लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ९

← सर्गः ८ लघुयोगवासिष्ठः
सर्गः ९
[[लेखकः :|]]
सर्गः १० →

किराट-चिन्दामणि-गजेन्द्रोपाख्यानगर्भं-शिखिध्वजोपाख्यानम्।।
नवमः सर्गः।।
वसिष्ठ उवाच।।
इदं पूर्वं परित्यज्य क्रोडीकृत्य मनःखगम्।
शान्त आत्मनि तिष्ठ त्वं शिखिध्वज इवाचलः।।[6-9-1]
राम उवाच।।
कोऽसौ शिखिध्वजो नाम कथं वा लब्धवान्पदम्।
एतन्मे कथय ब्रह्मन्भूयो बोधविवृद्धये।।[6-9-2]
वसिष्ठ उवाच।।
द्वापरे पूर्वमभवदतीते सप्तमे मनौ।
मालवानां पुरे श्रीमाञ्छिखिध्वज इतीश्वरः।।[6-9-3]
धैर्यौदार्यदयासत्यक्षमादमशमान्वितः।
शूरः शुभसमाचारो मानी गुणगणाकरः।।[6-9-4]
सुराष्ट्राधिपतेः कन्यां चूडालां नाम नामतः।
उपयेमे सतीमात्मसदृशीं स शिखिध्वजः।।[6-9-5]
पूर्वं दुर्लभापि चित्तविश्रान्तिः स्वप्रयत्नेनैव लभ्यत इति दर्शयितुं भगीरथकथा कथिता। इदानीं तु प्रतिबन्धकपापसंचयक्षयाभावे दुर्लभमपि स्वात्मज्ञानमाचार्यस्य प्रश्नातिशयाल्लभयत इति दर्शयितुमनेकोपाख्यानगर्भं शिखिध्वजोपाख्यानं प्रारभ्यते-इदमिति।। पूर्वमिदं विश्वां परित्यज्य प्रपञ्चदृष्टिं तद्वासनां च त्यक्त्वा मनःखगं पक्षिवत्परिभ्रमणशीलं मनः क्रोडीकृत्य एतनिष्ठ कृत्वा शान्तः सन् शिखिध्वज इवात्मन्यचलस्तिष्ठ।।[6-9-1,2,3,4,5]
अवर्धत तयोः प्रीतिरन्योन्यार्पितचेतसोः।
नित्यमेवाभियुक्तत्वात्प्रियत्वाच्चेष्टितस्य च।।[6-9-6]
अवर्धतेति।। चेष्टितस्य परस्परालोकनसंभाषणादिरूपस्य प्रियत्वादभिमतत्वाच्च तयोः प्रीतिरवर्धतेत्यन्वयः।।
मिथः कलाकलापस्य कोविदौ तौ बभूवतुः।
स्वरूपमेवमेवैतौ दधतुर्मित्रतां गतौ।।[6-9-7]
एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम्।
रेमे यौवनलीलाभिरनन्ताभिर्दिने दिने।।[6-9-8]
मिथ इति।। कलाकलापस्य गीतवादित्रनृत्यादिरूपस्य।।[6-9-7,8]
अथ यातेषु बहुषु वर्षेष्वावृतिशालिषु।
शनैर्गलति तारुण्ये भिन्नकुम्भादिवाम्भसि।।[6-9-9]
पातः पक्वफलस्येव मरणं दुर्निवारणम्।
हिमाशनिरिवाम्भोजे जरा निपतितोन्मुखी।।[6-9-10]
आयुर्गलत्यविरतं जलं करतलादिव।
प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता।।[6-9-11]
शैलनद्या रय इव संप्रयात्येव यौवनम्।
सुखानि प्रपलायन्ते शरा इव धनुश्च्युताः।।[6-9-12]
रम्भागर्भ इवासारो व्यवहारो विरागदः।
तदिह स्यान्न संसारे तादृक्षमतिशोभनम्।।[6-9-13]
यदासाद्य पुनश्चेतो दशासु न विदूयते।।,6-9-14]
इति निर्णाय युग्मं तत्संसारव्याधिभेषजम्।
चिरं विचारयामासा शास्त्रमध्यात्मसंमतम्।।[6-9-15]
