लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १०

← सर्गः ९ लघुयोगवासिष्ठः
सर्गः १०
[[लेखकः :|]]

आकाशगत्यभावादिनिरूपणम्।।
दशमः सर्गः।।
राम उवाच।।
जीवन्मुक्तशरीराणां कथमात्मविदां वर।
शक्तयो नेह दृश्यन्ते अकाशगमनादिकाः।।[5-10-1]
पूर्वं चित्तविश्रान्तिसिद्धये सङ्गत्यागप्राणनिरोधसमाध्यभ्यासा दर्शिताः। इदानीं जीवन्मुक्तस्याकाशगत्यभावादिनिरूपणमुखेन चित्तस्योपशमप्राप्तिमुपसंहरति-जीवन्मुक्तेति।। आकाशगमनादिकाः आकाशे गम्यते यया शक्त्या सा आकाशगमना सा आदित्यासां ताः।।
वसिष्ठ उवाच।।
अनात्मविदमुक्तोऽपि नभोविहरणादिकम्।
द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव राघव।।[5-10-2]
अनात्मविदिति।। द्रव्यं रसायनादि। मन्त्रस्त्रैपुरादिः। क्रिया दृढाभ्यासादिरूपा। कालश्चिराभ्यासकालः। तेषां शक्त्या।।
नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मदृक्स्वयम्।
आत्मनात्मनि संतृप्तो नाविद्यामनुधावति।।[5-10-3]
आत्मवानिह सर्वस्मादतीतो विगतैषणः।
आत्मन्येव हि संतुष्टो न करोति न चेहते।।[5-10-4]
ये केचन जगद्भावास्तानविद्यामयान्विदुः।
कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति।।[5-10-5]
यस्तु वा भावितात्मापि सिद्धिजालानि वाञ्छति।
स सिद्धिसाधकैर्द्रव्यैस्तानि साधयति क्रमात्।।[5-10-6]
द्रव्यन्त्रक्रियाकालशक्तयः साधुसिद्धिदाः।
परमात्मपदाप्राप्तौ नोपकुर्वन्ति काश्चन।।[5-10-7]
आत्मज्ञस्य तु पूर्णस्य नेच्छा संभवति क्वचित्।
यस्येच्छा विद्यते काचित्स सिद्धिं साधयत्यलम्।।[5-10-8]
सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः।
स कथं सिद्धिवाञ्छायां मग्नचित्ते न लभ्यते।।[5-10-9]
राम उवाच।।
ब्रह्मन्नतिचिरं कालं कथं जीवन्ति योगिनः।
एतन्मे संशयं छिन्धि सर्वब्रह्मविदां वर।।[5-10-10]
नेति।। आत्मज्ञस्य एष आकाशगमनादिर्विषयः साध्यत्वेन बुद्धिगोचरो न भवति। हि यस्मात्कारणादात्मज्ञः सदा आत्मदृक् आत्मज्ञानमनुसंदधत् स्वात्मानन्दतृप्ततया अविद्यामयीं आकाशगमनादिसिद्धिं नानुधावति।।[5-10-3,4,5,6,7,8,9,10]
वसिष्ठ उवाच।।
प्राणानां स्पन्दनात्स्पन्दस्तच्छान्तौ ते दृषत्समाः।
यतः स्थिता धारणायां तन्न नश्यन्ति योगिनः।।[5-10-11]
प्राणानामिति।। प्राणानां प्राणादिवायूनां स्पन्दनाच्चलनाद्देहस्य स्पन्दश्चलनम्। अस्थिरत्वमिति यावत्। तच्छान्तौ प्राणस्पन्दनिवृत्तौ निरुद्धप्राणयोगिनो दृषत्समाः शिलावच्चिरकालस्थायिनः योगिनो यतो धारणायां प्राणनिरोधाभ्यासे स्थितास्तस्मात्कारणान्न नश्यन्ति।।
सबाह्यभ्यन्तरः स्पन्दश्चित्तजो वातजोऽथवा।
न यस्य विद्यते तस्य दूरस्थौ विकृतिक्षयौ।।[5-10-12]
सबाह्याभ्यन्तरे शान्ते स्पन्दे पवनचेतसोः।
धातवः संस्थितिं देहे न त्यजन्ति कदाचन।।[5-10-13]
सबाह्येति।। यस्य योगिनः सबाह्याभ्यन्तरो बाह्यश्चाभ्यन्तरश्च चित्तजो वातजो वा स्पन्दो न विद्यते तस्य निनुद्धचित्तप्राणस्य विकृतिक्षयौ जरामरणरूपौ दूरस्थौ।।[5-10-12,13]
ये हि विज्ञातविषया वीतरागा महाधियः।
विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थिताः।।[5-10-14]
ये हीति।। विच्छिन्नग्रन्थयः प्राणनिरोदात् सुषुम्नासुखभेदने सति भिन्नब्रह्मविष्णुरुद्रग्रन्थय इत्यर्थः। प्राणधारणायाः प्रकृतत्वात् ते सर्वे योगिनः तनौ देहे स्वतन्त्राः स्थिताः। स्वेच्छयैव त्यजन्ति गृह्णन्ति चेत्यर्थः।।
राम उवाच।।
विवेकाभ्युदयाच्चित्तस्वरूपेऽनतर्हिते मुनेः।
मैत्र्यादयो गुणाः कुत्र जायन्ते योगिनां वद।।[5-10-15]
वसिष्ठ उवाच।।
द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च।
जीवन्मुक्तौ स्वरूपः स्यादरूपो देहमुक्तिजः।।[5-10-16]
चित्तसत्तेह दुःखाय चित्तनाशः सुखाय तु।
चित्तसत्तां क्षयं नीत्वा चित्तनाशमुपानयेत्।।[5-10-17]
विवेकेति।। मैत्र्यादयः कुत्र जायन्ते आत्मनो निर्गुणत्वात् चित्तस्य च विलीनत्वात्।।[5-10-15,16,17]
प्राकृतं गुणसंभारं ममेति बहु मन्यते।
यत्तु चित्तमतत्त्वज्ञं दुःखितं जीव उच्यते।।[5-10-18]
प्राकृतमिति।। प्राकृतं गुमसंभारं सत्त्वादिगुणसमुदायं ममेति यच्चित्तमतज्ज्ञत्वाद्बहुमन्यते। दुःखितं संसारदुःखभाजनं तच्चित्तं जीव उच्यते।।
सुखदुःखाद्यवष्टब्धमस्मीत्येव विनिश्चलम्।
विद्यमानं मनो विद्धि संसारद्रुमदोहदम्।।[5-10-19]
चेतसः कथिता सत्ता मया रघुकुलोद्वह।
तस्य नाशमिदानीं त्वं शृणु प्रश्नविदां वर।।[5-10-20]
सुखेति।। यन्मनः सुखदुःखादिभिरवष्टब्धमाश्रितं अस्मीत्येव सुख्यहं दुखहमस्तीत्येव निश्चलं दृढाभिमानं संसारद्रुमदोहदं संसारवृक्षस्य पल्लवकुसुमफलोत्पादकं मनो विद्यमानं विद्धि।।[5-10-19,20]
सुखदुःखदशा धीरं साम्यान्न प्रोद्धरन्ति यम्।
निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः।।[5-10-21]
