लघुयोगवासिष्ठः/प्रकरणम् २ ( मुमुक्षुव्यवहारप्रकरणम्)

← प्रकरणम् १ (वैराग्यप्रकरणम्) लघुयोगवासिष्ठः
प्रकरणम् २ ( मुमुक्षुव्यवहारप्रकरणम्)
[[लेखकः :|]]
प्रकरणम् ३ (उत्पत्तिप्रकरणम्) →

ॐश्रीरामय नमः।।
मुमुक्षुव्यवहारप्रकरणम्।।
श्रीवसिष्ठ उवाच।।
सर्वदा सर्वमेवेह संसारे रघुनन्दन।
सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते।।[2-1-1]
पूर्वप्रकरणेन नित्यानित्यवस्तुविवेकतो वैराग्यं शमाद्यङ्कुरबीजं मुमुक्षुफलपर्यवसायि प्राधान्येन प्रतिपादतम्। इदानीं मुमुक्षव्यवहारः शमादीतिकर्तव्यताको मनननिदिध्यासनाङ्गकश्रवणलक्षण उत्तरप्रकरणेन प्रतिपाद्यते। प्रसङ्गागतं च किंचित्किंचित्। तत्राद्युश्लोकेन दैवाधीनं सर्वं पौरुषं व्यर्थमतो विचारविषयप्रयत्नपरता नाश्रयणीयेतीतरजशङ्कागमं निमित्तीकृत्य परिहरति भगवान्वसिष्ठः-सर्वमेवेति।। पौरुषं पुरुषकारः उद्योग इत्यर्थः। एवशब्दस्य समवाप्यत इत्यनेनापि संबन्धः।।
उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम्।
तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम्।।[2-1-2]
पौरुषात्सर्वं समवाप्यते चेत् आशास्त्रीयादपि पौरुषात्परमार्थप्राप्तिः स्यादतस्तदपि मुमुक्षुणानुष्ठेयं स्यादित्याशङ्क्याह-उच्छास्त्रमिति।।
आबल्यादलमभ्यस्तैः शास्त्रसत्यसङ्गमादिभिः।
गुणैः पुरुषयत्नेन स्वार्थः संप्राप्यते हितः।।[2-1-3]
परमार्थाय शास्त्रितमित्येतत्प्रपञ्चयति-आबाल्यादिति।।
श्रीराम उवाच।।
प्राक्तनं वासनाजालं नियोजयति मां यथा।
तथैव तिष्ठामि मुने कृपणः किं करोम्यहम्।।[2-1-4]
वासनापारतन्त्र्यात् स्वतन्त्रप्रवृत्त्या स्वार्थः संप्राप्तुं न शक्यत इत्याक्षिपति-प्राक्तनमिति।।
अतएव हि हे राम श्रेयः प्राप्नोषि शाश्वतम्।
स्वप्रयत्नोपनीतेन पौरुषैणैव नान्यथा।।[2-1-5]
परिहरति-अत इति।। अतएव प्राक्तनवासनाया अनियोज्यत्वादेन। स्वप्रयत्नोपनीतेन पौरुषेणैव पुरुषव्यापारेणैव श्रेयः प्राप्नोषि। अयमभिप्रायः-न पूर्ववासना तीव्रवायुवत्पुरुषं प्रेरयति, किंत्विच्छोपसंहारमुखेन स्वातन्त्र्यं प्रयच्छति, तथासति स्वतन्त्रप्रवृत्त्या स्वार्थः संप्राप्तुं शक्य इति।।
द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते।
प्राक्तनो विद्यते राम द्वयोरेकतरोऽथवा।।[2-1-6]
स्वप्रयत्नोपनीतेन पौरुषैणैव श्रेयःप्राप्तिः केन प्रकारेणेत्यशङ्क्य विभागेन प्राक्तनवासनाजालसद्भावं दर्शयंस्तत्रापि प्रकारं दर्शयति-द्विविध इत्यादिना।। शुभाशुभवासनासमूहयोर्मध्येऽन्यतरस्यात्यल्पत्वेनाविद्यमानकल्पकत्वाभिप्रायेण द्वयोरेकतरोऽथवेत्युक्तम्।।
वासनौघेन शुद्धेन तत्र चेदपनीयसे।
तत्क्रमेण शुभेनैव पदं प्राप्स्यसि शाश्वतम्।।[2-1-7]
अथ चेदशुभो भावस्त्वं योजयति संकटे।
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता स्वयम्।।[2-1-8]
तत्र तयोर्व्यूहयोर्मध्ये। तत्तर्हीत्यर्थः।।[2-1-7,8]
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित्।
पौरुषेम प्रयत्नेन योजनीया शुभे पथि।।[2-1-9]
भावशब्देन वासनौघोऽत्र विवक्षितः। शुभाशुभवासनासमूहयोरन्यतरेण पुंसः प्रेर्यत्वे निःश्रेयसः प्राप्तिप्रकारमभिधायोभाभ्यां प्रेर्यत्वेऽपि तमाह-शुभाशुभाभ्यामिति।।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत्।
स्वं मनः पुरुषार्थेन बलेन बलिनां वर।।[2-1-10]
उक्तमर्थं प्रपञ्चयति-अशुभेष्विति।। पुरुषार्थहेतुनेत्यर्थः।।
अशुभाच्चालितं याति शुभं तस्मादपीतरत्।
जन्तोश्चित्तं तु शिशुवत्तस्मात्तच्चालयेद्बलात्।।[2-1-11]
शुभेष्ववतारणाय योग्यतां दर्शयन्नुक्तं निगमयति-अशुभादिति।। शुभो विषयः पौरुषमनपेक्ष्यैव स्वयमेवाशुभात्मनश्चालयति अतः पौरुषं व्यर्थमित्याशङ्क्याहेत्येवमवतारयन्ति केचिदिमं श्लोकम्।।
समता सान्त्वनेनाशु न द्रागिति शनैः शनैः।
पौरुषेण प्रयत्नेन लालयेच्चितबालकम्।।[2-1-12]
