लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १०९

← अध्यायः १०८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १०९
[[लेखकः :|]]
अध्यायः ११० →


श्रीकृष्ण उवाच-
शृणु त्वं राधिके तेषामासुराणां तु गर्जनैः ।
व्यनदँस्तु दिगन्ता चाऽम्बरं चुक्षोभ सग्रहम् ।। १ ।।
जलपानेयदेशानां राजा मकरकेतुमान् ।
फिलीपानां नृपश्चापि फलजंगमनामकः ।। २ ।।
वारणीयद्वीपराजो नाम्ना वार्धूषकेतनः ।
आर्द्रमानद्वीपराजो नाम्ना कल्माषकेसरिः ।। ३ ।।
कालप्रालेयकानां च राजा रणमदांकनः ।
प्राचीनानां च देशानां नृपो बोधविहंगमः ।। ४ ।।
चिपिंगानां च देशानां राज्ञा पिंगलकस्तथा ।
मंगूजानां महाराजो नाम्ना समरमंगलः ।। ५ ।।
मञ्चूराणां तथा राजा हारकिरिटनामकः ।
लाशहानां महाराजः क्षणात्मवादनाभिधः ।। ६ ।।
कर्वरीप्रान्तजो राजा कारुवर्माऽभिधस्तथा ।
इलादेशनृपो नाम्ना माण्डलाक्षिर्महाबलः ।। ७ ।।
पन्नामदेशराजश्च नाम्ना पादसहाऽभिधः ।
प्राक्चयनप्रदेशानां राजा प्राचीनशायनः ।। ८ ।।
अंगशिक्षांगदेशानां शृंगशेकाभिधो नृपः ।
एतै चान्ये च वै मुख्या राजानौ युद्धदुर्मदाः ।। ९ ।
लक्षायुतैर्निजैः सैन्यैर्व्योमप्रसारिभिः सह ।
विद्युद्गोलैर्वह्नियन्त्रैस्तूर्णस्फोटैश्च पुत्तलैः ।। 2.109.१० ।
शस्त्रक्षेपैश्चाऽऽणुक्ष्वेडैः सुरंगशक्तिभिस्तथा ।
व्योमजालैः शतघ्नीभिर्मायाजालैर्विषाश्रुभिः ।। ११ ।
विषानिलैः कृत्रिमार्यैर्युयुधुः सुरमानवैः ।
युद्धं समभवञ्चेदं शतयोजनवर्तुले ।। १२।।
पितृकन्याविमानं च ब्रह्मप्रियाविमानकम् ।
ररक्षशंकरो देवो बालकृष्णस्तथा स्वयम् ।। १३ ।।
अन्ये च शांकरा ब्राह्माः सौर्याश्च वैष्णवा गणाः ।
कोटिशो युयुधुस्तत्राऽऽज्ञयाऽऽसुरैः समं तदा ।।१४।।
राधिके! पर्वतप्राया योजनोर्ध्वेम्बरे तु ते ।
उत्प्लुत्य ग्रहवत् सर्वे युद्ध्यन्ति स्म तदाऽम्बरे ।। १५।।
अन्ये पञ्चयोजनोर्ध्वे पञ्चाशद्योजनोर्ध्वगाः ।
सूर्यवत् सहसा गत्वा पतन्ति सैन्यशक्तिषु ।। १६।।
नक्षत्रमण्डलानीव शोभन्ते योधिनोऽम्बरे ।
मकरकेतुमान् राजा शतसाहस्रसंख्यकैः ।। १७।।।
योद्धृभिः सहितो व्योम्नि युयुधे चारुणैः सह ।
अर्यमा तं तु राजानं ससैन्यं सागरोपरि ।। १८।।
विष्णुप्रदत्तचक्रेण तथा चक्रैः स्वकैर्द्रुतम् ।
घातयित्वाऽम्बरे तानप्रेषयत् स यमालयम् ।। १ ९।।
सूर्यकेतुश्च तत्पुत्रो हरेः शरणमागतः ।
रक्षितो हरिणा तत्र वैष्णवः स कृतस्ततः ।।2.109.२० ।।
