लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २२५



श्रीपुरुषोत्तम उवाच
शृणु नारायणीश्रि त्वं रत्नप्रभेति नामिनः ।
खरपालस्य भक्तस्य कथां मोक्षपदां शुभाम् ।। १ ।।
लूणीनदीतटे लूणीनगर्याँ क्षत्रियोत्तमः ।
रत्नप्रभाभिधश्चासीत् सहस्रखरपालक: !! २ |
लम्बकर्णैः करोत्येव धान्यादीनां प्रणायनम् ।
देशाद् देशान्तरं ग्रामाद् ग्रामान्तरं पुनः पुनः ।। ३ ॥
श्रेष्ठिनां च नृपादीनां व्यापारान् गर्दभैः स तु ।
करोत्यानयनं चापि नयनं श्रममूल्यतः ॥ ४ ॥
एवं धान्यानि बहूनि पात्राणि समिधस्तथा ।
अरण्यात् क्षेत्रखलतो नगरान्नगरान्तरात् ॥ ५ ॥
ग्रामान्तरं ग्राममध्यं प्रापयत्येव गर्दभैः ।
श्रममूल्यं ग्रहीत्वैव गृहयात्रां दधाति वै ॥ ६ ॥
अथैकदा स गोधूमान् सहस्रद्वयकोष्ठली: ।
खरपृष्ठेषु नीत्वैव ळूणीग्रामाद् विनिर्ययौ ।। ७ ॥
चत्वारिंशत्खरपालैर्भृत्यैर्युतश्च निर्भयः ।
युद्धपुरीं राजधानीं ययौ सूर्यातपे दिने ॥ ८ ॥
मार्गे तु गच्छतस्तस्य श्रमोऽभवत्तदातपे ।
गर्दभानां श्रमोऽप्येवं विदित्वा श्रान्तिमालभत् ॥ ९ ॥
तरुषण्डे जलनालीपार्श्वे घटीद्वयं हि सः ।
तत्र वै वसति साधुमण्डळं वन्यनिर्भरम् ।।१०।।
रत्नप्रभस्तथा चान्ये पाययित्वा जलं खरान् ।
रोटकाद्यशनं कृत्वा साधूनामग्रतो ययुः ।।११।।
नत्वा जयश्रीरामेति समुच्चार्य पुरः स्थिताः ।
साधवः स्वागतं चक्रुराशीर्वादान् ददुस्तदा ।।१२।।
गमनागमने ज्ञात्वा ज्ञात्वा व्यापारजं श्रमम् ।
हितार्थे द्यया प्राहुर्नारायणाश्रयं शुभम् ।।१३।।
साधुवर्यो नरसिंहस्वामीति साधुसेवितः ।
उपादिदेश सर्वेभ्यो घटिकामात्रमच्युतम् ।।१४।।
अहो सर्वे कृतं लोके न कृतं कृष्णसेवनम् ।
तर्हि सर्वे निष्फलं वै गर्भस्येव हि देहिन: ।।१५।।
यथा चन्दनभाराढयः खरो भारं प्रवेत्ति वै |
सुगन्धं नैव वेत्तीति तदानन्दविवर्जितः ।।१६।।
तथा श्रमपरो लोके कृष्णभक्तिविवर्जितः ।
भारवेत्ता न तु चात्मरसवेत्ता निगद्यते ॥१७॥
द्वयोः श्रमवहत्वेन खरमानवयोर्नहि ।
विशेषो दृश्यते तत्र मानवः खरवद्धि स: || १८||
कुळालस्य वशं यान्ति रासभा: पशवो यथा ।
स्वकर्मणां वशं यान्ति कुलालाः पशवोऽपरे ।।१९।।
भक्तिहीना धर्महीनाः पुरुषार्थविवर्जिताः ।
दानपुण्यविहीनास्तु मानवा रासभा इव ||२०||
तीर्थसेवाविहीनाश्च स्नानपूजाविवर्जिताः ।
साधुसेवादिरहिता मानवा रासभा इव ||२१||
आत्मकल्याणहीनाश्च संसक्ता रासनादिषु ।
शिश्नोदरतृपा लोके मानवा रासभा इव ॥२२॥
