लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६९


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथामन्यां सुपावनीम् ।
कपोताश्चाययुर्व्योम्ना दशोत्कराऽन्नवाञ्च्छया ।। १ ।।
कथामण्डपमासाद्य क्षणं तस्थुर्घटध्वजे ।
निषेदुर्मण्डपे शान्ताः कथाश्रवणहेतवे ।। २ ।।
जातिस्मराश्च ते सर्वे कथान्ते द्वादशीदिने ।
वैशाखकृष्णे पक्षे वै मध्यान्होत्तरमेव ह ।। ३ ।।
पाकशालाऽभ्याशभूमौ भोजनालयभूतले ।
वीक्ष्य लोकाँस्तु भुञ्जानान् साधून् साध्वीश्च वैष्णवान् ।। ४ ।।
आशयोच्छिष्टलब्धेस्ते समुड्डीय पुनः पुनः ।
मण्डपोपरि तिष्ठन्ति निषीदन्ति समीहया ।। ५ ।।
तावन्मिष्टौदनाद्यं च भक्ष्यं पक्वान्नमुत्तमम् ।
उच्छिष्टं साधुसाध्व्यश्च चिक्षिपुश्चोत्करे ततः ।। ६ ।।
कपोता दश शीघ्रं निर्भीका भक्ष्यार्थमाययुः ।
प्रसादं सहसा भुक्त्वा पीत्वा सूपं जलं तथा ।। ७ ।।
तृप्तास्तुष्टाः प्रसन्नाश्च बभूवुर्गतकल्मषाः ।
पावना धन्यभाग्याढ्या मेनिरे पुण्यमुत्तमम् ।। ८ ।।
उड्डीय ते वृक्षषण्डे निषण्णा जगदुर्मिथः ।
अहो भाग्यं तु नः श्रेष्ठं प्रसादोऽद्य हरेः सताम् ।। ९ ।।
उच्छिष्टो लब्ध उत्कृष्टो भक्षितः पापनाशकृत् ।
पूता अद्य तु जाताः स्म पक्षिणो भाग्यशालिनः ।। 4.69.१० ।।
श्रुताऽस्माभिः कथा दिव्या मोक्षदा संहितात्मिका ।
अहो भाग्यं मानवानां ये शृण्वन्ति सदा कथाम् ।। १ १।।
अहो भाग्यमतिथीनां प्रसादं भुंजते तु ये ।
अहो भाग्यं तु कीटानामदन्त्युच्छिष्टमत्र ये ।। १ २।।
अहो भाग्यं पशूनां च येऽदन्त्युच्छिष्टमत्र वै ।
धन्येयं भूमिका मोक्षकरी जाता तु पावनी ।। १ ३।।
धन्या सिन्धुः सुधासिन्धुसमाऽद्य वर्तते भुवि ।
वदन्त्येवं कपोतास्ते तच्छ्रुतं त्वेकसाधुना ।।१४।।
नाम्ना कृष्णविरामेण भूतरुताभिवेदिना ।
तेन पृष्टाः कपोतास्ते प्रेम्णा जिज्ञासया द्रुतम् ।। १९।।
के भवन्तः कपोता यत् प्रसादोत्कर्षवेदिनः ।
हरेः सतां च माहात्म्यविदो दिव्या इवोत्तमाः ।। १६।।
जातिस्मराः कपोतास्ते प्राहुर्वयं पुरा क्षितौ ।
एकग्रामनिवासा वै सार्थवाटेतिजातिजाः ।। १७।।
आस्म वै मृत्तिकापुर्यां दारिद्र्यदोषपीडिताः ।
दशैव नवकुट्टाख्ये नगरे जीविकेच्छया ।। १८।।
अगच्छाम च तत्रापि भृत्यतायां धनिगृहे ।
धनिना निजकार्यार्थं योजिता वेतनेन वै ।। १ ९।।
सर्वे वयं तु कार्पासव्यापारे तेन योजिताः ।
कार्पासानामानयने ग्रामान्तरेभ्य इत्यपि ।।4.69.२०।।
कार्पासानां विक्रये च क्रयेऽपि योजिता वयम् ।
