्नेहपात्रं तदाऽभवत् ।।।५०।।
पुष्पाऽक्षताञ्जलीन् चार्घ्यं ताश्च सर्वा ददुस्ततः । प्रदक्षिणनमस्कारस्तवनाद्यं प्रचक्रिरे ।।५१ ।।
कृष्णस्त्वतिप्रसन्नश्च ददौ प्रसादपायसम् । गृहीत्वा तृप्तिमापन्ना दध्युस्तं हृदयाम्बुजे ।।५२।।
कृष्णः प्राह तु ता देवीर्भवन्त्वमृतभोजनाः । स्वर्णरत्नमणिहारा दिव्या दिवि कृतगृहाः ।।५३ ।।
इत्याशिषः प्रदायैवाऽदृश्यो बभूव केशवः । तास्तु पूजां समाप्यैव पतिं प्राहुरुदन्तकम् ।।५४।।
अतितुष्टो बभूवापि समीत्पीयूषभूपतिः । नित्यं पत्नीयुतः स्वर्गं वाञ्छति पूजनोत्तरम् ।।५५।।
पत्न्यश्चापि तु वाञ्छंति कृष्णोक्तं नाकमैश्वरम् । एवं काले गते कल्पप्रान्ते कृष्णस्य वै श्रुतः ।।५६।।
दुन्दुभिर्घोषणां कुर्वन् पुरुषोत्तमशासनाम् । शृण्वन्तु वै नरा नार्यो देवा देव्योपि मद्वचः ।।।५७।।
यासां येषां यथेष्टं यद् दास्यामि तत्तथाविधम् । पुरुषोत्तमसंज्ञोऽहं परंब्रह्म सनातनः ।।५८।।
प्रवदामि कृपया वै विना पुण्यस्य तोलनम् । स्वल्पे कृतेऽप्यसंख्यातं फलं ददामि सर्वथा ।।५९।।
ये जना मे फलं पुष्पं पत्रं चन्दनमक्षतान् । अर्पयिष्यन्त्यधिमासे चतुर्थ्यां काम्यकर्मकृत् ।।६० ।।
तेषां तु कामनाः सर्वाः पूरयिष्ये पुमुत्तमः । सर्वं मेऽस्ति मयि सर्वं मया व्याप्त चराचरम् ।।६ १ ।।
नातिरिक्तं स्वतन्त्रं वै किञ्चिदस्ति जडाजडम् । जडं चाप्यजडं तत्त्वं मदीयं त्वस्ति सर्वथा ।।६२।।
मोक्षस्थानानि सर्वाणि सिद्ध्यैश्वर्यस्थलान्यपि । विभूतयश्चेश्वराणां देवानां च पदानि वै ।।६३।।
मानवानां तथा पातालस्थानां च समृद्धयः । सर्वं त्वस्ति ममैवेदं यदिच्छन्तु ददाम्यहम् ।।६४।।
पुरुषोत्तममासस्य व्रतं पाक्षिकमाह्निकम् । नैशं वापि कृतं येन तस्य किञ्चिन्न दुर्लभम् ।।६५।।
राजा यथाबलं कुर्याद् व्रतं दानं च पूजनम् । प्रजा यथाधनं कुर्याद् व्रतं दानं समर्पणम् ।।६६ ।।
नरो नारी यथाधर्मं कुर्यान्मेऽधिकमासिकम् । व्रतं ते मे जनं बाहं विस्मरामि कदाचन ।।६७।।
अद्य कालान्तरे वापि यथातोषं फलं बहु । ददाम्येव न सन्देहो न मे भक्तोऽफलो भवेत् ।।६८।।
सकामस्य कृते स्वर्गादयो लोकाः कृता मया । अकामस्य कृते ब्रह्मलोकोऽस्ति रक्षितो मया ।।६९।।
सर्वेषु सुखबाहुल्यं ब्रह्मलोके त्वनन्तकम् । ददाम्याश्रितभक्ताय मदर्थे व्रतकारिणे ।।७ ० ।।
नात्र मूल्यं स्वकृतस्य मूल्यं तु वचसो मम । वचो मम धृतं येन फलं तस्याऽप्यनन्तकम् ।।७ १ ।।
नहि वृष्टिप्रदे यज्ञे कृते वृष्टिर्हि तादृशी । यादृशी घनकाले स्यादमाना चाप्यनन्तका ।।७२ ।।