फिलीपानां महाराजो युयुधे शांकरैर्गणैः ।
अयुतयोद्धृसहितो वह्निगोलैश्च होतिभिः ।।२१ ।।
गणास्तु शतसाहस्रा निजघ्नुर्विद्युदस्त्रकैः ।
फिलीपराजसहितान् योद्धॄनयुतसंख्यकान् ।।२२।।
तत्सुतः शरणं प्राप्तः श्रीहरेर्बीजजंगमः ।
अन्येऽपि शतशः पुत्राः श्रीहरेः शरणं गताः । ।२३।।
ते सर्वे बीजजंगाद्या वैष्णवा हरिणा कृताः ।
वारणीयभुवो राजा द्वैपो वार्धूषकेतनः ।। २४।।
पञ्चलक्षभटोपेतो युयुधे विष्णुपार्षदैः ।
वह्नियन्त्रैस्तूर्णशस्त्रैरम्बरे चक्रकैस्तथा ।।२५।।
पार्षदा निजचक्रैस्तान् निजघ्नुश्चाब्धिसंगमे ।
चतुर्लक्षभटा नष्टा राजा -हतः सुदर्शनात् ।। २६।।
तत्पुत्रः सारकेतुश्च लक्षयोद्धृसमन्वितः ।
श्रीहरेः शरणं प्राप्तो वैष्णवो हरिणा कृतः ।। २७।।
तद्भटा वैष्णवाः सर्वे जाताः प्राणरिरक्षवः ।
आर्द्रमानद्वीपराजो दैत्य कल्माषकेसरी ।। २८।।
कृष्णक्रूरायुतसंख्यभटैः सह विमानगः ।
युयुधे व्योमजालाद्यैरस्त्रशस्त्रैर्विषाश्रुभिः ।। २९।।
कल्पवल्लीजन्यभटैर्लक्षसंख्यकवैष्णवैः ।
वैष्णवा व्योमजालानि चिच्छिदुः कर्तरीगणैः ।। 2.109.३ ०।।
कल्पवल्ल्युत्थितैस्तूर्णं चाम्बरे बहुयत्नतः ।
निजघ्नुः प्राणतः सर्वान् सुदर्शनैश्च तद्भटान् ।। ३१ ।।
कल्माषकेशरं मूर्ध्नो द्वेधा चक्रं तदाऽकरोत् ।
हते .कल्माषकेशे च तत्पुत्राः पञ्च कल्मषाः । ।३ २ ।।
रक्तकेशः कृशाकेशश्चित्रकेशोऽग्निकेशकः ।
धूम्रकेशस्तथा चान्ये श्रीहरेः शरणं ययुः ।।३३ ।।
तेऽपि मन्त्रप्रदानेन वैष्णवा हरिणा कृताः।
अथ काललयजन्या आसुरा ये भयंकराः ।।३४।।
त्रिंशल्लक्षाः सशस्त्रास्ते नैकरूपधराः खगाः ।
युयुधुर्वैष्णवैः सार्धं पार्षदैर्दशलक्षकैः ।।३५।।
पुत्तलैः कृत्रिमैर्व्योम्नि तूर्णस्फोटैश्च गोलकैः ।
शराणां वृष्टिभिर्विद्युत्पाशैः कासारवृष्टिभिः ।। ३६। ।
नागपाशैः शिलाभिश्च घनैर्लोहोद्भवैस्तथा ।
निजघ्नुर्वैप्णवान् क्रूरा मृषामायामदोद्धताः ।।३७। ।
पार्षदा भगवद्वर्म धारयित्वा तु तैः सह ।
अन्तरीक्षे विमानस्थास्तदा युयुधिरेऽस्त्रकैः ।।३८। ।
कालकालेयजो ज्येष्ठः पुत्रो रणमदांकनः ।
गदां धृत्वा मूढमारं ममार वैष्णवान् बहून् ।।३९। ।
मूर्छितास्त्वापतन्नुर्व्यामन्ये भग्नाश्च दुद्रुवु: ।
कृप्णनारायणवर्म रक्षार्थं जेपुरुद्विजः ।।2.109.४०। ।
'अस्य श्रीकृष्णनारायणवर्मणः सती रमा ।
छन्दोऽनुष्टुप् तथा कृष्णनारायणस्तदिष्टदः ।।४१।।