एकदा कृता न्त्राश्च वयं तु धनलालसाः ।।२ १ ।।
जानन्तो भूमिगं द्रव्यं श्रेष्ठिनो रामवर्चसः ।
रात्रौ विश्वासमापन्नं समस्ता रामवर्चसम् ।।२२।।
एकलं गलपाशेन रुरुधिमाऽतिनिर्दयाः ।
रामवर्चा मृतिं प्राप्तो वयमादाय नाणकम् ।।२३।।
निर्ययिम नगराद्वै तेन पापेन वै पथि ।
चौरैर्मिलितैर्बहुभिर्लुण्टिता मारितास्तथा ।।२४।।
शवाः क्षिप्ताश्च गर्तेषु फलं प्राप्ता द्रुतं तदा ।
यमदूतैर्धृताः पाशैर्नीता याम्यपुरं दश ।।२५।।
भुक्तवन्तो यातनानि कुण्डेषु पातिता यमैः ।
निर्गत्य च ततो जाता वने वयं तु भल्लुकाः ।।२६।।
मृतास्ततो वानराश्च जाता सह दशैव तु ।
पुनर्मृताश्च काका वै जातास्ततः सहैव च ।।२७।।
मृताः कपोतका जाता वर्तामश्चात्र भक्षकाः ।
उच्छिष्टभोजिनो जाता जातिस्मरास्तु पावनाः ।।२८।।
भवत्प्रसादोच्छिष्टस्याऽदनादद्याऽघनाशनम् ।
जातं सर्वविधानां वै पापानां विनिवर्तनम् ।।२९।।
उक्तं सर्वं स्मरामोऽद्य कृतपापफलादिकम् ।
भाति नोऽद्य परं श्रेयो भवनाशो भविष्यति ।।4.69.३०।।
कथायाः श्रवणं पुण्यं पुण्यं प्रसादभोजनम् ।
पुण्यं सतां दर्शनं च सत्संगो मोक्षदः सदा ।।३ १।।
साधो भवत्प्रसंगेन निर्भीकाः स्मो वयं त्विह ।
मोक्षार्थं साधनं यत्तद् देहि नः शीघ्रमेव ह ।। ३२।।
प्राप्तलाभः पुनर्नैव मिलिष्यतीति मा चिरम् ।
इत्येवं बद्रिके तैस्तु कपोतैः परिभाषितः ।।३३।।
कृष्णविरामः सलिलं करे धृत्वा स्थितोऽभवत् ।
आह्वयामास तान्सर्वान् कपोतान् शरणं प्रति ।। ३४।।
आययुस्ते द्रुतं मत्वा कल्याणं समुपस्थितम् ।
निपेतुः पादयोस्तस्य सोऽपि वाराऽभ्यषेचयत् ।। ३५।।
श्रावयामास नामाऽपि कृष्णनारायणेति च ।
तावत्ते पक्षिवष्माणि समुत्सृज्य सुराः शुभाः ।। ३६।।
दिव्या देवाः सुरूपाश्चाऽभवन् साधोः प्रपश्यतः ।
अथोचुस्ते सन्तमेनं देहि मन्त्रं तु मोक्षदम् ।।३७।।
देवलोकं न चेच्छामो यतः प्रपतनं पुनः ।
श्रुत्वा साधुर्ददौ मन्त्रं कृष्णनारायणस्य वै ।।३८।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रं प्राप्य कपोतास्ते देवास्तिरोऽभवन् द्रुतम् ।।३९।।
चतुर्भुजास्तु मुक्तास्तेऽभवन् साधोः प्रपश्यतः ।
'प्रभोनारायण पद्मावतीनारायण प्रभो ।।।4.69.४०।।
जयाकृष्ण ललितान्रायणाय राधापते विभो' ।
एवं ते भजनं चक्रुस्तावत्तत्र विमानकम् ।।४१ ।।
कृष्णनारायणस्वामियुक्तं चावाऽतरत्तु खात् ।
तानाह भगवान् कृष्णोवल्लाभार्यः कृपावशः ।।।४२।।
आयान्तु मे विमानं वै मुक्ता भक्ता ममाऽऽश्रिताः ।
कपोतका भवन्तोऽद्य सुपोतकाः सुमुक्तिगाः ।।४३।।