आत्मज्ञानैकमन्त्रेण संसृत्याख्या विषूचिका।
संशाम्यतीति निश्चित्य तावास्तां तत्परायणौ।।[6-9-16]
अथेति श्लोकषट्कं वाक्यम्।। अथ बहुषु वर्षेषु यातेषु ततः चूडालशिखिध्वजयोर्युग्मं इति तारुण्ये शनैर्गलति `जरा निपतितोन्मुखी'त्यादिना प्रकारेण संसारासारतां निर्णीय संसारव्याधिभेषजमध्यात्मशास्त्रं चिरं विचारयामासेत्यन्वयः। तत्र तुम्बीलता अलाबूः।।,6-8-9,10,11,12,13,14,15,16]
तच्चित्तौ तद्गतप्राणौ तन्निष्ठौ तद्विधाश्रयौ।
तदा तदर्चनपरौ तदीहौ तौ विरेजतुः।।[6-9-17]
तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम्।
तत्प्रीतौ तत्समारम्भौ चिरारम्भौ बभूवतुः।।[6-9-18]
तच्चित्ताविति।। तदित्यात्मज्ञानं परामृश्यते। तद्गतप्राणौ चित्तस्य तद्गतत्वाच्चित्तप्राणयोश्चाविनाभावात्। तन्निष्ठौ तत्रैवात्मज्ञाने निष्ठा नियमो ययोस्तौ। तद्विधाश्रयौ तद्विधाः आत्मज्ञाननिष्ठाः ते आश्रयाः आश्रयणीयाः ययोस्तौ। तदर्चनपरौ आत्मवित्पूजनपरौ। तदीहौ तदुचितचेष्टायुक्तौ।।[6-9-17,18]
अथ साविरतं राम रमणीयपदक्रमात्।
श्रुत्वाध्यात्मविदां वक्त्राच्छास्त्रार्थांस्तारणक्षमान्।।[6-9-19]
इत्थं विचारयामास स्वमात्मानमहर्निशम्।
अव्यापृता व्यापृता वा धिया धवलयेद्धया।।[6-9-20]
चूडालोवाच।।
प्रेक्षे तावत्स्वमात्मानं किमहं स्यामिति स्वयम्।
कस्यायमागतो मोहः कथमभ्युदितः क्व वा।।[6-9-21]
अथेति श्लोकद्वयं वाक्यम्।। अव्यापृता तूष्णीमासीना व्यापृता वा समुचितं व्यापारं कुर्वाणापि धिया स्वमात्मानमित्थं वक्ष्यमाणप्रकारेण विचारयामास।।[6-9-19,20,21]
देहस्तावज्जडो मूढो नाहमित्येव निश्चयः।
कर्मेन्द्रियगमश्चास्मादभिन्नो जड एव सः।।[6-9-22]
देह इति।। देहस्तावज्जडः। तत्र हेतुः मूढः विचित्तः। नाहमित्येव निश्चयः। कर्मेन्द्रियगणश्च अस्माद्देहादभिन्न इति जड एव।।
बुद्धीन्द्रियगणोऽप्येवं जड एवेति दृश्यते।
प्रेर्यते मनसा यस्माद्यष्ट्येव भुवि लोष्टकः।।[6-9-23]
बुद्धीति।। बुद्धीन्द्रियगणोऽपि यष्ट्यालोके लोष्टक इव मनसा यस्मात्प्रेर्यते तस्माज्जड एवेति दृश्यते निश्चीयते।।
मनस्त्वेवं जडं मन्ये संकल्पात्मकशक्तिमत्।
क्षेपणैरिव पाषाणः प्रेर्यते बुद्धिनिश्चयैः।।[6-9-24]
मन इति।। संकल्पात्मकवशान्मनश्च क्षेपणैः वाषाण इव बुद्धकृतैर्निश्चयैः प्रेर्यत इति जडं मन्ये। क्षिप्यन्ते एभिरिति क्षेपणानि रज्जुदार्वादिमया यन्त्रविशेषाः।।
बुद्धिर्निश्चयरूपैव जडा सत्येव निश्चयः।
खातेनेव सरित्कूलमहंकारेण चाल्यते।।[6-9-25]
बुद्धिरिति।। निश्चयरूपा बुद्धिश्च खातेन खननजनितश्वभ्रेण सरिदिव अहंकारेण चाल्यते प्रेर्यत इति जडैवेति निश्चयः।।