चित्तस्य शिशुसमत्वे सति तदुचितं चालनप्रकारं दर्शयति-समतेति।। हे चित्तबालक, नामतोऽर्थतश्च विषादप्यधिकान् विषयान् मा गृहाण। प्रियाप्रियविषयप्राप्तौ हर्षविषादरहिततालक्षणसमतां निरतिशयसुखप्राप्तिकामाश्रयेत्येवं समतासान्त्वनेन। द्राक्‌शब्दो द्रुतार्थः। `सद्यो द्राक् मङ्क्षु सपदि द्रुत' इत्यमरः।।
प्रागभ्यासवशाज्जातो यदा ते वासनोदयः।
तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन।।[2-1-13]
अशु भाच्चित्तचालनाभ्यासस्य साफल्यं कदा भवतीत्यत आह-प्रगिति।। अस्मिन्नपि जन्मन्यत्यभ्यासं कुर्वतस्ते प्रागभ्यासवशात् प्राग्जन्मनोऽभ्यासवशात् अथवा प्राक् पूर्ववयसि आबाल्यादलमभ्यस्तैरित्युक्तं। द्रागिति क्वचित्। नन्वस्मिन्पक्षे न द्रागिति शनैःशनैरिति पूर्वश्लोकोक्तं विरुध्येतेति चेन्न। चित्तनिग्रहारम्भदशापेक्षया तथा विहितत्वात्तदुत्तरावस्थापेक्षया द्रागित्यभिधानात्।।
सन्दिग्धायामपि भृशं शुभामेव समाहर।
शुभायां वासनावृद्धौ तात दोषो न कश्चन।।[2-1-14]
अशुभवासनायाः शुभवासनात आधिक्ये तत्साम्ये च कर्तव्यमभिधाय तत्सन्देहेऽपि तदाह-सन्दिग्धायामिति।। शुभायामिति स्पष्टार्थः।।
अव्युत्पन्नमना यावद्भवानज्ञाततद्पदः।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर।।[2-1-15]
ननु शुभवासनावृद्धौ दोषो नास्तीति कथम्। तस्या अप्यविद्याकार्यत्वेन दोषावहत्वसंभवादित्याशङ्क्यात्मसाक्षात्कारपर्यन्तमादेया ततः परं त्याज्येत्याह-अव्युत्पन्नेत्यादिश्लोकत्रयेण।। अज्ञातं तत्पदं ब्रह्मस्वरूपं येन स तथा। तुशब्दोऽवधारणे। `तुस्याद्भेदेऽवधारण' इत्यमरः।।
ततः पक्वकषायेण नूनं विज्ञातवस्तुना।
शुभोऽप्यसौ परित्याज्यो वासनौघो निरोधिना।।[2-1-16]
पक्वकषायेण दग्धरागादिना विवेकिनेत्यर्थः।।
यदतिसुभगमार्यसेवितं तच्छुभमनुसृत्य मनोज्ञभावबुद्ध्या।
अधिगमयपदं सदा विशोकं तदनु तदप्यवमुच्य साधु तिष्ठ।।[2-1-17]
अतिशोभनो भगो माहात्म्यं यस्य तदतिसुभगम्। शुभवासनाजालमनुसृत्य मनो विशोकं पदमभिगमयेति संबन्धः। अधिगमय प्रापयेत्यर्थः। मनः ज्ञभावबुद्ध्येति पदच्छेदः। तत्र ज्ञभावो ज्ञत्वं तद्विशिष्टबुद्ध्येत्यर्थः। अथवा मनोज्ञभावबुद्ध्येत्येकं पदम्। मनोज्ञो मनोहरो भावोऽभिप्रायो यस्याः सा मनोज्ञभावा सा चासौ बुद्धिश्च तया। मनोज्ञभाव इति संबोधनं वा।।
वसिष्ठ उवाच।।
अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारभावनाम्।
संपूर्णौ शमसंतोषौ चादायोदारया धिया।।[2-1-18]
`गुरुशास्त्रप्रमाणौस्तु निर्णीतं तावदाचरे'त्युक्तं विवृण्वन् श्रोतव्यस्यज्ञानशास्त्रस्य विशिष्टसंप्रदायमूलत्वं परमपुरुषार्थकरत्वं चाह-अपुनरित्यादिश्लोकत्रयेण।। भावनां वासनाम्। उदारया महत्या। उत्तमयेत्यर्थः।।
सुपूर्वापरवाक्यार्थविचारविषयादृतम्।
मनः समरसं कृत्वा सानुसन्धानमात्मनि।।[2-1-19]
सुपूर्वेति।। शोभनोः यः पूर्वापरवाक्यार्थविचारः स एव विषयस्तस्मिन्नादृतम्। स्वपूर्वेति क्वचित् तत्र स्वावधारणौ यौ पूर्वापरवाक्यार्थौ तयोर्विचारविषयादृतमित्यर्थः। मनो स्वावधारणौ यौ पूर्वापरवाक्यार्थौ तयोर्विचारविषयादृतमित्यर्थः। मनो विचारविषयादृतं समरसमात्मनि सानुबन्धं च कृत्वा।।
श्रृणु राम पुरा प्रोक्तं ब्रह्मणा परमेष्ठिना।
सर्वदुःखक्षयकरं परमाश्वासनं धियः।।[2-1-20]
श्रृण्वित्यन्वयः।।
श्रीराम उवाच।।
केनोक्तं कारणेनेदं ब्रह्मन्पूर्वं स्वयंभुवा।
कथं च भवता प्राप्तमेतत्कथय मे प्रभो।।[2-1-21]
केनोक्तमिति स्पष्टार्थः।।
वसिष्ठ उवाच।।
अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः।
चिदाकाशोऽविनाशात्मा प्रदीपः सर्ववस्तुषु।।[2-1-22]
ब्रह्मविद्यासंप्रदायकर्तुर्ब्रह्मणो महत्त्वख्यापनाय परमकारणेत्पन्नत्वजगत्कर्तृत्वे दर्शयन् केनोक्तमित्यादिप्रश्नद्वयस्योत्तरे आह-अस्त्यनन्तेत्यादिना यज्ज्ञात्वाहं सुखी स्थित इत्यन्तेन ग्रन्थजातेन। अनन्तविलासात्मा अनन्तकार्यस्वरूपभूतः सर्ववस्तुषु विषयेषु प्रदीपो भासकः।।
स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत।
