श्रीकृष्ण उवाच-
राधिके प्रातरुत्थाय यजमानोऽश्वपाटलः ।
राजा कृताह्निकश्चापि लोमशोऽन्यमहर्षयः ।। १ ।।
कृताह्निका यज्ञभूमिमाययुश्च समाहिताः ।
यावत्सामग्र्यादियुक्तास्तुर्येऽह्न्येकादशीदिने ।। २ ।।
स्वस्तिवाचः प्रोक्षणादि स्वांगशुद्धिं तथाऽपरम् ।
सर्वं कर्म च नैत्योक्तं चक्रुर्यथोदितं तथा ।। ३ ।।
विशेषतः प्रवक्ष्यामि शृणु समासतस्त्विदम् ।
प्रातः प्रवर्ग्योपसद्भ्यां प्रचर्य च ततः परम् ।। ४ ।।
उद्वास्यापि प्रवर्ग्यं प्रक्षिप्य पात्राणि चोत्तरे ।
अग्नीषोमफलपशोस्तन्त्रमारब्धवान् गुरुः ।। ५ ।।
इध्मकाष्ठानि चाधायाऽऽहवनीयेऽप्रकाशयत् ।
आदाय ज्वलितं वह्निं सीममादाय वै सह ।। ६ ।।
महावेद्यन्तर्गतायां वेद्यां वह्निं न्यधापयत् ।
स वह्निर्गार्हपत्यश्च प्राजहिताख्य इत्यपि ।। ७ ।।
सोमं चाऽस्थापयद्धविर्धानशकटे एव च ।
धृत्वा चात्वालपांसूँश्च तैश्च धिष्ण्यानुपाऽवपत् ।। ८ ।।
वपायागं विधाय सुब्रह्मण्याह्वानमाचरत् ।
अध्वर्युर्वै ततः सोमाभिषवाय रसर्द्धये ।। ९ ।।
तडागाद् वसतीवरीजलं घटे समाहरत् ।
शालामुखीयकं चास्थापयन् मध्यन्दिने ततः ।। 2.247.१० ।।
पशुपुरोडाशयागं प्रानिवर्तयदेव ह ।
सायाह्नेऽपि हृदयादिफलांगयजनं व्यधात् ।। ११ ।।
कृत्वांगानि च पत्नीसंयाजान्तान्यसमापयत् ।
भोजनानि व्यधुः सर्वे यथायोग्यं यथाव्रतम् ।। १ २।।
रात्रावध्वर्युरेवापि वसतीवरीध्रं घटम् ।
स्कन्धेनादाय वेद्याश्च परितो विहरन् न्यधात् ।। १३ ।।
ततश्च प्रतिप्रस्थाता वत्सापाकरणादिकम् ।
श्वोऽपेक्षितामिक्षार्थकं दध्ना संस्कारमाचरत् ।। १४।।
दधिग्रहार्थं च दधि पिच्छलं समपादयत् ।
सवनीयहविष्यार्थं बर्हिराहरणं व्यधात् ।। १५।।

725
विरामो यज्ञकार्यस्य ततस्तदा व्यजायत ।
सपत्नीको यजमानो रात्रौ जागरणं व्यधात् ।। १६।।
अनादिश्रीकृष्णनारायोत्सवप्रपूर्वकम् ।
षोडशादिपदार्थैश्च पूजनं श्रीहरेर्व्यधात् ।। १७।।
व्रतस्योद्यापनं रात्रौ चकार नृपतिस्तथा ।
ऋषयोऽपि जनाश्चापि चक्रुः संकीर्तनं हरेः ।। १८।।
प्रातः पूर्वं हरिः साक्षान्मुरलीधर एव सः ।
अनादिश्रीकृष्णनारायणो राधारमायुतः ।। १ ९।।
दिव्यरूपधरो दिव्यतेजोमण्डलमण्डितः ।
साक्षाद्बभूव सर्वेषां धृताभूषो हसन् हरिः ।। 2.247.२० ।।
कंभरा दक्षिणे यस्य वामे गोपालकृष्णकः ।
माणिक्याद्या ब्रह्मसत्यः परितो यस्य चाऽभवन् ।। २१ ।।
प्रसन्नोऽस्मि व्रतेनाऽद्य यज्ञेनापि विशेषतः ।
फलदाताऽस्मि मोक्षात्म स्वर्गात्म यदभीप्सितम् ।। २२।।
ततो राजाद्य कृष्णं पुपूजुः प्राप्तवस्तुभिः ।
हरिस्त्वदृश्यतां प्राप्तः स्वीयसार्थयुतः प्रभुः ।। २३ ।।