सुखेति।। यं धीरं ज्ञानिनं सुखदुःखदशाः साम्यान्न प्रोद्धरन्ति न चालयन्ति। निःश्वासवायवः शैलेन्द्रमिव तस्य धीरस्य चित्तं मृतं विदुः।।
आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः।
यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः।।[5-10-22]
अस्यैव विवरणम् आपदिति।। आपत्पुत्रादिविपत्तिः। कार्पण्यं दारिद्‌र्यम्। उत्साहः पुत्रोत्पत्त्यादिजन्यो हर्षः। मदः प्रसिद्धः। मान्द्यमपाटवम्। महोत्सवो विवाहादिः। वैरूप्यं विकारताम्।।
मनस्तां मूढतां विद्धि यदा नश्यति राघव।
चित्तनासाभिधानं हि तदा सत्त्वमुदेत्यलम्।।[5-10-23]
मनस्तामिति।। मनस्ता मनःसत्ता तामेव मूढतां विद्धि। सा मनःसत्ता यदा नश्यति तदा चित्तनाशरूपं सत्त्वं ज्ञानमुदेति। गुणत्रयात्मके मनसि रजस्तमोमयी मूढता यदा विनश्यति तदा ज्ञानिनो मनः शुद्धसत्त्वात्मकं संपद्यत इत्यर्थः।।
मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम्।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः।।[5-10-24]
मैत्रीति।। तदेव सत्त्वं मैत्र्यादियुक्तं विशुद्धवासनं जीवन्मुक्तस्य मनो भवति।।
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य तत्र हि।
वसन्त इव मञ्जर्यो भ्रान्तिमैत्र्यादयो गुणाः।।[5-10-25]
सरूप इति।। समानरूपः। आत्मस्वरूपं मनसा भिन्नं स्फुरतीत्यर्थः।।
अरूपस्तु मनोनाशो यो मयोक्तो रघूद्वह।
विदेहमुक्त एवासौ विद्यते निष्कलात्मकः।।[5-10-26]
अरूप इति।। निष्कलात्मकः निरंशस्वरूपः सत्त्वांशस्यापि विनष्टत्वात्।।
समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते।
विदेहमुक्ते विमले पदे परमपावने।।[5-10-27]
समग्राग्र्येति श्लोकचतुष्टयं वाक्यम्।। स्मात्कारणाद्विदेहमुक्तरूपे परमपावने पदे समग्राणामग्र्यगुणानां मैत्र्यादिश्रेष्ठगुणानां आधारभूतं सत्त्वमपि प्रलीयते।।
विदेहमुक्तिविषये तस्मिंश्चित्तलयात्मके।
चित्तनशे विरूपाख्ये न किंचिदपि विद्यते।।[5-10-28]
तस्माद्विदेहमुक्तिविषये सत्त्वक्षयरूपे तस्मिन्विरूपे चित्तनाशे गुणदोषादिकं किंचिदपि न विद्यते।।
न गुणा नागुमास्तत्र न श्रीर्नाश्रीर्न लोलता।
न चोदयो नास्तमयो न हर्षामर्षसंविदः।।[5-10-29]
गुणा मैत्र्यादयः। अगुणाः मनोदोषाः। श्रीर्गृणानां समृद्धिः। अश्रीर्दोषाणां संपत्।।
न तेजो न तमः किंचिन्न संध्यादिर्न रात्रयः।
न सत्ता नापि वाऽसत्ता न च मध्यं हि तत्पदम्।।[5-10-30]
न सत्ता वाप्यसत्ता च। अस्तिनास्तिव्यवहारयोरभावात् तत्पदं विदेहमुक्तिरूपं मध्यं च न। सदसदात्मकं अनुभवरूपं वा न भवति सत्त्वासत्त्वयोर्विरोधात्।।
ये हि पारं गता बुद्धेः संसाराडम्बरस्य च।
तेषां तदास्पदं स्फारं पवनानामिवाम्बरम्।।[5-10-31]
ये हीति।। तत् विदेहकैवल्यं स्फारमास्पन्दं विश्रान्तिस्थानम्।।
संशान्तदुःखमजडात्मकमेकसुप्तमानन्दमन्थरमपेतरजस्तमो यत्।
आकाशकोशतनवोऽतनवो महान्तस्तस्मिन्पदे गलितचित्तलवा वसन्ति।।[5-10-32]
संशान्तेति।। एकसुप्तं एकं सुषुप्तमेव यस्मिन्‌। सर्वदा चित्तस्य लीनत्वात्। आनन्दमन्थरं ब्रह्मानन्दनिर्भरं एवंविधं यत्परं विदेहमुक्तिरूपं तस्मिन् पदे आकाशकोशवत्तनवः सूक्ष्माः। स्थूलसूक्ष्मकारणात्मकदेहत्रयाभावात् अतनवः गलितचित्तलवाः विगलितसत्त्वरूपचित्तांशाः महान्तो वसन्ति विश्राम्यन्ति।।
राम उवाच।।
ब्रह्मन्संसृतिमृद्वीकालता या वितताकृतेः।
किं बीजमथ बीजस्य तस्य किं बीजमुच्यते।।[5-10-33]
अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत्।
सर्वमेतत्समासेन पुनर्बोधविवृद्धये।
सिद्धये ज्ञानसारस्य वद मे वदतां वर।।[5-10-34]
ब्रह्मन्निति श्लोकद्वयं वाक्यम्। मृद्वीका द्राक्षालता।।[5-10-33,34]
वसिष्ठ उवाच।।
अन्तर्लीनसमारम्भशुभाशुभमहाङ्कुरम्।
संसृतिव्रततेर्बीजं शरीरं विद्धि राघव।।[5-10-35]
अन्तरिति।। अन्तर्लीनसमारम्भशुभाशुभमहाङ्कुरं अन्तर्गतोद्यमपुण्यपापरूपमहाङ्कुरं शरीरमेव संसृतिव्रततेर्बीजं संसारस्य शरीरान्वयव्यतिरेकनुविधायकत्वात्।।
भावाभावदशाकोशं दुःखरत्नसमुद्गकम्।
बीजमस्य शरीरस्य चित्तमाशावशानुगम्।।[5-10-36]
भावेति।। भावाभावदशाकोशं भावाभावदशानां जन्ममरणाद्यवस्थानां कोशवदाश्रयभूतम्।।
चित्तदिदमुदेत्युच्चैः सदसच्चाङ्गजालकम्।
यथा चैतत्सवयं स्वप्नसंभ्रमेष्वनुभूयते।।[5-10-37]
चित्तस्य शरीरबीजत्वमुपपादयति-चित्तादिति।। इदं सदसच्च विद्यमानमविद्यमानं वाङ्गजालकमवयवसमष्टिरूपं शरीरं चित्तादेवोदेति। एतच्चार्थस्वरूपं यथा येन प्रकारेण सप्रकारस्वप्नसंभ्रमेषु स्वयमेवानुभूयते। चित्तस्य शरीरपरिकल्पनाहेतुत्वं स्वप्नेषु स्वानुभवसिद्धमित्यर्थः।।
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिमः।
एकं प्राणपरिस्पन्दो द्वितीयं दृढवासना।।[5-10-38]
द्वे इति।। वृत्तिव्रततिधारिमः वृत्तयः सत्त्वादिगुमपरिणामरूपाः ता एव व्रततयः शाखास्तद्धारिणः।।
