← अध्यायः ११६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११७
[[लेखकः :|]]
अध्यायः ११८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चान्यद् वाराहं तीर्थमित्यपि ।
कुंकुमाया अश्वपट्टसरस्येव पुराऽभवत् ।। १ । ।
अक्षराधिपतिः श्रीमान् सर्वेशः पुरुषोत्तमः ।
परब्रह्म स्वयं सृष्टिं यदाऽऽरेभे स्वमूर्तितः ।। २ ।।
तत्त्वानि चिन्तयतोऽस्य मरवादग्निरजायत ।
दिव्यो दिव्याक्षरमुक्तो दिव्यमुक्तस्वरूपधृक् ।। ३ ।।
द्विभुजः श्वेतवर्णश्च शीतलस्पर्शवाँस्तदा ।
मूर्तितेजोमयः सोऽयमभवद् रूपवान् शुभः ।। ४ ।।
भगवानैक्षत वह्निं कर्तुं तत्त्वात्मकं तदा ।
वह्निश्चेङ्गितमाज्ञाय तस्थौ पुरोहरेस्तदा ।। ५ ।।
हरिश्चाज्ञां चकाराऽस्य याहि त्वं चेश्वरादिषु ।
मया वै सृज्यमानेषु तेजस्तत्त्वं सदा भव ।। ६ ।।
इत्याशां स समादाय महामायां विवेश ह ।
गर्भरूपस्तदा माया क्षोभं त्ववाप वह्निवत् ।। ७ ।।
यथा यथा तु सा माया गुणत्रयात्मिका तदा ।
सूक्ष्मा साम्यस्वरूपाऽपि क्षोभं त्ववाप वै मुहुः ।। ८ ।।
तथा तथा च मायाया मौष्ण्यं कार्यं व्यवर्तत ।
तामसो वै स भागस्तु व्यवर्धत हरीच्छया ।। ९ ।।
मायया तत्त्वसंघातो वैराजः समपद्यत ।
तत्रोष्णभावमासाद्योष्मात्मको वै महानलः ।। 2.117.१० ।।
मुखतो बहिरायातश्चेश्वरो वह्निनामकः ।
वं वैराजं समाश्रित्य हं हनुं मुखमार्गतः ।। ११ ।।
अभितो निर्गतो देवो वह्निरित्येव सोऽभवत् ।
दिव्योऽयं शुभ्रवदनः शुभ्रवर्णः समुज्ज्वलः ।। १२ ।।
ब्रह्मभावं तु विसृज्येश्वरभावमुपागतः ।
वैराजो निजपुत्रं तं वह्निं पुरुषरूपिणम् ।। १३ ।।
प्राह पुत्रान् सृष्टियोग्यान् सृज पुत्र समान् त्वया ।
ओमित्याज्ञां शिरस्येव धृत्वा वह्निर्व्यतर्कयत् ।। १४।।
पुत्रा मे सृष्टियोग्या वै भवन्तु मत्स्वरूपिणः ।
संकल्पमात्रजाता वै पावनाः पवमानकः ।। १५ ।।
पविः त्रयः समुत्पन्ना पविर्वज्रं तु वैद्युतम् ।
इन्द्राय चार्पितः पुत्रो ब्रह्मणा परमेष्ठिना ।। १६।।
पावकाख्यस्तु लोकेभ्यश्चार्पितः पाककर्मणे ।
पवमानो महाज्वालायुतश्चातीव चञ्चलः ।। १७।।
वेगवान् हानिदश्चेति दाहकोऽपि महोल्बणः ।
इति ज्ञात्वा जनास्ते तु नाऽगृह्णन्त यदा तदा ।। १८।।
क्रुद्धोऽरण्यं जगामाऽयं भोजनार्थं महावने ।
बभ्राम स महारण्यप्रभृतिषु महाबलः ।। १ ९।।
एवं सौराष्ट्रविषये पवमानः स्वयं भ्रमन् ।
अन्वेषयन् भोजनं चाऽलभमानोऽतिदुःखितः ।। 2.117.२० ।।
