श्रीकृष्ण उवाच-
राधिकेऽथ ततो यज्ञतृतीये दिवसे पुनः ।
प्रावर्तत दशम्यां सोमाध्वरस्य विधानकम् ।। १ ।।
लोमशश्चाययौ राजा चाययौ कृतपुण्यकः ।
प्रातः प्रवर्ग्योपसदावभ्यनुष्ठितवान् गुरुः ।। २ ।।
महावेद्याश्च निर्माणं मण्डपात् षट्पदानि वै ।
दूरेऽपि पुरतश्चक्रे यथास्थविधितो गुरुः ।। ३ ।।
प्राक्पश्चाद्द्वासप्ततिसंख्यकपदायता मता ।
दक्षिणोत्तरतः षष्टिपदाविस्तारिका च सा ।। ४ ।।
श्रोणीभागे चांसभागेऽष्टाचत्वारिंशदायता ।
एतादृशीं समग्रां च वेदीं निर्माय वै ततः ।। ५ ।।
यजमानो व्रतं दुग्धपानात्मकं दधार ह ।
हवनाद्यं चकारापि सर्वानुष्ठेयमित्यपि ।। ६ ।।
सायाह्निकीभ्यां प्रवग्योपसद्भ्यां सायमित्यपि ।
पयोव्रतं प्रचर्यैव सुब्रह्मण्यां तु देवताम् ।। ७ ।।
इन्द्रात्मिकां समाहूय व्रतं चक्रे ततः परम् ।
विरामश्च परिहारस्ततः प्रसादभोजनम् ।। ८ ।।
यावतां महीमानानां मिष्टान्नः पायसादिभिः ।
अभूदाकाष्ठतृप्त्यात्म, ततः श्रीलोमशो मुनिः ।। ९ ।।
उपादिदेश रात्रौ तु सभायां मोक्षकृद् यथा ।
ब्रह्मचर्येण वै लोकान् जयन्ति परमर्षयः ।। 2.246.१० ।।
शाश्वतं परमं श्रेयो विन्दन्ति च ततः परम् ।
वने मूलफलादाश्च तप्यन्तो विपुलं तपः ।। ११ ।।
देवायतनवासाश्च भूतानां हितचिन्तकाः ।
सतां समागमे मग्नाः कल्प्यन्ते ब्रह्मभूयसे ।। १ २।।
ब्रह्मचारा गृहचारा वनचाराश्च साधवः ।
स्वोक्ताचारा हरौ लग्ना गच्छन्ति परमां गतिम् ।। १३ ।।
नित्यकर्मसमाचारा ज्ञानदग्धफला हि ये ।
अकामद्वेषदोषास्ते विधीयन्तेऽक्षरे परे ।। १४।।
चतुष्पदी हि निःश्रेणी ब्रह्मारोहणसाधनी ।
तामारुह्य हरिं लम्बन् ब्रह्मलोकं प्रयाति वै ।। १५।।
ब्रह्मचारो ब्रह्मव्रते तिष्ठन् सर्वं लभेत ह ।
गुरुर्ब्रह्म व्रतं ब्रह्म वेदो ब्रह्म हरिस्तथा ।। १६।।
तान् प्रसेवेत सततं ब्रह्मलोकगतो भवेत् ।
गुरोः सेवां प्रकुर्याद्वै यज्ञतुल्यफलं लभेत् ।। १७।।
यत्तु शिष्येण कर्तव्यं दासेन वा च तच्चरेत् ।
किंकरः सर्वकारी स्यान्मानहीनोऽतिभावुकः ।। १८।।
आहूतः सर्वमुत्सृज्य समागच्छेद् गुरुं प्रति ।
इष्टं ब्रूयात् प्रेमपूर्णचक्षुषेक्षेत वै गुरुम् ।। १ ९।।
भोजयित्वा गुरूँस्ततोऽश्नीयात् पिबेत्तथोत्तरम् ।
पादसम्मर्दनं कुर्यात् पादावस्य मृदु स्पृशेत् ।। 2.246.२० ।।
आज्ञापय करोम्येष भगवन्निति सेवयेत् ।
गुरोः सेवार्थमेवाऽसौ समीपस्थो भवेद् वसेत् ।। २१ ।।