स्वयं वर्षामि भगवान् श्रीहरिः पुरुषोत्तमः । कृपया घनरूपोऽहं पुरुषोत्तममासि वै ।।७३ ।।
यथापात्रं यथापेक्षं प्रगृह्णन्तु मयाऽर्पितम् । वस्त्रफाले फलं कृत्वा विकीर्यतेऽनु यान्तु तत् ।।७४।।
पुरुषोत्तममासस्य करिष्यन्ति प्रशंसनम् । येऽपि तेऽप्यर्जयिष्यन्ति यथेष्टं सुखमुत्तमम् ।।७५।।
पुरुषोत्तममासस्य व्रतार्थे त्वन्यदेहिनाम् । अनुमोदं प्रदास्यन्ति तेऽपि स्वःसुखभागिनः ।।७६।।
अधिमासे व्रतकर्तुः साहाय्यं ये तु मानवाः । करिष्यन्ति च तेभ्योऽपि दास्ये यथेप्सितं सुखम् ।।७७।।
किमु स्याद् दुर्लभं चाधिमासे भक्तस्य मे खलु । धाम दास्ये धनं दास्ये दारान् दास्ये सुतान् पशून् ।।७८ ।।
पतिं दास्ये सुतां दास्ये गां राज्यं चिरजीविताम् । आरोग्यं चेन्द्रियानन्दं दास्येऽपि शाश्वतं सुखम् ।। ७९। ।
इति वै -दुन्दुभिं श्रुत्वा समित्पीयूषभूपतिः । तत्पत्न्यश्चातिभक्तिस्था अपि वै सप्तविंशतिः ।।८ ० ।।
दासी च दुन्दुभिं नत्वाऽक्षतपुष्पफलादिभिः । सम्पूज्य चक्रिरे कर्तुं चतुर्थीव्रतमुत्तमम् ।।८ १ ।।
प्रातः पूजां हरेः कृत्वा मध्याह्नेऽपि सभोजनम् । पूजनं कारयित्वैव सायं चक्रुः प्रपूजनम् ।।८२।।।
पायसं पूरिकाः भोजयित्वाऽऽरार्त्रिकमादधुः । नृत्यगीतप्रवाद्यैश्चक्रिरे जागरणं निशि ।।८३।।
प्रातः स्नात्वा कृष्णनारायणं सम्पूज्य भावतः । दानं ददुस्तु रत्नानां रसानां समिधां तथा ।।८४।।
हविष्याणां चामृतानां मिष्टान्नानां च दक्षिणाः । स्वर्णरूप्यात्मिकाश्चापि फलवस्तूनि वै ददुः ।।८५।।
चन्द्रकान्तान् ददुः सौम्यान् शीतलान् स्वर्णदान्ददुः । तदा विप्रस्वरूपेण श्रीकृष्णः पुरुषोत्तमः ।।८६।।
समाजगाम सत्पात्रं भूत्वा रत्नाभिलाषुकः । समित्पीयूषनृपतिस्तदा सर्वप्रियायुतः ।।८७।।
ददौ रत्नाढ्यमालां च नमश्चक्रेऽतिभावतः । विप्रः प्राह वरं राजन् याचस्व भविता तथा ।।८८।।
समित्पीयूष आकर्ण्य वव्रे चान्द्रं सुराज्यकम् । सुधावर्षित्वरूपं वै ययाचे समिधां कृते ।।८९।।
पत्न्यश्चापि तथा चन्द्रपत्नीत्वं वव्रिरे दिवि । तथास्त्विति वरं दत्वा तिरोबभूव भूसुरः ।।९० ।।
कल्पान्ते प्रलयं प्राप्य सृष्ट्यादौ स तु भूपतिः । समित्पीयूषनाम्नोऽर्थं सार्थं कुर्वन् हरिच्छया ।।९ १।।
अमृतांशुश्चौषधीनां पोषकश्चन्द्रमा दिवि । बभूव तस्य पत्न्यश्च दक्षपुत्र्यः प्रजज्ञिरे ।।९२।।
दक्षेण विधिना दत्तास्तस्मै ताः सप्तविंशतिः । विद्युल्लेखा बभूवाग्र्या रोहिणीनामतः प्रिया ।।९३।।
अन्याश्चापि मृगशीर्षा ह्यार्द्रा पुनर्वसुस्तथा । पुष्याऽऽश्लेषा मघा पूर्वफाल्गुन्युत्तरफाल्गुनी ।।९४।।
