लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ८
← सर्गः ७ | लघुयोगवासिष्ठः सर्गः ८ [[लेखकः :|]] |
सर्गः ९ → |
भासविलाससंवादः।।
अष्टमः सर्गः।।
वसिष्ठ उवाच।।
सुरघुः परिघश्चैव विचार्येति जगत्क्रमम्।
मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ।।,5-8-1]
पूर्वं चित्तविश्रान्तिरेव जीवन्मुक्तिसीमेत्युक्तम्। इदानीं विश्रान्त्यभावे बहुविधः प्रयास इति भासविलाकससंवादो निरूप्यते।।
यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी।
नित्यं चिदनुसंधानः स न शोकेन बाध्यते।।[5-8-2]
य इति।। अध्यात्ममयः आत्मन्यधि अध्यात्मं अध्यात्मशास्त्रं तन्मयस्तदनुसंधानपरः।।[5-8-2]
आशापाशशतैर्बद्धं भोगोलपसुलालसम्।
व्यूढदुःखमहाभारं मोहपल्वलशायिनम्।।[5-8-3]
रोगदंशावलीदष्टं कृष्टं तृष्णावरत्रया।
कुकर्मकर्दमालिप्तं संसारारण्यचारिणम्।।[5-8-4]
आशेति श्लोकत्रयं वाक्यम्।। भोगोलपसुलालसं भुज्यन्त इति भोगा विषयाः त एवोलपानि प्रतानवन्ति तृणानि तेषु सुलालसं समुत्सुकम्। रोगा एव दंशावली तया दष्टम्। तृष्णावरत्रया तृष्णैव वरत्रा चर्ममयी रज्जुः तया कृष्टमाकृष्टम्। कुकर्म पापं तदेव कर्दमः पङ्कस्तेन लिप्तं। मोहपल्वलशायिनं मुह्यत्यस्मिन्निति मोहः संसारः स एव पल्वलं अल्पं सरः तच्छायिनम्।।[5-8-3,4]
अलब्धशीतलच्छायं गमागमपिपासितम्।
राम जीवबलीवर्दमिमं संसारपल्वलात्।
परमं यत्नमास्थाय चिरमुत्तारयेद्बलात्।।[5-8-5]
महानुभावसंपर्कात्संसारार्णवलङ्घने।
युक्तिः संप्राप्यते राम स्फुटा नौरिव नाविकात्।।[5-8-6]
यस्मिन्देशे गिरौ तज्ज्ञो नास्ति सज्जनपादपः।
सफलः शीतलच्छायो न तत्र निवसेद्बुधः।।[5-8-7]
अलब्धशीतलच्छायं अप्राप्तविश्रान्तिस्थानं इमं जीवरूपं बलीवर्दं अनड्वाहं ओघादिगुणयोगात्परमं यत्नं पूर्वोक्तमास्थाय संसारपल्वलादुत्तारयेत्।।[5-8-5,6,7]
न धनानि न मित्राणि म शास्त्राणि न बान्धवाः।
नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ।।[5-8-8]
नेति।। मग्नस्वात्मसमुद्धृतौ संसारे निमग्नस्य स्वात्मनः समुद्धरणे देहेन्द्रियादौ तादात्म्यमापन्नस्य स्वरूपस्य विविक्ततया निश्चये धनादिनि नोपकुर्वन्ति।।
मनोमात्रेण सुहृदा सदैव सहवासिना।
सह किंचित्परामृश्य भवत्यात्मा समुद्धृतः।।[5-8-9]
किं तर्ह्युपकरोतीत्यत्राह-मनोमात्रेमेति।। किंचित्परामृश्य कोऽहमित्यादिविचार्यात्मा समुद्धृतो भवति।।
एतावतैव देवेशः परमात्मावगम्यते।
काष्ठलोष्टसमत्वेन देहो यदवलोक्यते।।[5-8-10
एतावतेति।। देहस्य काष्ठादिवदनात्मत्वनिश्चयेनैवात्मनः परमात्मत्वमवगम्यत इत्यर्थः।।
परिपूर्णार्णवप्रख्यो न वाग्गोचरमेति सः।
नोपमानमुपादत्ते नानुधावति रञ्जनम्।।[5-8-11]
परीति।। नोपमानमुपादत्ते। `न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः। नानुधावति रञ्जनं रञ्जकं संस्कारकं वस्तु नापेक्षते।।