गृहस्थोऽपि प्रसेवेद्वै गुरुं देवं सतीं पतिम् ।
धर्मै चाऽनपवादं च भक्तिं कुर्यादतन्द्रितः ।। २२।।
देवाय गुरवे दद्यादन्नं पक्वं प्रवासिने ।
न्यासिनेऽपि प्रदद्याच्च नाऽऽत्मार्थे पाचयेत् क्वचित् ।। २३।।
नाऽस्याऽतिथिर्वसेत् कश्चिद् गृहागतो ह्यपूजितः ।
पूज्येभ्यो दीनबालेभ्योऽनाथाऽतिथिभ्य इत्यपि ।।२४।।
सद्भ्य सतीभ्यः साध्वीभ्यो हव्यं कव्यं ददेदपि ।
पूज्या भवन्ति सततं धार्मिकास्तापसा जनाः ।।।२५।।।
तथैवाऽपचमानाश्च तेभ्यो देयं गृहंजुषा ।
विघसाशी भवेच्चापि भवेदमृतभोजनः ।।२६ ।।
विघसं भृत्यशेषं च देवशेषं तथाऽमृतम् ।
सम्बन्धिभिः कुटुम्बेन बन्धुभिर्विवदेन्न च ।। २७।।
आचार्यो ब्रह्मलोकेशस्तेन वादं न चाचरेत् ।
पिता प्राजापत्यनाथस्तेन वादं न चाचरेत् ।।२८।।
अतिथिस्त्विन्द्रलोकेशस्तेन वादं न चाचरेत् ।
ऋत्विग् वै देवलोकेशस्तेन वादं न चाचरेत् ।।२९।।
जामिश्चाप्सरसां लोकेशस्तेन विवदेन्न वै ।
ज्ञातिर्वैश्वदेवलोकेश्वरी तया न भेदयेत् ।। 2.246.३० ।।
सम्बन्धिबान्धवा दिगीश्वरास्तैर्न विरोधयेत् ।
मातृमातुलवर्गाश्च पृथ्वी तया न भेदयेत् ।। ३१ ।।
वृद्धबालातुरकृशा - व्योम तेन न भेदयेत् ।
भ्राता पितृसमो भार्या पुत्रः पुत्री स्वका तनुः ।। ३२।।
छाया स्वा दासवर्गाश्चाऽऽश्रिताश्च कृपणा जनाः ।
तस्मादेतैरधिक्षिप्तः सहेत न प्रतिक्षिपेत् ।। ३ ३।।
कुर्वन् कर्माणि सर्वाणि गार्हस्थ्यनियतानि वै ।
कामलोभभयैर्व्याप्तश्चरेद् यदि मनो विना ।। ३४।।
निर्द्वन्द्वो निरनुदृप्तः साधुवद् यदि वर्तते ।
हरौ चालम्बनं प्राप्तो मुच्यते स न बध्यते ।।३५। ।
स चक्रांकितलोके वै गतिं प्राप्नोति चोत्तमाम् ।
जितेन्द्रियाणां सदृशीं गतिं चाप्नोति शोभनाम् ।।३६ ।।
स्वर्गो दानिगृहस्थानां फलपुष्परसात्मकः ।
स्वर्गश्चापि?गृहस्थानां द्वितीयः शाश्वतः परः ।। ३७।।
स गृहस्थो निजं देहं वलीपलितमुद्बलम् ।
वीक्ष्य देवं परेशं वै भजेद् वननिवासवत् ।। ३८।।
अल्पाहारो भवेत् सत्वाहारः कन्दफलाशनः ।
धर्मं चौपनिषदगं पालयेद् ब्रह्मसंजुषम् ।।३ ९। ।
वनेऽरण्ये गृहे वा च वासं कृत्वा महर्षिवत् ।
परे ब्रह्मणि संलग्नो भवेन्मोक्षमवाप्नुयात् ।।2.246.४० ।।
यज्ञं होमं तथा सर्वदक्षिणां प्रविधाय च ।
यद्वा साधुर्भवेद्वापि ब्रह्मपुत्रो ह्यमानवः ।।४१ ।।
जीवच्छ्राद्धं प्रकुर्यात्तु भवेदात्मात्मनिष्ठकः ।
