लघुयोगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५

← सर्गः ४ [[../../../]]
सर्गः ५
[[लेखकः :|]]

उपदेशाख्यानम्।।
पञ्चमः सर्गः।।
वसिष्ठ उवाच।।
अपर्यन्तस्य कालस्य कियानंशः शरच्छतम्।
तावन्मात्रमहायुर्यः किमास्थां सोऽनुधावति।।[4-5-1]
पूर्वं दाशूराख्यायिकायां जगत्स्थितेर्मायिकत्वमुक्तम्। इदानीं स्थितिप्रकरणतात्पर्यं संग्रहेण प्रतिपाद्यते-अपर्यन्तस्येति।। शरच्छतं वर्षशतं कियान् अल्पस्तावन्मात्रं वर्षशतमेव महायुर्यस्य सः। किमास्थां कं वा आस्थां आददानः अनुधावति अनुसरति।।
अन्तरास्थां परित्यज्य भावश्रीर्भावनामयीम्।
योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ।।[4-5-2]
अन्तरिति।। अन्तःकरणे भावश्रीः सत्तारूपं भावं श्रयतीति तथाभूतः स्न् भावनामयीं संकल्पमयीं आस्थां परित्यज्य निर्मनस्कतया योऽसि यद्रूपोऽवशिष्यसे सोऽसि तद्रूपस्त्वमित्यर्थः।।
निरिच्छे संस्थिते रत्ने यथाऽऽलोकः प्रवर्तते।
सत्तामात्रेण देवे तु तथैवायं जगद्गणः।।[4-5-3]
अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्।
निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः।।[4-5-4]
निरिच्छे इति।। प्रवर्ततामितीच्छाशून्येऽपि संस्थित आलोको यथा प्रवर्तते तथैव देवे परमात्नि निरिच्छे संस्थितेऽपि तत्संनिधिसत्तामात्रेण जगद्गणोऽयं प्रवर्तते।।[4-5-3,4]
ते द्वे आत्मनि विद्येते कर्तृताकर्तृतेऽनघ।
यत्रैव ते चमत्कारस्तामाश्रित्य स्थिरो भव।।[4-5-5]
सर्वत्राहमकर्तेति दृढभावनयानया।
प्रवाहपतितं कर्म कुर्वन्नपि न लिप्यते।।[4-5-6]
ते द्वे इति।। ते यत्रैव चमत्कारोऽभिरतिः तां कर्तृतामकर्तृतां वा आश्रित्य स्थिरो भव।।[4-5-5,6]
याति नीरसतां जन्तुरप्रवृत्तेः स्वचेतसः।
तस्मान्नित्यमकर्ताहमिति भावनयेद्धया।
परमामृतनाम्नी सा समतैवावशिष्यते।।[4-5-7]
यातीति सार्धश्लोको वाक्यम्। स्वचेतसोऽप्रवृत्तेर्हेतोरन्तर्नीरसतां रसो विषयेष्वौत्सुक्यं तद्रहितत्वं याति। तस्मात्कारणादकर्ताहमिति नित्यसिद्धया भावनया सा परमामृतरूपा समतैवावशिष्यते।।
अथ सर्वं करोमीति महाकर्तृतया तया।
यदीच्छसि स्थितिं राम तत्तामप्युत्तमां विदुः।।[4-5-8]
अथेति।। तत्तर्हि। तामपि महाकर्तृतामहंकृतिमपि।।
अहं यत्रकरोमीमं समग्रं जागतं भ्रमम्।
रागद्वषक्रमस्तत्र कुतोऽन्यस्याप्यसंभवात्।।[4-5-9]
अहमिति।। यत्र यस्यां महाकर्तृतायां इमं समग्रं जागतं भ्रमं अहमेव करोमीत्यभिमानस्तत्र रागद्वेषादयः कुतः। अन्यस्य कर्तुरसंभवात्।।
यदन्येन शरीरं मे दग्धमन्येन लालितम्।
सोऽस्मदारम्भ एवातः कः खेदोल्लासयोः क्रमः।।[4-5-10]
यदिति।। मे शरीरं अन्येन मातापित्रादिना लालितं अन्येन पुत्रादिना दग्धमिति यत् स जन्मवृद्धिक्षयादिरूपः अस्मदारम्भ एव अस्मत्कर्मविपाक एव। अतः कारणात् खेदस्योल्लासस्य च कः क्रमः कोऽवकाशः।।
मत्सुखासुखविस्तारे जगज्जालक्षयोदये।
अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः।।[4-5-11]
मदिति।। ममैव सुखासुखयोर्विस्तारे प्रपञ्चरूपे जगज्जालस्य क्षयोदये अहमेव कर्तेत्यन्तर्मत्वा खेदोल्लासयोः कः क्रमः।।
खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया।