इत्युक्त्वा तान् करे धृत्वा भगवान् कृष्णमाधवः ।
निनाय शाश्वतं धामाऽक्षरं साघोः प्रपश्यतः ।।४४।।
बद्रिके ते सदा मायाबन्धाद् विनिर्ययुः सुखम् ।
अथाऽन्यं ते चमत्कारं कथयामि निबोध मे ।।४५।।
काकानां शतसंख्यानां मण्डलं व्योमवर्त्मना ।
यदृच्छयाऽऽययौ तत्र महानससमीपतः ।।४६।।
गन्धं प्राप्य च मिष्टान्नं वीक्ष्य घ्रात्वाऽऽज्यधूम्रकम् ।
अवातरत् तरुषण्डे भोजनोच्छिष्टवाऽच्छया ।।४७।।
वैशाखस्याऽसिते पक्षे त्रयोदश्यां दिनार्धके ।
भागे तेषां वैष्णवानां सतां वै भोजनोत्तरम् ।।४८।।
उच्छिष्टमुत्करस्थं तु भक्षयितुं प्रसादकम् ।
उपर्युपरि चोत्पेतुः काकास्ते हृष्टमानसाः ।।४९।।
निपेतुर्हृष्टशब्दास्ते बुभुजुर्मिष्टमुत्तमम् ।
क्षीरं च दुग्धसारादि पोलिकाः पूरिकादिकम् ।।4.69.५०।।
ओदनं च तथा सूपं चणकान् ग्रन्थकाँस्तथा ।
पूपानपूपान् कलिका बुभुजुश्चोत्करोज्झितान् ।।५१ ।।
साधुप्रसादरूपाँश्च सर्वे काका मुदान्विताः ।
बद्रिके महदाश्चर्यमभूत्तत्राऽप्यतर्कितम् ।।५२।।
कृष्णपक्षास्तु ते काका बभूबुस्तत्र सर्वथा ।
कर्बुरपक्षिणो रम्या नानारंगाढ्यपक्षिणः ।।५३।।
कृष्णं रूपं हि पापात्म लीनं पक्षेषु भागतः ।
अथाऽन्यस्मिद् दिने चापि बुभुजुस्ते तथाविधम् ।।५४।।
तेन श्वेतबहुला वै पक्षास्तेषां तदाऽभवन् ।
अथाऽपरस्मिन् दिवसे बुभुजुस्ते तयोज्झितम् ।।५५।।
सम्पूर्णश्वेतपक्षास्तेऽभवन् दुग्धस्वरूपिणः ।
अथेतरस्मिन् दिवसे बुभुजुस्ते तथोज्झितम् ।।५६।।
सर्वथा काकदेहास्ते श्वेतरूपा बभूविरे ।
अहो प्रसादमाहात्म्यं पापानां नाशकं परम् ।।५७।।
सतामुच्छिष्टमाहात्म्यं सर्वपातकनाशनम् ।
पातकं कृष्णवर्णं वै श्वेतं पुण्यं सदा मतम् । ।५८।।
पुण्यवन्तः प्रजातास्ते काका हंससमास्तदा ।
एवं ते बुभुजुर्नित्यं शुद्धात्मानोऽभवँस्ततः ।।५९।।
काकजातीयदोषाश्च नष्टास्तेषां तदात्मनाम् ।
जातिस्मराश्च ते जाता ज्ञानिनो हंसवत्तदा ।।4.69.६०।।
तान् द्रष्टुं मानवास्तत्राऽऽयान्ति कुतूहलान्विताः ।
काकास्ते निर्भयास्तत्र विचरन्ति च भूतले ।।६१ ।।
प्रशंसन्ति प्रसादस्योच्छिष्टमाहात्म्यमद्भुतम् ।
अहो प्राप्ता हरेश्चापि सतामुच्छिष्टभोजनम् ।।६२।।
तेन पुण्येन पापानि नष्टानि तामसानि नः ।
राजसानि समस्तानि नष्टान्यघानि सर्वथा ।।६३।।
सात्त्विकानि तु पुण्यानि स्वर्गप्रदानि यानि वै ।
तानि जातानि चास्माकं सतां प्रसादसेवया ।।६४।।
काका वयं हि पापिष्ठा विडभुजः पूर्वकर्मतः ।
तेषां कल्याणकर्तारः सन्तः सतां प्रसादकाः ।।६५।।