कुटुम्बभारवोढारः श्रेयोमार्गविहीनकाः ।
विषयघासग्रासाश्च मानवा रासभा इव ॥२३॥
मर्यादाशून्यवर्त्मानः पितृसेवाविवर्जिताः ।
सर्वात्मबुद्धिहीनाश्च मानवा रासभा इव ||२४||
आहारमात्रयत्नाश्च तपोव्रतविवर्जिताः ।
भस्मावगुण्ठा निर्वस्त्रा मानवा रासभा इव ॥२५॥
उपासनालेशशून्याः पञ्चदेवेषु नास्तिकाः । ।
गुरौ पूज्यत्वरहिता मानवा रासभा इव ॥२६॥
गृहिणोऽपि श्राद्धहीना यज्ञनैवेद्यवर्जिताः ।
व्यवायपरमा लुब्धा मानवा रासभा इव ||२७||
चतुष्पदा बालपुच्छा भोगस्थानाभिवृत्तयः ।
देवस्मरणहीनाश्च गृहिणो रासभा इव ॥२८॥
अश्लीलश्रवणे लम्बकर्णाः क्लेशे विराविणः ।
धावमाना विषयार्थे गृहिणो रासभा इव ॥२९॥
अशान्ता विषयैर्वातैश्चरन्तो मायिकच्चरान् ।
क्षपयन्ति वृथाऽऽयुष्यं गृहिणो रासभा इव ।३०।।
साधुतीर्थे स्नानवन्तो ह्यपि शास्त्रजळप्ळुताः । ।
अमाहात्म्यविदश्चाज्ञा लुठन्ति पाप भस्मसु ||३१||
सत्सु सप्तसु पुत्रेषु गर्दभी भारवाहिनी ।
सत्सु सत्सु तारकेषु गृहिण्यो भारवाहिकाः ।।३२।।
सत्सु सप्तसु पुत्रेषूष्ट्रस्य भारो न हीयते ।
सत्सु गृहिषु पुत्रेषु पितुर्भारो न हीयते ।।३३।।
उष्ट्रस्य जरठस्यापि शतक्रोशप्रधावनम् ।
वृद्धस्य मानवस्यापि शताऽऽक्रोशप्रधावनम् ||३४||
चरति रासभो ग्रामे चरति मानवो गृहे ।
चरति न हरौ क्वापि को भेदो गर्दभे नरे ।३५॥
लम्बगलः सदोष्ट्रोऽस्ति खाद्ये लम्बगलो नरः ।
साम्याहारे नरे चोष्ट्रे को भेदो भक्तिवर्जिते ॥३६॥
ताडनं लकुटैर्नित्यमेकस्याऽन्यस्य वाचिकैः ।
अचिन्तकौ दुःखहानेः को भेदो मानवे खरे ॥३७॥
खरे खश्चेन्द्रियार्थश्च तानि रlतीति वै खरः ।
नरे नो नारायणार्थस्तं रातीति नरः स्मृतः ।। ३८॥
नारायणं नरस्त्यक्त्वा नरकं चेत् समृच्छति ।
खरे नरे च को भेदो नखशफादिदेहजः ॥३९॥
गतिश्चानर्गला यस्य खरस्य च नरस्य च ।
अमर्यादा कर्मणां च को भेदो वै खरे नरे ॥४०॥
स्नाति चेन्न नरः खरो नैव स्नाति कदाचन ।
गृणाति न हरेर्नाम नरः खरः स एव सः ॥४३ ॥
तस्मात् प्रातः समुत्थाय स्नात्वा रटेन्नरायणम् ।
पूजयेत्परमात्मानं भोजयेच्छ्रीपतिं प्रभुम् ।।४२।।
ततो भुञ्जीत पुण्यं तत्प्रसादं च जलं पिबेत् ।
सेवेत साधुपुरुषान् भजेत श्रीहरिं सदा ॥४३॥
अभ्यासं विदधीतापि नामसंकीर्तनस्य वै ।
स्वप्ने जाग्रति सुप्तौ च कृष्णमूर्तिं विभावयेत् ॥४४॥
इन्द्रियाणां बहिर्वृत्तिमत्त्वे जाग्रत् प्रकीर्तितम्।
तदा बाह्ये हरेर्मूर्तिर्द्रष्टव्या साधवोऽपि च ||४५।।