अहंकारोऽपि निःसारो जड एव शवात्मकः।
जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः।।[6-9-26]
अहंकार इति।। निःसारः विपरीतज्ञानरूपत्वान्निःसत्त्वः चेष्टारहितत्वाच्छवात्मकोऽहंकारोऽपि बालेन भ्रमात्मको यक्ष इव जीवेन जन्यते कल्प्यत इति।। जड एव अवशात्मक इति पाठे परवशस्वभाव इत्यर्थः।।
जीवश्च कलनाकारो वातात्मा हृदये स्थितः।
सुकुमारोऽन्तरन्येन केनापि परिजीवति।।[6-9-27]
जीव इति।। हृदये स्थितः अन्तःकरणप्रतिफलितचैतन्यरूपत्वाद्धृदये वर्तमानः। अत एव कलनाकारः कल्पितस्वभावः वातात्मा प्राणमयत्वात्सुकुमारः अध्रुवः प्रत्यहंसुषुप्तावात्मनि लीयमानत्वात् एवंविधो जीवश्च अन्तःस्थेन स्वस्याऽप्यन्तरनुप्रविष्टेन केनाप्यव्यपदेश्येन प्राणप्रदायिना पुरुषेणानुप्राणितः परिजीवति। अतो जीवोऽपि पारमार्थिकमात्मस्वरूपं ज भवतीत्यर्थः। एतदुक्तं भवति-यथा घटाद्युपाध्यवच्छिन्नोऽनवच्छिन्नश्चाकाशोऽस्ति तथा सर्वप्राणिनां हृदि जीव ईश्वरश्चास्ति। तथाच व्याससूत्रम् `गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्' इति। तत्र च मायाविधेयो जीवः विधेयमाय ईश्वर इति भेदः। तदुक्तं गौडपादाचार्यैः-`कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः। कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते' इति।।
आ अहो ज्ञानमेतेन चेत्योल्लेखकलङ्किना।
जीवो जीवति जीर्णेन चिद्रूपेणात्मरूपिणा।।[6-9-28]
आ अहो इति।। आ इति स्मृतिद्योतकमव्ययम्। अहो इत्याश्चर्ये। अहो मया ज्ञातमेतत्। किं तदित्यत्राह। अयं जीवश्चेत्योल्लेखो दृश्यसंबन्धः तेन कलङ्किना प्रतिबिम्बरूपकलङ्कवता जीर्णेन अनादिना आत्मरूपिणा सर्वेषामात्मभूतेन चिद्रूपेण चित्स्वरूपेणैव जीवति प्राणान् धारयति।।
चेत्यभ्रमवता जीवश्चिद्रूपेणैव जीवति।
आमोदः पवनेनेव खातेनेव सरिद्रयः।।[6-9-29]
एतदेव सदृष्टान्तमाह-चेत्येति।। चेत्यभ्रमवता चेत्येषु प्रतिफलनात्तैस्तादात्म्याभिमानवता।।
असत्यजडचेत्यांशचयनाच्चिद्वपुर्जडम्।
महाजलगतो ह्यग्निरिव रूपं समुज्झति।।[6-9-30]
असत्येति।। चिद्वपुः चित्स्वरूपं असत्यजडचेत्यांशचयनात् असत्या जडाश्च ये चेत्यांशाः तेषां चयनादुपयाद्धेतोः जडं सन्महाजलगतोऽग्निरिव स्वरूपं चित्स्वभावमुज्झति अपाकरोति।।
एवंचिद्रूपमप्येतच्चेत्योन्मुखतया स्वयम्।
जडं शून्यमसत्कल्पं चैतन्येन प्रबोध्यते।।[6-9-31]