स्वसंकल्पे लयं याते समतैवावशिष्यते।।[4-5-12]
खेदति।। खेदोल्लसविलासेषु स्वात्मनो या कर्तृता तया एकया सर्वत्राखण्डितया सत्या स्वस्य संकल्पे एवं कर्तव्यमित्यादिरूपे लयं याते सति समतैव उपेक्षाबुद्धिरेवावशिष्यते।।
समता सर्वभावेषु यासौ सत्यपरा स्थितिः।
तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत्।।[4-5-13]
अथवा सर्वकर्तृत्वमकर्तृत्वं च राघव।
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव।।[4-5-14]
समतेति।। सर्वभावेषु या समता असौ सत्यपरा ब्रह्मपरा स्थितिः। तस्यां समतायामवस्थितं चित्तं भूयो न जन्मभाग्भवेत्।।[4-5-13,14]
अयं सोऽहमयं नाहं करोमीदमिदं तु न।
इति भावानुसंधानमयी दृष्टिर्न तुष्टये।।[4-5-15]
अयमिति।। अयं यज्ञदत्तस्त्वहं न। इदमेव परिमितं कार्यं करोमि इदं तु यज्ञदत्तादिकर्तृकं कार्यं न करोमि इति भेदे भावानुसंधानमयी दृष्टिस्तुष्टये ब्रह्मानन्दाय न कल्पत इत्यर्थः।।
सा कालसूत्रपदवी सा महावीचिवागुरा।
सासिपत्रवनश्रेणी या देहेऽहमिति स्थितिः।।[4-5-16]
सेति।। कालसूत्रं महावीचिरसिपत्रमिति च नरकविशेषाः।।
सा त्यज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते।
स्प्रष्टव्या सा न भव्येन श्वमांसेनेव पुक्कसी।।[4-5-17]
सेति।। सा देहात्मभावना। भव्येन मुमुक्षुणा। पुक्कसी चण्डाली।।
तया सुदूरोज्झितया दृष्टौ पटललेखया।
उदेति परमा दृष्टिर्ज्योत्स्नेव विगताम्बुदा।
तयाभ्युदितया राम तीर्यतेऽयं भवार्णवः।।[4-5-18]
तयेति सार्धश्लोको वाक्यम्। पटललेखया पटलं दृष्टिप्रतिबन्धको नेत्ररोगः।।
कर्ता नास्मि न चायमस्मि स इति ज्ञात्वैवमन्तः स्फुटं कर्तौवास्मि समग्रमस्ति तदिति ज्ञात्वाथवा निश्चितम्।
कोऽप्येवास्मि न कश्चिदेवमिति वा निर्णीय सर्वोत्तमे तिष्ठत्वं स्वपदे स्थिताः पदविदो यत्रोत्तमाः साधवः।।[4-5-19]
कर्तेति।। नाहं कर्ता नापि परिच्छिन् इत्येका भावना। सर्वकर्ता सर्वात्मकश्चाहमिति। द्वितीया। एवं कर्तृत्वाद्युपलक्षितः कश्चिदपि न भवामि किं तर्हि सर्वविकल्पातीतः कोऽप्येवास्मीति तृतीया। तत्रान्यतमामाश्रित्य त्वं सर्वोत्तमे स्वपदे तिष्ठ। यत्र च पदविदो ज्ञानिनः साधवः स्थिता इति।।
वसिष्ठ उवाच।।
बन्धो हि वासनाबन्धो मोक्षः स्याद्वासनाक्षयः।
वासनां त्वं परित्यज्य मोक्षार्थित्वमपि त्यज।।[4-5-20]
बन्ध इति।। मोक्षार्थित्वमपि त्यजेति तस्यापि वासनाविशेषत्वात्।।
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः।
मैत्र्यादिभावनानाम्नीर्गृहाणामलवासनाः।।[4-5-21]
मानसीरिति।। विषयवासितास्तन्मयीकृताः मानसीर्वासनाः पूर्वं त्यक्त्वा मैत्र्यादिनाम्नीरमलवासना गृहाण। तथा सति चित्तप्रसादो भवति। यथाह भगवान्पतञ्जलिः-`मैत्रीकरुमामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावना तच्चित्तप्रसादनमि'ति।।
ता अप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि।
अन्तः शान्ततमस्नेहो भव चिन्मात्रवासनः।।[4-5-22]
ता अपीति।। ताभिर्मैत्र्यादिभिर्व्यवहरन्नपि अन्तस्ता अपि परित्यज्य शान्ततमस्नेहः निवृत्तसर्वेच्छः सन् चिन्मात्रवासनो भव।।
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम्।