बाह्यैः सर्वप्रयत्नैश्च सेवनीया हि साधवः ।
विवेकेन सेवनीयाः सत्त्वप्रधानजाग्रति ||४६||
भ्रान्त्याऽपि ते सेवनीया रजःप्रधानजाग्रति ।
शोकश्रमादिना सेव्यास्तमःप्रधान जाग्रति ।।४७।।
इन्द्रियाणां वृत्तयस्तु हृदयं कण्टमाश्रिता: |
गोळकाऽनागताः सैषा स्वप्नावस्था हि निद्रिता ॥४८॥
विवेकेन तदा स्वप्ने सेवनीया ह्रि साधवः ।
तदा हरिः सेवनीयः स्वप्ने सत्त्वप्रधानके ॥४९॥
भ्रान्त्या बुद्धया सेवनीयाः स्वप्ने रजःप्रधानके ।
शोकश्रमादिना सेव्याः स्वप्ने तमःप्रधानके ||५०।।
वृत्तीनां हृदये मनाग् वासश्चार्धसुषुप्तिका ।
क्षणं समानसेवा वै कर्तव्याः सत्त्वसुप्तिके।।५१ ||
क्षणं विभ्रान्तसेवा तु कार्या राजससुप्तिके ।
क्षणं लयार्पणसेवा कार्या तामससुप्तिके ||५२।।
अर्थाल्लयोऽपि कृष्णे तत्सत्सु भ्रमणमित्यपि ।
मनाग् भानं हरी सत्सु नान्यत्र मायिके तदा ॥५२ ।।
तत आत्मनि परमे सर्वलयः सुषुप्तिका ।
आत्मन: श्रीहरौ चैक्यं तुर्यपदं सुषुप्तिका !!५४!।
तद्भोगस्तद्रतिस्तस्मिन् चेतनार्पणमित्यपि ।
आनन्दार्पणमेवापि जीवनार्पणमित्यपि |l५५]|
प्राणार्पणं तथा सर्वसंस्कारार्पणमित्यपि |
सर्वभोगार्पणं पूर्णसुषुप्तिः सा हरौ सदा ।।५६ ।।
कर्तव्या भगवद्भक्तैर्यत्र ब्रह्मसुखं महत् ।
अहन्ताममतानाशः कर्तृतावेतृतालयः ।।५७।।
हरौ नारायणे विष्णौ वासुदेवे निजात्मनः ।
तदा हरिः परब्रह्माऽन्तर्यामी कर्मदर्शकः ।। ५८l!
द्रष्टा भवति चात्मस्थस्तुर्यपदं परं हि तत् ।
तत्रापि भगवान् सेव्यः समाधाविव तुर्यके ।।५९I!
सन्तस्तथा सेवनीया मूर्तौ लीना हि तुर्यके ।
धामदृष्टया धामशक्त्या धामेन्द्रियैश्च तेजसा ।। ६०||
धामक्रियाभिर्भगवान् सेवनीयो निजात्मना ।
ब्रह्मात्मना परब्रह्म सेवनीयः परे पदे ||६१||
दिव्यया चैकरसया तन्वा ब्राह्मया नरायणः ।
सेवनीयस्तदा तुर्यपदॆ निजात्मना श्रियः |l६२ll
एषा मोक्षस्थितिश्चात्र धाम्नो मोक्षेण मिश्रिता ।
आनन्दनीया सा कृष्णेऽनादिश्रीकृष्णवल्लभे ॥६३ll
सर्वावस्था अर्पणीया नारायणे परेश्वरे ।
बाल्यं च यौवनं वार्धक्यं च देयं परात्मनि ॥ ६४॥
नारीत्वं व नरत्वं च देयं वै परमात्मनि ।
कन्यात्वं व कुमारत्वं दम्पतीत्वं वनित्वकम् || ||
यतित्वं मरणं चापि समर्पणीयं माधवे ।
विमर्शश्च तथा बिन्दुर्नादो ध्वनिः पदानि च ।। ६६।।
परा ह्यपरा पश्यन्ती मध्या वैखरिकेति च ।
अर्पणीया हरौ सर्वा ब्रह्मजा ब्रह्ममूर्तयः ॥६७॥
परा वाणी समस्ता या ब्रह्मवर्णनरूपिणी !