हस्तश्चित्रा तथा स्वाती विशाखा चानुराधिका । ज्येष्ठा मूला पूर्वषाढोत्तराषाढा श्रवात्मिका ।।९५।।
धनिष्ठा शतभीषा च पूर्वभाद्रपदा तथा । उत्तरभद्रिका चैव रेवती त्वश्विनी तथा ।।९६।।
भरणी कृत्तिका चेति मिलिताः सप्तविंशतिः । बभूवुश्च दिवि चन्द्रपत्न्यो देव्योऽमृतप्रदाः ।।९७।।
दासी देवयुतीनाम्नी जाताऽभिजित्समाह्वया । मध्याह्नेऽस्याः कृतो वासः सर्वकार्यजयप्रदः ।।९८।।
आकल्पं ताश्च वर्तन्ते चतुर्थ्या व्रतपुण्यतः । तस्मात् कार्यमधिवासोऽपरचतुर्थ्युपोषणम् ।।९९।।
एकभुक्तं च वा नक्तं फलाहारं ममार्चनम् । श्रोता वक्ता तथा चास्य चतुर्थीव्रतभाग्भवेत् ।। १०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये समित्पीयूषराज्ञस्तत्सप्तविंशतिपत्नीनां दुन्दुभिश्रवणोत्तरं द्वितीयपक्षचतुर्थीव्रतकरणेन दिवि चन्द्रराज्यनक्षत्रराज्यप्राप्तिर्दास्या अभिजित्त्व-प्राप्तिश्चेत्यादिनिरूपणनामा एकादशा-धिकत्रिशततमोऽध्यायः ।। १.३११ ।।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! कथा प्राक्सृष्टिसंभवा । वसुधानाख्यनृपतेः राध्यासायाश्च योषितः ।। १ ।।
पूर्वसृष्ट्यन्तिमे काले नृपो बभूव दक्षिणे । वसुधानो महाभक्तो महादेवस्य सेवकः ।। २ ।।
राध्यासा तस्य पत्नी च महादेवस्य सेविका । आराधनां महादेवात्मकस्य स्वामिनः सदा ।। ३ ।।
करोत्यभिन्नभावेन पातिव्रत्यपरायणा । नित्यं प्रातः स्वयं स्नात्वा पतिं स्नापयति प्रभुम् । । ४ ।।
महादेवं विविधैस्तु जलैर्दुग्धादिभिस्तथा । पत्रं पुष्पं फलं वस्त्रं सर्पं च शर्करां जलम् ।। ५ ।।
आरार्त्रिकं चन्दनं च धूपं दीपं समर्प्य सा । वसुधानस्य सेवायां दासीव समतिष्ठति ।। ६ । ।
राजाऽपि प्रातराज्ञाय त्यक्त्वा निद्रां मुहूर्तकम् । ध्यात्वा श्रीशंकरं ब्रह्म स्नानं पूजां करोति च ।। ७ ।।
हृदि ध्यानं तथा पूजां शंभोः कृत्वा विभज्य च । अन्नादिकं त्वाश्रितेभ्यो भुंक्तेन्नं स्त्रीयुतो नृपः ।। ८ । ।
राज्यकार्ये प्रजाकार्यं कुरुतस्तौ कृपान्वितौ । देवकार्यं दानकार्यं कुरुतो नित्यमात्मवत् ।। ९ ।।
ददतोऽन्नं भिक्षुकेभ्यो वस्त्राणि तदपेक्षिणे । पात्राणि दानपात्राय धनानि च फलानि च ।। १० । ।
दानशब्दस्तयोर्द्वारि विरामं याति नैव ह । दानक्रियापि च शान्ता नैव भवत्यहर्निशम् ।। ११ ।।
यज्ञानां ब्राह्मणानां च साध्वीनां च सतामपि । तयोर्गृहेऽर्हणां शंभोरहर्निशं प्रजायते ।। १ २ । ।
गवां दानं रसदानं मिष्टदानं पुनः पुनः । कुरुतस्तौ पतिपत्न्यौ तुष्टा यथाऽर्थिनस्तथा ।। १३ । ।
