लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ११
← सर्गः १० | लघुयोगवासिष्ठः सर्गः ११ [[लेखकः :|]] |
सर्गः १२ → |
मिथ्यापुरुषोपाख्यानम्।।
एकादशः सर्गः।।
वसिष्ठ उवाच।।
द्वित्वैकत्वमतस्त्यक्त्वा शेषस्थः सुखितो भव।
मा दुखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा।।[6-11-1]
राम उवाच।।
परमामागतोऽस्मयन्तस्तृप्तिं ज्ञानामृतेन ते।
तृप्तोऽपि भूयः पृच्छामि त्वां प्रश्नमिममीश्वर।।[6-11-2]
किमुच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम्।
वस्त्ववस्तुकृतं जगद्वस्तुजातं वदाशु मे।।[6-11-3]
वसिष्ठ उवाच।।
मिथ्यापुरुषबोधाय शृणु राघव शोभनाम्।
इमामाख्यायिकां हासजननीं मदुदीरिताम्।।[6-11-4]
पूर्वं चित्तत्याग एव सर्वत्याग इत्युक्तम्। इदानीमविचारितरम्योऽयमहंकारः संसारे वृथैव शोचतीत्यत्र दृष्टान्ततया मिथ्यापुरुषवृत्तान्तो निरूप्यते-द्वित्वेति।। द्वित्वमतेर्भेदविषयत्वात् एकत्वमतेश्च भेदप्रतियोगित्वेन भेदोल्लेखित्वात्ते उभे अपि त्यक्त्वा शेषस्थः भेदाभेदाभ्यामव्यपदेश्ये चिन्मात्ररूपे वस्तुनि स्थितः सन्सुखितो भव। व्यर्थं निर्निमित्तमेव मिथ्यापुरुषवद्दुःखितो माभव।।[6-11-1,2,3,4]
अस्ति कश्चिन्महाबाहो मायायन्त्रमयः पुमान्।
बालपेलवधीर्मूढो मानी मौर्ख्येण केवलम्।।[6-11-5]
अस्तीति।। मायायन्त्रमयः पुमान् अहंकाररूपः बालपेलवधीर्बालवदल्पबुद्धिः।।
स एकान्ते क्वचिज्जातः शून्ये तत्रैव तिष्ठति।
केशोण्ड्रकमिव व्योम्नि मृगतृष्णैव वा मरौ।।[6-11-6]
स इति।। पुमानेकान्ते निःप्रपञ्चे शून्ये निर्विशेषे क्वचिदव्यपदेश्ये चिदाकाशरूपे वस्तुनि जातः तत्रैव वस्तुनि व्योम्नि केशोण्ड्रकमिव कुण्डलिनः केशसंचयमिव मरौ मृगतृष्णेव च भ्रान्तिमात्रसिद्धस्तिष्ठति।।
तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तत्।
यच्चान्यत्तत्तदाभासं न च पश्यति दुर्मतिः।।[6-11-7]
तस्मादिति।। तत्र चिदाकाशे तस्मान्मायापुरुषादहंकारादन्यन्नास्ति। यच्चास्ति तत्स एव सर्वस्याप्यहंकारिकत्वात् तत्तदाभासं तेनतेन वियदादिरूपेण भासमानमन्यत्प्रपञ्चातिरिक्तं यच्च वस्त्वस्ति तच्च न पश्यति नानुसंधत्ते दुर्मतित्वात् मन्दमतित्वात्।।
संकल्पस्तस्य संजातस्तत्र वृद्धिमुपेयुषः।
स्वं स्थापयित्वा रक्षामि वस्त्विष्टं रक्ष्यमादरात्।।[6-11-8]
संकल्प इति श्लोकद्वयं वाक्यम्। तत्र चिदाकाशे वृद्धिमुपेयुषस्तस्य मायापुंसः खं आकाशं स्थापयित्वा कुत्रचिदाश्रये प्रतिष्ठाप्य रक्षामि। यस्मादिष्टं वस्त्वादराद्रक्ष्यं रक्षणीयमिति संकल्पो जातः।।
इति संचिन्तयन्व्योमरक्षार्थं सोऽकरोद्गृहम्।
अस्य कोशे च बन्धास्थां रक्षितं खं मयेत्यसौ।।[6-11-9]
इति एवंच संचिन्तयन् व्योमरक्षार्थं स पुमान् गृहमकरोत्। अस्य च गृहस्य कोशेऽभ्यन्तरे खं मया रक्षितमित्यास्थामादरमकरोत्।।
अथ कालेन तत्तस्य गृहं नाशमुपाययौ।
ऋत्वन्तरेणाब्द इव वातेनेव तरङ्गकः।।[6-11-10]
अथेति।। ऋत्वन्तरेण शरदाख्येन वर्षकोऽब्दो यथा नाशमुपयाति तद्वत्।।