लोमशोऽपि ततः सर्वानुपादिदेश पावनम् ।
धर्मो नैकविधस्त्वस्ति लोकेषु च जनेषु च ।।२४।।
यज्ञधर्मः स्वयं नारायणात्मा ब्रह्मलोकदः ।
सेवाधर्मो महानाशीर्वादद्वारा दिवःप्रदः ।। २५ ।।
सर्वभूताऽद्रोहधर्मः परसौख्यप्रदोऽस्ति वै ।
प्रसन्नता परेषां वै महानन्दर्द्धिसम्प्रदा ।। १६ ।।
देवानां तुष्टिरेवापि महर्षीणां तथाविधा ।
आगन्तुकानां तुष्टिश्च परलोकसहायिनी ।।२७।।
पुरा महर्षिजटिलायननामा वने वसन् ।
तपश्चचार बहुधा स्थिरदेहोऽचलः सदा ।। २८।।
जटायामस्य चटका नीडं चकार गर्भिणी ।
तां दयावान् महर्षिः स तूपप्रैक्षत वै ततः ।।२९।।
तृणतन्त्वाढ्यनीडे वै जटायां चटका तु सा ।
अपातयत्तु स्वाण्डानि तान्यबुध्यत वै ऋषिः ।। 2.247.३० ।।
बुध्वाऽपि न चचालैषो धर्मे कृतमनास्तथा ।
सर्वभूताश्रयदानं धर्मः शरण्यरक्षणम् ।
अण्डेभ्यस्त्वथ पुष्टेभ्यश्चाजायन्त शकुन्तकाः ।।३१ ।।
व्यवर्धन्त च तत्रैव जातपक्षास्तथाऽभवन् ।
उड्डीयोड्डीय सायं ते पुनरायान्ति वै निशि ।
विश्रम्य च पुनर्यान्ति प्रातः कणाभिवाञ्च्छया ।। ३२।।।
अथ काले गते जातप्रवासाः पक्षिणस्तु ते ।
नोपावर्तन्त च यदा प्रातिष्ठत तदा ऋषिः ।।३३ ।।

स चाऽमन्यत धर्मोऽयं सिद्धो मम तपःपरः ।
स चाश्रयं ददात्येव कृत्वाऽऽश्रमं द्रुमान्वितम् ।।३४।।
अतिथीन् सर्वरूपाँश्च पूजयत्येव सादरम् ।
नारायणः स्वयं तत्र समायातः परीक्षितुम् ।।३५।।
व्याधरूपो मृतं मृगं स्कन्धे कृत्वा समाययौ ।
देह्याश्रयं तथा चुल्लीं पात्रं च समिधस्तथा ।।३६।।
चाण्डालोऽहं कुक्कुरादो देहि ते यदि रोचते ।
जटायनो विचार्यैव ददौ चुल्लीं समित् तथा ।।३७।।
पात्रं वह्निं ददौ चापि पर्णशालां ददौ तथा ।
आश्रयाऽऽगतलोकस्य सेवने न क्षतिर्भवेत् ।।३८।।
इतिव्रताख्ये धर्मे मे चेतिकृत्वा ददौ तदा ।
श्वादः सर्वं परिपाच्य बुभुजे तृप्तिपूर्वकम् ।। ३ ९।।
सर्वं तथाऽवशिष्टं च मांसं शालातलेऽक्षिपत् ।
सर्वामशुद्धां कृत्वैव निषसाद बहिः स्थले ।।2.247.४० ।।
प्रमार्जयेति चाज्ञां स कृतवान् तन्महर्षये ।
महर्षिः सुप्रसन्नस्तां शालां शुद्धां व्यधापयत् ।।४१ ।।
श्वादाय प्राह चेत् किंचिदपेक्षितं ददामि ते ।
श्वादः प्राह चरणौ मे मर्दनं समपेक्षतः ।।४२।।
ऋषिस्तस्य पादसंवाहनं चकार भावतः ।
फलपत्रजलपानं ददौ भावेन वै पुनः ।।४३ ।।
प्रीयतां भगवानत्र शरणान्तर्वसन् प्रभुः ।
इत्युक्त्वा प्रददौ वारि तावदन्तर्हितोऽभवत् ।।४४।।
तेजसा व्याप्तदेहश्च दिव्यरूपो बभूव ह ।
चतुर्भुजः प्रभुः श्रीमान् लक्ष्मीश्रीसेवितो हरिः ।।४५।।
जटिलायन एवासौ ननाम पादयोः प्रभोः ।