ये न भुंजते कृष्णस्य प्रसादं च सतां तथा ।
ते लोके श्वेतवर्णाश्चेत् तथापि काककोटिकाः ।।६६।।
ये तु भुंजते कृष्णस्य सतां प्रसादमुत्तमम् ।
ते कृष्णा अपि नित्यं वै देवास्ते हंसकोटिकाः ।।६७।।
श्वेतत्वं निष्फलं तेषां येषां पापात्मभोजनम् ।
कृष्णत्वं सफलं तेषां येषां वै विघसाशिता ।।६८।।
तद्गृहं मलवत् प्रोक्तं यत्र देवा न भुंजते ।
सा भाषा काकभाषा वै न यत्र कृष्णकीर्तनम् ।।६९।।
तद्रूपं कुष्ठरूपं वै यन्न कृष्णार्थमर्पितम् ।
तद्भोज्यं तज्जलं मिष्टं शाकं पत्रं फलं दलम् ।।4.69.७०।।
वस्त्रं चोपकरणादि कृष्णार्थं न कृतं तु यत् ।
सर्वे तत् काकमलवत् पापभृतं मतं त्विह ।।७१।।
तिरश्चां नैव दोषोऽस्ति पशूनां नापि दूषणम् ।
दोषस्तु मानवानां यज्जानन्तोऽप्यर्पयन्ति न ।।७२।।
न भजन्ते न सेवन्ते नाऽऽश्रयन्ति हरिं सतः ।
यतन्ते नापि चात्मार्थे ते हरेरपराधिनः ।।७३।।
आगस्कृतस्त एवाऽत्र कर्तव्यं नाऽऽचरन्ति ये ।
मानवत्वं व्यर्थयन्ति न स्मरन्ति हरिं प्रभुम् ।।७४।।
वैष्णवानां सेवनं न गुरोः प्रसन्नतां न च ।
पित्रोराशीर्वचनं न प्राप्तास्ते नारका ध्रुवाः ।।७५।।
अपि चन्द्रसमं त्वास्यं वाणी मिष्टा सुधासमा ।
देहः स्वर्णसमश्चापि कृष्णशून्यास्तु ते यदि ।।७६।।
तदा ते निरया बोध्या दोषाऽऽकराऽघकोशकाः ।
सर्वे काकांगरूपास्ते निकृष्टा नरकप्रदाः ।।७७।।
काकशब्दः सार्थको नश्चाद्य सम्यग् व्यजायत ।
कं सुखं तद्भिन्नमेव दुःखमकं समुच्यते ।।७८।।
कुत्सितं तु कृतं दुःखमद्य प्रसादसेवनात् ।
काकास्तेन वयं त्वद्य सुखाऽर्थिनोऽघवर्जिताः ।।७९।।
का शक्तिर्ब्रह्मणः प्रोक्ता राधा लक्ष्मीः सती प्रभा ।
तया कं सुखमस्त्येषां काका वयं सुखाश्रयाः ।।4.69.८०।।
का काया पृथिवी तत्र कं सुखं चाऽत्र वर्तते ।
अस्माकं काकवाच्यत्वं सुखित्वं घटतेऽद्य वै ।।८ १।।
इत्येव बद्रिके काका वार्ता कुर्वन्ति वै मिथः ।
तां शृण्वन्ति जनास्तेषां दर्शकाः स्मयसंभृताः ।।८२।।
जनास्तान् श्वेतवर्णास्तु पप्रच्छुः पक्षिणः शुभान् ।
कथं काका भवन्तोऽत्र पूर्वं के के ततः परम् ।।८३।।
काकस्त्वेकश्चाग्रगण्य उवाच मानवान् प्रति ।
वयमास्व कंकवर्णाः कंकाः पूर्वे हि मानवाः ।।८४।।
लुण्टका मलिनाहाराः परदारप्रधर्षकाः ।
परद्रव्यहराश्चापि परान्नभोजकास्तथा ।।८५।।
खदिरग्रामवासाश्च मद्यमांसपरायणाः ।
एकदा पूर्वनारायाः सरितः सन्निधौ वने ।।८६।।
प्रयान्तं श्रेष्ठिनं प्राप्य समाचराम लुण्टनम् ।
श्रेष्ठी लक्षेण सहितो नाणकेन प्रलुण्टितः ।।८७।।