व्याघ्रारण्यं ददाहाऽसौ क्षुधयाऽतीव बाधितः ।
ज्वालामालासमाव्याप्तं वनं जातं भयंकरम् ।। २१ ।।
दह्यमानं दुष्प्रवेशं दुर्निर्गम्यं समन्ततः ।
हरिणा पशवः पक्ष्यादयो मृगाः सरीसृपाः ।। २२।।
दह्यन्ते वह्निना तत्र निबिडे वृक्षसंकुले ।
तृणवल्लीघटाव्याप्तेऽदृश्यभूतलभूमिके ।।।२३ ।।
धावन्ति हरिणाः सर्वे धूमान्धाः पक्षिणस्तथा ।
अशक्ताऽपत्यबालाद्या वन्यानां तिर्यगात्मनाम् ।। २४।।
सहस्रशः प्राणधारा अशक्ता वह्निसंकुलाः ।
दग्धास्तत्र वह्निपुत्रपवमानेन वै मृताः ।।२५।।

वृक्षा दग्धाः सजीवाश्च वल्लिका भस्मतां गताः ।
तृणानां च लतानां च स्तम्बानां गणना तु का ।। २६।।
शिखराणि विलोक्यन्ते वृक्षाणां वह्निशैलवत् ।
उच्छ्रया भूप्रदेशाश्च वने वह्निमयास्तदा ।। २७।।
अल्पशृंगास्तथा शैला वुक्षारण्याम्बरास्तदा ।
दह्यन्ति वह्निना ज्वालामुखाः शैला यथाऽभवन् ।। २८।।
एवं क्रौर्ये संप्रवृत्ते वनवासिविनाशने ।
व्यापके चानले जाते पवमानेऽनिलान्विते ।। २ ९।।
नदीतीरेऽपि वृक्षाणां दग्धभावे ह्युपस्थिते ।
आश्रमः पिच्छलर्षेश्च दाहवेगेन धर्षितः ।। 2.117.३ ०। ।
पिच्छलर्षिर्बहुवर्षपुराणस्तपसि स्थितः ।
ध्यायन्नारायणं देवं श्वेतवाराहरूपिणम् ।। ३१ ।।
तेपे तपो महाघोरं चारण्ये वनवासिषु ।
यत्र कामदुघा गावो प्रवसन्ति तदाश्रमे ।। ३ २।।
गोपालास्तत्र तिष्ठन्ति पार्श्वे वृक्षाश्रयेऽपि च ।
ते ता वह्निप्रवेगेन दुद्रुवुश्च नदीजले ।। ३२ । ।
निपेतुर्जीवरक्षार्थे गोपालाः पेतुरप्सु च ।
अथायं तु महर्षिर्वै पिच्छलाख्यो द्विजेश्वरः ।। ३४। ।
विलोक्य पवमानस्य चेष्टितं क्रूरतामयम् ।
दयापरः स्वयं भूत्वा पवमानमुवाच ह ।।३ ५। ।
रे रे वह्ने महाक्रूर महाहिंसकतोऽधिक ।
क्षुधया पीडितश्चैतद्वनं ममाश्रमं तथा ।। ३६ । ।
गाः पशून् प्राणिनः पक्षिगणान् सरीसृपाँस्तथा ।
विनाऽपराधं दहसि दीनं चापि न मुञ्चसि ।। ३७।।
बुभुक्षितः पापबुद्धिर्भवत्येवेति तत्तथा ।
कथं विहाय मर्यादां सर्वं नाशयसे बलात् ।। ३८।।
पश्याऽपत्यानि पक्ष्यादिजन्तूनामपि निष्पदाः ।
अपक्षाश्चापि दह्यन्ति पश्यतस्ते घृणाऽपि न ।। ३ ९।।
कथं त्वं क्रूरतां प्राप्तः शान्तिं नैवाऽधिगच्छसि ।
पर्वतो भूच्छ्रयाश्चापि दग्धास्तव प्रभावतः ।।2.117.४० ।।
भोज्यं स्वं वै लब्धवता दग्धं सर्वाऽन्यभोजनम् ।
क्षयं नीतं ममारण्यं क्षीणाः सर्वे हि जीविनः ।।४१ ।।
तस्मात्त्वां क्षयकर्तारं शपाम्यत्र न संशयः ।