स्वमात्मनि समारोप्य कर्मकाण्डं चरेद् व्रती ।।४२।।
भजनं पूजनं नित्यं ध्यानं नारायणस्य च ।
इज्यां च रटणं कृष्णस्मरणं ब्रह्मभावनम् ।।४३।।
तदर्थसर्वकर्माणि चरेन्मुक्तवदास्थितः ।
अभयं त्वात्मनि ध्रौव्यं लब्ध्वा दत्वाऽन्यगर्विणे ।।४४।।
प्रव्रज्यां परलोकाय गृह्णीयात् साधुधर्मवान् ।
लोकास्तेजोमयास्तस्योत्तरोत्तरमहासुखाः ।।४५।।
वर्तमानोऽपि लोकेऽत्र भवेदक्षयतृप्तिमान् ।
त्यक्त्वा देहं हरेर्योगादक्षराऽऽनन्त्यमश्नुते ।।४६ ।।
सदेहः पूर्णमेवाऽत्राऽऽकाशवद् वर्तते सदा ।
न क्रुद्ध्येन्न च प्रहृष्येद् ब्रह्मवद् वर्तते शुचिः ।।४७।।
नाभिनन्देच्च मरणं जीवनं वा निसर्गजम् ।
ब्रह्मैव सम्प्रतीक्षेत स्वामिनं सेवको यथा ।।४८ ।।
अनभ्याहतचित्तः स्यान्निर्मुक्तः पाप्मनः सदा ।
अभयं च निजं चापि भूतानामपि यत्कृतम् ।।४९।।
मोहमुक्तस्य कस्माच्चिद् भयं यस्य न विद्यते ।
अमृते नित्यं वसति शरण्यः सर्वदेहिनाम् ।।2.246.५ ० ।।
प्रज्ञातृप्तो निरीहश्च संगमुक्तोऽतिमृत्युगः ।
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव तु ।।५१।।
निर्मुक्तो बन्धनैः सोऽयं ब्रह्मविद् ब्राह्मणो भवन् ।
आत्मोद्भवं भावद्रव्यं जुहोति परमात्मनि ।।५२ ।।
होमजन्यां हरिस्तृप्तिं याति प्रसन्नतात्मिकाम् ।
तं पुण्यं च समर्ज्यैव याति ब्रह्म सनातनम् ।।५३ ।।
देवास्तमेव पुष्णन्ति स्पृहयन्ति परां गतिम् ।
तां स्पृहां सफलां प्राप्तः परमात्मानमीक्षते ।। ५४।।
प्राकृतान् प्रविकाराँश्च मृतान् वीक्ष्याऽमृतं गतः ।
प्रशान्ताप्मोदासनः स ऋच्छत्येवाऽमृतं पदम् ।।५५।।।
संकल्पान् संप्रहत्वैव चित्तं सत्त्वेऽभिवेशयेत् ।
कालं जित्वाऽमृतं यायात् परमेशसहायतः ।।५ ६ । ।
चित्तप्रसन्नताप्राप्तौ शुभाऽशुभं निवर्तते ।
दिव्यात्मानं प्रपद्यैव सुखमानन्त्यमश्नुते ।।५७।।
निद्रा यस्य सुखाप्ता स्यात् प्रसादस्तस्य चात्मनि ।
प्रसादितो हरिश्चास्मै यच्छत्यानन्दशेवधिम् ।।५८ ।।
यस्य स्थानिकृते चाप्यामन्त्रणे फल्गुताऽस्ति च ।
तस्य प्रसादः सततं वर्ततेऽक्षरसदृशः ।।५९।।
इन्द्रियाणां यदा रश्मीन् मनसा सन्नियच्छति ।
मनो बुद्ध्या नियम्येत तदाऽऽत्मा संप्रकाशते ।।।2.246.६० ।।
विमुक्तान्तरबाह्यैश्च गुणदोषैर्न लिप्यते ।
अलिप्तस्य रतिस्तत्र जायेत परमात्मनि ।। ६१ ।।
प्रध्वस्तगुणवृत्तिश्चाऽप्रवृत्तो गुणकर्मसु ।
