लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ५

← सर्गः ४ लघुयोगवासिष्ठः
सर्गः ५
[[लेखकः :|]]
सर्गः ६ →

इन्द्रोपाख्यानम्।।
पञ्मः सर्गः।।
वसिष्ठ उवाच।।
मनो हि जगतां कर्तृ मनो हि पुरुषः परः।
मनःकृतं कृतं लोके न शरीरकृतं कृतम्।। [3-5-1]
सामान्या ब्राह्मणा भूत्वा मनोभावनया किल।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तिताम्।।[3-5-2]
अतितेनाख्यानेन तात्पर्यतः प्रतिपादितमर्थं दर्शयति-मनो हीत्यादिश्लोकद्वयेन। मनःकृतं मनसा कृतं सम्यक्कृतं मन्ये। मनःकृतमेव सार्थकं जाने इत्यर्थः।।[3-5-1,2]
मनसा भाव्यमानो हि देहितां याति देहकः।
देहभावनया मुक्तो देहधर्मैर्न बाध्यते।।[3-5-3]
ननु शरीरकृतकर्मणां फलवत्त्वस्य प्रत्यक्षादिसिद्धत्वाच्छरीरकृतं सार्थकं न भवतीत्युक्तमनुपपन्नमित्याशङ्क्याह-मनसेति।। हि यस्माद्देहको मनसा भाव्यमानः सन् देहितां याति देहोचितकार्यकारी भवतीति। अन्वयमुक्त्वा व्यतिरेकमाह-देहभावनयेति।। देहभावनया मुक्तः पुरुषो देहधर्मैः शीतोष्णमानावमानादिभिर्न बाध्यत इत्यर्थः।।
नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये।
इन्द्रस्याहल्यया सार्धमुदन्तोऽत्र निदर्शनम्।।[3-5-4]
श्रीराम उवाच।।
काहल्या भगवन्निन्द्रस्तव को वात्र संमतः।
ययोरुदन्तश्रवणे पावनी दृष्टिरेति माम्।।[3-5-5]
कुत्रैतदुपलभ्यत इत्यत आह-नान्तर्मुखतयेति।। अयमर्थः-मनोभावनायां सत्यां शरीरे फलपर्यवसायिभोजनादिकार्यदर्शनादसत्यां तस्यां निर्विकल्पकसमाध्यवस्थायां तददर्शनात्स्वप्नावस्थायां मनोमात्रात्मकशरीरकृतस्य तृप्त्यादिफलपर्यवसायिनो भोजनादेर्दर्शनाच्च प्राप्ताप्राप्तविवेकेन शरीरकृततयोपलभ्यमानं फलवत्कार्यं स्वप्नशरीरकृतकार्यवन्मनःकृतमेवेति। मन एव प्रियाप्रियकृन्न देह इत्येतमर्थं तन्निग्रहे प्रयत्नातिशयविधानायाख्यानान्तरेण स्फुटीकर्तुमाह-इन्द्रस्येति।। इत ऊर्ध्वमाख्यानसमाप्तिपर्यन्तो ग्रन्थसंदर्भः स्पष्टार्थः। तत्र कानिचित्पदानि विविच्यन्ते। उदान्तो वृत्तान्तः।।[3-5-4,5]
वसिष्ठ उवाच।।
श्रूयते हि पुरा राम मागधेषु महीपतिः।
इन्द्रद्युम्न इति व्यात इन्द्रद्युम्न इवापरः।।[3-5-6]
तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना।
अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी।।[3-5-7]
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण'इति पुराणप्रसिद्ध एकोऽस्ति इन्द्रद्युम्नः। अयं तु अपर इन्द्रद्युम्न इव स्थितः।।[3-5-6,7]
तस्मिन्नेव पुरे षिङ्गः षिङ्गप्रकरशेखरः।
इन्द्रनामाऽपरः कश्चिन्नागरीणां प्रियोऽवसत्।।[3-5-8]
षिङ्गप्रकरशेखरः विटसमूहोत्तंसः।।
साहल्याहल्यया सार्धमिन्द्रस्य यदभूत्पुरा।
तदाकर्ण्येतिहासेभ्यस्तस्मिन्निन्द्रेऽन्वरज्यत।।[3-5-9]
तयोर्घनतरस्नेहनिरावरणचेष्टयोः।