यदा प्रस्पन्ते प्राणो नाडीसंस्पर्शनोद्यतः।
तदा संवेदनमयं चित्तमाशु प्रजायते।।[5-10-39]
प्राणस्पन्दो वासना च चित्तस्य बीजमित्युक्तम्। तत्र प्राणस्पन्दस्य बीजत्वमाह-यदेति।। प्राणो यदा नाडीसंस्पर्शनोद्यतः। ` शतं चैका च हृदयस्य नाड्यः' इति श्रुतेः। या नाड्यो मनोवहाः तासु संचारणोद्युक्तः सन्प्रस्पन्दते तदा चित्तमाशु संवेदनमयं वृत्तिज्ञानप्रचुरं संजायते।।
सती सर्वगता संवित्प्राणस्पन्देन बोध्यते।
संवित्संरोधनं श्रेयः परमं विद्धि राघव।।[5-10-40]
सतीति।। सर्वगता सती संवित्प्रामस्पन्देन बोध्यते विक्षोभ्यते। तस्मात्संविदो बहिर्मुखायाः संरोधनमेव परमं श्रेयो विद्धिः।।
संवित्समुदितैवाशु याति संवेद्यमादरात्।
संवेदनादनन्तानि ततो दुःखानि चेतसः।।[5-10-41]
संविदिति।। संवित्समुदिता बोधिता विक्षोभितैवाशु संवेद्यं याति। ततः संवेदनात् संवेद्यानुसंधानात् चेतसोऽनन्तानि दुःखानि संभवन्ति।।
सुप्ता पुनरबोधाय संवित्संतिष्ठते यदा।
लब्धं भवति लब्धव्यं तदा तदमलं पदम्।।[5-10-42]
सुप्तेति।। यदा संवित्पुनरबोधाय पुनरनुत्थानाय सुप्ता संतिष्ठते स्वरूप एव विश्राम्यति तदा लब्धव्यं तदमलं पदं लब्धं भवति।।
तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा।
नोचेत्संविदमुच्छूनां करोषि तदजो भवान्।।[5-10-43]
तस्मादिति।। तस्मात्पूर्वोक्ताद्धेतोः प्राणस्पन्दैः वासनाचोदनैश्च संविदमुच्छूनां संवेद्यगर्भतया स्थूलां नो करोषि चेत्तर्हि भवानजो जन्मादिरहितो भविष्यसि।।
संविदुच्छूनतां विद्धि चित्तं तेनेदमाततम्।
अनर्थजालमालूनविशीर्णजनजीवकम्।।[5-10-44]
संविदिति।। संविदः उच्छूनता विक्षुब्धतैव चित्तं तेन चित्तेनैव इदमालूनविशीर्णजनजीवकं आलूनाः आसमन्ताच्छिन्नाः विशीर्णाः क्षयं प्रापिताश्च जनानां जीवाः प्राणा येन तादृशमिदमनर्थजालं संसाररूपमाततं प्रपञ्चितम्।।
योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम्।
प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः।।[5-10-45]
योगिन इति।। युक्तिकल्पितैः योगशास्त्रनिरूपितैः प्रयोगैर्महामुद्रादिभिः।।
चित्तोपशान्तिफलदं परमं साम्यकारणम्।
सुभगं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः।।[5-10-46]
चित्तेति।। प्राणसंरोधनमेव चित्तोपसान्तिफलदं साम्यावस्थाकारणं संविदः स्वस्थ्यं च विदुः।।
ज्ञानवद्भिः प्रकटितामनुभूतां च राघव।
चित्तस्योत्पत्तिमपरां वासनाजनितां शृणु।।[5-10-47]
ज्ञानेति।। पूर्वं प्राणस्पन्दकल्पिता चित्तस्योत्पत्तिरुक्ता। इदानीं वासनाकल्पितामपरां चित्तस्योत्पत्तिं शृणु।।
दृढभावनया त्यक्तपूर्वापरविचारणम्।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता।।[5-10-48]
दृढेति।। त्यक्तपूर्वापरविचारणं पूर्वं नियतपूर्वभाविकारणं अपरं नियतपश्चाद्भाविकार्यम्। त्यक्तं पूर्वापरयोर्विचारणमं यस्मिन्। किमस्य कारणं कार्यं वेति विचारं विनैव पदार्थस्य आदानमुपादानं यद्यस्मात्कारणाद्दृढभावनयैव दीर्घकालं नैरन्तर्यपरिशीलनयैव भवति तस्मात्सैव दृढभावना वासनेति प्रकीर्तिता। सद्योजातस्य सुप्तोत्थितस्य वा सहसा प्रवृत्तौ हेतुर्वासनेत्यर्थः। यद्वा पूर्वं चिरपरिशीलनया संप्रति त्यक्तपूर्वापरविचारणं परिशीलितसजातीयपदार्थादानं यतः संस्काराद्भवति सा वासना प्रकीर्तिता। संस्कारो वासनेत्यर्थः।।
भावितं तीव्रसंवेगादात्मना यत्तदेव सः।
भवत्याशु महाबाहो विगतेतरसंस्मृतिः।।[5-10-49]
भावितमिति।। यद्वस्तु तीव्रसंवेगाद्दृढाभ्यासादात्मना चित्तेन भावितं वासितं भवति स भावितपुरुषो विगतेतरसंस्मृतिः वस्त्वन्तरमचिन्तयन् आशु तदेव वस्तु भवति।।
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः।
प्रपश्यति यदेवैतत्सद्वस्त्विति विमुह्यति।।[5-10-50]
तादृगिति।। वासनाविवशीकृतः तादृग्रूपः पुरुषो यदेव वस्तु प्रपश्यति भावयति तदेव सद्वस्तु प्रामामिकं वस्त्विति विमुह्यति।।
वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत्।
भ्रान्तं पश्यति दुर्द्दष्टिः सर्वं मदवशादिव।।[5-10-51]
वासनेति।। दुर्दृष्टिः दुर्वासनादूषितदृष्टिः पुरुषो वासनावेगवैवश्यात् तत्प्रसिद्धं वस्तुस्वरूपं प्रजहाति। न गृह्णातीत्यर्थः। मदवशादिव मदपारवश्यादिव सर्वं वस्तु भ्रान्तमन्यथाभूतमेव पश्यतिं।।
असम्यग्दर्शने यद्यदनात्मन्यात्मभावने।
यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव।।[5-10-52]
असम्यगिति।। यच्छब्दत्रयमव्ययं हेत्वर्थे। असम्यग्दर्शने अनात्मन्यात्मभावने अवस्तुनि वस्तुत्वसंकल्पने च यत्कारणं तदेवान्यथाज्ञाननिमित्तं चित्तमित्यर्थः।।
दृढाभ्यासं पदार्थैकभावनादतिचञ्चलम्।
चित्तं संजायते जन्मजरामरणकारणम्।।[5-10-53]
दृढेति।। पदार्थैकभावनात् दृढाभ्यासमतिचञ्चलं चित्तं जन्मादिकारणं संजायते।।
यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत्।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते।।[5-10-54]
