श्रीकृष्ण उवाच-
पञ्चमे दिवसे राधे प्रातः सोमस्य चोत्तरम् ।
विधिं सर्वं प्रवक्ष्यामि लोमशो यं चकार ह ।। १ ।।
द्वादश्यां ब्राह्मकालस्याऽऽरंभे तु सर्वऋत्विजः ।
प्रबुध्य स्नात्वा सोमाभिषवकर्माणि चारभन् ।। २ ।।
अध्वर्युस्तानि पात्राण्ययोजयत् तत्स्थलीषु वै ।
होता शस्त्रं चानुवाकाख्यमारभत वै ततः ।। ३ ।।
सवनीयहविषां निर्वापं चक्रे च पञ्चभिः ।
धानाभिश्च करंभेन परिवापेन वै तथा ।। ४ ।।
पुरोडाशेन च प्रतिप्रस्थातामिक्षया तथा ।
धाना भ्रष्टयवा बोध्याः करंभो यवसक्तवः ।। ।९ ।।
परिवापश्च वै लाजाः पयस्याऽऽमिक्षिका मता ।
तेषां च देवताः पञ्च हरित्वानिन्द्र आदिमः ।। ६ ।।
पूषण्वानिन्द्रो द्वितीयः सरस्वती तृतीयका ।
इन्द्रस्तुर्यो मित्रावरुणौ पञ्चमदेवता ।। ७ ।।
ताः प्रपूज्य ततश्चक्रे दधिग्रहप्रचारकम् ।
तद्यथोदुम्बरपात्रे गृहीत्वा दधिं ह्युत्तमम् ।। ८ ।।
प्रजापतिदेवतायै जुहावौदुम्बरेण वै ।
ततोऽदाभ्यग्रहं चक्रे सोमदेवाय तद्यथा ।। ९ ।।
दध्ना वा पयसाऽऽपूर्य पात्रं तथोपनह्य च ।
सोमलतावयवानामंशुत्रयं प्रगृह्य च ।। 2.248.१० ।।
ग्रहपात्रे स्थापयित्वा पञ्चकृत्वो ग्रहं हि तत् ।
सप्तकृत्वोऽथवाऽऽधूय तत्पात्रं सञ्जुहाव ह ।। ११ ।।
ततश्चक्रेंशुग्रहं संगृह्यैकग्रहसोमकम् ।
क्षिप्त्वा पाषाणके सिक्त्वा वसतीवरीवारिणा ।। १ २।।
अभिषुत्य ग्रावभिश्चाऽदाभ्यपात्रे निधाय च ।
जुहाव च प्रजापतिदेवतायै ततः परम् ।। १ ३।।
गृहीत्वैव च तत्पात्रं प्रविश्य च सदस्ततः ।
भक्षयित्वा पात्रगतं सोमरसं च वै ततः ।। १४।।
पात्रं खरेऽसादयश्चोपांशुग्रहं व्यधात्ततः ।
तत्र क्रीतं तथा वस्त्रे स्थापितं चोपनह्य च ।। १५।।
सोमं समवमुच्यैव गृहीत्वा सर्वमेव च ।
प्रविभज्य द्विधा प्रातस्सवनार्थ विशेषतः ।। १६ ।।
स्वल्पं माध्यन्दिनसवनार्थं कृत्वा च वै ततः ।
प्रातः स्तवनसोमाद्वै चैकग्रहार्थमेव ह ।। १७।।
सोमं धृत्वा होतृचमसे निधाय च वै ततः ।
वसतीवरीभिरद्भिः सिक्त्वा पिष्ट्वा च ग्रावभिः ।। १८ ।।
निष्पीड्य च रसं लब्ध्वाऽञ्जलिनाऽध्वर्युरेव तम् ।
उपांशुपात्रे त्रिवारं चानाय्य च जुहाव ह ।। १ ९।।
आधाराग्रह एवाऽयं देवताप्राण एव च ।
तस्यै दत्वा ततश्चकुर्धाराग्रहान् ध्रुवान्तकान् ।। 2.248.२० ।।