एतच्चिद्रूपं एवं पूर्वोक्तप्रकारेम चेत्योन्मुखतया दृश्यभावनया स्वयमेव जडं जाड्ययुक्तं शून्यसमं असत्कल्पं च भूत्वापि पुनश्चैतन्येन अनुप्रविष्टचैतन्येन प्रबोध्यते। `तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः।।
इदानीमहमीक्षेऽहं केनैषा चित्प्रचेत्यते।
अहो नु चिरकालेन ज्ञातं ज्ञेयमनामयम्।।[6-9-32]
इदानीमित्यर्धमेकं वाक्यम्। एषा चित्केन हेतुना प्रचेत्यते मनोबुद्ध्यादिरूपेण प्रवर्त्यते इत्येतदिदानीमहमीक्षे विचारये। अहो इति अर्धमेकं तज्ज्ञातमित्यर्थः।।
एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः।
असन्तः सर्व एवाहो अवधानं विनोत्थिताः।।[6-9-33]
एते हीति।। चिद्विलासान्ताः जडेषु वस्तुषु चैतन्यकलनं चिद्विलासः तदन्तास्तत्पर्यन्ताः एते मनोबुद्धीन्द्रियादयः सर्व एव वस्तुतोऽसन्तोऽपि अवदानं विना एकाग्र्यमवधानं तेन विना तद्भावेन उदिताः प्रादुर्भूताः आत्मनः स्वरूपनिष्ठत्वाभावरूपेण प्रमादेनोदिताः। अनवधानमेव चितो नानारूपत्वविवर्तहेतुरित्यर्थः।।
महाचिदेकैवास्तीह महासत्तेति योच्यते।
निष्कलङ्का समा शुद्धा निरहंकाररूपिणी।।[6-9-34]
सकृद्विभाति विमला नित्योदयवती समा।
सा ब्रह्मपरमात्मादिनामभिः परिगीयते।।[6-9-35]
महाचिदिति श्लोकद्वयं वाक्यम्।। महासत्तापरपर्याया निष्कलङ्का या महाचिदस्ति सैव ब्रह्मपरमात्मादिनामभिर्गीयत इत्यर्थः। समेति द्विरुपादीयते तयोरेकः समशब्दः सर्वशब्दपर्यायः समा सर्वात्मकेत्यर्थः। अन्यस्त्ववैष्म्यवाची समैकरूपेति न पौनरुक्त्यम्।।[6-9-34,35]
वसिष्ठ उवाच।।
दिनानुदिनमित्येषा स्वात्मारामतया तथा।
नित्यमन्तर्मुखतया बभूव प्रकृतिस्थिता।।[6-9-36]
दिनानुदिनमिति।। दिनं पूर्वभावि अनुदिनं पश्चाद्भावि दिनं चानुदिनं च दिनानुदिनम्। सर्वेष्वपि दिनेष्वित्यर्थः। एषा चूडाला।।
नीरागा निरुपासङ्गा निर्द्वन्द्वा निःसमीहिता।
न जहाति न चादत्ते प्रकृताचारचारिणी।।[6-9-37]
परमात्ममहालाभपरिपूर्णान्तरान्तरा।
सर्वोत्तमातीततया जगामाव्यपदेश्यताम्।।[6-9-38]
स्वविवेकधनाभ्यासवशादात्मोदयेन सा।
शुशुभे शोभना पुष्पलतेवाभिनवोद्गता।।[6-9-39]
अथ तामनवद्याङ्गीं कदाचित्स शिखिध्वजः।
अपूर्वशोभामालोक्य स्मयमान उवाच ह।।[6-9-40]
भूयो यौवनयुक्तेव मण्डितेन पुनःपुनः।
अधिकं राजसे तन्वि कान्त्या विमलया तनोः।।[6-9-41]
प्रपीतामृतसारेव लब्धालब्धपदेव च।
आनन्दामृतपूर्णेव राजसे नितरां प्रिये।।[6-9-42]
अभोगकृपणं शान्तमूर्जितं समतां गतम्।
गम्भीरं च प्रसन्नं च चेतः पश्यामि ते प्रिये।।[6-9-43]
नीरागेति।। राग इच्छा उपासङ्ग आसक्तिः द्वन्द्वमिष्टानिष्टबुद्धिः समीहितमुद्योगः। न जहाति द्वेषाभावात्। न चादत्ते रागाभावात्।।[6-9-37,38,39,40,41,42,43]