हा गृहाकाश नष्टस्त्वं हा क्व यातमसि क्षणात्।
गृहे भग्ने गृहाकाशमित्यर्थैनं शुशोच सः।।[6-11-11]
इति शोकशतं कृत्वा पुनस्तत्रैव दुर्मतिः।
कूपं चक्रे खरक्षार्थं कूपाकाशपरोऽभवत्।।[6-11-12]
ततो नाशं स कालेन नीतः कूपोऽपि तस्य वै।
कूपाकाशे गते शोके निमग्नोऽसौ ततोऽभवत्।।[6-11-13]
कूपाकाशप्रलापान्ते कुम्भं शीघ्रमथाकरोत्।
कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिमाययौ।।[6-11-14]
कुम्भोऽपि तस्य कालेन नाशं नीतो रघूद्वह।
यामेव दिशमादत्ते दुर्भगः सा हि नश्यति।।[6-11-15]
हा गृहेत्यादि।। आदौ गृहं तन्नाशे कूपम्।।[6-11-11,12,13,14,15]
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः।
कुण्डं तत्रैव तेनासौ कुण्डाकाशपरोऽभवत्।।[6-11-16]
कुण्डमप्यस्य कालेन केनचिन्नाशमाययौ।
तेजसेव तमस्तेन कुण्डाकाशं शुशोच सः।।[6-11-17]
ततः कुम्भं ततः कुण्डं गर्तविशेषं स्थालीं वा[6-11-16,17]
कुण्डाकाशस्य नाशान्ते खरक्षार्थं चकार सः।
चतुःशालं महाशालं तदाकाशपरोऽभवत्।।[6-11-18]
तदप्यवजहाराशु कालः कवलितप्रजः।
जीर्णं पर्ण यथा वातस्ततः शोकपरोऽभवत्।।[6-11-19]
ततो महाशालं विशालगृहयुक्तं चतुःशालं चतुर्णां शालानां समाहारम्।।[6-11-18,19]
स चतुःशालशोकान्ते खरक्षार्थं चकार ह।
कुशूलमम्बुदाकारं तदाकाशपरः स्थितः।।[6-11-20]
तदप्यस्य जहाराशु कालो वात इवाम्बुदम्।
कुशूलाकाशाशोकेन तेनासौ पर्यतप्यत।।[6-11-21]
एवं गृहचतुःशालकुम्भकुण्डकुशूलकैः।
तस्यापर्यवसानात्मा कालो दुःखमयो गतः।।[6-11-22]
ततः कुशूलं धान्यावपनस्थानं च कृत्वा तत्तन्नाशे शुशोचेति संक्षेपः।।[6-11-20,21,22]
एवं स्थितं स गगनं कुमतिर्गुहायां गृह्णन्गृहेण गगनेन किलात्मबुद्ध्या।
दुःखान्तराद्धनतराद्धनदुःखजातमायाति याति च गतागतिसङ्गमूढः।।[6-11-23]
राम उवाच।।
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो।
कथितोऽयं त्वया व्योमरक्षणं च किमुच्यते।।[6-11-24]
एवमिति।। दुःखमयतया स्थितः स कुमतिर्गुहायां स्थितं गगनं गृहेण केनचिदावासस्थानेन च गृह्णन् संगृह्णन् गगनेन जनिता यात्मबुद्धिः तया गगनविषयात्मबुद्ध्या घनतराद्दुःखान्तरात् घनदुःखजातमायाति। गतागतिसङ्गमूढः उपाधीनां गमनागमनसंबन्धेन मूढः सन्स्वयं च याति।।[6-11-23,24]
वसिष्ठ उवाच।।
मायायन्त्रमयः प्रोक्तो यः पुमान्रघुनन्दन।
एनं च त्वमहंकारं विद्धि शून्याम्बरोत्थितम्।।[6-11-25]
मायेति।। मायायन्त्रमयो यः पुमान् प्रोक्तः तमेनं शून्याम्बरोत्थितं चिदाकाशोत्थमहंकारं विद्धि।।
यस्मिन्नाकाशकोशेऽस्मिन्साधो जगदिदं स्थितम्।
तदनन्तमसच्छून्यं सर्गादौ तिष्ठति स्वयम्।
तस्मादुदेत्यहंकारः पूर्वस्पन्द इवानिलात्।।[6-11-26]
यस्मिन्निति।। अनन्तमपरिच्छिन्नं शून्यं सर्वोपाधिरहितं अतश्चासत् व्यवहारस्याविषयः `असद्वा इदमग्र आसीत् ततो वै सदजायत' इति श्रुतेः। ईदृशं यद्वस्तु सर्गादौ तिष्ठति तस्माद्वस्तुनः पूर्वं प्रथममेवाहंकार उदेति अनिलात्स्तिमितवायोः सकाशात्स्पन्दश्चलनमिवेति।।