न तद्राज्येऽवग्रहोस्ति वत्सरो न क्रतुं विना । न चोत्सवा विना कृष्णं विना शंभुं न कीर्तनम् ।। १४ । ।
प्रवर्तयामासतुस्तौ राज्ये धर्मान् शिवस्य वै । शिवालयेषु सर्वेषु पूजां कारयतश्च तौ ।। १५।।
ग्रामाधीशान् समाहूय सर्वाँस्तौ विषयस्थितान् । आज्ञापयामासतुस्तौ पूजा देया शिवालये ।। १६।।
अन्यथा सत्यमेवेदं स नौ दण्ड्यो भविष्यति । पूजादानाच्छिवस्तुष्टो भविष्यति शिवायुतः ।। १७।।
घृतदीपास्त्वखण्डा वै तत्र देवाः शिवालये । यस्य यस्याभितो ग्रामं यावन्तश्च शिवालयाः ।। १८।।
तत्र तत्राऽखण्डदीपो द्योतनीयो नृपाज्ञया । नृपाज्ञाभंगकर्तुस्तु शिरश्छेदो भविष्यति ।। १९।।
नृपपूजा प्रदातव्या षोडशोपसुवस्तुभिः । न्यूनकर्तुस्तथा राजा शिरश्छेत्स्यत्यसंशयम् ।।।२०।।
इति सर्वत्र ताभ्यां वै लक्ष्मि! पूजा विनिर्मिता । तयोस्तु भयतो दीपा दीप्ता प्रतिशिवालयम् ।।२१।।
जग्मतुस्तौ महाशंभु रात्र्यां दर्शनहेतवे । व्योमयानेन सर्वत्र राज्ये यत्र शिवालयाः ।।।२२।।
आप्रातस्तौ तु सर्वत्र विधायाऽर्चनदर्शनम् । पुनरायात आवासं कुरुतः स्नानपूजनम् ।।।२३।।।
चिकीर्षतः पारणा तौ निषीदत स्म यावता । तावत्तत्र समायातौ भिक्षुकौ तु शिवाशिवौ ।।२४।।
ज्ञात्वा वै क्षुधितौ साधू ददतस्तौ सुभोज्यकम् । रिक्तं तुलसीपत्रेण वीक्ष्याऽऽहतुस्तु तावुभौ ।।२५।।
नारायणप्रसादश्चेद् भोक्ष्यावहे पवित्रकम् । वैष्णवौ वैष्णवश्रेष्ठौ शिवाशिवौ न भोक्ष्यतः ।।।२६।।
यदि प्रासादिकं न स्याच्छ्रीपुरुषोत्तमाऽर्पितम् । वैष्णवः परमो धर्मो वैष्णवत्वं परं तपः ।।२७।।
वैष्णवैस्तु कृतं दत्तं गृह्णीवोऽतीव भावतः । यदि वैष्णवदत्तं न गृह्णीवो न तु वै क्वचित् ।।२८।।
युवाभ्यामर्प्यते नित्यं पूजाभोजनदीपकम् । पश्यावो न तु गृह्णीवो गृह्णीवो ब्रह्मणेऽर्पितम् ।।२९।।
आत्मनिवेदिभक्तानां धर्मोऽयं सर्वदा मतः । ब्रह्मणेऽनर्पितं यत् तद्भोज्यं पेयं न वै क्वचित् ।।३०।।
वस्त्रं पत्रं फलं पुष्पं पयश्चान्नं तथाऽऽसनम् । औषधं कणमात्रं वा चूर्णं चर्वणमित्यपि ।।३ १।।
अद्य स्वाद्यं तथा खाद्यं भोग्यं धार्यं ममाऽर्घ्यकम् । मर्द्यं देयं तथाऽर्प्यं च सर्वं यद् ब्रह्मणेऽर्पितम् ।। ३२।।
तद् गृह्णीवो न चाऽन्यद्वै धर्मोऽयं त्वावयोः सदा । सर्वं ब्रह्मार्पणं ग्राह्यं गृहवस्त्रधनादिकम् ।।।३३ ।।
जडं यद्वा चेतनं वा स्वकीयं यद्धि मन्यते । तद्वै भगवते दत्वा शिष्टं भुञ्जीत भक्तराट् ।। ३४।।
गृहस्तंभेषु वै वारि कुंभीषु मञ्जुलासु च । पेषणीषु च खट्वासु पर्यंकादिष्वपि गृहे ।।३५।।।
तुलसीकण्ठिकां बद्ध्वा तूपयोक्तव्यमेव तत्। पशूनां पक्षिणां हर्म्यशाखिनां शकटस्य च ।। ३६।।।