केवलं चित्प्रकाशांशकलिता स्थिरतां गता।
तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते।।[5-8-12]
अदूरगतसादृश्या सुषुप्तिः सोपलक्ष्यते।
सावस्था भरिताकारा गगनश्रीरिवातता।।[5-8-13]
मनोहंकारविलये सर्वभावान्तरस्थिता।
समुदेति परानन्दा या तनुः पारमेश्वरी।।[5-8-14]
किंचित्सादृश्यादुपमानमपि संभवतीत्याह-केवलमिति श्लोकत्रयं वाक्यम्।। मनोहंकारविलये सति सर्वभावान्तरस्थिता परानन्दा पारमेश्वरी या तनुः स्वरूपं समुदेति सा तनुः चित्प्रकाशांशकलिता चितश्चैतन्यस्य प्रकाशरूपेणेवांशेन कलिता प्रकाशस्य लक्षणेनांशान्तरेण कलिता स्थिरतां गता तुर्या दृष्टिः प्राप्यते चेत् तत्तर्हि तया दृष्ट्या उपमीयते। गगनश्रीरिव आतता भरिताकारा पूर्णाकारा सा परमात्मभावदशा सुषुप्तावस्थाया अदूरगतसादृश्यान्निर्विकारचिन्मात्रतया ईषत्सादृश्यादुपलक्ष्यते।।[5-8-12,13,14]
सा स्वयं योगसंसिद्धा सुषुप्ताऽदूरभाविता।
न गम्या वचसां राम हृद्येवेहानुभूयते।।[5-8-15]
सेति।। सा पूर्वोक्ता परमात्मदशा योगेन समाधिना संसिद्धा सुषुप्ताऽदूरभाविता सुषुप्तावस्थया अदूरत्वेन सादृश्येन भाविता हृद्येवानुभूयते। वचसां न गम्या।।
अखिलमिदमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितोऽन्तः।
बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः।।[5-8-16]
अखिलमिति।। अखिलं जगदनन्तमात्मतत्त्वं आत्मस्वरूपमेव। यस्मात्कारणाद्दृढपरिणामिनि वासनाभूयिष्ठतया प्रगाढविचित्रविकारे चेतसि समाधिवशात्प्रशमिते सति अन्तःस्थितः सर्वान्तर्यामितया स्थितो देवदेवो बहिरपि चराचरात्मा स्वयमनुभूयत एव स्वयं प्रकाशतएव परिच्छेदकस्य चेतसो विलयादिति।।
तदनु विषयवासनाविनाशस्तदनु शुभः परमस्फुटप्रकाशः।
तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम्।।[5-8-17]
तदनु अन्तर्बहिश्च परमात्मदृष्ट्यन्तरं विषयवासनानां विषयसंस्काराणां विनाशः। तदनु विषयवासनाविनाशानन्तरंशुभः परमस्य परमात्मनः स्फुटं यथा तथा प्रकाशस्तदनु च समतावशात्स्वरूपे अचिन्त्यरूपे परिणमनम्। स्वस्यैव परमात्मभावात्स्वरूपनिष्ठतैव संपद्यत इत्यर्थः।।
मनसैव मनश्छित्त्वा यद्यात्मा नावलोक्यते।
तन्न नश्येज्जगद्दुःखं मनश्छेदे सुखात्मधीः।।[5-8-18]
वसिष्ठ उवाच।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
संवादं सुहृदोः सह्यसानौ भासविलासयोः।।[5-8-19]
मनसेति।। मनसैव शास्त्रसंस्कृतेन विवेकिना मनसैव मनः संसारसक्तं चित्तं छित्त्वा।।[5-8-18,19]
अत्युत्सेधजिताकाशः पीठेन जितभूतलः।
तलेन जितपातालः सह्यो लोकोत्तरो गिरिः।।[5-8-20]
तत्रोत्तरनदे सानावानमत्फलपादपे।
अत्रेरस्त्याश्रमः श्रीमान्सिद्धश्रमहरो महान्।।[5-8-21]
महत्यत्र्याश्रमे तस्मिंस्तापसौ द्वौ बभूवतुः।
कौचिदेव नभोमार्ग इव शुक्रबुहस्पती।।[5-8-22]