यदेति।। यत् हेयोपादेयरूपि तद्वस्तु किंचिदपि यदा न भाव्यते किं तर्हि सकलं त्यक्त्वा तूष्णीं स्थीयते तदा चित्तं न जायते।।
अवासनत्वात्सततं यदा न मनुते मनः।
अमनस्या तदोदेति परमोपशमप्रदा।।[5-10-55]
अवासनत्वादिति।। मनः कर्तृ न मनुते न संकल्पयति।।
यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि।
तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते।।[5-10-56]
यदेति।। जगति वस्तुनि च क्वचिदपि भावः सत्ता यदा न भाव्यते तदा निर्वासनत्वात् शून्ये हृदम्बरे कथं चित्तं प्रजायते।।
एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव।
यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च।।[5-10-57]
एतावदिति।। वस्तुनः पदार्थस्य अन्तः अन्तःकरणे वस्तुत्वेन वस्तुत्वरूपेण रसेन आदरेण च। यद्भावनं एतावन्मात्रकमेव चित्तस्य स्वरूपं मन्ये।।
न किंचित्कलनायोग्यं दृश्यं भावयतः स्वतः।
आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत्।।[5-10-58]
न किंचिदिति।। कलनायोग्यं संकल्पादिविषयं दृश्यं किंचिदपि स्वतो न भावयतः अतएवाकाशत्स्वच्छस्य चित्तोदयः कुतो भवेत्।।
यदभावनमास्थाय यदभावस्य भावनम्।
यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते।।[5-10-59]
यदिति।। आस्थाय आदृत्य दृश्यस्य यदभावनं अनादरवीक्षणमित्यर्थः। अभावस्य दृश्यस्य नास्तित्वस्य वा यद्भावनं यथावस्तुदर्शित्वं `ब्रह्मैवेदं सर्वम्'इति यथार्थवस्तुदर्शित्वं च यावत् तत्सर्वमचित्तत्वमुच्यते। त्रेधापि चित्तस्य निर्वासनत्वात्।।
सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत्।
वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम्।।[5-10-60]
सर्वमिति।। शीतलं शीतलत्वं ब्रह्मैवेदं सर्वमाशयवर्ति निवृत्तरागद्वेषतया शीतलेनाभिप्रायेण वर्तमानं वृत्तिस्थमपि वृत्तिमदपि।।
घना न वासना यस्य पुनर्जननकारिणी।
जीवन्मुक्तः स तत्त्वस्थश्चक्रभ्रमवदास्थितः।।[5-10-61]
घनेति।। चक्रभ्रमवत्। यथा हि कुलालचक्रस्य भ्रमणं कुलालव्यापारनिवृत्तावपि यावत्संस्कारमनुवर्तते तद्वज्जीवन्मुक्तशरीरमविद्यानिवृत्तावपि तत्संकारशेषात्प्रराब्धभोगपर्यन्तमवतिष्ठत इत्यर्थः।।
भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता।
वासना रसनिर्हीना जीवन्मुक्ता हि ते स्मृताः।।[5-10-62]
भ्रष्टेति।। रसनिर्हीना रसो विषयेष्वादरातिशयः तद्रहिता।।
सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः।
अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः।।[5-10-63]
सत्त्वेति।। सत्त्वरूपपरिप्राप्तचित्ताः रजस्तमोभागयोर्निवृत्तत्वात् सत्त्वरूपमेव प्राप्तं चित्तं येषां ते जीवन्मुक्ता अचित्ताः कथ्यन्ते। अचित्तत्वादेव देहस्यान्ते व्योमरूपिणः चिदाकाशरूपा भवन्ति।।
द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने।
एतस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः।।[5-10-64]
वासनावशतः प्राणस्पन्दस्तेन च वासना।
जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः।।[5-1065]
द्वे बीजे इति।। वासनाप्राणस्पन्दयोः चित्तबीजत्वमुपपाद्य इदानीं बीजाङ्कुरतयोः परस्परहेतुत्वादन्यतरनाशेऽपि द्वियोर्नाश इति श्लोकद्वयेनोच्यते। चित्तबीजस्य चित्तस्य बीजभूतयोर्वासनाप्राणस्पन्दयोरित्यर्थः।।[5-10-64,65]
वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः।
संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः।।[5-10-66]
संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने।
समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः।।[5-10-67]
वासनेति।। संवेद्यं दृश्यम्। यतः कारणात्तौ वासनाप्राणस्पन्दौ ततः संवेद्यात्स्फुरतः प्रवर्तेते।।[5-10-66,67]
संविदं विद्धि संवेद्यबीजं धीर तया विना।
न संभवति संवेद्यं तैलहीनस्तिलो यथा।।[5-10-68]
संविदमिति।। धीरेति संबोधनम्। तया संविदा।।
न बहिर्नान्तरे किंचित्संवेद्यं विद्यते पृथक्।
संवित्स्फुरति संकल्प्य संवेद्यं पश्यति स्वतः।।[5-10-69]
न बहिरिति।। संवित्कल्पितत्वात्संवेद्यस्य संविदेव बीजमित्यर्थः।।
स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः।
स्वचमत्कारयोगेन संवेद्यं संविदस्तथा।।[5-10-70]
एतदेव सदृष्टान्तमुपपादयति-स्वप्न इति।। यथा स्वप्ने स्वचमत्कारयोगेन स्वस्यैव भावनावशात् असद्भूतमपि स्वमरणं देशान्तरस्थितिश्च प्रतीयते तथा संविद्वशात्संवेद्यमित्यर्थः।।
पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते।
संविदस्तत्प्रयत्नेन मार्जनीयं विजानता।।[5-10-71]
पूर्वेति।। यद्वस्तु पूर्वदृष्टमदृष्टं वा अस्याः संविदः सकाशात् प्रतिभासते तत्संवेद्यं वस्तु विजानता पुरुषेण प्रयत्नेन मार्जनीयं निरसनीयम्।।
