लघुयोगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ३

← सर्गः २ लघुयोगवासिष्ठः
सर्गः ३
[[लेखकः :|]]

वैराग्यवर्णनम्।।
तृतीयः सर्गः।।
वाल्मीकिरुवाच।।
वदत्येवं महामोहविनिवृत्तिकरं वचः।
रामे राजीवपत्राक्षे तस्मिन्राजकुमारके।।[1-3-1]
अतितग्रन्थसंदर्भेण नित्यानित्यवस्तुविवेकतो वैराग्यं प्रतिपादितं तस्य विद्वज्जनमनोहरत्वं खेचरदुर्लभत्वं चाह रामस्य स्तुत्यर्थमवदत्येवमित्यादिसार्धैः पञ्चभिः।। श्रुतं श्रुतिरसायनमित्यन्त उत्तरग्रन्थसंदर्भः स्पष्टार्थः।।
सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः।
भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः।।[1-3-2]
अथ तूष्णीं स्थितवति रामे राजीवलोचने।
साधुवादगिरा सार्धं सिद्धसङ्घसमीरिता।।[1-3-3]
वितानकसमा व्योम्नः पौष्पी वृष्टिः पपातह।
मुहूर्तस्य चतुर्भागाच्छान्ते कुसुमवर्षणे।
इमान्सिद्धगणालापाञ्शुश्रुवुस्ते समागताः।।[1-3-4]
आकल्पं सिद्धसेनासु भ्रमद्भिरभितो दिवम्।
अपूर्वभिदमस्माभिः श्रुतं श्रुतिरसायनम्।।[1-3-5]
देहरुहै रोमभिः। उद्धुरैरुन्मुखैः।।[1-3-2,3,4,5]
उपशमामृतसुन्दरमादरादधिगतोत्तमतापदमेष यत्।
कथितवानुचितं रघुनन्दनः सपदि तेन वयं प्रतिबोधिताः।।[1-3-6]
वीतरागोक्तिः सारार्थविषया श्रोतृषु सद्यः फलतीत्यभिप्रायेणाह-उपशमेति।। उत्तमतायाः पदं स्थानं परमपुरुषार्थः। अधिगतं प्राप्तं उत्तमतापदं येन वचसा तत्तथा। ज्ञानार्थिना गन्तव्याः सन्तः सद्भिश्च स सम्यक्‌परिग्राह्यस्तेन च सर्वानुकूल्येन तत्र वर्तितव्यमिति प्रतिपादितऽर्थः।।
भरद्वाज उवाच।।
पावनस्याथ वचसः प्रोक्तस्य रघुकेतुना।
निर्णयं श्रोतुमिच्छामि वक्ष्यमाणं महात्मभिः।।[1-3-7]
वाल्मीकिरुवाच।।
इत्युक्त्वा सा समस्तैव व्योमावासनिवासिनी।
तां पपात सभां तत्र दिव्या मुनिपरम्परा।।[1-3-8]
पावनस्येत्यादिः इति नादेनेत्यतः प्राक्तनो ग्रन्थसमूहः स्पष्टार्थः। क्वचित्किंचिद्दुर्बोधं तद्व्याख्यायते। रघुकेतुना रथस्य केतुवद्रघूणामलंकारेण।।[1-3-7,8]
अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम्।
उत्तरथौ मुनिसंपूर्णा तदा दाशरथी सभा।।[1-3-9]
वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्षणात्।
वसिष्ठमिश्वामित्रौ ते पूजयामासुरादरात्।।[1-3-10]
सर्वादरे सिद्धौघान्पूजयामास भूपतिः।
सिद्धौघा भूपतिं चैव कुशलप्रश्नवार्तया।।[1-3-11]
वचोभिः पुष्पर्षेण साधुवादेन चाभितः।
रामं ते पूजयामासुः पुरः प्रणतमास्थितम्।।[1-3-12]
मुनय ऊचुः।।
अहो बत कुमारेण कल्याणगुणशालिनी।
वागुक्ता परमोदारा वैराग्यरसगर्भिणी।।[1-3-13]
रसां भूमिम्।।[1-3-9,10,11,12,13]
अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते।
द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः।।[1-3-14]
सकललोकचमत्कृतिकारिणोऽप्यभिमतं यदि राघवचेतसः।
फलति नो तदिमे वचमेव हि स्फुटतरं मुनयो हतबुद्धयः।।[1-3-15]
उद्दामदौरात्म्यश्चासौ देवनिर्माणनिर्मितश्चेति तथोक्तस्तस्मिन् संसारे हि निरङ्कुशेन दौरात्म्येन युक्तो भवत्यमानुषव्यापारनिर्मितश्च। दैवनिर्माणनिर्मित इत्यनेनानिर्वाच्यत्वं सूचितम्।।[1-3-14,15]