अनात्मात्मैकराक्षार्थं देहान्नानाविधानसौ।
भूयोभूयो विनाशेऽपि सृजत्याकुलतां गतः।।[6-11-27]
अनात्मेति।। अनात्मा वस्तुत आत्मनोऽन्यः सोऽयमहंकारः आत्मैकरक्षार्थं चिदाकाशरूपस्यात्मन एव रक्षणाय नानाविधान्देहान् भूयोभूयो विनाशेऽपि सति सृजति।।
कूपकुण्डचतुःशालकुम्भादीन्देहकानसौ।
कृत्वा रक्षित आत्मेति याति तद्व्योम्नि भावनाम्।।[6-11-28]
यथैव मिथ्यापुरुषो रक्षन्व्योमात्मशङ्कया।
घटाकाशादिषु क्लिष्ट एवं मा क्लेशवान्भव।।[6-11-29]
कूपेति।। असावहंकारः कूपादितुल्यान्देहकान् कृत्वा आकाशकल्प आत्मा रक्षित इति तद्व्योम्नि तस्मिंश्चिदाकाशे भावनां याति।।[6-11-28,29]
आकाशादपि विस्तीर्णः शुद्धः सूक्ष्मः शिवः शुभः।
य आत्मा स कथं केन गृह्यते रक्ष्यतेऽथवा।।[6-11-30]
आकाशादिति।। य आत्मा आकाशादपि विस्तीर्णः स कथं गृह्यते केन वा गृह्यते रक्ष्यते च। तद्व्यतिरिक्तस्य वस्तुन एवाभावादिति भावः।।
हृदयाकाशमात्रस्य शरीरक्षयसंक्षये।
व्यर्थं भूतानि शोचन्त नष्ट आत्मेति शङ्कया।।[6-11-31]
हृदयेति।। हृदयाकाशमात्रस्य हृत्पुण्डरीकावच्छिन्नस्याकाशस्य शरीरलक्षणाय क्षयस्य निवासस्य संक्षये सति भूतानि आत्मा नष्ट इति शङ्कया व्यर्थमेव शोचन्ति।।
घटादिषु प्रनष्टेषु यथाकाशो ह्यखण्डितः।
तथा देहेषु नष्टेषु देही नित्यमलेपकः।।[6-11-32]
घटादिष्विति।। आकाशादीत्यादिश्ब्देन दिगाद्यमूर्तद्रव्यसंग्रहः।।
शुद्धचिन्मात्र आत्मायमाकाशादप्यणोरणुः।
स्वानुभूत्यंशमात्रत्वात्खवद्रामन नश्यति।।[6-11-33]
शुद्धेति।। य आत्मा शुद्धचिन्मात्रः अणोः सूक्ष्मादाकाशादप्यणुः सूक्ष्मो निरवयवत्वात् आत्मा स्वानुभूत्यंशमात्रत्वात्स्वानुभवमात्ररूपत्वात् खवत् आकाशवन्न नश्यति।।
न जायते न म्रियते क्वचित्किंचित्कदाचन।
जगद्विवर्तरूपेण केवलं ब्रह्म जृम्भते।।[6-11-34]
नेति।। किंचिदपि वस्तु क्वचिद्देशे कदाचिदपि न जायते न म्रियते च किं तर्हि ब्रह्मैव केवलं जगद्विवर्तरूपेण जगदाकारेण जृम्भते परिस्फुरति।।
सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम्।
भावाभावविनिर्मुक्तमिति मत्वा सुखी भव।।[6-11-35]
सर्वमिति।। इदं सर्वं जगत् आदिमध्यान्तवर्जितं अतएव भावाभावाभ्यां जन्मनाशाभ्यां विनिर्मुक्तं शान्तमेकमद्वितीयं ब्रह्मेति मत्वा सुखी भव।।
सर्वापदां निलयमध्रुवमस्वतन्त्रमासन्नपातमविवेकममानमज्ञम्।
बोधादंहकृतिपदं सकलं विमुच्य शेषे सुबुद्धपद उत्तमतां प्रयाहि।।[6-11-36]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे मिथ्यापुरुषोपाख्यानं नाम एकादशः सर्गः।। 11 ।।
सर्वेति।। सर्वापदां निलयं अध्रुवं अस्वतन्त्रं आसन्नपातं नश्वरं अविवेकं अमानं अप्रामाणिकं अज्ञं जडं अहंकृतिपदं अहंकाररूपं वस्तु सकलमपि बोधादात्मतत्त्वरूपादवबोधात् विमुच्य शेषे अहंकृतिरहिते सुबुद्धपदे ज्ञानपदे स्थित्वा उत्तमां जीवन्मुक्ततां प्रयाहि।।
इति श्रीयोगवासिष्ठविवरणे निर्वाणप्रकरणे एकादशः सर्गः।। 11 ।।