तदमार्जनमात्रं हि महासंसारतां गतम्।
तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते।।[5-10-72]
तदिति।। तदमार्जनमात्रं तस्य संवेद्यस्याविस्मरणमेव महान्संसारः। तत्प्रमार्जनमात्रं दृश्यविस्मरणमेव मोक्षः।।
संवेदनमनन्ताय दुःखाय जननात्मने।
असंवित्तिरजाड्यस्था सुखायाजननात्मने।।[5-10-73]
संवेदनमिति।। संवेदनं संवेद्यानुसंधानं अनन्ताय जननात्मने संसाररूपाय दुःखाय भवति। अजाड्यस्था जाड्यसंबन्धरहिता या असंवित्तिः संवेद्याननुसंधानं सा अजननात्मने मोक्षरूपाय सुखाय भवति।।
अजडो गलितानन्दस्त्यक्तसंवेदनो भव।
असंवेद्य प्रबुद्धात्मा यस्तु स त्वं रघूद्वह।।[5-10-74]
अजड इति।। हे रघूद्वह, त्वं अजडो जाड्यरहितः विगलितानन्दरूपचित्तपरिणामः त्यक्तसंवेदनः हीनसंवेद्यानुसंधानश्च भव। यः असंवेद्य संवेद्यमननुसंधाय प्रबुद्धात्मा प्रकाशमानस्वरूपः स एव परमात्मैव त्वं सत्यं नात्र संदेह इत्यर्थः।।
राम उवाच।।
असंवित्तिरजाड्यस्था कीदृशी भवति प्रभो।
असंवित्तौ च जाड्यं तत्कथं वा विनिवार्यते।।[5-10-75]
असंवित्तिरिति।। असंवित्तौ संवित्त्यभावे तज्जाड्यं कथं निवार्यते असंवित्तेर्जाड्याविनाभूतत्वस्य अचेतनेषु दृष्टत्वात्।।
वसिष्ठ उवाच।।
यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित्।
जीवो न विन्दते किंचिदसंविदजडो हि सः।।[5-10-76]
य इति।। यो जीवः सर्वत्र सर्वषु दृश्येषु अनवस्थास्थोऽस्थिरादरः। कुत्रचित्कस्मिंश्चिचिदपि दृश्ये विश्रान्तास्थो न भवति अतश्च किंचिदपि संवेद्यं चित्ते न विन्दते नानुसंधत्ते स जीवः असंवित् संवेद्याननुसंधानात् अजडश्चेतनत्वात्।।
संविद्वस्तुदशालम्बः स यस्येह न विद्यते।
सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि।।[5-10-77]
संविदिति।। वस्तुदशालम्बः चैतन्यस्य तदिदमिति भूतादिवस्त्ववस्थानुसंधानं संविदित्युच्यते। सा तादृशी संविद्यस्य न विद्यते स कार्यशतान्यपि कुर्वन्नसंविदजडः प्रोक्तः।।
संवेद्येन हृदाकाशं मनागपि न लिप्यते।
यस्यासावजडोऽसंविज्जीवन्मुक्तः स उच्यते।।[5-10-78]
संवेद्येनेति।। हृदाकाशं चित्ताकाशं न लिप्यते निर्वासनत्वात् न श्लिष्यते।।
यदा न भाव्यते किंचिन्निर्वासनतयात्मनि।
बालमूकादिविज्ञानमिव च स्थीयते स्थिरम्।।[5-10-79]
यदेति श्लोकद्वयं वाक्यम्।। यदा निर्वासनतया किंचिदप्यात्मनि न भाव्यते नानुसंधीयते बालमूकादीनां विज्ञानमिव च निर्विकल्पतया स्थिरं स्थीयते स्वरूपेणेति शेषः। बालादिवन्निर्विकल्पज्ञानस्वरूपतया स्थीयत इत्यर्थः।।
तदा जाड्यविनिर्मुक्तमसंवेदनमाततम्।
आश्रितं भवति प्राज्ञ यस्माद्भूयो न लिप्यते।।[5-10-80]
तदा जाड्यविनिर्मुक्तं असंवेदनं आश्रितं भवति। यस्मादसंवेदनाश्रयणात् भूयो न लिप्यते पुण्यपापवासनाभिर्न संबध्यते।।
समस्तवासनां त्यक्त्वा निर्विकल्पसमाधितः।
नीलत्वमिव खे स्फारमानन्दित्वं प्रवर्तते।।[5-10-81]
समस्तेति।। समस्तां वासनां त्यक्त्वा यो निर्विकल्पः समाधिः संभूतः तस्माद्धेतोः खे आकाशे नीलत्वमिव कलितं स्फारमानन्दित्वं प्रवर्तते।।
योगिनस्तत्र लीनस्य निःसंवेदनसंविदः।
तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते।।[5-10-82]
गच्छंस्तिष्ठन्स्पृशञ्जिघ्रन्नपि तेन स उच्यते।
अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी।।[5-10-83]
योगिन इति।। तत्र निर्विकल्पसमाधौ लीनस्य अतएव निःसंवेदना संवेद्यानुसंधानरहिता संविद्यस्य तादृशस्य योगिनः तन्मयत्वात् ध्येयेन वस्तुना सामरस्याद्धेतोरनाद्यन्ते अन्तःस्वरूपे तदपि आनन्दित्वमपि विलीयते।।[5-10-82,83]
एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया।
तरेद्दुःखाम्बुधेः पारमपारगुणसागरम्।।[5-10-84]
एतामिति।। एतां दृष्टिं जाड्यरहितां संवित्तिरूपां दृष्टिम्।।
अथास्यां संविदो राम सन्मात्रं बीजमुच्यते।
सन्मात्राद्यदुदेत्येषा प्राकाश्यमिव तेजसः।।[5-10-85]
अथेति।। या हि संवित्संवेद्यस्य बीजं अस्याः संविदः सन्मात्रं अविच्छिन्नं चित्स्वरूपं बीजमुज्यते। यद्यस्मात्कारणादेषा संवित्तेजसस्तेजोद्रव्यात्प्रदीपादेः प्राकाश्यभिव प्रकाश इव सन्मात्रादेवोदेति।।
द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम्।
द्वितीयमेकरूपं तु विभागोऽयं तयोः शृणु।।[5-10-86]
द्वे इति।। सत्तायाः स्वरूपसत्तायाः द्वे रूपे स्तः। तत्र तयोर्मध्ये एकं रूपं नानाकृति नानाप्रकारवत् स्थितं एकरूपमविक्षिप्तं तु रूपं द्वितीयम्।।
घटता पटका तत्ता त्वत्ता मत्तेति कथ्यते।
सत्तारूपं विभागेन यत्तत्रानाकृति स्मृतम्।।[5-10-87]
घटतेति।। यत्सत्तारूपं घटता पटता तत्ता त्वत्तामत्तेति विभागेन कथ्यते तत्सत्ताया रूपं नानाकृतीति स्मृतम्। तदुक्तंहरिणा-`संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः' इति।।