स दुर्विनयवृत्तान्तो राजान्तिकमुपाययौ।।[3-5-10]
एवमन्योन्यमासक्तं भावमालोक्य भूपतिः।
चकार बहुभिर्भेदैः स तयोरनुशासनम्।।[3-5-11]
तावुभावपि संत्यक्तौ दुर्मती सलिलाशये।
तुष्टौ जहसतुस्तत्र न खेदमुपजग्मतुः।।[3-5-12]
अन्वरज्यत अनुरागमकुरुत।।[3-5-9,10,11,12]
ग्रथितौ गजपादेषु न तौ श्रममुवपागतौ।
कशामिस्ताड्यमानाङ्गौ नापतुः कामपि व्यथाम्।।[3-5-13]
भेदैः प्रकारैः। ग्रथितौ बद्धौ।।
ज्वालानिर्दह्यमानौ तौ स्थितो हिमशिलास्विव।
अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती।।[3-5-14]
अस भुवीति धातोर्लण्मध्यमपुरुषद्विवचनं स्थ इति। दुर्मती इति संबोधनम्।।
अथ तौ धरणीपालमूचतुर्मुदिताशयौ।
संस्मृत्यावामिहान्योन्यं मुखकान्तिमनिन्दिताम्।।[3-5-15]
आत्मानं न विजानीवो जातवन्योन्यतन्मयौ।
मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः।।[3-5-16]
ईष्टेऽर्थे चिरमाविष्टं क्वापि धीरं मनःकृतम्।
भावं भावाः शरीरोत्था नृप शक्ता न बाधितुम्।।[3-5-17]
आवां तन्न विजानीवो जातावन्योन्यतन्मयौ।
भावितं तीव्रवेगेन मनसा यन्महीपते।।[3-5-18]
तदेव पश्यत्यखिलं न शरीरविचेष्टितम्।
न काश्चन क्रिया राजन्मुनिशापादिका अपि।।[3-5-19]
तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः।
एककार्ये निविष्टं हि मनो धीरस्य भूपते।।[3-5-20]
न चाल्यते मेरुरिव प्रतिघातशतैरपि।।[3-2-21]
आशयोऽत्र चित्तम्।।[3-5-15,16,17,18,19,20,21]
राजञ्शरीरकलनानि वृथोत्थितानि चेतो हि कारणममीषु शरीरकेषु।
वारीव सर्ववनखण्डलतारसेषु मुख्यं शरीरमिह विद्धि मनो महात्मन्।।[3-5-22]
शरीरकलनानि शरीरकल्पनानि। सर्ववनखण्डलतारसेषु सर्वे च ते वनखण्डलतानां वनभागलतानां रसाश्च तेषु वारीवामीषु स्थूलशरीरकेषु चेत उपादानकारणं हि।।
देहेऽक्षते विविधदेहगणं करोति स्वप्नावनाविव नवं नवमाशु चेतः।
चित्तेऽक्षते तु न करोति हि किंचिदेव देहस्ततः समनुपालय चित्तरत्नम्।।[3-5-23]
वसिष्ठ उवाच।।
ताभ्यां तथैवमुक्तोऽसौ राजा राजीवलोचनः।
मुनिं भरतनामानं पार्श्वस्थं समुवाच ह।।[3-5-24]
ननु शरीरकेषु चेतः कारणमिति कुतः वैपरीत्यं किं न स्यादित्यत आह-देहेऽक्षत इति।। स्वप्नावनौ स्वप्नभूमौ।।[3-5-23,24]
भगवन्सर्वधर्मज्ञ परमार्थरसस्पृशः।
रमयन्त्येव चेतांसि गिरः कामान्धयोरपि।।[3-5-25]
परमार्थरसस्पृशः परमार्थसारविषयाः।।
शासितौ च यथाशास्त्रमेतौ निर्वासयाम्यहम्।
इत्युक्त्वा राजशार्दूलस्तावुभौ निरवासयत्।।[3-5-26]
इति श्रीमोक्षोपाये उत्पत्तिप्रकरणे इन्द्रोपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।
निर्वासयामि निष्कासयामि। निरवासयत् निष्कासितवान्।।
इति श्रीवासिष्ठचन्द्रिकायां उत्पत्तिप्रकरण इन्द्रोपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।