तस्यापि हृदयाम्भोजात्परमेष्ठी व्यजायत।।[2-1-23]
स्पन्दो जगद्रूपेण जृम्भणं अस्पन्दस्तद्विपर्ययः तयोः समाकारात्समस्वरूपात्।।
सोऽसृजत्सकलं सर्गं विकल्पौघं यथा मनः।
एतस्मिन्भारते वर्षे नानाव्यसनसंकुलम्।।[2-1-24]
जनस्यैतस्य दुःखं स दृष्ट्वा सकललोककृत्।
जगाम करुमामीशः पुत्रदुःखात्पिता यथा।।[2-1-25]
क एतेषां हताशानां दुःखस्यान्तो हतायुषाम्।
स्यादिति क्षणमेकाग्रश्चिन्तयित्वा न्वतप्यत।।[2-1-26]
तपो दानं जपस्तीर्थं नात्यन्तं दुःखशान्तये।
तत्तावद्दुःखमोक्षार्थं ज्ञानं प्रकथयाम्यहम्।।[2-1-27]
इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः।
मनसा परिसंकल्प्य मामुत्पादितवानिमम्।।[2-1-28]
सृज्यत इति सर्गो जगत्। सृज्यस्य सत्यत्वशङ्कां शातयन् दृष्टान्तमाह-विकल्पौघमिति।। विकल्पौघो मनोरथसमूहः।।[2-1-24,25,26,27,28]
कमण्डलुधरो नाथः सकमण्डलुना मया।
साक्षमालं स्थितः पद्मे स प्रणम्याभिवादितः।।[2-1-29]
एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले।
मां निवेश्य महाबाहो प्रोवाच भगवानजः।।[2-1-30]
साक्षमालमिति क्रियाविशेषणम्।।[2-1-29,30]
मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम्।
अज्ञानमभ्याविशतु सबाष्पं दर्पणं यथा।।[2-1-31]
इति तेनाशु शप्तः सन्विचारं समनन्तरम्।
अहं विस्मृतवान्सर्वं स्वरूपममलं किल।।[2-1-32]
अथाहं दीनतामेत्य स्थितोऽसंबुद्धया धिया।
दुःखशोकाभिसंतप्तो जातो जन इवाधमः।।[2-1-33]
अथाभ्ययात्स मां नाथः पुत्र किं दुःखवानसि।
दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि।।[2-1-34]
बाष्पोऽत्र मुखोद्गत ऊष्म।।
ततः पृष्टः स भगवान्मया संसारभेषजम्।
कथं नाथ महादुःखमयः संसार आगतः।।[2-1-35]
कथं च क्षीयते नाथ ततस्तेन महात्मना।
तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वाहं सुखी स्थितः।।[2-1-36]
संप्रदायतो लब्धस्यैव ज्ञानस्य मुक्तिदत्वं नान्यस्येति दर्शयितुं ब्रह्मविदो लोकानुग्रहं मुक्त्वान्यत्कर्तव्यं नास्तीति ज्ञापयितुं पुरुषार्थसिद्धौ भारतवर्षस्यायस्माद्विशिष्टतां च दर्शयितुमाह-तत इति।।[2-1-35,36]
ततो विदितवेद्यं मां निजायां प्रकृतौ स्थितम्।
स उवाच जगत्कर्ता वाक्यं सकलकारणम्।।[2-1-37]
शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः।
पुत्रास्य ज्ञानसारस्य समरतजनसिद्धये।।[2-1-38]
इदानीं शान्तशापस्त्वं बोधं परमुपागतः।
गच्छ वत्स महीपीठं जम्बूद्वीपान्तरस्थितम्।।[2-1-39]
साधो भारतवर्षे त्वं लोकानुग्रहहेतुना।
तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधियः।।[2-1-40]
उपदेश्याः क्रियाकाण्डक्रमेण शमशालिना।
विरक्तचित्ताश्च तथा महाप्राज्ञा विचारिणः।।[2-1-41]
उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना।।[2-1-42]
इति तेन नियुक्तोऽहं पित्रा कमलजन्मना।
इह साधोऽबतिष्ठामि यावद्भूतपरम्परा।।[2-1-43]
ततो विदितवेद्यमित्यादयः कर्तव्यमस्तीत्यतः प्राक्तनाः श्लोकाः स्पष्टार्थाः।।[2-1-37,38,39,40,41,42,43]
कर्तव्यमस्ति न ममेह हि किंचिदेव स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि।
कार्यं करोमि नच किंचिदहं करोमि।।[2-1-44]
कल्पपर्यन्तं कर्मभूमावस्थानं गुरोर्वाक्यं परिपालयतस्तव लोकानुग्रहार्थमेव केवलं न भवति किंतु कृत्यशेषं कर्तुं चेत्याशङ्क्याह-कर्तव्यमिति।। अतिमना अतिक्रान्तमनाः। जितमना इत्यर्थः। अथवा अतिमनाः प्रकृष्टमनाः। अविमना इति क्वचित्। तत्र विमनाः दुर्नाः स न भवतीत्यविमनाः। अज्ञवत्तवापि कार्येषु प्रवृत्तदर्शनात् कथं कृतकृत्यस्त्वं तत्राहसमिति।। संशान्तया इष्टानिष्टप्राप्तौ हर्षविषादरहितया सततं सुप्ता धीर्यस्यां वृत्तौ तया वृत्त्या वर्तनेन परमार्थदृष्ट्या प्रातिभासिकदृष्टया वा कार्यकर्तृत्वमुक्त्वा पारमार्थिकदृष्ट्या तदभावमाह-नचेति।। धियः सुप्तत्वं सत्याद्वैतविषयत्वम्। तथाचोक्तमाचार्यैः-`सुषुप्तवज्जाग्रति यो न पश्यति द्वयं तु पश्यन्नपि चाद्वयत्वतः। तथापि कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चय' इति।। `अहमित्यात्मधीर्या च ममेत्यात्मीयधीरपि। अर्थशून्ये यदा स्य स आत्मज्ञो न चेतर' इति च।। तथाच भगवद्वचनम्-`यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' इति।।