सर्वजिष्णुं परब्रह्म दैत्यदानवनाशनम् ।
नमामि श्रीहरिं कृष्णं लक्ष्मीशं वल्लभं प्रभुम् । ४२।।
बीजं गोपालबालश्च भक्तपालो महाप्रभुः ।
शक्तिश्च वैष्णवीदीक्षा महाभागवती शुभा । ।४३ ।।
कीलकः श्रीकम्भराश्रीनन्दनो भक्तिवर्धनः ।
विनियुक्तो जपे स्मृत्वा राधापारवतीपतिः ।।४४।।
ध्यानं सर्वावताराणां सामर्थ्यानां प्रभावताम् ।
प्रभवस्य सगुणस्य मञ्जुहंसहरेर्हृदि ।।४५।।
न्यासो मे मस्तके चास्तु मस्तकं श्रीहरेरिह ।
नेत्रयोर्भगवन्नेत्रे हरेः कर्णौ च कर्णयोः ।।४६।।
नासायां कृष्णनासाऽस्तु मुखे नारायणाननम् ।
कृष्णनारायणकण्ठो मे कण्ठेऽस्त्वसुरक्षकः ।।४७।।
हृदये मे चक्रधर्तुर्हृदयं चाऽस्तु शार्ङ्गिणः ।
पृष्ठे कुंकुमवापीस्थहरेः पृष्ठं सदाऽस्तु मे ।।४८।।
अश्वपट्टसरःस्थस्योदरं ममोदरेऽस्तु च ।
नाभ्यां मे बालकृष्णस्य नाभिरस्तु जगद्धरा ।।४९।।
जघने मे हरेश्चाऽस्तु जघनं बलसंभृतम् ।
गुप्ते कट्यां च मे स्तां च हरेर्धातुः कटीन्द्रिये ।।2.109.५०।।
सक्थ्नोर्मे सक्थिनी च स्तां दैत्यदानवनाशितुः ।
जान्वोर्मे च हरेर्जानू स्तां शक्तिसेवितुः प्रभोः ।।५१।।
जंघयोः स्तां परनारायणजंघे जगच्छ्रये ।
पादयोर्मे सर्वधातुः पादौ स्तां बलिरक्षकौ ।।।५२।
मय्यनादिकृष्णनारायणोऽस्तु मूर्तिमानिह ।
ब्रह्मप्रियापतिश्चास्तु मच्छरीरेन्द्रियादिषु ।।५३।।
ऊर्ध्वे मां रक्षतु स्वामी परमाक्षरधामगः ।
पुरो मां रक्षतु कृष्णनारायणः परेश्वरः ।।५४।।
पार्श्वयोः रक्षतां कृष्णो हरिर्भ्रातृवरावुभौ ।
पृष्ठेऽधस्ताद् रक्षतां मे नरो नारायणस्तथा ।।५५।।
पृथ्व्यां माऽवतु लक्ष्मीशो जले रक्षतु सत्पतिः ।
तेजस्यवतु श्रीकान्तोऽन्तरीक्षे तु प्रभापतिः ।।५६।।
ब्रह्मप्रियापतिर्व्योम्नि माणिकीशोऽनिलेऽवतु ।
राधापतिररण्ये मे रक्षां करोतु चक्रधृक् ।।५७।।
गदाधरो हरिर्मां संरक्षत्वसुरकोटितः ।
शक्तिधृग् बालकृष्णो मां दिक्षु विदिक्षु रक्षतात्। ।।५८।।
गोलोकाधिपतिः कृष्णोऽवतु वह्निगणाच्च माम् ।
वैकुण्ठाधिपतिर्नारायणो रक्षतु चासुरात् ।।५ ९।।
अस्त्रशस्त्रविघातेभ्यो वीर्यवान् मां प्ररक्षतात् ।
आकस्मिकभयान्मां थीहृदयस्थः प्ररक्षतात् ।।2.109.६० ।।
कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुःस्वस्तिकधृक् प्ररक्षतात् ।।६१ ।।
इत्येवं कवचं कृष्णनारायणस्य वैष्णवाः ।
धृतवन्तोऽथ दिव्यास्ते मायापारशरीरिणः ।।६२ ।।