विशेषं संपरित्यज्य सन्मात्रं यदलेपकम्।
एकरूपं महारूपं सत्तायास्तत्पदं विदुः।।[5-10-88]
विशेषमिति।। विशेषं नामजात्यादिभेदं परित्यज्य यत्सन्मात्रमलेपकं निर्दोषं रूपमस्ति तत्सत्ताया महारूपं पदं एकरूपमिति विदुः।।
कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि।
विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव।।[5-10-89]
कालेति।। कालसत्ता कालकृता भूतभवद्भाविभेदभिन्ना सत्ता। कलासत्ता कला अंशः तद्भेदकृता स्थूलसूक्ष्मदीर्घह्रस्वादिरूपा सत्ता। वस्तुस्वरूपभेदकृता घटपटादिरूपा सत्ता। इयं कालसत्ता इयं कलासत्ता इयं च वस्तुसत्तेत्यपि विभागकलनां भेदभावनां त्यक्त्वा सन्मात्रैकपरो भव।।
कालसत्त स्वसत्ता च प्रोन्मुक्तकलना सती।
यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी।।[5-10-90]
कालेति।। कालसत्ता। स्वसत्ता स्वरूपसत्ता। चकारात्कलासत्ता प्रोन्मुक्तकलना परित्यक्तविकल्पांशा सती यद्यपि उत्तमसद्रूपा तथापि एषा कालादिसत्ता वास्तवी अविकल्पिता न भवति।।
विभागकलना यत्र विभिन्नपददायिनी।
नानात्वकारणं दृष्ट्वा तत्कथं पावनं भवेत्।।[5-10-91]
विभागेति।। यत्र कालसत्तादौ नानात्वकारणं भेहेतुमुपाधिं दृष्ट्वा विभागकलना विभिन्नपददायिनी वस्तुस्वरूपभेदबोधिनी भवति तत्कालसत्तादिके सत्तारूपं कथं नाम पावनं शुद्धं भवेत्। औपाधिकत्वादिति भावः।।
सत्तासामान्यमेवैकं भावयन्केवलं विभुम्।
परिपूर्णपरानन्दी तिष्ठापूरितदिग्भरः।।[5-10-92]
सत्तेति।। विभुं व्यापकं सत्तासामान्यमेवैकं वस्तु केवलं भावयन् परिपूर्णपरानन्दी आपूरितदिग्भरस्तिष्ठ।।
सत्तासामान्यमात्रस्य या कोटिः कोविदेश्वर।
सैवास्य बीजतां याता तत एतत्प्रवर्तते।।[5-10-93]
सत्तेति।। सत्तासामान्यमात्रस्य या कोटिरुत्कर्षः अविकृतरूपैव अस्य जगतो बीजतां याता तत एतज्जगत्पूर्वोक्तक्रमेण प्रवर्तते। अयं क्रमः-सत्तासामान्यात्संवित्प्रवर्तते संविदः संवेद्यं संवेद्यात्प्राणस्पन्दवासने ततश्चित्तं ततो देहः ततः संसार इति।।
सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम्।
पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते।।[5-10-94]
सत्तेति।। सत्तासामान्यस्य पर्यन्ते कोटौ यत्प्रसिद्धिं कलनयोज्झितं आद्यमनाद्यन्तं च पदं तस्य वस्तुनो बीजं न विद्यते।।
तत्र सत्ता लयं याति निर्विकारं च तिष्ठति।
भूयो नावर्तते दुःखं तत्र लब्धपदः पुनः।।[5-10-95]
तद्धेतुः सर्वहेतुनां तस्य हेतुर्न विद्यते।
स सारः सर्वसाराणां तस्मात्सारो न विद्यते।।[5-10-96]
तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः।।[5-10-97]
तत्रेति।। तत्र सर्वबीजभूतपूर्वोक्तपदे तिष्ठति।।[5-10-95,96,97]
तदमलमजरं तदात्मत्त्वं तदवगतावुपशान्तिमेति चेतः।
अवगतविततैकतत्स्वरूपो भवभयमुक्तपदोऽसि तच्चिराय।।[5-10-98]
राम उवाच।।
एतानि तानि प्रोक्तानि त्वया बीजानि मानद।
कतमस्य प्रयोगेण शीघ्रमासाद्यते पदम्।।[5-10-99]
तत्पूर्वोक्तं सत्तासामान्यकोटिस्थं पदम्। अवगतं विततमेकं तत्स्वरूपं येन तादृशस्त्वं भव। भयेन संसारभयेन मुक्तं पदं स्वरूपं यस्य सोऽसि। सम्यगेव तत्संविन्मात्रमात्मतत्त्वम्। चिराय चिरम्।।[5-10-98,99]
वसिष्ठ उवाच।।
एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम्।
तस्य तस्य प्रयोगेण सीघ्रमासाद्यते पदम्।।[5-10-100]
ेतेषामिति।। तस्य तस्य उत्तरोत्तरबीजस्य प्रयोगेण भावनया।।
सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि।
पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाः।।[5-10-101]
स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम्।
क्षणेऽस्मिन्नेव तत्साधुपदमासादयस्यलम्।।[5-10-102]
सत्तेति श्लोकद्वयं वाक्यम्। सत्तासामान्यकोटिस्थे परे पदे क्षणमपि स्थितिं समाधिं बध्नासि चेत्तस्मिन्नेव क्षणेत्पदमासादयसीत्यन्वयः।।[5-10-101,102]
सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत्।
तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम्।।[5-10-103]
सत्तति।। सत्तासामान्यनिष्ठायां तु ततोऽपि प्रयत्नविशेषः कर्तव्य इत्यर्थः।।
संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि राघव।
तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम्।।[5-10-104]
संविदिति।। संवित्तत्त्वसमाधौ तु ततोऽप्यधिको यत्नविशेष इत्यर्थः।।
संवेद्ये केवले ध्यानं न कार्यं रघुनन्दन।
संवेद्ये वासनात्यागः सुमेरून्मूलनादपि।।[5-10-105]
यावद्विलीनं न मनो न तावद्वासनाक्षयः।
न क्षीणा वासना ध्यानं न संभवति राघव।।[5-10-106]
सर्वत्र संभवादस्याः संवित्तेरेव सर्वदा।
वासनासंपरित्यागे यदि यत्नं करोषि वा।।[5-10-107]
तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात्।।[5-10-108]