सोमाभिषवकः सोऽयं महाभिषवः सम्मतः ।
उपविश्याऽध्वर्यवश्च ह्यभिषवस्थले ततः ।। २१ ।।
ग्राव्णः प्राच्यामध्वर्युश्च प्रत्यङमुऽख उपाविशत् ।
दक्षिणे प्रतिप्रस्थाता चोदङमुख उपाविशत् ।। २२।।
पश्चिमे प्राङ्मुखो होता चोत्तरे दक्षिणामुखः ।
उन्नेता निषसादापि शिलायां न्यस्य सोमकम् ।। २३ ।।
सिक्त्वा वसतीवर्यद्भिः पिष्ट्वाऽभिषुणुयुस्तथा ।
दक्षस्तेनैवमेव वारत्रयं विधाय च ।।२४।।
पिष्टान् सोमलताखण्डान् निक्षिप्याऽधावनीयके ।
मृत्पात्रे च प्रपीड्यैव रसं निष्कास्य तं रसम् ।।२५।।
पात्रान्तरे गृहीत्वैव तुषान् पार्श्वे समक्षिपन् ।
अथाऽजलोमजां नाभिं प्रादेशमात्रनिर्मिताम् ।। २६ ।।
पवित्रवस्त्रखण्डे तामालम्ब्य द्रोणपात्रके ।
वितत्याऽधारयँस्तां चोद्गातारश्च ततः परम् ।।२७।।
उन्नेताऽऽधवनीयादुदचनेन च सोमकम् ।
रसं धृत्वाऽऽनिनयच्च होतृचमसे एव तम् ।।२८।।
यथा पवित्रवस्त्रांशे पतेद् रसस्तथाऽधरेत् ।
ततः स्रवन्त्या धाराया अन्तर्याम्याख्यपात्रके ।। २९ ।।
अन्तर्यामग्रहं न्यस्याऽध्वर्युर्जुहाव शेषकम् ।
सशेषमेवाऽऽग्रयणस्थाल्यां सम्पातमाप्य च ।। 2.248.३० ।।
सशेषं च ग्रहं खरेऽसादयच्च ततः परम् ।
इन्द्राख्यदेवतायै तं होमं ददौ गुरुः स्वयम् ।। ३१ ।।
अथैन्द्रवायवाद्याँश्च ग्रहान् चक्रुस्ततः परम् ।
ऐन्द्रवायवं संगृहीत्वा धारातश्च ततो गुरुः ।। ३२ ।।
पवित्रदशया बहिर्मृष्ट्वा खरेऽप्यसादयत् ।
एवं मैत्रावरुणं च, शुक्रं च, मन्थिनं रसम् ।। ३३ ।।
आग्रयणं, तथाऽऽग्नेयम्, ऐन्द्रं सौर्यं समुक्थ्यकम् ।
ध्रुवं चेति क्रमाद् गृह्ये खरेऽसादयदेव सः ।।३४।।
ध्रुवग्रहग्रहणोर्ध्व धाराविराममाचरत् ।
हविर्धानमण्डपाच्च पञ्चर्त्विजो बहिर्ययुः ।।३५।।
प्रासर्पन् समन्वारब्धा बहिष्पवमानकृते ।
अग्रेऽध्वर्युस्ततः कच्छं धृत्वा प्रस्तोताऽन्वसरत् ।।३६ ।।
कच्छं धृत्वा प्रतिहर्ता तत उद्गाताऽन्वसरत् ।
ततो ब्रह्मा यजमानसतः कच्छेन चाऽसरत् ।।३७।।
चात्वालदेशं गत्वोपविश्य कच्छमवाऽसृजन् ।
उद्गाता सम्प्रस्तोता च प्रतिहर्ता त्रयस्त्विमे ।।३८।।
अस्रुवँस्ते बहिष्पवमानस्तोत्रेण वै तदा ।
तेन सम्पावितौ चाश्विनौ ग्रहौ मखयोग्यकौ ।।३ ९।।