वैष्णवत्वं विना नैव कर्तव्यमुपयोजनम् । अन्नानां त्वथ वस्त्राणां चक्राणां वाहनस्य च ।। ३७।।
जीविकालोहभस्त्राणां कोशानां पण्यकस्य च । वैष्णवत्वमृते नैव कर्तव्यमुपयोजनम् ।। ३८।।
वाद्यानां चापि शस्त्राणां हेतीनां वस्तुनामिनाम् । आत्मनिवेदिना कार्या भगवच्चिह्नयोगिता ।। ३९।।
सुतः सुता धन दारा दासा दास्यो गृहाणि च । पत्नी पतिः कुटुम्बं च सर्वं वै हरयेऽर्पयेत् ।।४० ।।
अभक्ष्यं तदभोग्यं यद्धरये नाऽर्पितं भवेत् । भक्ष्यं भोग्यं तथा पेयं हरयेऽर्पितमेव यत् ।।४१ ।।
निबोधत युवां तद्वै बदर्याश्रममुत्तमम् । प्रागहं प्राप्तवाँस्तत्र नारायणात्समन्त्रकम् ।।४२ ।।
वैष्णवत्वं ततो देव्यै पार्वत्यै च समन्त्रकम् । वैष्णवत्वं मया दत्तं गणेभ्यश्चापि सर्वथा ।।४३।।
मम पुत्रो गणेशस्तु श्रीकृष्णांशोऽस्ति वैष्णवः । स्कन्दोऽपि वैष्णवो जातो रुद्रा अपि च वैष्णवाः ।।४४।।
देव्यश्च वैष्णवीश्रेष्ठा नारायणपरायणाः । कैलासः सर्वथाऽभीष्टो वैष्णवोऽस्ति मया कृतः ।।४५।।
बदर्याश्रमयोगेन हिमालयोऽपि वैष्णवः । पितरो वैष्णवास्तेषां कन्या मेनाऽपि वैष्णवी ।।४६।।
क्षीरोऽपि सागरो विष्णुधारको वैष्णवः सदा । तत्पुत्री श्रीः रमा लक्ष्मीश्चन्द्रश्चैतेऽपि वैष्णवाः ।।४७।।
वामनस्य पदांगुष्ठस्पर्शा गंगापि वैष्णवी । वासुकिः शेषबन्धुश्च वैष्णवोऽस्ति मया धृतः ।।४८।।
त्रिशूलं सूर्यतो जातं द्वादशो विष्णुरर्कराट् । वृषभो गोकुलात्प्राप्तो गोलोके कृष्णभक्तराट् ।।४९ ।।
सिंहो नृसिंहवंशो यः स चास्ति वैष्णवो महान् । मेघा वैराजकेशाश्च वैष्णवा यज्ञपोषिताः ।।५० ।।
मयूरो मेघमित्रं च पिच्छं मुकुटसंश्रितम् । कृष्णयोगान्मेघयोगाद् वैष्णवत्वं सदाऽस्ति वै ।।।५१ ।।
किम्वधिकं प्रवक्ष्ये वै नृसिंहमस्तकं गले । दधन् वै वैष्णवश्चास्मि विष्णुभक्तोऽस्मि सर्वथा ।।५२।।
विष्णुर्वै व्यापकं ब्रह्म यत्तेजोऽहं सदाशिवः । बाणरूपोऽस्मि सञ्जातो ध्यायँस्तं मूर्तिमानपि ।।५३।।
सर्वात्मकं परब्रह्म नारायणः परात्परः । तस्मादहं तथा सर्वं जायते तत्र लीयते ।।५४।।
ततो राजन् गृहाण त्वं वैष्णवं मनुमादरात् । अहं शंभुः प्रददामि राज्ञ्यै दास्यति पार्वती ।।५५ ।।
इत्यादिष्टो वसुधानो जग्राहाऽष्टाक्षरं मनुम् । कृष्णनारायणोऽव्यान्मामिति जग्राह शंकरात् ।।५६ ।।
तं च जग्राह राध्यासा राज्ञी वै पार्वतीमुखात् । जगृहतुश्च तुलसीकण्ठीं चन्द्रार्ध्वपुण्ड्रकम् ।।५७।।
नारायणार्चनवारि प्रसादं चाच्युतस्य वै । आददति तु तौ तत्र प्रजातौ वैष्णवौ ततः ।।५८।।