इति नादेन महता वचस्युक्ते महाजनैः।
राममग्रगतं प्रीत्या विश्वामित्रोऽभ्यभाषत।।[1-3-16]
विश्वामित्र उवाच।।
न राघव तवास्त्यन्यज्ज्ञेयं ज्ञानवतां वर।
स्वयैव सूक्ष्मया बुद्ध्य सर्वं विज्ञातवानसि।।[1-3-17]
भगवद्व्यासपुत्रस्य शुकस्येव मतिस्तव।
विश्रान्तिमात्रमेवान्तर्ज्ञातज्ञेयेऽप्यपेक्षते।।[1-3-18]
इति नादेनेत्यादिः आ प्रकरणसमाप्तेर्ग्रन्थः स्पष्टार्थः। तत्र कानिचित्पदानि व्याख्यायन्ते।।[1-3-16,17,18]
श्रीराम उवाच।।
भगवद्व्यासपुत्रस्य शुकस्य भगवन्कथम्।
ज्ञेयेऽप्यादौ न विश्रान्तं विश्रान्तं च धिया पुनः।।[1-3-19]
ज्ञेयेऽपीत्यपिशब्दो विरोधे सर्वक्लेशरहिते प्रमाणव्यापारात्प्रागेव खतःप्रकाशमानपरमानन्दरूपेऽपि धिया न विश्रान्तमिति विरुद्धम्।।
विश्वामित्र उवाच।।
आत्मोदन्तसमं राम वक्ष्यमाणमिदं मया।
शृणु व्यासात्मजोदन्तं जन्मनामन्तकारणम्।।[1-3-20]
तस्य चिन्तयतो लोकयात्रामेवमिमां हृदि।
तवेव किल सद्बुद्धेर्विवेक उदभूदयम्।।[1-3-21]
तेनासौ स्वविवेकेन स्वयमेव महामनाः।
विचार्य सुचिरं चारु यत्सत्यं तदवाप्तवान्।।[1-3-22]
स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः।
इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ।।[1-3-23]
उदन्तो वृत्तान्तः।।[1-3-20,21,22,23]
केवलं विररामास्य चेतो विगतचापलम्।
भोगेभ्यो भूरिभङ्गेभ्यो धराभ्य इव चातकः।।[1-3-24]
एकदा सोऽमलप्रज्ञो मेरावेकान्तमास्थितम्।
पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम्।।[1-3-25]
संसाराडम्बरमिदं कथमभ्युत्थितं मुने।
कथं च प्रशमं याति कियत्कस्य कदेति च।।[1-3-26]
इति पृष्टेन मुनिना व्यासेनाखिलमात्मजे।
यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना।।[1-3-27]
अज्ञासिषं पूर्वमेतदहमित्यथ तत्पितुः।
स शुकः शुभया बुद्ध्या न वाक्यं बह्वमन्यत।।[1-3-28]
व्यासोऽपि भगवाञ्ज्ञात्वा पुत्राभिप्रायमीदृशम्।
प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः।।[1-3-29]
जनको नाम भूपालो विद्यते वसुधातले।
यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमाप्स्यसि।।[1-3-30]
पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम्।
विदेहनगरीं प्राप जनकेनाभिपालताम्।।[1-3-31]
चातको भूमिस्थोदकपानविमुखः पक्षिविशेषः। धाराभ्यो वर्षधाराभ्यः चातकस्तुष्ट्यनन्तरं यथा वर्षधाराभ्य उपरमतेस्म तथेत्यर्थः।।[1-3-24,25,26,27,28,29,30,31]
आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने।
द्वारि व्याससुतो राजञ्शुकोऽत्र स्थितवानिति।।[1-3-32]
याष्टीकैर्यष्ट्यायुधैः।।
जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया।
उक्त्वा बभूव जनकस्तूष्णीं सप्तदिनान्यथ।।[1-3-33]
ततः प्रवेशयामास जनकः शुकमङ्गणम्।
तत्राहानि स सप्तैव तथैवास स उन्मनाः।।[1-3-34]
ततः प्रवेशयामास जनकोऽन्तःपुरं शुकम्।
राजा न दृश्यते तावदिति सप्त दिनानि तम्।।[1-3-35]
तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः।
जनको लालयामास शुकं शशिनिभाननम्।।[1-3-36]
उन्मनाः जनकदर्शने सोत्कण्ठः।।[1-3-33,34,35,36]
ते भोगास्तानि दुःखानि व्यासपुत्रस्य तन्मनः।