कृत्वाऽऽग्नीध्रेण धिष्ण्येषु प्रज्वालितेषु चाश्विनम् ।
अध्वर्युर्ग्रहमासाद्य द्रोणघटात् खरेऽन्यसन् ।।2.248.४० ।।
ततः कृत्वा सवनीयफलोपाकरणादिकम् ।
वपायागान्तकं प्रातःसवनाय ततः परम् ।।४१ ।।
अध्वर्युब्रह्मयजमानसदस्याः सदःस्थलम् ।
प्रविश्य ग्रहचमचादिकपात्राणि वै तथा ।।४२।।
धृत्वा द्रव्याणि च ब्रह्मा यजमानस्ततः परम् ।
तैस्तैर्मन्त्रैरुपस्थाय सर्वपात्राणि वै ततः ।।४३ ।।
उत्तरेण हविर्धानं गत्वा च पूर्वया तथा ।
द्वारा सदः प्रविश्यैव स्वस्वस्थाने उपाविशन् ।।४४।।
ततश्चक्रुः सवनीयहविषामनुष्ठानकम् ।
धाराग्रहप्रचारं च चक्रुर्यथोचितं तथा ।।४५ ।।
स्विष्टकृदन्तकर्माऽनुष्ठायाऽध्वर्युः समाचरत्। ।
ऐन्द्रवायवमैत्रावरुणाश्विनान् हि त्रिग्राहान् ।।४६ ।।
अध्वर्युणैन्द्रवायवे गृहीते च ततः परम् ।
प्रतिप्रस्थाता चादित्यपात्रे द्रोणघटात् खलु ।।४७।।
ऐन्द्रवायवनिग्राह्यं धृत्वा साकं जुहाव ह ।
परस्पररससेकोत्तरमादित्यपात्रके ।।४८।।
समानयच्च सम्पातं होत्रे पात्रं गुरुर्ददौ ।
एवमुत्तरग्रहयोरनुष्ठानं च पातनम् ।।४९ ।।
उन्नेता च ततश्चाच्छावाकचमसमेव च ।
वर्जयित्वा तत्र नवचमसानप्यपूरयत् ।।।2.248.५० । ।
होतुश्च ब्रह्मणश्चाप्युद्रातुर्यजयितुस्तथा ।
ब्राह्मण्याच्छंसिनो मैत्रावरुणस्य तथा च वै ।।५१ ।।
पोतुर्नेष्टुस्तथा चाग्नीध्रस्य ते चमसा नव ।
परिप्लवया कलशादास्राव्य सोमकं रसम् ।।५२ ।।
पूतभृत्कलशात् सोममादाय चमसाँस्ततः ।
प्रपूर्य द्रोणकलशान्न्यस्याऽथ चमसेषु च ।।।८१३।।
अस्रावयत् प्रथमं स्रावणं चोपस्तरात्मकम् ।
द्वितीयं स्रावणं चाभिधारणस्थानकं मतम् ।।२४।।
एवं सर्वोन्नयनं कर्तव्यं प्रपूरणे खलु ।
ततोऽध्वर्युः शुक्रपात्रं गृहीत्वा सोमसंयुतम् ।।५५।।
मन्थिपात्रं प्रतिप्रस्थाता गृहीत्वा ससोमकम् ।
हविर्धानमण्डपस्य पूर्वद्वारि सुसन्मुखौ ।।।५६।।
तिष्ठन्तौ स्वं गृहं वाऽरत्निं सन्धाय परस्परम् ।
मन्त्रकृत्वश्चाहवनीयस्य पुरोऽनुगम्य च ।।५७।।
पश्चमुखौ ग्रहहोमार्थं सज्जा सम्बभूवतुः ।
तदा नवचमसाध्वर्यवः सचमसाः खलु ।।५८।।
आवहनीयदेशं च गत्वा पूर्वाननास्तदा ।
होमार्थमुद्यताश्चासन् चक्रुश्चाश्रवणं तथा ।।५९।।
चक्रुः प्रत्याश्रवणादि ददौ प्रैष ततो गुरुः ।