सर्वकृष्णबला जाताः सर्वशक्तिसमन्विताः ।
अनादिश्रीकृष्णनारायणस्यैव हि मूर्तयः ।।६३ ।।
सुदर्शनैर्महाचक्रैः प्रयुक्तेः सर्वतोदिशि ।
चिच्छिदुः काललयजान् त्रिंशल्लक्षाऽसुरान् द्रुतम् ।।६४।।
जीवतस्ते मृताः सर्वै रणे पेतुर्महाजले ।
कालप्रालेयपुत्रोऽपि मृतो रणमदांकनः ।।६५ ।।
तत्सुतानां शतं नष्टं विष्णुचक्रेण चाम्बरे ।
प्राचीनानां नृपो बोधविहंगमोऽपि चाम्बरे ।।६६ ।।
कोटिपिशङ्गयोद्धृभृत् पृथ्व्यां युद्धं चकार ह ।
आरुणैर्वैष्णवैः रौद्रैर्गणैः कल्पलतोद्भवैः ।।६७।।
कोटिसंख्यैः रणे देशे शस्त्रास्त्रैरवितर्कितैः ।
अम्बरे सलिले पृथ्व्यां पर्वतेऽरण्यभूमिषु ।।६८।।
सर्वतो युयुधुस्तस्य सैन्यान्यनलशस्त्रकैः ।
विद्युद्गोलैर्वह्नियन्त्रैस्तूर्णस्फोटैश्च पुत्तलैः ।।६९।।
अणुक्ष्वेडैः क्षेपणैश्च शरैः सुरंगशक्तिभिः ।
विद्युऽत्तारैर्वह्निपाशैर्व्योमजालैर्विषानलैः ।।2.109.७०।।
शतघ्नीभिः सैन्यहाभिः शकटीभिर्विमानकैः ।
जलघातैः क्षितिघातैर्घातयामासुरुल्बणाः ।।७१।।
आरुणाद्या गणा वर्म धारयामासुरैश्वरम् ।
निजघ्नुर्बोधसैन्यानि कोटिप्रस्फोटकानि वै ।।७२।।
कल्पवल्ल्युत्थरम्या वै पुत्तला देवसदृशाः ।
वह्नियन्त्रप्रपूराश्चाऽम्बरे जघ्नुर्हि दानवान् ।।७३।।
अर्धं नष्टं महासैन्यं पुत्तलैः पुत्तलात्मकम् ।
सचेतनं ततः सैन्यमशीतिलक्षसंख्यकम् ।।७४।।
आसुराणां हि तन्नष्टं दशलक्षाणि दुद्रुवुः ।
दशलक्षाणि शरणं श्रीहरेस्तत्र चाययुः ।।।७५।।
नाशं प्राप्तस्तथा राजा पिंगो बोधविहंगमः ।
तत्पुत्राः शतसंख्याश्च विज्ञविहंगमादयः ।।७६ ।।
शरणं श्रीहरेः प्राप्ता रक्षिता वैष्णवाः कृताः ।
दशलक्षभटाश्चापि वैष्णवा हरिणा कृताः ।।७७।।
चिपिंगास्त्रिलक्षसंख्या योद्धारो व्योमयानगाः ।
पिंगलकेन चाऽऽदिष्टा युयुधुस्ते विनायकैः ।।७८।।
कल्पवल्लीजनैः सर्वैः रौद्रैस्तदा वनेऽम्बरे ।
कत्पलतोद्भवैर्विनाशकैस्ते लक्षशो भटाः ।।७९।।
हताः सर्वे परशुभिर्गोलकैः क्षेपणैर्नगैः ।
सर्पैः पाशैर्वज्रदंशैस्त्रिशूलैस्ते जलेऽम्बरे ।।2.109.८० ।।
भूमौ चैव विमानेषु यत्र प्राप्ता हता हि ते ।
पिंगलको हतश्चापि तत्पुत्रः पिंगशेककः ।।८ १ ।।
शरणं श्रीहरेः प्राप्तो हरिणा वैष्णवः कृतः ।
मंगूजनप्रदेशानां राजा समरमंगलः ।।।८२।।।
मंचूरणप्रदेशानां हारकिरीटभूपतिः ।
लाशहाना प्रदेशानां क्षणात्मवदनो नृपः ।।८३।।
कारुवर्मा तथा राजा कर्वरीदेशजोऽपि च ।