कृपा कृता हरे चात्र कृतकृत्यः कृतस्त्वया ।।४६ ।।
देहि धामाऽक्षरं नाथ दर्शनोत्तरमेव ते ।
तथास्त्विति हरिः प्राह ऋषिर्देहं विहाय च ।।४७।।
ययौ धामाऽक्षरं तत्र सेवाधर्मेण सर्वथा ।
तस्माद् यज्ञैश्च दानैश्च गृहैश्च वस्तुभिस्तथा ।।४८।।
सेवनीया अतिथयस्तत्र नारायणो मिलेत् ।
शरणागतरक्षा वै नारायणस्य सेवनम् ।।४९।।
तदन्तरात्मा भगवान् प्रसन्नो जायते ध्रुवम् ।
तं प्रलक्ष्य समुद्दिश्य देहिनं सेवयेज्जनः ।।2.247.५ ० ।।
स च यज्ञो महानास्ते यज्ञप्राप्तिप्रदः शुभः ।
हरिं विना महायज्ञा अयज्ञास्ते भवन्ति वै ।।५ १ ।।
अथाऽन्येऽपि च मन्यन्ते क्रयविक्रयमोक्षणम् ।
लोकानामुपकारार्थं कृतं सर्वं च निर्गुणम् ।।५२।।

726
सर्वदेहिषु वै चास्ते परमेशोऽन्तरे स्थितः ।
क्रयी वा विक्रयी नारायणः स्वयं न चाऽपरः ।।५३ ।।
लाभं प्राप्याऽऽनन्दमेति चाहर्ता परमेश्वरः ।
दाता धनं तथा प्राप्याऽऽनन्दमेति परेश्वरः ।।५४।।
शाकविक्रयनामा वै पुरा कश्चिद् वणिग्जनः ।
सत्यमार्गं समाश्रित्याऽकरोद्वै क्रयविक्रयौ ।।५५।।
पूर्वं प्रातः स्वपितरौ प्रपूज्य स. वणिग्जनः ।
भोजयित्वा निदेशं संगृहीत्वा याति चाऽऽपणम् ।।५६ ।।
शाकानि तुलया सोऽपि ददाति क्रयिणे तदा ।
क्रयी बालोऽथवा वृद्धो युवा वा चेतरोऽपि वा ।।५७।।
स्त्री वा कन्या च वाऽपक्वबुद्धिर्यः कोऽप्युपस्थितः ।
नमस्ते विष्णवे चोक्त्वा ददात्येव तदर्थितम् ।।५८।।
न न्यूनं वर्तते तत्र तुलायां वै मनागपि ।
ददाति चेश्वरभावाद् भिक्षुकायाऽपि वै फलम् ।।५९।।
क्रमवारेण सर्वेभ्यो ददात्येव न विक्रमात् ।
यथायोग्यं ददात्येव मत्वा तत्र नरायणम् ।।2.247.६ ०।।
स च नित्यं विक्रयं संकुर्वन् ज्ञानं करोति वै ।
क्रयिणः! सर्वथा यूयं भजध्वं परमेश्वरम् ।।६ १ ।।
सर्वेषां यः सुहृन्नित्यं सर्वेषां सुहिते रतः ।
कर्मणा मनसा वाचाऽन्तरात्मानं भजध्वमुत् ।।६२।।
द्वेषं कामं त्यजतैव स्मरत श्रीपरेश्वरम् ।
काँश्चिन्नैवाऽनुरुँन्द्धवं मा विरोधयत कैः सह ।। ६३ ।।
समं नारायणं तत्र ज्ञात्वा भजत तं हरिम् ।
दिव्यभावाश्च भवत समलोष्ठाश्मकाञ्चनाः ।।६४।।
यथाऽन्धा बधिरा नैव पश्यन्त्याकर्णयन्त्यपि ।
तथा भाव्यं विषयेषु प्रान्धैश्च बधिरैः सदा ।। ६५।।
परमेशे त्वनन्धत्वं चाऽबाधिर्यं कथाश्रवे ।
मूकत्वं त्वन्यविषये परमेशे तु वाग्मिता ।। ६६।।
एवं सर्वं विधातव्यं नारायणे सचेतनम् ।
अचेतनं विषयेषु प्राप्तव्यं मानवैरिह ।। ६७।।
यथा वृद्धाऽऽतुरकृशा निस्पृहा वै निसर्गतः ।
तया भाव्यं विषयेषु स्पृहाहीनैर्जनैरिह ।। ६८।।
यदा स्वस्य भयं नास्ति स्वस्माद् भयं न विद्यते ।