तयोरथैकास्पदयोस्तत्राभूतां सुतावुभौ।
विलासभासनामानौ वृद्धिमाययतुः क्रमात्।।[5-8-23]
आस्तामन्योन्यसुस्निग्धौ सुरक्ताविव दम्पती।
एकं द्वित्वमिवापन्नं सममासीत्तयोर्मनः।।[5-8-24]
जग्मतुर्देहमुत्सृज्य ततस्तु पितरौ तयोः।
तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम्।।[5-8-25]
विरक्तौ विपिने कालं क्षपयामासतुः पृथक्।
तपसा शुष्कसर्वाङ्गावनास्थामागतौ पराम्।।[5-8-26]
जग्मुर्दिनानि मासाश्च वर्षाण्यपि तयोस्तथा।
तावेकदा संघटिताविदमन्योन्यमूचतुः।।[5-8-27]
अत्युत्सेधेति।। उत्सेधः औन्नत्यम्। जितं व्याप्तम्। पीठं नाम भूमेरुपरितनो विस्तीर्णः पर्वतप्रदेशः येन भूतलं व्याप्नोति। तलं नाम भूम्यां निमग्नः पर्वतमूलभागः। सह्यो नाम कुलाचलः। तदुक्तं वैष्णवे-`महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः' इति।।[5-8-20,21,22,23,24,25,26,27]
विलास उवाच।।
जीविताग्र्यद्रुमफल हृदाश्वासामृताम्बुधे।
जगत्यस्मिन्महाबन्धो भास स्वागतमस्तु ते।।[5-8-28]
जगतीति।। जगति सति। महाबन्धो विश्रामसहाय।।
एतावन्तो दिनानल्पा मद्वियोगवता त्वया।
वद क्व क्षपिताः साधो कच्चित्ते सफलं तपः।।[5-8-29]
कच्चित्ते विज्वरा बुद्धिः कच्चिज्जातस्त्वमात्मवान्।
कच्चित्फलितविद्यस्त्वं कच्चित्कुशलवानसि।।[5-8-30]
भास उवाच।।
साधो स्वागतमद्याङ्ग दिष्ट्या दृष्टोऽसि मानद।
कुशलं च कुतोऽस्माकं संसारे तिष्ठतामिह।।[5-8-31]
यावन्नादिगतं ज्ञेयं यावत्क्षीणा न चित्तभूः।
यावत्तीर्णो न संसारस्तावन्नः कुशलं कुतः।।[5-8-32]
एतावन्त इति।। दिनानल्पाः दिनैरनल्पाः भूयिष्ठाः एतावन्तो वत्सराः क्व क्षपिता इत्यर्थः। जग्मुर्दिनानि मासाश्च वर्षाण्येवामितवत्सरपर्यन्तस्य कालस्य प्रस्तुतत्वात्प्रश्नस्य दिनविषयत्वे तु दिनानल्पा इति नोपपद्यते। दिनशब्दस्य नपुंसकत्वात् पुंस्त्वाभ्युपगमेऽपि संहिताया अयोगात्।।[5-8-29,30,31,32]
आशा यावदशेषेण न लूनाश्चित्तसंभवाः।
वीरुधो दात्रकेणेव तावन्नः कुशलं कुतः।।[5-8-33]
आशा इति।। वीरुधः प्रतानिन्यो लताः। अत्र किल चित्रम्।।
यावन्नाधिगतं ज्ञानं यावन्न समतोदिता।
यावन्नाभ्युदितो बोधस्तावन्नः कुशलं कुतः।।[5-8-34]
आत्मलाभं विना साधो विना ज्ञानमहौषधम्।
उदेति पुनरेवेयं दुःसंसृतिविषूचिका।।[5-8-35]
यावदिति।। ज्ञानं शास्त्रजन्यं परोक्षं विज्ञानम्। बोधः साक्षात्कारः।।[5-8-34,35]
बहुविधसुखदुःखमध्यपाती विततजरामरणप्रपातभग्नः।
जगदुदरगिरौ लुठञ्जनोऽयं गतरसपर्णवदेति जर्जरत्वम्।।[5-8-36]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे भासविलाससंवादो नाम अष्टमः सर्गः।। 8 ।।
बह्विति।। विततेषु जरामरणदुःखेष्वेव प्रपातेषु भृगुषु भग्नः भङ्गं प्राप्तवान्। जगदुदर एव गिरौ लुठन् परिभ्रमन् गतरसपर्णवच्छुष्कपर्णवत्।।
इत्युपशमप्रकरणे अष्टमः सर्गः।। 8 ।।