त एते निजसैन्यैश्च पञ्चाशल्लक्षसंख्यकैः ।।८४।।
सहिता युयुधुः सर्वे ब्रह्मणा परमेष्ठिना ।
ब्रह्मात्वथर्वमन्त्रैश्च जनयामास जाटिकान् ।।८५।।
देवान् दैत्यपृतनासु प्रेरयामास सत्वरम् ।
विद्युत्पाशैः समेतास्ते व्योममार्गेण वै क्षणात् ।।८६।।
उड्डयाञ्चक्रिरे तूर्णं पञ्चाशल्लक्षजाटिकाः ।
विद्युच्छस्त्रैश्च तत्पाशैस्त्रिंशल्लक्षाँस्तु दानवान् ।।८७।।
नाशयाञ्चक्रिरे विद्युद्वज्रैः शेषाश्च दुद्रुवुः ।
आथर्वणोत्थशलभैर्मेघवच्चामरद्रवैः ।।८८।।
विषाक्तैर्दंशिता दैत्याः शेषा ये दशलक्षकाः ।
मृताः सर्वे ततः शेषा दशलक्षाणि तद्भटाः ।।८९।।
जीवनार्थं च शरणं श्रीहरेस्तत्र चागताः ।
ते सर्वे वैष्णवास्तत्र बालकृष्णेन वै कृता ।। 2.109.९०।।
मृतो हारकिरीटश्च तथा समरमंगलः ।
हारकिरीटपुत्राश्च दश सर्वे महाबलाः ।।९ १ । ।
जीवनाशा ययुः सर्वे शरणं श्रीहरेस्तदा ।
प्रभासकिरीटश्रेष्ठा हरिणा वैष्णवाः कृताः ।।९२।।
सहस्रपुत्राः समरमंगलस्यापि वै हरेः ।
शरणं त्वागताः सर्वे हरिणा वैष्णवाः कृताः ।।९३।।
क्षणात्मवदनो राजा युयुधे शंभुना पुनः ।
लक्षसैन्यसमायुक्तो निहतः शंकरेण सः ।।९४।।
कारुवर्मा लक्षसैन्ययुतः पुनश्च शार्ङ्गिणा ।
युयुधे हरिणा सोऽपि सुदर्शनेन घातितः ।।९५।।।
तयोः पुत्राः प्रपौत्राश्च तत्सहायप्रदास्तथा ।
समरे निहताः सर्वे सुदर्शनैर्हि विष्णुना ।।९६।।
इलादेशस्य वै राजा मण्डलाक्षिर्महाबलः ।
तथा पादसहो राजा पन्नामदेशरक्षकः ।। ९७।।
प्राक्चयनभूपालो नाम्ना प्राचीनशायनः ।
शतलक्षसैन्ययुता युयुधुः शंभुना सह ।। ९८।।
अंगशिक्षांगदेशानां शृंगशेकाभिधो नृपः ।
शतलक्षभटैः सार्धं युयुधे शंभुना सह ।। ९९।।
हतास्ते द्विशतलक्षैर्योद्धृभिः सहिता रणे ।
हरेण स्वगणैः सर्वे नाशिता मारिता मृधे ।। 2.109.१०० ।।
एकोऽपि नाऽवशिष्टोऽभूद्धरसंग्रामयायिनाम् ।
एवमेते विनष्टास्ते चतुष्कोटिरणंगमाः ।। १०१ ।।
शेषा प्रजास्तथा सैन्यभटास्तु वैष्णवाः कृताः ।
अनादिश्रीकृष्णनारायणेन राधिके! तदा ।। १०२।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
मन्त्रं ददौ हरिस्तेभ्यः ऋषयश्चाऽऽज्ञया हरेः ।। १०३ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मकरकेतुमदादिपञ्चदशभूभतां सपादचतुष्कोटिसैन्यसहितानां शंभ्वादिभिः सह युद्धे मरणाच्छिष्टानां पञ्चविंशतिलक्षाणां शरणागतिरित्यादिनिरूपणनामा नवाऽधिकशततमोऽध्यायः ।।१०९।।