इत्येव वह्निना क्लिष्टः पिच्छलर्षिस्तु राधिके ।।४२ ।।
शशाप पवमान । त्वं क्षयमाप्नुहि वै द्रुतम् ।
इत्युक्त्वा स्वकरस्थं च जलं मुमोच भूतले ।।४३।।।
यावत्तावच्चानलस्य ज्वाला मान्द्यमुपागताः ।
दाहशक्तिर्विनष्टा च पाकशक्तिर्लयं गता ।।४४।।
रसादनस्य सामर्थ्यं लीनं क्षणान्तरे तथा ।
श्वैत्यं वह्नेर्विनष्टं च तथौष्ण्यं विलयं गतम् ।।।४५।।
नैसर्गवर्धनं चापि ह्रासं यातं तदा स्वयम् ।
धूम्रभावः प्रवृद्धश्चाऽङ्गारा निस्तेजसाऽसिताः ।।४६।।
अप्रकाशाः कृष्णवर्णाः काष्ठकूर्चास्तदाऽभवन् ।
विना प्रयत्नं वह्निर्वै शमितः शापकारणात् ।।४७।।
भक्षितास्तु रसाः सर्वे बीजानि पशुपक्षिणः ।
पवमानस्य जठरादपक्वा निर्ययुर्बहिः ।।४८।।
मन्दोदरो मन्दतेजा मन्दश्वासो बभूव सः ।
मरणोन्मुखतां प्राप्तः पादशक्तिविहीनकः ।।४९।।
ज्वालाशून्यश्चेन्द्रियाणां वृत्तिशून्यो बभूव च ।
शुशोच बहुधा कर्मफलं प्राप्तो रुरोद च ।।2.117.५०।।
किं कर्तव्यं क्व गन्तव्यं कथं शापो महर्षिकृत् ।
निवर्तेत कथं सोऽपि प्रसन्नः स्याद् व्यचिन्तयत् ।।५१ ।।
अथायं पवमानश्च निर्मानस्तमृषिं प्रति ।
ययौ हृदा दण्डवच्च पतित्वा मनसा गिरा ।।९२।।
तुष्टाव ब्रह्मरूपं तं दुःखमोक्षस्य कांक्षया ।
हे साधो त्वं दयालुर्वै निर्दयोऽहं तु हिंस्रकः ।।५५ ।।
सत्यव्रतो भवान् साधो न सत्यं विद्यते मयि ।
निष्पापस्त्वं सदा त्वास्ते पापिष्ठोऽहं तु दुःखदः ।।५४।।
असन्तुष्टोऽस्मि वै लुब्धस्त्वं सन्तोषी न लुब्धकः ।
परिग्रहपरश्चाऽहं त्व विरागोऽपरिग्रहः ।।५९।।
तापनोऽहं तु जीवानां त्वं तपस्वी न तापनः ।
ब्रह्मभूतः सदा त्वं तु भ्रमात्माऽहं तु मायिकः ।।५६।।
क्षमाशून्यो भवाम्येव त्वयि क्षमा सदाऽस्ति च ।
सिद्धीनां मयि लेशो न सिद्ध्याश्रयो भवानिह ।।५७।।
पापिनां पापनाशार्थं नाऽहं शक्तो भवानिव ।
तीर्थरूपो भवानास्ते नाऽहं तीर्थं तरामि न ।।५८।।
अहमाविद्यको जीवो भवान् विद्याश्रयः सदा ।
ब्रह्मतनुर्भवानस्ति मायातनुर्भवाम्यहम् ।।५९।।
दिव्यमोक्षप्रदस्त्वं च जन्मदोऽहं विनाशकः ।
शान्तिप्रदो भवानास्तेऽहमुद्वेगप्रदोऽस्मि तु ।।2.117.६०।।
नित्यं ब्रह्म परं सौम्यं चिन्तयानो भवानिह ।
कर्तुमुद्धारमेवाऽऽस्ते समर्थो दीनदेहिनाम् ।।६१।।
अज्ञानामपराधानां क्षमां कुरु महामते ।
मया प्रज्वालितं यत्तज्जीवयितुं प्रभुर्भवान् ।।६२।।
तपसा द्योतमानस्त्वं समुज्जीवय जङ्गलम् ।
पशून् प्राणिगणाँश्चापि पक्षिणश्च वनस्पतीन् ।।६३।।