तावद् यदृच्छया तत्राऽऽययुश्चान्ये प्रलुण्टकाः ।
पञ्चाशत् ते परिज्ञाय वृत्तान्तं वणिजो द्रुतम् ।।८८।।
लुण्टितुं नः समायाता युद्धं मिथोऽभवत् तदा ।
मृताः परस्परं सर्वे शस्त्रैर्याम्यपुरं गताः ।।८९।।
कृतानां कर्मणां सर्वैः फलं भुक्तं तु कुण्डजम् ।
याम्यपाशान्निर्गताश्च द्विपिनोऽरण्यवासिनः ।।4.69.९०।।
हिंसकाः स्मो वयं जाता वृका जातास्ततः परम् ।
मार्जाराश्च ततो जातास्ततः काकास्तु साम्प्रतम् ।।९१ ।।
अत्र प्राप्तं प्रसादस्योच्छिष्टं हरेः सतां तथा ।
वैष्णवानां शुभं सर्वं सर्वपातकनाशकम् ।।९२।।
पातकानि समस्तानि नष्टान्युच्छिष्टभोजनात् ।
श्वेता इदानीं जाताः स्मः पुण्यवन्तः सुरा यथा ।।९३।।
यदि लभेम साक्षाच्छ्रीव्यासहस्तजलं त्विह ।
देवा भूत्वा प्रयास्यामो दिवं तूर्णं सुखाश्रयम् ।।९४।।
प्रतीक्षामो जलं तस्याऽमृतं तं सूचयन्तु वै ।
श्रुत्वा लोका व्याससौधमागत्य तमुदन्तकम् ।।।९५।।
कथयामासुरीशं तं स्वतःप्रकाशकायनम् ।
व्यासस्तूर्णं कृष्णनारायणप्रसादवारि च ।।९६।।
नीत्वा ययौ तु तान् सर्वान् वारिणा सोऽभ्यषेचयत् ।
प्रभोनारायणकृष्णनारायणेति कीर्तयन् ।।९७।।
तावत्ते बद्रिके सर्वे त्यक्तदेहास्तदाऽभवन् ।
पीत्वा जलकणान् स्पृष्ट्वा जलबिन्दून् द्रुतं सुराः ।।९८।।
सुरतुल्या दिव्यरूपा सञ्जाता दिव्यमूर्तयः ।
मन्त्रमयाचन् व्यासात्ते प्रपूज्य चरणौ ततः ।।९९।।
व्यासदेवो ददौ मन्त्रं नामधुन्यं ददौ तदा ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।। 4.69.१० ०।।
प्रभोनारायण पद्मावतीनारायण प्रभो ।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो ।।१० १।।
प्राप्य मन्त्रं प्राप्य धुन्यं लब्ध्वा पादामृतं तथा ।
लब्ध्वा कृपां प्राप्य चाशीर्वादान् व्यासस्य ते सुराः ।। १० २।।
चतुर्भुजाः स्म सञ्जाता मुक्ता वैकुण्ठयोगिनः ।
नत्वा ययुस्ते सहसा दिव्या अम्बरवर्त्मना ।। १० ३।।
वैकुण्ठं भगवद्धाम नारायणविमानगाः ।
वैशाखशुक्लतृतीयातिथौ मध्यान्हकोत्तरम् ।। १ ०४।।
प्राप्ता वैकुण्ठलोकं ते साधुप्रसादभोजिनः ।
एवं श्रीबद्रिके तेषां मुक्तिस्तत्राऽभवत्तदा ।। १ ०५।।
पठनाच्छ्रवणादस्य स्मरणात् पापनाशनम् ।
भुक्तिर्मुक्तिर्भवेच्चापि कृष्णप्राप्तिः शुभा भवेत् ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिना पुरा सार्थवाटजातीनां दशकपोतानां, तथा पुरा कंकजातीनां शतकाकपक्षिणां, साधोः कृपादिभिश्चोच्छिष्टभोजनेन च मोक्षणमित्यादि निरूपणनामा नवषष्टितमोऽध्यायः ।। ६९ ।।