होत्रा कृते वषट्कारेऽनुवषट्कारके कृते ।।।2.248.६० ।।
द्विर्हुत्वा चमसश्चाध्वर्युणा च प्रेषिता सदः ।
प्रतिभक्षार्थं चमसानाहरत् होतृकादयः ।।६१ ।।
मैत्रावरुणाद्याध्वर्यवश्चमसान् प्रपूर्य च ।
होमार्थमानयँश्चाप्याहवनीयं प्रति द्रुतम् ।।६२।।
अध्वर्युप्रतिप्रस्थातारौ च होमं प्रचक्रतुः ।
इन्द्रदेवतायै स्वाहाऽग्नये स्विष्टकृते स्वाहा ।।६३ ।।
प्रतिप्रस्थाता संस्रावहोममंगारकेऽकरोत् ।
रुद्राय स्वाहेति ततोऽध्वर्युश्चमसमाप्य च ।।६४।।
जुहाव मित्रवरुणाभ्यां स्वाहेति क्रमादपि ।
सर्वेऽध्वर्यवो जुहुवुः स्वं स्वं चमसमेव ह ।।६५।।
इन्द्राय मरुते त्वष्ट्रे चाग्नये स्वाहा नमम ।
ततश्चमसप्रसादं भक्षयामासुरेव ते ।।६६ ।।
अच्छावाकोऽपि चमसं भक्षयामास वै ततः ।
ऋतुग्रहप्रचारं चाऽकुरुतां द्वौ ततः परम् ।।६७।।
अध्वर्युप्रतिप्रस्थातारौ चक्रतुर्हवान् शुभान् ।
इन्द्राय मधवे स्वाहा मरुत माधवाय च ।।६८ ।।
त्वष्ट्रे शुक्राय च स्वाहाऽग्नये च शुचये स्वाहा ।
इन्द्राय नभसे स्वाहा मित्रावरुणनभस्येभ्यः स्वाहा ।।६ ९।।
द्रविणोदसे इषाय स्वाहा द्रविणोदसे ऊर्जाय स्वाहा ।
द्रविणोदसे सहाय स्वाहा द्रविणोदसे सहस्याय स्वाहा ।।2.248.७ ० ।।
अश्विनाभ्यां तपसे स्वाहा, गृहपतये तपस्याय स्वाहा ।
ततश्चमसानां वै भक्षणं विधिनाऽभवत् ।।७ १ ।।
ततः शस्त्रप्रपठनं प्रतिगरस्य पाठनम् ।
'अध्वर्यो शोंसावो इम्, शोंसामोद इव' ।।७२।।
'ओं मो३थामोद इव, ओथामोद इव' ।
'ओं ओथामोद इवेत्यादिपाठं समाचरन् ।।७३।।।
ततो नाराशंसहोमं जुहावाऽध्वर्युरेव च ।
इन्द्राग्निभ्यामिदं स्वाहा पितृभ्यः स्वाहा नमः ।।७४।।
नाराशंसं विधायैवं प्रउगशस्त्रमुक्तवान् ।
विश्वेदेवताभ्यश्च स्वाहेति हवनं ददौ ।।७५।।
चमसाँश्च ततोऽभक्षयन् वै निरवशेषतः ।
उक्थ्यग्रहप्रचारं च होमं च सर्वभक्षणम् ।।७६।।
प्रक्षालनं खरे सादनं चेति सर्वमाचरत् ।
मित्रावरुणाभ्यां च स्वाहेन्द्राग्निभ्यां तथा स्वाहा ।।७७।।
ऋत्विजश्च विधायैवं सादनान्तं विधिं ततः ।
प्रातः सवनं निर्वर्त्य बहिर्ययुश्च मण्डपात् ।।७८ ।।
मध्याह्ने च प्रचक्रुश्च माध्यन्दिनं सवं च ते ।
प्रातर्वत् सर्वमाकृत्वो धारास्रावं व्यधुश्च ते ।।७९।।
शुक्राय मन्थिने चाग्रयणाय स्वाहा नमम ।