शेषे स्थिरसमाधानो येन त्यजसि तं त्यज।।[4-5-23]
तामपीति।। मनोबुद्धिसमन्वितां तामपि चिन्मात्रवासनामपि परित्यज्य शेषे सर्ववासनाविनिर्मुक्ते चिद्रूपे स्थिरसमाधानो भूत्वा येन यत्नविशेषेण त्यजसि तमपि त्यज।।
चिन्मनःकलनाकारप्रकाशतिमिरादिकम्।
वासनां वासितारं च प्राणस्पन्दनपूर्वकम्।।[4-5-24]
समूलमखिलं त्यक्त्वा व्योमसौम्यः प्रशान्तधीः।
यस्त्वं भवसि सद्बुद्धे स भवानस्तु तत्त्वतः।।[4-5-25]
हृदयात्संपरित्यज्य सर्वमेव महामते।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः।।[4-5-26]
चिदिति श्लोकद्वयं वाक्यम्। चिदेषा मन एतदित्यादिरूपं चिदादिविकल्पं तद्विषयां वासनां वासितारं वासनाहेतुं च प्रामस्पन्दनपूर्वकं प्राणस्पन्दनं च समूलमखिलं त्यक्त्वा व्योमवत्सौम्यः प्रशान्तधीश्च सन् त्वं यो भवसि यादृशो भवसि भवान्पूज्यस्त्वं तत्त्वतः सोऽसि तादृशोऽसीत्यर्थः। तत्र चित् स्वरूपचैतन्यम्। मनः अन्तः करणम्। कलना अविद्या। आकारः। प्रपञ्चः। प्रकाशस्तेजः। तिमिरं तमः। आदिशब्दाद्धटादयः।।[4-5-24,25,26]
समाधिमथ कर्माणि मा करोतु करोतु वा।
हृदयेनास्तसर्वास्थो मुक्त एवोक्तमाशयः।।[4-5-27]
समाधिमिति।। समाधिं मा करोतु। वा अथ कर्माणि च मा करोतु करोतु वा यः परं हृदयेन अस्तसर्वास्थः परित्यक्तसर्वदृश्यादरः स उत्तमाशयो मुक्त एव।।
नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः।
न समाधिजपाभ्यां वा यस्य निर्वासनं मनः।।[4-5-28]
नैष्कर्म्येणेति।। यस्य मनो निर्वासनं तस्य नैष्कर्म्यादिभिः न किंचित्प्रयोजनमित्यर्थः। नैष्कर्म्यं काम्यकर्मपरित्यागः।।
विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः।
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं परम्।।[4-5-29]
दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश।
जनाः कतिपया एव यथावस्त्ववलोकिनः।।[4-5-30]
विचारितमिति।। शास्त्रमलं विचारितं मिथ एकान्ते उद्ग्राहितं स्ववुद्ध्या उत्प्रेक्षितं च संत्यक्तवासनान्मौनात्तूष्णीम्भावादृते उत्तमं परं वस्तु नास्ति।।[4-5-29,30]
ये केचन समारम्भा ये जनस्याक्रियाक्रमाः।
ते सर्वे देहमात्रार्था आत्मार्थं तु न किंचन।।[4-5-31]
य इति।। आत्मार्थं आत्मनो बन्धमोक्षार्थम्।।
सर्वत्र पञ्चभूतानि षष्ठं किंचिन्न विद्यते।
पाताले भूतले स्वर्गे रतिमेतु क्व धीरधीः।।[4-5-32]
सर्वत्रेति।। प्रपञ्चः सर्वत्र भूतपञ्चात्मक एव। तानि च भूतानि नश्वराणि जडानि च। अतो धीरस्य विवेकिनो धीः क्व वा रतिं विश्रान्तिमेतु। आत्मस्वरूप एव रन्तुमर्हसीत्यर्थः।।
युक्त्या वै चरतस्तस्य संसारो गोष्पदाकृतिः।
दूरसंत्यक्तयुक्तेस्तु महावर्तार्णवोपमः।।[4-5-33]
न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी।
नागरं नागरीकान्तं कुग्रामललना इव।।[4-5-34]
युक्त्येति।। युक्त्या परिपूर्णब्रह्मभावनारूपेण महायोगेन।।[4-5-33,34]
स्फारब्रह्मामलाम्भोधेः फेनाः सर्वे कुलाचलाः।
चिदादित्यमहातेजो मृगतृष्णा जगच्छ्रियः।।[4-5-35]
स्फारेति।। जगच्छ्रियः चिदादित्यस्य यन्महत्तेज आतपः तत्र स्फुरन्त्यो मृगतृष्णाः मरीचिकाः। सर्वाण्यपि जगान्ति चिद्विलासमात्रकल्पितानीत्यर्थः।।