नाजह्नुर्मन्दपवनो बद्धपीठमिवाचलम्।।[1-3-37]
केवलं सुमनाः स्वच्छो मौनी मुदितमानसः।
संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः।।[1-3-38]
परिज्ञातस्वभावं तं शुकं स जनको नृपः।
आनीय मुदितात्मानवलोक्य ननाम ह।।[1-3-39]
बद्धपीठं बद्धाधिष्ठानम्।।
निःशेषितजगत्कार्य प्राप्ताखिलमनोरथ।
किमीहितं तवेत्याशु कृतस्वागतमाह तम्।।[1-3-40]
निःशेषितेति।। जगति श्रेयसे यानि कार्याणि सन्ति तानि निःशेषितानि अनवशेषितानि येन स तथा। निरवशेषितसर्वकार्य इति वार्थः।।
शुक उवाच।।
संसाराडम्बरमिदं कथमभ्युत्थितं गुरो।
कथं प्रशममायाति यथावत्कथयाशु मे।।[1-3-41]
विश्वामित्र उवाच।।
जनकेनेति पृष्टेन शुकस्य कथितं तदा।
तदेव यत्पुरा प्रोक्तं तस्य पित्रा महात्मना।।[1-3-42]
शुक उवाच।।
स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः।
एतदेव च पृष्टेन पित्रा मे समुदाहृतम्।।[1-3-43]
भवताप्येष एवार्थः कथितो वाग्विदां वर।
एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते।।[1-3-44]
यथायं स्वविकल्पोत्थः स्वविकल्पपरिक्षयात्।
क्षीयते दग्धसंसारो निःसार इति निश्चयः।।[1-3-45]
तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम्।
त्वत्तो विश्राममाप्नोति चेतसा भ्रमता जगत्।।[1-3-46]
जनक उवाच।।
नातः परतरः कश्चिन्निश्चयोऽस्त्यपरो मुने।
स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम्।।[1-3-47]
संसाराडम्बरं संसारसंरम्भः।।
अव्युच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत्।
स्वसंकल्पवशाद्बद्धो निःसंकल्पश्च मुच्यते।।[1-3-48]
तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः।
भोगेभ्योऽप्यरतिर्जाता दृश्याद्वा सकलादिह।।[1-3-49]
प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा।
न दृश्यते यतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज।।[1-3-50]
अव्युच्छिन्नोऽविनाशी कूटस्थः नित्यः स चासौ चिदात्मा चेति तथा स्वतोऽद्वितीयोऽप्यात्मा सद्वितीयतया स्वसंकल्पवशाद्बद्धो भवति। तथाचोक्तं सुरेश्वराचार्यैः-`अभूताभिनिवेशेन स्वात्मानं वञ्चयत्यसौ। असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथे'ति। निःसंकल्पश्च मुच्यते।।[1-3-48,49,50]
अनुशिष्टः स इत्येवं जनकेन महात्मना।
विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि।।[1-3-51]
वीतशोकभयायासो निरीहश्छिन्नसंशयः।
जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम्।।[1-3-52]
तत्र वर्षसहस्राणि निर्विकल्पसमाधिना।
दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत्।।[1-3-53]
अनुशिष्टः ज्ञानप्राप्त्या स्वस्मिन्प्रतिबिम्बकल्पे जीवेऽधिष्ठानतया स्थितः स्वस्थस्तस्मिन्।।[1-3-51,52,53]
व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेऽसौ।
सलिलकण इवाम्बुधौ महात्मा विगलितवासनमेकतां जगाम।।[1-3-54]
विश्वामित्र उवाच।।
तस्य व्यासतनूजस्य मलमात्रापमार्जनम्।
यथोपयुक्तं ते राम तावदेवोपयुज्यते।।[1-3-55]