हृदयग्रन्थिशून्यश्च ब्रह्मग्रन्थिं प्रविन्दति ।। ६ २।।
परब्रह्मपरा शान्तिं सामर्थ्यं चापि विन्दति ।
आत्मज्ञानं शमश्चेति ब्रह्मभावेऽतिसाधनम् ।। ६३ ।।
ब्रह्मभावः परब्रह्माऽवाप्तिदोऽत्र न संशयः ।
न ह्यतोऽस्त्यधिका प्राप्तिर्हरेः प्राप्तेः पराः खलु ।। ६४।।
यत्करोत्यनभिसन्धिपूर्वकं तत्तु निर्गुणम् ।
हर्यभिसन्धिपूर्वं च दिव्यं मुक्तिप्रदं हिं तत्। ।। ६५।।
यस्माद्धर्मात्परो धर्मो नास्त्येवेह हरिं विना ।
ब्रह्मधर्मः परो धर्मः सर्वधर्मावगुण्ठनः ।।६६ ।।
हरौ सर्वप्रवृत्तीनां लयो धर्म परं तपः ।
तपसा चात्मतृप्तः सन् फलानन्दं समश्नुते ।। ६७।।
आन्तरं मार्गमासाद्य प्रासादस्थं परं प्रभुम् ।
सर्वात्मानं निजात्मनं प्रपद्यते प्रकाशितम् ।।६८।।
अन्तरात्मा तदा चास्मै सर्वस्वं प्रददाति ह ।
ज्ञानदीप्तिमते नैजस्वरूपापन्नयोगिने ।।६९।।
संसारवारिधिं सोऽयं तीर्णो मायामयं जगत् ।
ब्रह्ममयं प्रपन्नश्च ब्रह्माऽस्याऽत्रैव काशते ।।2.246.७० ।।
नात्मा स्त्री वा पुमान्वापि नपुंसकोऽपि नैव ह ।
न जडो न स्वभावश्च ब्रह्मरूपः सनातनः ।।७ १ ।।
परब्रह्माऽवगुप्तश्च परब्रह्माऽवबोधितः ।
परब्रह्मप्रपुष्टश्च परब्रह्मादनस्तथा ।।७२।।
परब्रह्मरसश्चापि परब्रह्माभिनन्दनः ।
परब्रह्मशरीरश्च परब्रह्मसुखप्लुतः ।।।७३ ।।
परब्रह्मसखश्चापि परब्रह्मप्रयात्रिकः ।
परब्रह्मप्रसार्थश्च परब्रह्माश्रयश्रमः ।।७४।।
परब्रह्मकृतावासः परे ब्रह्मणि याति हि ।
परब्रह्मसुसर्वस्वो मुक्तिं विन्दति तन्मयीम् ।।७५।।
यदा न कुरुते भावं सर्वभूतेषु वै पृथक् ।
दुःखं च पापकं चापि ब्रह्म सम्पद्यते तदा ।।७६ ।।
वासना बन्धनं त्वेकं महत्तमं हि बन्धनम् ।
वासनाबन्धनान्मुक्तो ब्रह्मभूयाय कल्पते ।। ७७।।
ज्ञानस्योपनिषच्छान्तिः शान्तेश्चोपनिषत् सुखम् ।
सुखस्योपनिषत् तृप्तिस्तृप्तेश्चोपनिषत् त्यजिः ।।७८।।
त्यागी न बन्धनं याति प्रसन्नात्मा हरौ स्थितः ।
परे ब्रह्मणि निष्ठात्मा सुखानन्त्यं समश्नुते ।। ७९।।
अजन्यं चाप्यसंहार्यं नित्यसिद्धममिश्रितम् ।
परब्रह्माप्तिसंवेद्यं सुखमव्ययमश्नुते ।।2.246.८ ० ।।
वेगशून्यं मनो यस्य प्रतिष्ठा परमेश्वरे ।
तृप्तिर्यस्य परे देवे तस्य तुष्टिर्हि शाश्वती ।।८ १ ।।
येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान् ।
येनाऽस्नेहो बले धत्ते तं हरिं वृणुयात् कृती ।।८२।।