अत्रैव वस्तुन्युदिताः शृणु राघव पूर्वजाः।
कचेन गाथा या गीता बार्हस्पत्येन पावनीः।।[4-5-36]
"कचः कदाचिदुत्थाय समाधेः प्रीतमानसः।
एकान्ते समुवाचेदमेको गद्गदया गिरा।।[4-5-37]
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्।
आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा।।[4-5-38]
सबाह्याभ्यन्तरे देहेऽप्यध ऊर्ध्वं च दिक्षु च।
इत आत्मा त्वतश्चात्मा नास्त्यनात्ममयं क्वचित्।।[4-5-39]
अत्रैवेति।। बार्हस्पत्येन बृहस्पतेरपत्येन।।[4-5-36,37,38,39]
न तदस्ति न यत्राहं न तदस्ति न यन्मयि।
किमन्यदभिवाञ्छामि सर्वं संविन्मयं स्थितम्"।।[4-5-40]
न तदस्तीति।। यत्र वस्तुनि अहं नासं तन्नास्ति। `तत्सृष्ट्वा तदेवानुप्राविशदि'ति सर्वत्रात्मनोऽनुप्रवेशात्। यच्च वस्तु मयि नास्ति तन्नास्ति। सर्वस्य प्रपञ्चस्यात्मन्यध्यस्तत्वात्। अतः सर्वं संविन्मयं ततोऽन्यत्किमभिवाञ्छामि।।
इति कचगाथाः।। वसिष्ठ उवाच।।
ये हि राघव सत्त्वस्था जाता भुवि महागुणाः।
ते नित्यमेवाभ्युदिता मुदिताः ख इवेन्दवः।।[4-5-41]
ये हीति सार्धलोकपञ्चकं वाक्यम्। तत्रस्थाः ज्ञाननिष्ठाः। महान्तो गुणाः शमादयो येषां ते।।
नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा।
नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि।।[4-5-42]
प्रकृतादवश्यकर्तव्यात् अन्यत्रेहन्ते नापेक्षन्ते।।
नित्यमापूर्णतामन्तरक्षुब्धामिन्दुसुन्दरीम्।
आपद्यपि न मुञ्चन्ति शशिनः शीततामिव।।[4-5-43]
शशिन इति बहुवचनम्।।
आकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया।
समाः समरसाः सौम्याः सततं साधुवृत्तयः।।[4-5-44]
मैत्र्यादिगुणकान्तया मैत्रीकरुणामुदितोपेक्षालक्षणैर्गुणैः कान्तया। समाः रागद्वेषरहिताः। समरसाः समं सर्वगतं ब्रह्म रसो येषां ते तथा।।
अब्धिवद्धृतमर्यादा भवन्ति वितताशयाः।
अतस्तेषां महाबाहो पदमापदवीक्षितम्।।[4-5-45]
सर्वदैवानुगन्तव्यं मन्तव्यं नापदर्णवे।
कोऽहं कथमिदं चेति संसारमलमाततम्।।[4-5-46]
प्रविचार्यं प्रयत्नेन प्राज्ञेन सह साधुना।
नाकर्मसु निमङूक्तव्यं नानार्येण सहावसेत्।।[4-5-47]
आपदवीक्षितं आपद्भिरवीक्षितमिति।।[4-5-45,46,47]
द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया।
शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम्।।[4-5-48]
द्रष्टव्य इति श्लोकत्रयं वाक्यम्। अवहेलया अनादरेण। शरीरमिति अस्थिमांसरक्तादिरूपं अतेवाशोभनं शरीरं त्यक्त्वेत्यन्वयः।।
भूतमुक्तावलीतन्तु चिन्मात्रमवलोकयेत्।
यैव चिद्गगनाभोगभूषणे व्योम्नि भास्वरे।।[4-5-49]
धराविवरकोशस्थे सैव चित्कीटकोटरे।
तामसीं राजसीं चैव जातिमन्यामपि स्थिताः।
स्वप्रयत्नवशाद्यान्ति सन्तः सात्विकजातिताम्।।[4-5-50]
इति श्रीवाल्मीकीये योगवासिष्ठसारे मोक्षपाये स्थितिप्रकरण उपदेशाख्यानां नामपञ्चमःसर्गः।। 5 ।।
भूतमुक्तावलीतन्तु सर्वभूतानुस्यूतम्।।[4-5-49,50]
श्रीमदल्लालसूरिसूनुना पदवाक्यप्रमामपारावारदृश्वना श्रीमुम्मडिदेवविद्वदाचार्यविरचिते संसारतरणिनाम्नि वासिष्ठविवरणे स्थितिप्रकरण उपदेशोपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।
समाप्तमिदं स्थितिप्रकरणं चतुर्थम्।।