श्रीवसिष्ठ उवाच।।
अज्ञतानज्ञते पूर्वं वक्तुर्निर्णीय कार्यतः।
यः करोति नरः प्रश्नं पृच्छकः स महामतिः।।[2-1-45]
एवं केनोक्तमित्यादिप्रश्नोत्तरे आख्याय प्रसङ्गागतं किंचिदुक्त्वा `श्रृणु राम पुरा प्रोक्त'मिति वचनादभिमुखीभूताय रामाय ज्ञानं सोपायं विवक्षुर्विशिष्टपृच्छकवक्तृकयोरावयोः संवादोऽवश्यं फलाय कल्पत इति दर्शयितुं पृच्छकवक्तारौ लक्षयति-अज्ञतेत्यादिश्लोकद्वयेन।।
पूर्वापरसमाधानक्षमबुद्धावनिन्दिते।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि।।[2-1-46]
गुरुतः श्रुतयोः पूर्वापरावक्यार्थयोरनन्विततयाक्षेपे कृते तत्समाधाने क्षमा समर्था बुद्धिर्यस्य तथा तस्मिन्। अत्रैवं नियमः-पूर्वापरसमाधानक्षमबुद्धावेव वक्तव्यं शिष्यायानिन्दितायैव वक्तव्यं पृष्टमेव वक्तव्यमिति च।।
मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः।
शमो विचारः संतोषश्चतुर्थः साधुसंगमः।।[2-1-47]
एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा।
द्बारमुद्धाटयन्त्येते मोक्षे राजगृहे यथा।।[2-1-48]
एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत्।
एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः।।[2-1-49]
शास्त्रैः सज्जनसंसर्गपूर्वकैः सतपोदमैः।
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत्।।[2-1-50]
संवादसाफल्यज्ञापनाय पृच्छकवक्तृलक्षणे आख्यायादौ मुमुक्षुकृत्यमाचष्टे-मोक्षद्वारमित्यादिभिरभिवर्धयेदित्यन्तैः श्लोकैः। ते च स्पष्टार्थाः।।[2-1-47,48,49,50]
दुःसहा राम संसारविषवेगविषूचिका।
योगगारुडमन्त्रेण पावनेन प्रशाम्यति।।[2-1-51]
अभिवृद्धया प्रज्ञया किं भवेदित्यत आह-दुःसहेति।।
संसार एव विषवेगविषूचिका विषवेगोत्पन्नविषूचिकाख्यरोगः। योगो ब्रह्मात्मैक्यविज्ञानं स एव गारुडमन्त्रस्तेन। अयमेव योगशब्दार्थ इति बृहद्वासिष्ठगतादेतच्छ्लोकोत्तरश्लोकात्-`स च योगः सज्जनेन सह शास्त्रविचारणात्। परमार्थज्ञानमयो नूनं लभ्यत एव चे'त्यस्मादवगम्यते। संसाररोगच्छेदकदृढप्रज्ञायै शमाद्युपेत आत्मानं विचारयेदित्युक्तम्।।
दुरन्तेयं किल विषयविषजविषूचिका यदि न चिकित्स्यते तन्नितरां नरकनगरनिकरफलानुबन्धिनी तदैतत्करोति यत्र शिलाशितासिश[1] [1.शातः पात उपल' इति बृहद्योगवासिष्ठे।तपातोत्पलाताडनम्।।[2-1-52]
इदानीमेवमात्मानमविचारतो निरतिशयदुःखमाह-दुरन्तेयमित्यादिना।। विषया एव विषयविषूचिका। विषयविषूचिकेति क्वचित्। तत्र विषया एव विषूचिकेत्यर्थः। न चिकित्स्यते यदि तत्तर्हि नितरां सुतरां नरका एव नगराणि तेषां निकराः समूहास्त एव फलानि तैरनुषङ्गो यस्याः सा नरकनगरनिकरफलानुबन्धिनी भूत्वा तद्दुःखं करोति। किं तद्दुःखं करोतित्याकाङ्क्षायामाह-यत्रेति।। यत्र यस्मिन् विषयविषमविषूचिकाजनितदुःखे शितानां तेजितानामसीनां शतानां पातो गात्रेषूत्पलताडनं भवति।।
अग्निदाहो हिमावसेचनं अङ्गावकर्तनचन्दनचर्चा निरवधिना एव नरकनिपातो निदाघविनोदनधारागृहशीकरवर्षं शिरच्छेदः सुखनिद्रामूकीकरणमाननमुद्राबाधिर्यं महानुपचयः।।[2-1-53]
यत्रेति सर्वत्र संबध्यते। यत्राग्निदाहः शरीरे हिमावसेचनं भवति। अङ्गावकर्तनमवयवकृन्तनं चन्दनचर्चा चन्दनलेपनम्। नाराचाः सर्वलोहमया बाणाः। निदाघविनोदनधारागृहशीकरवर्षणं निदाघविनोदनाय घर्मविनाशाय यन्त्रप्रेरितजलधारावति गृहे शीकरवर्षणमम्बुकणवर्षणम्। आननमुद्रा आस्यपिधानमित्यर्थः। उपचयोऽभिवृद्धिः। अयमभिप्रायः-महादुःखहेतवोऽप्यसिशतपातादयो यस्मिन्दुःखे दृश्यमानाः सुखहेतुवदाचरन्ति तन्निरतिशयदुःखं विषयविषमविषूचिका करोतीति।।