विष्णवे भोजनं पेयं तुलसीपत्रमिश्रितम् । निवेदयामासतुश्च ददतुश्चापि शंभवे ।।५९ ।।
पार्वत्यै ददतुश्चाऽथ जगृहतुश्च तौ मुदा । आदतुर्वारिपानं च चक्रतुर्वै सुखान्वितौ ।।६ ० ।।
तृप्तौ बभूवतुश्चाति हर्षितौ वै शिवाशिवौ । आशीर्वादान् ददतुश्च धनवन्तावखण्डितौ ।।६ १ ।।
सुस्मृद्धौ शाश्वतराज्यौ भवतां भृत्यकोटिकौ । इति कृत्वा कथयित्वाऽदृश्यौ जातौ शिवाशिवौ ।।६ २।।
राज्ञा रात्र्या च नित्यं श्रीकृष्णनारायणः प्रभुः । शिवात्माऽयं चेति भक्त्या पूज्यते वैष्णवीदिशा ।।६ ३ ।।
एवं ताभ्यां सदा कृष्णे पूजिते पुरुषोत्तमः । मासोऽतिदिव्यसमयः प्राप्तो व्येति दिनाद्दिनम् ।।६४।।
तावत् ताभ्यां परपक्षपञ्चम्यां दुन्दुभिः श्रुतः । शृण्वन्तु देवतनवो राजदेहाश्च मानवाः ।।६५ ।।
सुरा दिव्यसमृद्धाश्च स्थावरा जंगमाश्च ये । पुरुषोत्तममासस्याऽस्मि दुन्दुभिर्हरेः प्रियः ।।६६ ।।
हर्याज्ञयोद्धोषयामि मणिं कपर्दिकाफलम् । मासेऽत्रैकदिनकृच्छ्रात् प्राप्नुवन्तु वसुन्धराम् ।।६७।।
अलकां हेमनगरीं तथा भूमिं च कांचनीम् । गोलोकस्थां तथाऽन्येषां दिक्पालानां तु हाटकीम् ।।६८।।
राजधानीं तथा स्वर्णपुरीं हिरण्मयीं तनुम् । साम्राज्यं चापि वाऽन्यद्वै यथेष्टं यान्तु वै हरेः ।।६९।।
रसाधिपत्यं सौर्यं वा चान्द्रं गौर पदं च वा । बार्हस्पत्यं तथैशानं त्वाग्नेयं वान्यदेव वा ।।७०।।
येषामिष्टं तु यद्वै स्याद् दास्ये तन्नात्र संशयः । अधिमासे तु सम्पूर्ण पाक्षिकं दैनिकं च वा ।।७१ ।।
व्रतं प्रपूजनं कृत्वाऽर्जयन्तु परमं सुखम् । परमेष्ठिपदं वापि वैराजं सत्यमित्यपि ।।७२।।
रौद्रं शैवं च वा ब्राह्मं वैष्णवं धाम चैत्यपि । गृह्णन्तु कृपया मेऽद्य पञ्चमीव्रतमात्रतः ।।७३।।
इत्युक्त्वा दुन्दुभिस्तत्र विररामाऽथ तावुभौ । नत्वा तं दुन्दुभिं ध्यात्वा श्रीकृष्णं पुरुषोत्तमम् ।।७४।।
पुपूजतुस्तं वाद्यं वै पुष्पाक्षतैस्तु कानकैः । अर्थयामासतुस्तत्र कांचनेयं पदं महत् ।।७५।।
तथास्त्वेवं दुन्दुभिश्च विचिन्त्य हृद्ये तदा । अन्यत्र प्रययौ तौ पञ्चमीव्रतं प्रचक्रतुः ।।७६।।
प्रातः स्नात्वा हरिं ध्यात्वा शंभुं नत्वा तथाऽऽदरात् । गुरुं प्रपूज्य विधिवच्चक्रतुर्नैत्यकार्चनम् ।।७७। ।
मूर्तिं विधाय सौवर्णीं पुरुषोत्तमरूपणीम् । आवाह्य तत्र च कृष्णनारायणं पुमुत्तमम् ।।७८ ।।
आचमनं प्रदायैव पञ्चामृतेन वारिणा । स्नापयामासतुस्तौ च मार्जयामासतुस्तथा ।।७९।।
मर्दयामासतुश्चैतौ चन्दनार्द्रसुगन्धिभिः । धारयामासतुश्चैव वस्त्राणि कानकान्यपि ।।८ ० ।।