संवेद्य इति।। केवले संवेद्ये ध्यानमेव न संभवति।। अस्याः संवित्तेरेव सर्वत्र सर्वदा कैवल्यस्य संवेद्यस्यासंभावादिति भावः।।[5-10-105,106,107,108]
पूर्वोभ्यस्तु प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः।
दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि।।[5-10-109]
यावद्विलीनं न मनो न तावद्वासनाक्षयः।
न क्षीणा वासना यावत्तावच्चित्तं न शाम्यति।।[5-10-110]
यावन्न तत्त्वविज्ञानं न तावच्चित्तसंक्षयः।
यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम्।।[5-10-111]
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः।
यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः।।[5-10-112]
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च।
मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः।।[5-10-113]
तस्माद्राघव यत्नेन पौरुषेण विवेकतः।
भोगेच्छां दूरतः कृत्वा त्रयमेतत्समाश्रयेत्।।[5-10-114]
त्रय एते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः।
तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समाशतैः।।[5-10-115]
वासनाक्षयविज्ञानमनोनाशा महामते।
समकालं समभ्यस्ता भवन्ति फलदा मुनेः।।[5-10-116]
पूर्वोभ्य इति श्लोकष्ट्कं वाक्यम्। अयं वासनात्यागविषयः प्रयत्नः। वासनाक्षयमनोनाशतत्त्वज्ञानानामन्योन्यसापेक्षत्वात् एकैकशः साधयितुमशक्यत्वात् त्रयमपि सममेवाभ्यसेदित्यर्थः।।[5-10-109,110,111,112,113,114,115,116]
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम्।
तन्न सिद्धिं प्रयच्छन्ति मन्त्रः संकीर्तिता इव।।[5-10-117]
त्रिभिरेभिश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः।
निःशङ्कमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव।।[5-10-118]
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित्।।[5-10-119]
एकैकश इति।। मन्त्राः संकीर्तिता इव शिवशक्तिमन्त्राणां परस्परसापेक्षाणामेकैकशः पुरश्चरणं यथा न फलदं तद्वदित्यर्थः।।[5-10-117,118,119]
वासनासंपरित्यागसमं प्राणनिरोधनम्।
विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत्।।[5-10-120]
वासनेति।। वासनाप्राणस्पन्दयोर्मिलित्वा चित्तबीजत्वात् वासनात्यागेन समं प्राणनिरोधनं विदुः। तस्मात्कारणात्तदपि प्राणनिरोधनमपि एवं वासनात्यागादित्रयेण सममेव समाहरेत् समभ्यसेत्।।
वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम्।
प्राणस्पन्दनिरोधाच्च यथेच्छसि तता कुरु।।[5-10-121]
वासनेति।। चित्तनाशे वासनात्यागः प्राणनिरोधो वा हेतुरित्यर्थः।।
प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया।
आसनाशनयोगेन प्राणस्पन्दो निरुध्यते।।[5-10-122]
तत्र प्राणनिरोधोपायमाह-प्राणेति।। युक्त्या पूर्वोक्तेन योगेन आसनाशनयोगेन आसनं पद्मादि अशनं शरीरादि तदेव योग उपायस्तेन।।
निःसङ्गव्यवहारित्वाद्भवबावनवर्जनात्।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते।।[5-10-123]
वासनाभिभवे नष्टे न चित्तं संप्रवर्तते।
संशानाभिभवे नष्टे न चित्तं संप्रवर्तते।
संशान्तपवनस्पन्दे यथा पांसुर्नभःस्थले।।[5-10-124]
यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि।
प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः।।[5-10-125]
उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्।।[5-10-126]
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः।।[5-10-127]
वासनाक्षये उपायमाह-निःसङ्गेति।। भवभावनवर्जनात् भवभावनानि संसारहेतवो मलिनवासनाः तद्वर्जनात्।।[5-10-123,124,125,126,127]
अध्यात्मविद्याधिगमः साधुसंगम एव च।
वासनासंपरित्यागः प्राणस्पन्दनिरोधनम्।।[5-10-128]
चित्तनाशोपायमाह।। अध्यात्मेति लोकद्वयं वाक्यम्।।
एतास्तु युक्तयः पुष्टाः सन्ति चित्तजये किल।
आभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः।।[5-10-129]
सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये।
चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः।।[5-10-130]
विमूढाः कर्तुमुद्युक्ता ये हठाचेचेतसो जयम्।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः।।[5-10-131]
आभिर्युक्तिभिः तच्चित्तम्[5-10-129,130,131]
मतिरालूनशीर्णांङ्गीं यदीया पेलवाङ्गिका।
न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा।।[5-10-132]
कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः।
चिरमाधिशतोपेताः क्षपयन्ति मृगा इव।।[5-10-133]
तस्मादेतां परित्यज्य दुर्दृष्टिं रघुनन्दन।
शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव।।[5-10-134]
संवेद्यवर्जितमनुत्तममाद्यमेकं संवित्पदं विकलनं कलयन्महात्मन्।
हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः।।[5-10-135]