चूडालोवाच।।
न किंचित्किंचिदाकारमिदं त्यक्त्वाहमागता।
न किंचित्किंचिदाकारं तेनास्मि श्रीमती स्थिता।।,6-9-44]
अथाष्टभिः श्लोकैः चूडाला स्वानुभवं भर्त्रे निवेदयति-न किंचिदिति।। न किंचिज्जागत्तावत्संभवति। `नेह नानास्ति' इति बाध्यमानत्वात्। नाप्यसत् प्रतीयमानत्वात्। असतश्च सत्तया वा व्यवहर्तुमयोग्यम्। अतएव किंचिदाकारं महासत्तात्मना केनचिदाकारेणोपलक्षितं परं ब्रह्म येन हेतुना आगता प्राप्ता। न किंचिदाकारं ब्रह्मभावमापन्नेति यावत्। तेन अस्मि अहं श्रीमती कान्तिमती स्थिता। अस्मीत्यहमर्थेऽव्ययम्। श्रीरिह ब्रह्मविद्या प्रभावः सद्भूतमतिलोकं च दिव्यं तेजः।।
इदं सर्वं परित्यज्य सर्वमन्यन्मया श्रितम्।
यत्तत्सत्यमसत्यं च तेनास्मि श्रीमती स्थिता।।[6-9-45]
एतदेवाह-इदमिति।। इदं जगत्सर्वं परित्यज्य अन्यद्विश्वविलक्षणं सर्वं सर्वात्मकं सत्यं अबाध्यं असत्यं च असति कल्पिते जगत्यनुप्रविष्टं ब्रह्म यद्यस्मादाश्रितं तेनाहं श्रीमती स्थिता।।
यत्किंचिद्यन्न किंचिच्च तज्जानामि यथास्थितम्।
यतोदयं यथानाशं तेनास्मि श्रीमती स्थिता।।[6-9-46]
यत्किंचिदिति।। यद्वस्तु किंचित् महासत्तारूपत्वात्। न किंचिच्च विश्वविलक्षणत्वात्। तद्वस्तु यथास्थितं यथोदयं यथानाशं च जानामि। सृष्ट्यादिषु यथायथा वर्तते तत्सर्वं जानामीत्यर्थः।।
भोगैरभुक्तैस्तुष्यामि भुक्तैरिव सुदूरगैः।
न हृष्यामि न कुप्यामि तेनाहं श्रीमती स्थिता।।[6-9-47]
भोगैरिति।। भुक्तैरिव पूर्वमुपभुक्तैरिव सुदूरगैर्विप्रकृष्टैरभुक्तैरपि भोगैस्तुष्यामि। भुक्तानां च विप्रकृष्टत्वाविशेषात् पक्षपाते हेत्वभावादिति भावः। न हृष्
ामि न कुप्यामि रागद्वेषयोरभावात्।।
एकैवाकाशसंकाशे केवले हृदये रमे।
न रमे राजलीलासु तेनाहं श्रीमती स्थिता।।[6-9-48]
एकेति।। आकाशसंकाशे आकाशवत्परिपूर्णे केवले विशुद्धे हृदये हृदयवत्सर्वान्तरे स्वात्मनि एकैव रमे। राजलीलासु राज्ञां लीलासु गीतवाद्यनृत्यादिषु न रमे।।
जगतां प्रभुरेवास्मि न किंचिन्मात्ररूपिणी।
इत्यात्मन्येव तुष्यामि तेनाहं श्रीमती स्थिता।।[6-9-49]
जगतामिति।। न किंचिन्मात्ररूपिणी यद्धि ब्रह्म न किंचित् किंचिदपि न भवति सर्वविलक्षणत्वात्तन्मात्ररूपिणी अस्मि। किंचिदपि न भवति सर्वविलक्षणत्वात्तन्मात्ररूपिणी अस्मि। अहं जगतां प्रभुरेव। सर्वाणि भूतानि योऽन्तरेव यमयतीति सर्वनियामकत्वादित्यनेन प्रकारेणात्मन्येव तुष्यामि।।
तनुविद्वेषरागाभिः प्रज्ञाभिः शास्त्रदृष्टिषु।