कृष्णस्य च सतां वार्ता कीर्तनगायनात्मिका ।। ६८।।
हरेर्लीला चरित्राणां वर्णनं भक्तिवर्णनम् ।।
वर्णनं चाऽवताराणां प्रशंसा तत्सतामपि ॥ ६९॥
भक्तानां वर्णनं चापि परा वाणी निगद्यते ।
मोक्षदा दिव्यशब्दा या सर्वा परा प्रकीर्तिता ॥७०॥
अर्पणीया हरौ सापि हरेः प्रीतिकरी सुखा ।
अथान्या लोकविषया व्यवहारनियोजिका ॥७१ ॥
यथार्था सत्यरूपा च ऋतफलाऽपि पुण्यदा ।
पश्यन्ती सा सदा वाणी चार्पणीया हरौ सदा ||७२॥
ईश्वराणां च देवानामृषीणां सा सदा मता ।
सत्त्वप्रकाशसुखदा चार्पणीया परेश्वरे ||७३॥
अथाऽन्याऽर्थपरा याऽपि निन्दाप्रशंसनात्मिका ।
लोकस्वार्थसाधना च भ्रान्तिविपर्ययांऽशजा ॥७४॥
मध्या सा भारती पुण्यापुण्यफलाऽफलप्रदा ।
अर्पणीया हरौ कृष्णे सर्वथा भक्तिशालिना ॥७५॥
अथेतराऽर्थशून्या वा दुष्टार्थोद्वेगकारिणी ।
निकृष्टा प्राकृती वाणी वितण्डा निष्फलोभया ||७६ ॥
श्रोतुर्वक्तुः फलशून्या भंगमात्रपरायणा ।
क्लेशमात्रान्विता सा तु वैखरी चाधमा सदा ॥७७॥
सापि कृष्णे चार्पणीया देशकालोदिता यदि ।
अथाऽन्या निश्चितैकार्था बह्वर्था चापरा अपि ||७८।।
अस्पष्टार्था च स्पष्टार्था चतुर्धापि सरस्वती !
अर्पणीया सदा कृष्णे ततो दिव्या हि मुक्तिदा ॥७९॥
पदवाक्यप्रमाणानि देयानि परमात्मनि !
न्यायसिद्धिस्वरूपाणि देयानि परमात्मनि ||८०||
भूतभौतिकतत्त्वानि देयानि परमात्मनि !
ध्येयध्यानध्यातृवर्गा देयास्ते परमात्मनि ||८१||
भोग्यभोगभोक्तुवर्गा देयास्ते परमात्मनि ।
भगं भक्तिर्भजमानो देयाः श्रीपरमेश्वरे ||८२||
ऐन्द्र्यमिन्द्र इन्द्रियाणि चार्पणीयानि माधवे ।
नरता वा खरता वा निक्षेप्तव्या हरौ प्रभौ ॥८३॥
दिव्या सा तु तदा भूत्वा कुर्यान्नखरतां जने ।
नस्य नारायणस्यैव खं दिव्यं व्योम चाक्षरम् ।।८४॥
तत्र रतां प्रीतिमेव कुर्यान्नखरतामिति ।
एवं लक्ष्मि वोपदिष्टा रत्नप्रभादयस्तदा ।।८५।।
नरसिंहस्वामिना वै साधुना हरियोगिना |
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।८६||
दत्वा मन्त्रं कृताः पूता वैष्णवा मम भक्तिगाः ।
अथ मत्वा गुरुं देवं नृसिंहस्वामिनं च ते ।।८७॥
पूजयामासुरत्यर्थं भोजयामासुरादरात् ।
आशीर्वादान् जगृहुश्च तेभ्यः कल्याणकारिणः ।। ८८॥
साधून्नत्वा ययुर्ग्रामान्तरं रासभपालका: |
स्वीयालये ह्युक्तरीत्या हरिं भेजुर्हरे हरे ॥८९॥