वसिष्ठ उवाच।।
मनागपि विचारेण चेतसः स्वस्य निग्रहहः।
मनागपि कृतो येन तेनाप्तं जन्मनः फलम्।।[5-10-136]
विचारकणिका यैषा हृदि स्फुरति पेलबा।
एषैवाभ्यासयोगेन प्रयाति शतशाखताम्।।[5-10-137]
मतिरिति।। यदीया हठयोगसंबन्धिनी।।[5-10-132,133,134,135,136,137]
आगृहीतं महापीठं विचारकुसुमद्रुमम्।
चिन्तावात्या विधुन्वन्ति न स्थिरस्थिति सुस्थितम्।।[5-10-138]
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा।
न विचारपरं चेतो यस्यासौ मृत एव सः।।[5-10-139]
किमिदं स्याज्जगत्किं स्यादहमित्यनिशं शनैः।
विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह।।[5-10-140]
विचारोऽध्यान्त्मविद्यानां ज्ञानमङ्ग विदुर्बुधाः।
ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा।।[5-10-141]
आगृहीतेति।। आगृहीतं आसमन्तास्वीकृतं महापीठं महती प्रतिष्ठा। येन तम्। रूढमूलमित्यर्थः। अत एव स्थिरस्थिति सुस्थितं स्थिरप्रतिष्ठत्वादचलं विचारूपं कुसुमद्रुमं चिन्तावात्या न विधुन्वन्ति।।[5-10-138,139,140,141]
सम्यग्ज्ञानसमालोकः पुंसो ज्ञेयसमः स्वयम्।
न बिभेति न चादत्ते वैवश्यं न च दीनताम्।।[5-10-142]
भवत्यापीतमैरेयः सदा मदमयो यथा।
समं चिद्रूपममलं ज्ञेयं ब्रह्म परं विदुः।
ज्ञानाभिगममात्रेण तत्स्वयं संप्रसीदति।।[5-10-143]
सम्यगिति श्लोकद्वयं वाक्यम्। सम्यग्ज्ञानेन समालोकः समदृष्टिः। ज्ञेयसमः ज्ञेयेन वस्तुना समः।।[5-10-142,143]
अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि।
भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत्।।[5-10-144]
अपवित्रमिति।। मृष्टवदपवित्रादिकं क्षिप्रं जरयति। समदृष्टितया निःसङ्गत्वादिति भावः। तत्र अपवित्रं उच्छिष्टादि। अपथ्यं वैद्यशास्त्रविरुद्धम्। क्लिन्नं चिरपर्युषितत्वात्। आर्द्राक्लिष्टमितिपाठे क्लिष्टमिति पक्वनष्टं स्वस्वरूपेण नष्टं रूपान्तरापन्नमित्यर्थः। मृष्टं निर्दोषं गुणवच्च। मृज शौचालंकारयोरिति धातुः।।
विषप्रतिविषाकल्कक्षीरेषु सलिलेऽन्धसि।
असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः।।[5-10-145]
जीवितस्यापि हर्तारं दातारं चैकरूपया।
दृशा प्रसादमाधुर्यशालिन्या परिपश्यति।।[5-10-146]
विषेति।। विषं प्रसिद्धम्। प्रतिविषं विषनिवर्तकं प्रतिविषाधिकारे निरूपितं द्रव्यान्तरम्।। अकल्कं अकल्मषं यत्क्षीरं तत्र च। अन्धसि अन्ने।।[5-10-145,146]
स कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ।
ददाति प्रसरं साधुराधिप्रोज्झितया धिया।।[5-10-147]
स इति।। सः समदृष्टिः। अक्षस्य इन्द्रियस्य। प्रसरं आसक्तिम्।।
अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितिम्।
निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम्।।[5-10-148]
अतत्त्वज्ञमिति।। निगिरन्ति ग्रसन्ति।।
सङ्गः कारणमर्थानां सङ्गः संसारकारणम्।
सङ्गः कारममाशानां सङ्गः कारणमापदाम्।।[5-10-149]
सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता।
सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ।।[5-10-150]
निःसङ्गव्यवहारित्वादित्यादौ प्रस्तुतत्वात्। सङ्गनिरूपणाय तं सङ्गमवश्यहेयत्वेन प्रस्तौति-सङ्ग इत्यादिना।।[5-10-149,150]
राम उवाच।।
सर्वसंशयनीहारशरन्मारुत हे मुने।
सङ्गः किमुच्यते ब्रूहि समासेन मम प्रभो।।[5-10-151]
वसिष्ठ उवाच।।
भावाभावपदार्थानां हर्षामर्षविकारदा।
मलिना वासना यैषा सा सङ्ग इति कथ्यते।।[5-10-152]
जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी।
मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना।।[5-10-153]
अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम्।
कथ्यते सङ्गशब्देन वासना भवकारिणी।।[5-10-154]
हर्षामर्षविषादानां यदि गच्छसि वश्यताम्।
ततो हर्षविषादाभ्यां बन्धनी वासना भवेत्।।[5-10-155]
मुक्तो हर्षविषादाभ्यां यदि गच्छसि नान्यताम्।
वीतरागभयक्रोधस्तदसङ्गोऽसि राघव।।[5-10-156]
दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः।
आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव।।[5-10-157]
संपद्विपदि चैवात्मा यदि ते लक्ष्यते समः।
यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव।।[5-10-158]
सदा समस्तेऽपि हि वस्तुजाते समाशयो ह्यन्तदीनसत्त्वः।
यदेव किंचित्प्रकृतं तदेव कुर्वन्नसङ्गः सुखामास्व राम।।[5-10-159]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरण आकाशगत्यभावादिनिरूपणं नाम दशमः सर्गः।। 10 ।।
रामप्रश्नानन्तरं च मलिनवासनैव सङ्ग इति तत्स्वरूपं च निरूपयिष्यति।।[5-10-151,152,153,154,155,156,157,158,159]
इति श्रीवासिष्ठविवरण उपशमप्रकरण आकाशगत्यभावादिनिरूपणं नाम दशमः सर्गः।। 10 ।।
समाप्तमिदमुपशमप्रकरणम्।। 5 ।।