रागद्वेषादिशून्यस्य ब्रह्मप्राप्तिः सुनिश्चिता ।।६९।।
पापभाववियुक्तस्य ब्रह्मसम्पत्तिरुत्तमा ।
यत्राऽभयं महान् धर्मः स प्राप्नोत्यभयं पदम् ।।2.247.७०।।
यस्माद् भयं परेषां स्यात् तस्य त्वायान्महद्भयम् ।
अहिंसाः साधवो लोके भयदा न यथा क्वचित् ।।७ १ ।।
तथा वृत्तिं चाश्रयत प्रयात ब्रह्मशाश्वतम् ।
अद्रोहवृत्तिश्चाऽचौर्यं चाऽस्थार्थश्चाऽप्रतारणम् ।।७२।।
यस्य धर्मा इमे रूढास्तस्य ब्रह्म प्रकाशते ।
भवन्त्युभयदानेन समा नान्ये मखादयः ।।७३ ।।
लोके यः सर्वदेहिभ्यो ददात्यभयदक्षिणाः ।
स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ।।७४।।
सर्वभूतात्मभूतो वै नारायणो निरीक्षकः ।
ददात्यभयदात्रे वै चाऽक्षरं निर्भयं पदम् ।।७५।।
कृष्याचारा हिंस्रभावास्तृणच्छेदादिकार्यकाः ।
वृषभादिवाहभावाः क्लेशदा हि भयान्विताः ।। ७६ ।।
पशून् लोका वाहयन्ति बध्नन्ति दमयन्ति च ।
मानुषा मानुषानेव दासभावेन भुञ्जते ।।७७।।
अश्वादीन् वाहनान् कृत्वा नयन्ति बहुकर्दमान् ।
भयदा हिंस्रका लोकास्तत्फलं यान्ति वै भयम् ।।७८।।
अघ्न्या इति गवां नाम क एता हन्तुमर्हति ।
अग्निषोमे वत्सनाम प्रियं वृक्षफलं तु यत् ।।७९।।
वत्सापाकरणं तद्वै हृदयं रसपक्वता ।
अंगान्यपि फलस्यैव तेन कृष्णः प्रतुष्यति ।।2.247.८० ।।
नाऽहं हन्मि तृणं वापि फलं वापि करेण वै ।
न शस्त्रेण नेतरेण चाऽभयं पालयामि यत् ।।८ १ ।।
शाकपत्रादिकं योग्यं पक्वं वृक्षाद् वियुज्यते ।
तस्यैव क्रयणं कृत्वा विक्रयं प्रकरोमि वै ।।८२।।
सुखःदुखे समे मे स्तो न हि मे स्तः प्रियाऽप्रिये ।
एवं धर्मं पालयध्वं जनास्त्वभयदानकम् ।।८ ३ ।।
तेन मुक्तिमवाप्स्यन्ति भवन्तोऽभयवर्तनाः ।
नारायणो हि भगवांस्तेन तुष्यति सर्वदा ।।८४।।
नमो ब्राह्मणयज्ञाय नमः प्रजाध्वराय च ।
नमः सेवाप्रवीणेभ्यो जनेभ्यश्च नमोनमः ।।८५ ।।
सुकृतेन सुहव्येन देवास्तुष्यन्ति सर्वदा ।
नमस्कारेण हव्येन स्तोत्रेण हृदयेन च ।।८६ ।।
यज्ञाहुत्या सुसन्तुष्टा आदित्या वर्षयन्ति हि ।
ततः सस्यरसान्नानि तेभ्यः प्रजाप्रवर्धनम् ।।८७।।
प्रजाः कुर्वन्ति यज्ञाँश्च ब्रह्म तुष्यति तत्र च ।
ब्रह्मतोषकरा भक्तास्तोषयन्त्यपरानपि ।।८८ ।।
तस्माद् भक्तिं प्रकुर्वन्तु सर्वं यद् ब्रह्मदैवतम् ।
ब्रह्मतृप्तौ जगत्सर्वं तृप्तमेव न संशयः ।।८९ ।।
यज्ञे तृप्ताः सर्वदेवाः स्युर्यस्य ब्रह्मतर्पणम् ।
तस्य प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ।। 2.247.९० ।।

727
धर्माधारा धर्मोदया ब्रह्मध्यानपराश्च ये ।
भक्तिविज्ञानसम्पन्नाः परं पारं तितीर्षवः ।।९ १ । ।