जीवान् सरीसृपादीँश्च मामुद्धर तपोधन ।
शापपात्रं पुनः स्याच्च साधूनां तोषपात्रकम् ।।६४।।
शिक्षा प्राप्ता मया साधो मरणं मा विधेहि मे ।
मृत्योः सान्निध्यमाप्तोऽस्मि मामुज्जीवय चार्तिहन् ।।६५।।
साधूनां कृष्णभक्तानां साधुत्वं त्वेतदेव यत् ।
क्षान्त्वाऽऽपराधान् जीवस्य तस्मै गुणान् ददाति च ।।६६।।
वृश्चिकः कण्टकं युंक्ते साधुस्तं न विमुञ्चति ।
मूषकः कृन्तति पक्षं हंसस्तं न विमुञ्चति ।।६७।।
रक्षकाः कुर्वन्ति रक्षां दुष्टानामपि देहिनाम् ।
मामुज्जीवय विप्रेन्द्र क्षमासारा हि साधवः ।।६८।।
नैवं पुनः करिष्येऽहं चापराद्धं कदाचन ।
सत्यं सत्यं पुनः सत्यं पतितस्तव पादयोः ।।६९।।
इत्येवं स हृदा राधे! पवमानो मुहुर्मुहुः ।
ऋषिं तं पिच्छलं तत्र तुष्टाव पतितो वने ।।2.117.७० ।।
ध्यानवृत्त्या महर्षिस्तज्ज्ञात्वा तत्स्तवनं ततः ।
प्रसन्नः करुणावार्धिर्द्रागेवोत्थाय चासनात् ।।७१ ।।
पवमानं स्तुवन्तं स्वं ययौ शीघ्रं शुभाश्रयः ।
पवमान! शुभं तेऽस्तु मा शोकं कुरु वह्निज! ।।७१।।
भवान् देवो वह्निपुत्रो यदि नैवं करोति चेत् ।
जीवयामि भवन्तं वै मा प्रदह्यतु देहिनः ।।७३ ।।
इत्युक्त्वा जलमादाय करे सम्मन्त्र्य पात्रतः ।
गृहीत्वा पवमानस्योपरि चिक्षेप यावता ।।७४।।
पवमानः सशक्तोऽभूदुत्तस्थौ च ननाम च ।
तेजोयुक्तो दण्डवच्च चकार तम् ऋषिं तदा ।।७५।।
पवमानश्च तं प्राह शापमोक्षं कुरु प्रभो ।
ऋषिः प्राह मया शक्तिर्दत्ता गन्तुं विहायसा ।।७६।।
याहि श्रीशैलसंज्ञं च पर्वतं यत्र सूकरः ।
आस्ते मोक्षप्रदः श्रीमान् धरणिप्राणरक्षकः ।।७७।।
सर्वरक्षाकरः क्रोडः स ते रक्षां करिष्यति ।
इत्युक्तः पवमानः स ययौ श्रीशैलमादरात् ।।७८।।
वल्मीकसन्निधौ तिष्ठन् स्मरत्येव च तं तदा ।
राधिके भगवाँस्तस्माद् वल्मीकादुत्थितोऽभवत् ।।।७९।।
श्वेतवर्णः सुन्दरश्च पवमानस्तमानमत् ।
सुखी भवेति भगवानाह वह्निसुतं तदा ।।2.117.८०।।
पप्रच्छ कारणं तत्रागमनस्य ततोऽनलः ।
अखिलं कथयामास कारणं शापमित्यपि ।।८१।।
समुद्धारं मम विष्णो कुर्वित्याह विभावसुः ।
तेजः शक्तिं बलं रूपं दिव्यतां व्यापितां तथा ।।८२।।

गुणान् पुरा भवान् मेऽत्र ददातु परमेश्वर ।
इत्युक्तः श्रीवराहश्च प्राह तं पवमानकम् ।।८३ ।।
आयाहि पवमान त्वं मया सह सुराष्ट्रकम् ।
कुंकुमवापिकाक्षेत्रं चाऽश्वपट्टसरोवरम् ।।८४।।
सर्वावतारधर्ता यः साक्षात् स्वामी पुमुत्तमः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।।८५।।