तदेवं राम शास्त्रेणावहेलया व्यवहर्तव्यम्। अवश्यमेवं विचारणीयम्। एवं चावबोद्धव्यम्। यथा किल शास्त्रविचाराद्बोधो भवतीति।।[2-1-54]
यस्मादेवं तस्माद्विषयरोगचिकित्सायां प्रयतितव्यमित्याह-तदेवमिति।। अवहेला अवज्ञा लीला वा। काचिच्चिकित्सा कर्तव्या विषयरोगनिवृत्तये तत्राह-एवमिति।। किलशब्दः श्रुतीतिहासपुरणप्रसिद्धिद्योतनार्थः। सकलानर्थनिवृत्तिपरमानन्दपदप्राप्तिकामेन सास्त्रार्थविचारः सम्यक्कर्तव्य इत्यर्थः।।
स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता।
यस्याभ्यासेन तेनात्मा संततेनावलोक्यते।।[2-1-55]
ननु शास्त्रविचारात्सम्यग्ज्ञानविचारद्वारैव श्रेयो भवति तत्सम्यग्ज्ञानं विचारकारिणां सर्वेषां किमिति न भवति तत्राह-खेति।। यस्य पुरुषस्य संततेनाभ्यासेन स्वानुभूत्यादित्रयसंवादो भवति तेन पुंसा आत्मावलोक्यते साक्षात्क्रियते नान्येन।।
किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा।
मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन।।[2-1-56]
कस्य शास्त्रस्थार्थविचारः श्रेयोऽर्थिना कर्तव्य इत्यत आह-किंचिदिति।। शास्त्रं मौर्ख्यापहमित्युक्तम्।।
वरं शरावहस्तस्य चाण्डालागारवीथिषु।
भिक्षार्थमटनं राम न मौर्ख्यं हतजीवितम्।।[2-1-57]
मौर्ख्यस्यावश्यहेयत्वमाह-वरमिति।।
न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः।
न हस्तपादचलनं न देशान्तरसङ्गमः।।[2-1-58]
न कायक्लेशवैधुर्यं न तीर्थाय न जीवितम्।
केवलं तन्मनोमात्रजयेनासाद्यते परम्।।[2-1-59]
शास्त्रार्थविचारवत्सत्पात्रे धनादिदानमपि ब्रह्मप्राप्तावभ्यर्हितोपाय इत्याशङ्कां निराकरोति-न धनानीत्यादिना।। यथा धनादिकं ब्रह्मप्राप्तिकरं न भवति एवं विचारोऽपि तत्प्राप्तिकरो न भवति। विचारवतामपि बहूनां तत्प्राप्त्यदर्शनादित्याशङ्क्याह-केवलमिति।। मनोजयाभावादेव विचारवत्सु ब्रह्मप्राप्तिर्न दृश्यत इति भावः।।[2-1-58,59]
मोक्षद्वारे द्वारपालानिमाञ्शृणु यथाक्रमम्।
एषामेकतमासक्त्या मोक्षद्वारे प्रवेश्यते।।[2-1-60]
मोक्षद्वारे द्वारपाला इति ये पूर्वमुक्ताः यत्करणे पुरुषार्थ उक्तः यदकरणेऽनर्थ उक्तस्तान्प्रपञ्चयितुमारभते-मोक्षद्वार इति।।
यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः।
तत्सर्वं शान्तचेतस्सु तमोऽर्केष्विव नश्यति।।[2-1-61]
मातरीव परं यान्ति विषमाणि मृदूनि च।
विश्वासमिह भूतानि सर्वाणि शमशालिनि।।[2-1-62]
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च।
तथा सुखमवाप्नोति शमेनान्तर्यता जनः।।[2-1-63]
तत्रतावच्छान्तिफलमानुषङ्गिकमाह-यानीत्यादिना श्लोकत्रयेण[2-1-61,62,63]
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम्।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते।।[2-1-64]
शान्तेः फलमभिधाय स्वरूपमाह-श्रुत्वेत्यादिश्लोकद्वयेन।। ग्लायति हर्षक्षयं करोति। विषीदतीत्यर्थः।।
तुषारकरबिम्बाच्छं मनो यस्य निराकुलम्।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते।।[2-1-65]
तुषारकरश्चन्द्रः। दृढविवेकवतो महद्वैराग्यमास्थितस्य भाविनोऽपरिहार्यतां च जानतः पुंसः सुखदुःखप्राप्तौ हर्षविषादरहितता भवति सैव शम इत्यर्थः।।
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च।
बलवत्सु गुणाढ्येषु शमवानेन राजते।।[2-1-66]
शमस्यानुषङ्गिकं फलान्तरमाह-तपस्विष्विति।।
शमममृतमहार्यगुप्तं परमवलम्ब्य परं पदं प्रयाताः।
रघुतनय यथा महानुभावाः क्रममनुपालय सिद्धये तमेव।।[2-1-67]
शमस्य महाफलं दर्शयन्महानुभावगृहीततया तस्यानुष्ठेयतामाहशममिति।। हार्यमनार्यगुप्तमपरममृतमवलम्ब्य देवा अपरमेव पदं प्रयाताः। महानुभावास्त्वन्येनाहार्यं हर्तुमयोग्यमार्यगुप्तं विद्वद्रक्षितं शमाख्यं परममृतमवलम्ब्य तदनुरूपं परमेव पदं यथा प्रयातास्तथा सिद्धये परमपदप्राप्तये तमेव क्रमं शमलक्षणोपायमथवा शमविचारसंतोषध्यानादीनां क्रममनुपालयानुतिष्ठेत्यर्थः।।
शास्त्रावबोधामलया धिया परमपूतया।
कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः।।[2-1-68]
शमादीनां मध्ये शमं विस्तरादाख्याय विचारं प्रस्तावयति-शास्त्रेत्यादिपञ्चभिः श्लोकैः।। तत्र प्रथमं विचारं विधत्ते-शास्त्रेति।। आदावीश्वरार्पितकर्मभिः परमपूतया अनन्तरं निवृत्तसास्त्रार्थावबोधेनामलया कारणज्ञेन इदमस्य कारणमिदमस्य कार्यमिति कारणाद्यभिज्ञेनेत्यर्थः।।
विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम्।
दीर्घसंसाररोगस्य विचारो हि महौषधम्।।[2-1-69]
विचारफलमाह-विचारादिति।।
कोऽहं कस्य च संसार इत्यापद्यपि धीमता।
चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना।।[2-1-70]
विचारस्य स्वरूपं दर्शयंस्तत्कर्तव्यतां विशदयति-कोऽहमिति।। सप्रतीकारमिति क्रियाविशेषणम्। विघ्नप्रतीकारेण सह वर्तत इति सप्रतीकारम्। आत्मना बुद्ध्या।।
अनष्टमन्धकारेषु बहुतेजःस्वजिह्मितम्।
पश्यत्यपि व्यवहितं विचारश्चारुलोचनम्।।[2-1-71]
विचारं स्तौति-अनष्टमिति।। चारुलोचनत्वसाधनायानष्टमित्यादिविशेषणत्रयम्। अनष्टं कार्यवन्न नष्टं भवतीत्यनष्टम्। अजिह्मितमकुटिलितम्। अप्रतिहतमित्यर्थः।।
कोऽहं कथमयं दोषः संसाराख्य उपागतः।
न्यायेनेति परामर्शो विचार इति कथ्यते।।[2-1-72]
विचारस्वरूपं विशदयति-कोऽहं कथमिति।।
वसिष्ठ उवाच।।
संतोषो हि परं श्रेयः संतोषः सुखमुच्यते।
संतुष्टः परमभ्येति विश्राममरिमर्दन।।[2-1-73]
विचारानन्तरमुक्तं संतोषं प्रपञ्चयति षड्भिः। तत्र श्लोकद्वयेन संतोषं स्तौतिसंतोष इत्यादिना।। विश्रामशब्देन विश्रान्तिर्विवक्षिता।।
संतोषामृतपानेन ये शान्तास्तृप्तिमागताः।
भोगश्रीरतुला तेषामेषा प्रतिविषायते।।[2-1-74]
संतोषामृतपानेन तृप्तिमागता इति संबन्धः। प्रतिविषायते प्रतिविषवदाचरति। प्रतिकूलं विषं प्रतिविषम्।।
अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः।
अदृष्टखेदाखेदो यः संतुष्टः स इहोच्यते।।[2-1-75]
संतोषस्वरूपमाह-अप्राप्तेति।। अप्राप्ते इष्टे वाञ्छा अप्राप्तवाञ्छा तां। संप्राप्त इष्टे समतां विकाररहितताम्। संप्राप्ते इष्टभोगे अल्पत्वानल्पत्वाभ्यां हर्षविषादरहिततामित्यर्थः।।
आशावैवश्यविवशे चित्ते संतोषर्वजिते।
म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति।।[2-1-76]
संतोषाभावे ज्ञानानुत्पत्तिरतः संतोषः कर्तव्य इत्याह-आशेति।। आशा वैवश्यविवशे। आशापारवश्येनास्वस्थ इत्यर्थः। म्लानशब्देन मलिनत्वं लक्ष्यते।।
नाभिवाञ्छत्यसंप्राप्तं प्राप्तं भुङ्क्ते यताक्रमम्।
यस्तु सौम्यसमाचारः संतृष्ट इति कथ्यते।।[2-1-77]
उक्तं संतोषस्वरूपं पुनराह तज्ज्ञानदार्ढ्याय-नेति।। क्रम आचारक्रमस्तमनतिक्रम्य वर्तत इति यथाक्रमम्।।
समतया मतया गुणशालिनां पुरुषराडिह यः समलंकृतः।
तममलं प्रणमन्ति नरोत्तमा अपि महामुनयो रघुनन्दन।।[2-1-78]
संतोषस्यातिप्रशस्तत्वं दर्शयन्नुपसंहरति-समतयेति।। गुणशालिनां मतया समतया समलंकृतं इति संबन्धः।।
विशेषेण महाबाहो संसारोत्तरणे नृणाम्।
सर्वत्रोपकरोतीह साधुः साधुसमागमः।।[2-1-79]
साधुसंगमं प्रपञ्चयति-विशेषेणेत्यादिभिश्चतुर्भिः श्लोकैः।। तत्राद्यश्लोकेन साधुसंगमफलं कथ्यते।
द्वितीयतृतीयाभ्यां संस्तूयते। चतुर्थेन साधुस्वरूपकथनपूर्वकं तत्सेवाभिधीयते।।
शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते।
आपत्संपदिवाभाति विद्बज्जनसमागमे।।[2-1-80]
शून्यं स्थलमाकीर्णतां प्राणिसंकुलतामेतीवेति इवशब्दोऽत्रापि योजनीयः।।
यः स्नातः शीतसितया साधुसंगमगङ्गया।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः।।[2-1-81]
शीता चासौ सिता च तया संसारतापनिवारकत्वात्। सितत्वं शुद्धत्वम्।।
विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसंमताः।
सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधै।।[2-1-82]
ग्रन्थिरहङ्कारः तस्यात्मानात्मग्रन्थिरूपत्वात् ग्रन्थिवद्दुर्भेद्यत्वाच्च।।
चत्वार एते विमला उपाया भवभेदने।
यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात्।।[2-1-83]
चत्वार इति।। स्पष्टार्थः।।
त्वमेतयाखण्डितया गुणलक्ष्म्या समाश्रितः।
मनोमोहहरं वाक्यं वक्ष्यमाणमिदं श्रृणु।।[2-1-84]
मोहवारिपूर्णभवार्णवोत्तारकैरेतैरहं विशिष्टः किं न वेत्यालोचयन्तं रामं प्रत्याह-त्वमिति।। गुणलक्ष्म्यालिङ्गितेन कर्तव्यमाह-मन इति।।
मोक्षोपायकथामेतां शृण्वतामरिमर्दन।
अनिच्छतामपि बलात्परो बोधः प्रवर्तते।।[2-1-85]
इदं श्रृण्वित्युपक्षिप्ताया वक्ष्यमाणज्ञानकथायाः श्रवणफलप्रकाशनार्थं मोक्षोपायेत्यादिभिर्भवत्यविषयो गिरामित्यन्त उत्तरग्रन्थसन्दर्भः स च स्पष्टार्थः। क्वचित्किंचिद्विविच्यते।।
लोभमोहादयो दोषास्तानवं यान्त्यलं धियः।
मनः प्रसादमायाति शरदीवामलं सरः।।[2-1-86]
तानवं तनुत्वम्।।
दैन्यदारिद्र्यदोषाढ्या दृष्टयो दर्शितान्तराः।
न निकृन्तन्ति मर्माणि ससन्नाहमिवेषवः।।[2-1-87]
दैन्यदारिद्र्ये एव दोषौ ताभ्यामाढ्याः दृष्टयो हेयादेयविषयविकल्पाः दर्शितान्तराः मर्मभेदनाय प्रकाशितावसराः। ससन्नाहं सुकवचम्।।
हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः।
साम्यं परमुदेत्यन्तर्निर्मन्दर इवार्णवः।।[2-1-88]
समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोरिव स्थितिः।
अन्तः शीतलता चेन्द्रोरिवोदेति विचारिणः।।[2-1-89]
अवलुम्पन्ति छिन्दन्ति।।
सच्छास्त्रसाधुवृत्तीनामविरोधिनि कर्मणि।
रमते धीर्यताप्राप्ते साध्वीवान्तःपुराजिरे।।[2-1-90]
सा जीवन्मुक्तिता तस्य शनैः परिणतिं गता।
शान्ताशेषविशेषस्य भवत्यविषया गिराम्।।[2-1-91]
अजिरमङ्गणम्।।
दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान्।
इष्टनिष्टफलप्राप्तौ हृदयेनापराजितः।।[2-1-92]
स जीवन्मुक्तः कीदृश इत्यत आह-दृश्यत इति।। शास्त्रतो लोकतश्च यताप्राप्तस्य व्यवहारस्यानुवृत्तिरनुवर्तनं यस्य स तथा। हृदयेन मनसा।।
सुखासनोपविष्टेन यथासंभवमश्रता।
भोगजालं सदाचारविरुद्धेषु न तिष्ठता।।[2-2-93]
यथाक्षणं यथादेशं प्रविचारयता सुखम्।
यथासंभवसत्संगमिमं मोक्षकथाक्रमम्।।[2-1-94]
आसाद्यते महान्येन बोधः संसारशान्तिदः।
न भूयो जायते येन योनियन्त्रप्रपीडनम्।।[2-1-95]
मोक्षोपायः कथमित्यत्रोक्तं श्रवणमित्थं पुरुषेण कर्तव्यमिति दर्शयंस्तत्फलमात्मतत्त्वापरोक्षज्ञानं दर्शयति-सुखासनेत्यादिना योनियन्त्रप्रपीडनमित्यन्तेन ग्रन्थसंदर्भेण। स च स्पष्टार्थः।।[2-1-93,94,95]
एतावत्यपि ये भीताः पापा भोगरसे स्थिताः।
स्वमातृविष्ठाकृमयः कीर्तनीया न तेऽधमाः।।[2-1-96]
शास्त्रश्रवणं मनननिदिध्यासनाङ्गशमादीतिकर्तव्यतोपेतं कुत्वतस्तत्फलमाख्याय तदकुर्वतः पुरुषान्निन्दति-एतावत्यपीति।। सुखासनोपवेशादिन्यायेन शास्त्रश्रवणादिलक्षणप्रयासे महत्फलेऽल्पेऽपि कार्य इत्यर्थः।।
एतावत्यपि ये भीताः पापा भोगरसे स्थिताः।
स्वमातृविष्ठाकृमयः कीर्तनीया न तेऽधमाः।।[2-1-97]
तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि।
संप्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम्।।[2-1-98]
कियत्कालं विचारोऽनुष्ठेय इति शङ्कायुक्तं सोपस्करमनुवदन्निराकरोति-शास्त्रेत्यादिना तुर्यपदाभिधामित्यन्तेन।। अन्तरेऽन्तरे मध्ये मध्ये संपन्नान्तरान्तरसंपन्ना धर्मार्थयोरुपार्जनक्रिया यस्य स तथोक्तः।।[2-1-97,98]
तुर्यविश्रान्तियुक्तस्य प्रतीपस्य भावार्णवात्।
जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः।।[2-1-99]
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः।
निर्मन्दर इवाम्भोधिः स तिष्ठति यथास्थितम्।।[2-1-100]
व्यावर्तमानेषु विश्वतैजसप्राज्ञेषु कुसुमेषु सूत्रमिवानुवर्तमानं निर्विकल्पचैतन्यं निर्विकल्पचैतन्यं पृथक्कृत्य तुर्यत्वादपि व्युत्थाप्य विधूतद्वैतजाले तस्मिन्नहंभावेन निश्चलावस्थानलक्षणतुर्यविश्रान्तियुक्तस्य कृतशेषशङ्कां शातयति-तुर्येत्यादिना।। प्रतीपस्य। विमुखस्येत्यर्थः।।[2-1-99,100]
शृणु तावदिदानीं त्वं कथ्यमानमिदं मया।