पवमानं जगुश्चापि दधियागं व्यधुस्ततः ।।2.248.८० ।।
भक्षणं सादने चक्रुरुच्चावचं च कर्म च ।
दक्षिणादानमेवापि यजमानश्चकार ह ।।८ १ ।।
गावोऽश्वाश्चाश्वतराश्च गर्दभाऽजाऽवयस्तथा ।
तिलमाषव्रीहियवा गजवासोहिरण्यकम् ।।८ २ ।।
सर्वस्वमेव राज्यादि कन्यागृहाणि वाटिकाः ।
दक्षिणायां प्रदत्तानि राज्ञा तदा मखोत्सवे ।।८३ ।।
मरुत्वतीयग्रहप्रचारस्ततोऽभवत् खलु ।
वैश्वदेवपञ्चहोमानध्वर्युः प्रचकार ह ।।८४'।।
अध्वर्युः प्रतिप्रस्थाता हुत्वा चक्रतुर्भक्षणम् ।
होमं कम्पं प्रचक्रुश्च इन्द्राय मरुत्वते स्वाहा ।।८५।।
ऊर्वोभ्यः पितृभ्यः स्वाहा माहेन्द्राय नमः स्वाहा ।
अग्नये चेन्द्राय स्वाहा रक्ताय च स्वाहा नमम ।।८६।।
उक्थ्यविग्रहानुष्ठानं पञ्चस्तोत्रप्रपाठनम् ।
सवसमाप्तिहोमं च कृत्वा बहिर्ययुस्ततः ।।८७।।
तृतीयं सवनं चापि चक्रुर्होमं च भक्षणम् ।
आदित्येभ्यः स्वाहा नमः पयो दधीदं सोमकम् ।।८८।।
ततश्चार्भवपवमानाय प्रसर्पणं व्यधुः ।
धिष्ण्यान् प्रज्वालयामासुः कृत्वेडाभक्षणान्तकम् ।।८९।।
सवनीयहवींषि सम्प्रचर्याध्वर्युरेव तु ।
सकृद्धोमं प्रचकार होमं चक्रे तदुत्तरम् ।।2.248.९०।।
चमसिनः स्वस्वपितॄनुद्दिश्य तानतिष्ठिपन् ।
ततो होमं सवित्रे च विश्वदेवेभ्य आददौ ।। ९१ ।।
मक्षणं च ततः सौम्यचरुयागो ह्यवर्तत ।
अनवस्रावितस्तण्डुलपक्वौदनकं चरुम् ।। ९ २।।
जुहाव चाग्नये पत्नीवते स्वाहेति वै गुरुः ।
एकविंशतिकस्तोमं स्तोत्रं चागायत प्रखम् । । ९३ ।।
चमसान् जुहुवुश्चापि वैश्वानराग्नये स्वाहा ।
मरुद्भ्यः स्वाहेति नमम भक्षणं च ततः परम् ।। ९४।।
ततो हारियोजनात्मग्रहप्रचारकं व्यधुः ।
उन्नेता च सोमरसं यवधानादिमिश्रितम् ।। ९५ ।।
जुहावाऽन्येऽपजिघ्रँश्च पत्नीसंजायसं तथा ।
यजुहोमादिकं प्रायश्चित्तहोमान् चकार ह ।। ९६।।
यजमानस्य च ततो विष्णुक्रमणकादिकम् ।
एवं समाप्य तृतीयसवने भोजनानि च । । ९७।।
व्यधुः सर्वे महीमाना जनाश्च तीर्थवासिनः ।
स्थायिनश्च ततश्चावभृथेष्टिः समजायत ।।९८।।
सपत्नीको यजमानः ऋत्विजश्चापरे जनाः ।
राजासन्द्यां सोमपात्राण्यादायाऽऽगृह्य जीषकम् । । ९९।।
ययुर्जलसमीपं च गायन्तः सामगीतिकाः ।
जलेऽग्नीवरुणाभ्यां च आज्यभागौ ददुस्तदा ।। 2.248.१०० ।।