भूषयामासतुश्चापि मुकुटादि विभूषणैः । शृंगारयामासतुश्च कज्जलैः केसरादिभिः ।।८ १ ।।
सुगन्धयामासतुश्च पुष्पधूपादिसारकैः । प्रकाशयामासतुश्च दीपनीराजनादिभिः ।।८२।।
प्रसादयामासतुश्च स्तुतिप्रदक्षिणादिभिः । क्षमापयामासतुश्चापराधानर्घ्यकार्पणैः ।।८३ ।।
सन्तर्पयामासतुश्च मिष्टान्नपायसादिभिः । सन्तोषयामासतुश्च ताम्बूलैलादिचर्वणैः ।।८४।।
एवं मध्याह्नसमये पूजयामासतुस्तथा । भोजयामासतुश्चापि निश्यप्येवं प्रचक्रतुः ।।८५।।
मण्डपं कदलीस्तंभैः पाल्लवैस्तोरणैस्तथा । सुमनोहारकैश्चापि कलशैर्दीपकैस्तथा ।।८६ ।।
रचयामासतू रम्यं पूरयामासतुश्च तौ । मण्डलं सर्वतोभद्रं मध्ये धान्यैर्नवैर्नवैः ।।८७।।
संस्थापयामासतुश्च सौवर्णं कलशं ततः । तत्र घटे पञ्चरत्नं जलं फलं तथाऽम्बरम् ।।८८ ।।
विन्यस्य तिलपूर्णां च स्थालीं दध्यतुरादरात् । तत्र मूर्तिं प्रतिष्ठाप्य पुपूजतुः सुवस्तुभिः ।।८९।।
स्नानं वस्त्रं चन्दनं कुंकुमं पुष्पाणि चाक्षतान् । विभूषणानि हाराँश्च धूपं दीपं फलानि च ।। ९० ।।
आरार्त्रिकं स्तुतिं प्रदक्षिणां मिष्टान्नभोजनम् । जलं ताम्बूलकं पुष्पांजलिं चक्रतुरर्थनाम् ।।९१ ।।
नर्तनं गीतिकां वाद्यसहितां चक्रतुस्तदा । ततो जागरणे तत्र मध्यरात्रौ पुमुत्तमः ।।९२।।
कृष्णनारायणः साक्षाल्लक्ष्मीश्रीराधिकापतिः । पार्वतीमाणिकीस्वामी प्रभेशः पुरुषोत्तमः ।।९३।।
प्रेयसीश्रेयसीपाता श्रीजयाललितापतिः । अक्षराऽधिपतिर्मुक्तपतिर्गोपीपतिः प्रभुः ।।९४।।
सर्वपतिश्चान्तरात्मा मंगलायतनो हरिः । प्रादुर्बभूव सहसा विहसन् काशयन् दिशः ।।९५।।
प्राहाऽस्म्यतिप्रसन्नोऽहं पञ्चम्या व्रतवर्तनात् । वरदानं प्रयच्छामि वृणुत यद्यथेप्सितम् ।।९६ ।।
भक्तौ मे वैष्णवौ जातौ तेनाऽस्म्यतिप्रतोषितः । ददामि मम सर्वस्वं किमन्यन्यत् सुदुर्लभम् ।।९७।।
श्रुत्वा नत्वा दण्डवच्च प्राहतुः पुरुषोत्तमम् । वसुधानश्च राध्यासा प्रभो नाऽविदितं तव ।।९८।।
चतुर्दशानां लोकानां धनाधिपत्यमल्पकम् । कांक्षावहे न तत्स्वामिन् रंकतुष्टिकरं हि तत् ।।९९।।
पारमेष्ठ्यपदं स्वामिन् कुंभकारक्रियामयम् । नेच्छावस्तत्पदं तस्मादैन्द्रं दैत्यप्रपीडनम् ।। १०० ।।
तत्पदानि न कांक्षावः कांक्षावस्तत्परं तु यत् । यावतामीश्वराणां वैराजादीनां परं तु यत् ।। १० १।।
महाविष्णोः परं यच्च हिरण्याधिपतेः पदम्। श्रीपुराख्यात्परं यच्च तेजो वैकुण्ठतः परम् ।। १०२।।
विष्णोर्वै स्थानतः श्रेष्ठं हिरण्याधिपतेः पदम् । माहाकौबेरकं पुंसो भूम्नः कोशमयं तु यत् ।। १ ०३।।