राघव ज्ञानविस्तारं बुद्धिसारान्तरान्तरम्।।[2-1-101]
संक्षेपविस्तराभ्यां वक्ष्यमाणज्ञानशास्त्रश्रवणफलमाख्याय तद्वक्तुमारभमाणः श्रेतव्यस्य विस्तीर्णत्वात्तत्र चित्तं समाधेयमित्याह-शृण्विति।। विस्तीर्णेऽप्यसारे तच्चित्तं समाधेयं नेदं तथेत्याह-बुद्धीति।। बुद्धिरस्यान्तरान्तरं मध्यं मध्यं ज्ञानसारमित्यर्थः।।
युक्तियुक्तमुपादेयं वचनं बालकादपि।
अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मयोनिना।।[2-1-102]
त्वया च नास्मद्गौरवादर्थो ग्राह्यः किंतु प्रमामानुसारि युक्तयुपेतमेवेत्याह-युक्तीति।।
यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबोध्यसे।
सर्वे सकारणास्ते हि प्राप्यन्तु सदकारणम्।।[2-1-103]
ब्रह्मोपदेशदृष्टान्तो यस्तवेह हि कथ्यते।
एकदेशसधर्मित्वं तत्रान्तः परिगृह्यताम्।।[2-1-104]
प्रमादाद्गुरूक्तस्याप्यनुपपन्नार्थस्यानादेयत्वमाख्याय ब्रह्मोपदेशाय वक्ष्यमाणेषु दृष्टान्तेष्वादेयांशं दृष्टान्तदार्ष्टान्तिकवैषम्यप्रदर्शनपूर्वकमाह-यैरित्यादिश्लोकद्वयन।। सच्छब्दो ब्रह्मविषयः।।[2-1-103,104]
एवं सति निराकारे ब्रह्मण्याकारवान्कथम्।
दृष्टान्त इह चोद्यन्ति मूर्खं वैकल्पिकोक्तयः।।[2-1-105]
एवं सतीति स्पष्टार्थः।।
ननु तार्किकतामेत्य नाशनीया प्रबुद्धता।
अनुभूत्यपलापान्तैरपवित्रैर्विकल्पितैः।।[2-1-106]
कुतर्कप्रभवमूर्खविकल्पास्त्वया नाश्रयणीयाः विज्ञानविनाशकत्वात्तेषामिति लब्धप्रसङ्गशिष्याञ्शास्ति-नेति।। अनुभूतेरपलापो अन्तो येषां ते अनुभूत्यपलापान्तास्तैरनुभवापलापपर्यवसानैः। अपवित्रार्थविषयत्वेनापवित्रैः। ब्रह्म सद्वितीयमद्वितीयं वा। सद्वितीयं चेदपसिद्धान्तः। अद्वितीयं चेग्दुरुशास्त्राद्यभावाज्ज्ञानानुत्पत्तिः। ब्रह्म सप्रमाणमप्रमाणं वा। सप्रमाणं चेदद्वैतक्षतिः प्रमाणरहितं चेत्प्रमेयस्य तस्यासिद्धिरित्यादिविकल्पितैः।।
गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता।
परस्परं विवर्धन्ते द्वे पद्मसरसी इव।।[2-1-107]
न यावत्सुसमभ्यस्तौ ज्ञानसत्पुरुषक्रमौ।
एकोऽपि नोऽनयोस्तावत्पुरुषस्येह सिद्धिदः।।[2-1-108]
मुमुक्षुकर्तव्यतया शमाद्युपेतो यो विचारः पूर्वमुक्तः स निदिध्यासनापरपर्यायज्ञानाब्यासेन सहैवानुष्ठेयो मुमुक्षुणा न बहिर्मुखचित्तेनेतीममर्थं सोपपत्तिकमाह-गुणा इत्यादिश्लोकद्वयेन।। यावद्यावदन्तर्मुखः सन्नात्मतत्त्वं पश्यति तावत्तावच्छमादिमान्भवति यावद्यावदन्तर्मुखः सन् शमादिमान्भवति तावदात्मत्त्वमीक्षत इत्यनुभवसिद्धत्वान्निर्विकल्पचिदेकाकारान्तःकरणवृत्त्या वृत्तिलक्षणज्ञानाभ्यासेन सहैव सत्पुरुषक्रमशब्दितं शमाद्युपेतात्मविचारमावर्तयेदित्यर्थः। अथवा `तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधा' इत्युक्तं ज्ञानाभ्यासं शमसंतोषाभ्यासौ च समकालमेव कर्तव्याविति सोपपत्तिकमाह-गुणा इत्यादिना।।[2-1-107,108]
इदं यशस्यामायुष्यं पुरुषार्थफलप्रदम्।
श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम्।।[2-1-109]
इदं यशस्यमिति-स्पष्टार्थः।। श्रवणादिना बुद्धिनैर्मल्यान्महावाक्यजात्।।
वितितवेद्यमिदं हि मनो मुनेर्विवशमेव हि याति परं पदम्।
यदवबुद्धमखण्डितमक्रमं तदवबोधदशां न जहाति हि।।[2-1-110]
इति श्रीवासिष्ठविवरणे वाल्मीकीये मोक्षोपाये प्रथमः सर्गः।। 1 ।।
सकृत्तत्पदप्राप्तिलक्षणज्ञाने जाते पुनस्तद्विस्मृतिर्भविष्यतीत्यत आह-विदितवेद्यमिति।। पदमिति द्वितीयान्तम्। एको हि शब्दोऽवधारणे। द्वितीयो विद्वत्प्रसिद्धौ। विवशं यात्येव। एतत्साधयति-यदिति।। अवबुद्धं साक्षात्कृतं अखण्डितं देशकालवस्तुतोऽपरिच्छिन्नं अतएवाक्रमं निरावरणपरिपूर्णबोधरूपत्वात् परमात्मा विद्वन्मनोवृत्तिव्याप्यतां न त्यजतीत्यर्थः।।
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमाहात्म्यसुखकृतौ वासिष्ठचन्द्रिकायां मुमुक्षुव्यवहारप्रकरणं समाप्तम्।।
मुमुक्षुव्यवहारप्रकरणं समाप्तम्।।