चतुःप्रयाजाँश्चक्रुश्च द्वावनूयाजकौ तथा ।
वरुणाय पुरोडाशं ददामि वै जले नमः ।। १०१ ।।
ऋजीषादीनि च जले क्षिप्त्वा पत्नीनृपस्तथा ।
सस्नतुश्चापरे चापि नेमुश्चादित्यमित्यपि ।। १० २।।
शालामुखे समागत्योदयनीयेष्टिमाचरन् ।
तत आनुबन्ध्यफलयागश्चामिक्षिकायजिः ।। १०३ ।।
मित्रावरुणाभ्यां स्वाहा दत्वा बलिं तथोचितम् ।
यजमानः केशश्मश्रुनखलोमानि वै ततः ।। १ ०४। ।
वापयित्वा च स्नात्वा चेष्टिकल्पेन च पञ्च च ।
धाताऽनुमतिराकासिनीवालीकुहूरित्यपि ।। १०५ । ।
व्याज्येनेष्ट्वा देवतास्ता उदवसानीयेष्टिकाम् ।
अष्टाकपालपुरोडाशद्रव्यां तथाऽकरोत् ।। १०६ । ।
विष्णवे स्वाहेति दत्वाऽग्निहोत्रं निशि चाचरत् ।
ततश्चक्रुः परिहारं सोमयागस्य चर्षयः ।। १ ०७।।
सोमपानं प्रचकार राजा पत्नीयुतस्तदा ।
भोजनानि प्रचक्रुश्च सर्वे वै मखिनोऽध्वरे ।। १० ८। ।
एवं वै राधिके सोमयागो द्वादशिकादिने ।
सम्पूर्णश्चाऽभवद् रात्रौ यज्ञनारायणः स्वयम् ।। १०९ ।।
दर्शनं प्रददौ राज्ञे वरदानं ददौ तथा ।
स्वस्ति तेऽस्तु सदा राजन् चान्ते मोक्षपदं व्रज ।। 2.248.११० ।।
स्थापयाऽत्र च मां सौधे मूर्तिरूपं नरायणम् ।
स राजा राधिके तूर्ण मन्दिरं समकारयत् ।। १११ ।।
यज्ञनारायणस्तत्र याज्ञीपत्नीसमन्वितः ।
स्थापितस्तेन विधिना तीर्थं यज्ञाख्यमेव तत् ।। ११२ ।।
सोमतीर्थं तथा चाऽभूत् स्नानाद् यज्ञफलप्रदम् ।
अश्वपट्टसरस्येवेशानकोणे हि पावनम् ।। ११३ ।।
नृपोऽश्वपाटलः श्रीमद्बालकृष्णस्य हस्ततः ।
कण्ठीं च वैष्णवीं प्राप मन्त्रं जग्राह लोमशात् ।। १ १४।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
ततः प्रपूज्य देवेशं दत्वा दानानि सर्वशः ।। १ १५।।
ययौ नैजं प्रराष्ट्रं च राधिके सुखतो नृपः ।
ऋषयोऽन्ये देवताद्या ययुर्नैजान् प्रदेशकान् । । ( ११ ६ ।।
तत्र दानाज्जलपानादवगाहाच्च भोजनात् ।
पूजनादपि स्वर्गं स्यादन्तेऽक्षरपदं व्रजेत् ।। ११७ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे पञ्चमदिने मार्गकृष्णद्वादश्यां प्रातःसवने माध्यन्दिनसवने तदुत्तरसवनं पूर्णाहुतिरवभृथेष्टिः
परिहारश्चेत्यादिनिरूपणनामाऽष्टाचत्वारिंशद-धिकद्विशततमोऽध्यायः । । २४८ ।।