ईश्वराणां तु कोटौ तद् वर्तते यन्महत्तमम् । अनन्ताऽण्डकुबेराणां तृप्तिस्तस्य कणेन वै ।। १ ०४।।
जायते तन्महाराज्यं भूम्नः कोशाधिपात्मकम् । सर्वेशानां तु वै दिव्यहिरण्याऽऽत्तिर्यतोऽस्ति वै ।। १०५।।
तद्धिरण्याधिपत्यं वै समिच्छावः कृपाऽस्तु ते । भक्तानां तु कृते किञ्चिदधिकं स्वामिनोऽस्ति न ।।१० ६।।
यद्ययुक्तं वाञ्च्छितं चेत् क्षम्यतां पुरुषोत्तम । नान्यत् कांक्षावहे कृष्ण तुष्टो यत्पुरुषोत्तमः ।। १०७।।
इत्यभ्यर्थ्य पादयोस्तौ पतितौ श्रीहरेस्तदा । तथास्त्विति हरिः प्राह प्राहापि पुनरेव तौ ।। १०८।।
वर्तमानस्य हैरण्याधिपतेरायुषः क्षये । सर्गान्तरे भवन्तो वै भविष्यथस्तथाविधौ ।। १०९।।
इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् । अनन्तानां हिरण्याधिपतीनां तत्र संक्षयः ।। ११ ०।।
जायते वासुदेवस्य दिने दिने न संशयः । तत्रैकस्य हिरण्याधिपतेर्नाशोऽभवत्तदा ।। १११ ।।
वसुधानं च राध्यासां निनाय तत्पदं प्रभुः । महाकौबेरकं चैशं पदं ताभ्यां ददौ हरिः ।। १ १२।।
हिरण्याधिपतिर्भूत्वा राजते वसुधानकः । राध्यासाऽपीश्वरी श्रेष्ठा कुबेराणी विराजते ।। १ १३।।
यदस्य ब्रह्मणश्चतुर्मुखस्य पद्मजस्य वै । पिता विराट् तस्य पिता महाविष्णुस्ततः परः ।। १ १४।।
यो नाम पूरुषश्च भूमनारायणाभिधः । तस्य कोशेश्वरो भूत्वा वसुधानो नराधिपः ।। १ १५।।
वर्ततेऽयं भूमकोशाधिपः सर्वाधिपो यथा । प्राकृतप्रलयं यावद् वर्तिष्यते धनाधिपः ।। १ १६।।
साक्षात्प्रत्यक्षदर्शित्वाद् वेद्म्यहं पुरुषोत्तमः । लक्ष्मि! प्रिये! न चान्योऽस्ति सर्वज्ञो मां विना यतः ।। १ १७।।
परब्रह्मस्वरूपोऽहं वेद्मि सर्वज्ञसर्ववित् । इत्येवं वै मया ताभ्यां पूर्वसृष्ट्यन्तकालिकम् ।। १ १८।।
पञ्चम्यास्तु व्रतस्यान्ते फलं दत्त हि शाश्वतम् । इदृग्विधं फलं दातुं शक्तः कः स्याद्धि मां विना ।। १ १९।।
सर्वे वै कालकवलाः ऋते नारायणं खलु । सर्वं सृष्ट्वा प्रविशामि वसामि विरमामि च ।। १२० ।।
तथाऽप्यकुण्ठविज्ञानो भवाम्येको न चापरः । तदत्र कथितः पूर्वसृष्टिवृत्तान्त एव ते ।। १२१।।
पञ्चम्यां व्रतकर्तुर्हि नरस्यापि स्त्रियास्तथा । श्रोतुर्वक्तुः फलं तादृगस्य वै भवते ध्रुवम् ।। १२२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये द्वितीयपक्षस्य पञ्चम्यां व्रतकर-णेन शिवभक्तयोः पूर्वसृष्टिस्थयोः राध्यासाराज्ञीवसुदान-नृपयोः शिवप्रदत्तवैष्णवत्वोत्तरं वेधःपितृवैराजा-दप्यूर्ध्वमीश्वरसृष्टौ वर्तमानसृष्टौ हिरण्यकोशाधि-पतित्वात्मकमहाकौबेरपदप्राप्तिवर्णननामा द्वादशाधिकत्रिशततमोऽध्यायः ।।१.३१२।।