विराजतेऽक्षरक्षेत्रे स ते सर्वं प्रदास्यति ।
मोक्षं चैश्वरभावं च सर्वं स ते प्रदास्यति ।।८६।।
इत्युक्त्वा श्रीवराहस्तं निनायाऽक्षरभूमिकाम् ।
सहसा व्योममार्गेण तथा चाऽश्वसरोवरे ।।८७।।
स्नपयामास तं शीघ्रं दर्शनार्थं हरेः पुरः ।
तं नीत्वा प्रययौ श्रीमान् वाराहो भगवान्प्रभुः ।।८८।।
चकार दण्डवत् भूमौ पवमानस्तमादरात् ।
अनादिश्रीकृष्णनारायणश्चोत्थाप्य वह्निजम् ।।८६।।
निषाद्य त्वासने क्रोडं समाश्लिक्षत्तु वक्षसि ।
सिंहासनं ददावस्मै वराहाय निजात्मने ।।2.117.९० ।।
तस्माच्च कारणं ज्ञात्वा मानुष्यं नाटयन् हरिः ।
ऋषेः शापनिवृत्त्यर्थं प्रसादं प्रददौ प्रभुः ।।९१ ।।
पवमानः प्रसादं तं बुभुजे चाऽमृतं फलम् ।
जलं पपौ च यावद्वै तावत् सर्वगुणान्वितः ।।९२।।
समपद्यत विश्वात्मा यथापूर्वगुणाश्रयः ।
सर्वशापविनिर्मुक्तोऽभवत् सुख्यतिहर्षितः ।।९३ ।।
वराहं पूजयामास तथा कृष्णनरायणाम् ।
पवमानो हरेर्योगात्तीर्थरूपोऽभवत्ततः ।।९४।।
तीर्थे वासं चकाराऽसौ वराहोऽपि सरोवरे ।
अनादिश्रीकृष्णनारायणस्यैवाऽऽज्ञया प्रभोः ।।९५।।
एवं वाराहतीर्थं तत् समभूत् तत्र नित्यदा ।
वराहो भगवानास्ते पवमानयुतः प्रभुः ।।९६।।
तत्र स्नानं करिष्यन्ति ये जनास्ते विरोगिणः ।
भविष्यन्ति हरेर्योगात् सेचनात् तीर्थवारिणाम् ।।९७।।
मुक्तिं भुक्तिं गमिष्यन्ति यास्यन्ति दिव्यतां तथा ।
पठनाद् वाचनादस्याऽऽरोग्यं स्यात्सर्वदा प्रियम् ।।९८।।
राधिके भगवानेवं त्वाह वाराहरूपिणम् ।
फाल्गुने पूर्णिमायां वै प्रातर्वै पवमानकम् ।।९९।।
ददौ वासं यज्ञभूमौ तथाऽरण्ये महाजले ।
वृष्ट्याश्चापि जले वासं पवमानाय वै ददौ ।। 2.117.१ ००।।
भूगर्भे च तथाऽऽवासं ददौ कृष्णनरायणः ।
प्रददौ निर्भयत्वं च् वैष्णवत्वं ददौ तथा ।। १० १।।
कण्ठीं च तौलसीं चापि तिलकं चन्द्रकं तथा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। १०२ ।।
एवं मन्त्रं ददौ चाथ प्रणम्य पवमानकः ।
प्रपूज्य च हरिं तीर्थे वासार्थं प्रययौ सरः ।। १०३ ।।
वराहोऽपि प्रदत्तं सत्कारं जग्राह सर्वथा ।
वाराहे तन्महत्तीर्थे वासं चकार राधिके ।। १ ०४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पिच्छलर्षिद्त्तशापनिवृत्तये वराहं प्रभुं गृहीत्वाऽश्वपट्टसरोवरं प्रति पवमानस्य गमनं, हरेर्योगाच्छापमुक्तिः,
वराहतीर्थं पवमानतीर्थं चेत्यादिनिरूपणनामा
सप्तदशाधिकशततमोऽध्यायः ।। ११७ ।।