सर्वस्थितं परब्रह्म दृष्ट्वा लब्ध्वा विचार्य च ।
पुण्यात्पुण्यतमं स्थानं प्राप्नुवन्त्यक्षरं पदम् ।।९२।।
यत्र गत्वा न शोकोऽस्ति न च्यावो न व्यथा मृतिः ।
नैतादृशानां स्वर्गार्थं यजनं वा यशोऽर्थकम् ।।९३ ।।
सतामाचररूपं तद् यजनं द्रोहवर्जितम् ।
ब्रह्मतृप्तिपरं समिदोषधिफलमूलकैः ।। ९४।।
स्वर्गार्थं पुण्यमेवाऽस्ति नैर्गुण्यं मुक्तये भवेत् ।
तदहं हृदये कृत्वा नैर्गुण्यं त्वाचरामि वै ।। ९४९ ।।
अन्ये यजन्ति यज्ञेषु स्मृद्ध्यर्थं कृतनिश्चयाः ।
तेन ते देवयानेन यथा यान्ति दिवं पुनः ।। ९६ ।।
आवृतिं तेऽभिगच्छन्ति नाऽऽवर्तन्ते तु निर्गुणाः ।
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः ।। ९७।।
पुनः स्वर्गं पुनर्भूमिर्भ्रमावर्तो न लीयते ।
तस्माद् भवन्तु वै ब्रह्मयजना नान्ययाजिनः ।। ९८ ।।
ब्रह्म वै दैवतं कृत्वा यज्ञे मोक्षं प्रयान्तु च ।
आत्मतीर्थे मखं शुक्लं कुर्वन्तु दिव्यभावनैः ।। ९९ ।।
एवं कृतोपदेशश्च शाकविक्रयको वणिक् ।
सर्वसेवापरो नित्यं चाभजत् पुरुषोत्तमम् ।। 2.247.१०० ।।
श्रीहरिस्त्वेकदा चायात् क्रयी भूत्वा तदन्तिकम् ।
देहि शाकं शाश्वतं मे पारवालिकमाह तम् ।। १०१ ।।
वणिग् बुध्वा पारवालं शाकं ददौ तु शार्ङ्गिणे ।
नमः पारवलायैव कृष्णाय क्रमिणेऽर्थिने ।। १०१ ।।
पारं यो बलयत्येव संसाराब्धेश्च ते नमः ।
इत्युक्त्वा दण्डवच्चक्रे चक्रिणे दिव्यदृष्टिमान् ।। १०३ ।।
ततश्चतुर्भुजो भूत्वा हरिस्तं पाणिनाऽस्पृशत् ।
मीनध्वजधनुःशूलास्वस्तिकचक्रचिह्निना ।। १ ०४।।
निन्ये विमाने संस्थाप्य दिव्यं कृत्वाऽक्षरं पदम् ।
इत्येवं मखमार्गेण ये भजन्ते हरिं सदा ।। १ ०५।।
ते प्रयान्ति हरेर्धाम हरिणा सह नैष्ठिकाः ।
तस्माद् भजन्तु सततं चान्तरस्थं नरायणम् ।। १ ०६।।
अनादिश्रीकृष्णनारायणं गोपालनन्दनम् ।
कम्भराबालकं श्रीशं प्रभुं श्रीकृष्णवल्लभम् ।। १ ०७।।
श्रीकृष्णवल्लभं नाथं भगवन्तं परात्परम् ।
इत्युक्त्वा लोमशो ब्राह्मे मुहूर्ते प्रययौ सरः ।। १ ०८।।
राधिके च ततः सर्वे स्नानार्थं प्रययुः सरः ।
जागरणं प्रकृत्वैव पूजां कृत्वा च नैत्यिकीम् ।। १ ०९।।

महर्षयो यजमानस्तथाऽन्ये मखिनो जनाः ।
सोमकर्मार्थमायाता मण्डपे पञ्चमे दिने ।। 2.247.११ ०।।
नित्यप्राप्तं विधायैव विशेषं च समाचरन् ।
राधिके ते प्रवक्ष्यामि सर्वपुण्यप्रदं शुभम् ।। १११ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चतुर्थे दिवसे सोमयागस्यैकादश्यां कृत्यं जागरणमुद्यापनमुपदेशनं चेत्यादिनिरूपणनामा सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४७ ।।