निजद्वाराणि संयम्योद्घाटयेद् द्वारमाच्युतम् ।
तेनात्मरतिपाथेयो विन्दते त्वच्युताऽक्षरम् ।।८ ३ ।।
सुविश्रान्तं परे कृष्णो टत्तकामं हरौ प्रभौ ।
सर्वतः सुखमायाति चाक्षयात् सुखसागरात् ।।८४।।
तं प्रबाधितमायं च प्रबाधितात्मकल्मषम् ।
अबाधितहरिध्यानं जरामृत्यू न विन्दतः ।। ८५।।
एवं वै सर्वतो मुक्तो ब्रह्माऽमुक्तो विराजते ।
परमं ब्रह्म चैवाऽस्याऽमुक्तं भवति भाविनि ।।८६ ।।
एवमुल्लंघ्य त्रिगुणान् प्राप्य धामाऽक्षरं त्विह ।
पुनरावर्तनं नैति सम्प्राप्तो हि परं पदम् ।।८७।।
अज्ञानमूलो वृक्षो यः कामकल्पः स उच्यते ।
विषयाप्तिस्तबकश्च शाखास्तु विषया मताः ।।८८।।
संभोगा नालिकास्तस्य स्वादाः पत्राणि वै तरोः ।
प्रीतिः पुष्पाणि तस्यापि सुखं फलानि चास्य वै ।।८९ ।।
दुःखसंकरता तत्र दुष्टक्लेदप्रकर्दमः ।
मोहिनी रसतृष्णा च माया चाज्ञानमातृकाः ।।2.246.९ ० ।।
हरिं प्राप्य च तां मायां विवासयेद्धि यात्रिकः ।
तेन सर्वं प्रयात्येव लीनतां यांत्रिकस्य वै ।।।९१ ।।
सत्येव स्वगृहे कृष्णः स्वर्गमणिः प्रकाशते ।
शीतलं तं प्रकाशं च लब्ध्वाऽक्षरप्रदं व्रजेत्। ।।९२।।
तत्सुखं त्वक्षरसंज्ञं ब्रह्मपरात् समाहितम् ।
यत्राऽऽहितं च तत्पात्रं ब्रह्मरूपं निजात्मकम् ।।९३ ।।
अच्छिद्रं सुदृढं भक्त्युपासनालेपबन्धितम् ।
प्रेमरसे प्रपक्वं च स्नेहसुधाभिसंभृतम् ।। ९४।।
हरिध्यानैकतानाख्यदिव्याकारनिवासितम् ।
मुक्तभावगतैः संरक्षितं यन्न विशीर्यते ।। ९५।।
तदक्षयं चामृतं शाश्वतानन्दसंभृतम् ।
नैजं निजात्मसौख्यं श्रीहर्यापूरकपूरितम् ।। ९६।।
य एतत् कृपया प्राप्तः प्राप्तो वा साधनैरपि ।
नाऽस्य कोशे स्रवश्चास्ते प्रसादात्परमात्मनः ।। ९७।।
यज्ञैर्दानैश्च हवनैः प्राप्तव्यं त्वेतदेव ह ।
आत्मनस्तु ततोऽन्यद्वै प्राप्तव्यं नावशिष्यते ।। ९८ ।।
इत्येवं राधिके श्रीमल्लोमशः सद्गुरुः स्वयम् ।
उपादिश्य विरराम दुग्धपानं व्यधान्निशि ।। ९९।।
सर्वेभ्योऽपि पयःपानं कारयामास भूपतिः ।
अथ रात्रौ प्रविश्रान्तिं जगृहुर्मखिनश्च ते ।। 2.246.१०० ।।
नारायणं परं कृष्णं स्मरन्तो हृद्ये निजे ।
सुष्वुपुश्च महीमाना महर्षयोऽपरेऽपि च ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तृतीयदिवसे दशम्यां सोमयागस्य कृत्योत्तरं भोजनोपदेशनादिनिरूपणनामा षट्चत्वारिंशदधिक-
द्विशततमोऽध्यायः ।। २४६ ।।