व्यपगतेति।। कलना संकल्पः सैव कलङ्कोऽपवादः `कलङ्कोऽङ्कापवादयो'रित्यमरः। व्यपगतः कलनाकलङ्को यस्मात्स तथा स चासौ शुद्धश्च। व्यपगतकलनाकलङ्केति तूलाज्ञाननिवृत्तिरुक्ता। शुद्ध इति मूलाज्ञाननिवृत्तिः। ब्रह्माप्यनाद्यागन्तुकमलद्वरहितमित्याह-अमलात्मनि पावन इति।।[1-3-54,55]
ज्ञातज्ञेयस्य मनसो नूनमेतद्विलक्षणम्।
न स्वादन्ते समग्राणि भोगवृन्दानि यत्पुनः।।[1-3-56]
भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः।
तयोपशान्तया याति बन्धो जगति तानवम्।।[1-3-57]
वासनातानवं राम मोक्ष इत्युच्यते बुधैः।
पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते।।[1-3-58]
समग्राणि भोगवृन्दानि पुनर्न स्वादन्ते रोचन्त इति यत्तदेतज्ज्ञातज्ञेयस्य मनसो लक्षणं हि नूनं निश्चयः। `नूनं तर्केऽर्थनिश्चय'इत्यमरः।।[1-3-56.57.58]
यशःप्रभृतिना यस्मै हेतुनैव विना पुनः।
भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते।।[1-3-59]
रामो यदेतज्जानाति वस्त्वस्तीत्येव सन्मुखात्।
आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः।।[1-3-60]
अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः।
युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम्।।[1-3-61]
रघूमामेष सर्वेषां प्रभुः कुलगुरुः सदा।
सर्वज्ञः सर्वसाक्षी च त्रिकालामलदर्शनः।।[1-3-62]
वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम्।
आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधिया।।[1-3-63]
उपदिष्टं भगवता ज्ञानं पद्मभुवा मुहुः।
तदेवोपदिशाद्य त्वं रामायान्ते निवासिने।।[1-3-64]
तज्ज्ञानं च स शास्त्रार्थस्तद्वैदग्ध्यमखण्डितम्।
सुशिष्याय विरक्ताय साधो यदुपदिश्यते।।[1-3-65]
कीर्तिलाभादिना निमित्तेन यस्मै भोगा न रोचन्ते स जीवन्मुक्तो माभूदित्याह-यशःप्रभृतिनेति।। यशःप्रभृतिना हेतुना विनैवेति।।[1-3-59,60,61,62,63,64,65]
अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते।
तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव।।[1-3-66]
इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः।
मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन्।।[1-3-67]
अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः।
ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः।।[1-3-68]
दृतिर्भस्त्रा।।[1-3-66,67,68]
मुने यदादिशसि मे तदविघ्नं करोम्यहम्।
कः समर्थः समर्थोऽपि सतां लङ्घयितुं वचः।।[1-3-69]
स्मराम्यखण्डितं सर्वं संसारभ्रमशान्तये।
निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मयोनिना।।[1-3-70]
आदिशसि आज्ञापयसि।।[1-3-69,70]
वाल्मीकिरुवाच।।
इति नीगदितवानसौ महात्मा परिकरबन्धगृहीतवक्तृतेजाः।
अकथपदिदमज्ञतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः।।[1-3-71]
इति श्रीवाल्मीकीये मोक्षोपाये वैराग्यप्रकरणे तृतीयः सर्गः।। 3 ।।
इतीति।। परिकरबन्धेति।। अभिवदनोपयोगिनो ये परिकरास्तेषां परिकराणां बन्धेन बन्धनेन गृहीतं स्वीकृतं वक्तृतेजो येन सः परिकरबन्धगृहीतवक्तृतेजाः।।
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां वैराग्यप्रकरणं नाम तृतीयः सर्गः।। 3 ।।
संपूर्णमिदं वैराग्यप्रकरणम्।।