भजनेन तथा भक्त्या ज्ञानेन गुरुसेवया ।
द्रुतं चाहं प्रसन्नश्चाऽभवं रासभपालिनाम् ।। ९०॥
एकदा रासभं कृत्वा गरुडं रासभे स्थित: |
मार्गे तान् यात एवाहमग्रतो मिलितः पुरः ॥९१।।
सश्मश्रुः क्षत्रियवेषो यात्रालुरिव शोभनः ।
तेभ्यो मया ‘जय कृष्ण ‘जय राम’ जनार्दन ॥९२।।
जय नारायण विष्णो जय कृष्णनारायण’ |
इत्येवं नामभि: संस्मारितः श्रीपुरुषोत्तमः ।।९३।।
नमनं च कृतं शीघ्रमवतीर्य तु रासभात् ।
तेऽपि श्रुत्वा हृरेर्नाम प्रसन्ना मिमिळुर्हिं माम् ॥९४।।
यथा प्रिया बान्धवा वा पुत्राश्च पितरोऽथवा ।
मां निरुद्ध्य निषाद्यापि कम्बलासनके द्रुतम् ।।९५।।
जळं फलं तथाऽन्नं व ददुर्मार्गेऽतिहर्षिताः ।
पृष्ठवन्तो गृहं मे चागमनं कर्म चेत्यपि ।। ९६।।
मया दिव्यं परं व्योम गृहं मे दर्शितं तदा ।
कर्म नारायणाख्यानं तीर्थार्थागमनं तथा ॥९७॥
श्रुत्वा चातिप्रसन्नास्ते लक्ष्मि नारायणं तु माम् ।
असेवन्त परं भक्तं ज्ञात्वा हृदांगमर्दनैः ।।९८।।
चक्रुस्ते दण्डवञ्चापि मत्वा साधूत्तमं तु माम् ।
अथैतेभ्यो मया तूर्णं चतुर्भुजं तु दर्शनम् ।।९९।।
गरुडेन सहितं तु दत्तं तत्रैव सत्पथे ।
प्रसादं दत्तवाँस्तेभ्यो भक्षितं यत् फलादिकम् ॥१००॥
स्कन्धकम्बलवन्तस्ते हस्तयष्टिधरास्तथा |
पादेषु चर्मोपानद्वन्तस्ते ननृतुरुत्सुकाः ॥१०१॥
मस्तके दीर्घपटका धृतकञ्चुकधोत्रकाः ।
ननृतुश्चातिहर्षेण चक्रुर्भूलोटनं मुहुः ॥१०२॥
मोक्षं देहि पदं देहि हरे रासभवाहन ।
दिव्यं धाम नः प्रदेहि कृष्ण गरुडवाहृन ॥१०३॥
एवमुच्चार्य सहसा न्यधुः पादरजो मुखे ।
चक्रुर्मे दर्शनं त्वेकतानमुग्धाः समाधिवत् ।।१०४॥
तिरोऽभवं ततो लक्ष्मि ते च क्षणान्तरे प्रभाम् ।
आसाद्य वर्णयन्तो मां धन्यभाग्यानि मेनिरे ॥१०५॥
तत्र मार्गे प्रचक्रुस्ते नारायणस्य वेदिकाम् ।
नित्यं भक्तिं प्रचक्रुस्ते लुणीनदीतटे सदा ॥१०६॥
प्राप्ते काले गरुडेन सहस्रशोऽपि तानहम् ।
क्रमेण नीतवान् धामाऽक्षरं मोक्षपदं रमे ।।१०७।।
एवमुद्धारिता भक्ताः साधुयोगेन वै मया ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्ध्रुवा भवेत् ॥१०८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भक्तस्य रासभपालस्य रत्नप्रभस्य नृसिंहस्वामिसाधुयोगेन भगवत्प्राप्तिर्मोक्षणं चेत्यादिनिरूपणनामा पञ्चविंशत्यधिकद्विशततमोऽध्यायः ।। २२५ ॥