रमे सह वयस्याभिस्तेनाहं श्रीमती स्थिता।।[6-9-50]
तन्विति।। तनुविद्वेषरागाभिः तनू कृशौ विद्वेषरागौ यासु ताभिः शास्त्रदृष्टिषु प्रज्ञाभिः। वीतरागकथाभिरित्यर्थः। ताभिर्वयस्याभिः सखीभिः सह रमे विनोदयामि।।
पश्यामि यन्नयनरश्मिभिरिन्द्रियैर्वा चित्तेन वेह हि तदङ्ग न किंचिदेव।
पश्यामि तद्विरहितं तु न किंचिदन्तः पस्यामि सम्यगिति नाथ विनोदयामि।।[6-9-51]
वसिष्ठ उवाच।।
एवमात्मनि विश्रान्तां वदन्तीं तां वराङ्गनाम्।
्अबुध्वा तद्गिरामर्थं विहस्योवाच भूपतिः।।[6-9-52]
पश्यामीति।। यद्वस्तु दूरस्थत्वान्नयनरश्मिभिः पश्यामि यच्च संनिहितात्वात्त्वगादिभिरिन्द्रियैः पश्यामि यच्चातीतमनागतं वा चित्तेन पश्यामि तत्सर्वं किंचिदपि न पश्यामि नानुसंदधामि। तद्विरहितं दृश्यव्यतिरिक्तं तन्न किंचिद्विश्वविलक्षणं परं वस्तु सम्यगन्तः पश्यामि इत्यनेन हेतुना विनोदयामि।।[6-9-51,52]
शिखिध्वज उवाच।।
असंबद्धप्रलापासि बालासि वरवर्णिनि।
रमसे राजलीलाभिरहमेवं नृपात्मजे।।[6-9-53]
असंबद्धेति।। रमसे राजलीलाभिः अहमेवं नृपात्मजे यथाहं एवं त्वमपि रमसे। न रम इति ब्रुवाणा त्वसंबद्धप्रलापासीत्यन्वयः। राजलीलाभी रमस्वावनिपालात्मजेति पाठे यथेदानीं रमसे एवमुत्तरकालमपि रमस्व न रमे इति तु मिथ्याप्रलापिनी माभूरित्यर्थः।।
किंचित्त्यक्त्वा न किंचिद्यो गतः प्रत्यक्षसंस्थितम्।
त्यक्तप्रत्यक्षसद्रूपः स कथं किल शोभते।।[6-9-54]
न किंचित्किंचिदाकारमिदं त्यक्तेवेति यदुक्तं तत्परिहसति-किंचिदिति।। यत्प्रत्यक्षसंस्थितं किचित्पृथिव्यादिरूपं वस्तु त्यक्त्वा न किंचिदव्यपदेश्यं वस्तु गतः प्राप्तः त्यक्तप्रत्यक्षसद्रूपः त्यक्तं न किंचिदव्यपदेश्यं वस्तु गतः प्राप्तः त्यक्तप्रत्यक्षसद्रूपः त्यक्तं प्रत्यक्षं वस्तु येन स कथं शोभते। प्रामाणिकस्य परित्यक्षसद्रूपः त्यक्तं प्रत्यक्षं वस्तु येन स कथं शोभते। प्रामाणिकस्य परित्यागादप्रामाणिकस्य च स्वीकारादिति भावः।।
भोगैरभुक्तैस्तुष्टोऽहमिति भोगाञ्जहाति यः।
दरिद्रवद्दुर्भगः सन्स कथं किल शोभते।।[6-9-55]
भोगैरभुक्तैरिति यदुक्तं तत्परिहसति-भोगैरिति।। यो मूढः अभुक्तैरेव भोगैस्तुष्ट इति मन्यमानः प्राप्तानपि भोगाञ्जहाति स मूढः प्राप्तभोगत्यागाद्दरिद्रवद्दुर्भगो भाग्यहीनः सन्कथं शोभते। रुषेवासनशय्यायामिति पाठे यथाहि कश्चित्कुपितः परिविष्टेष्वपि भोज्यवस्तुषु संनिहितायामपि स्वकान्तायां रुषा रोषवसादासन एव शय्यायां तिष्ठन् भोगपराङ्मुखः स्यात्तद्वदित्यर्थः।।
यत्पश्यामि न पश्यामि तत्पश्याम्यन्यदेव तु।
प्रलाप इत्यसत्यस्य स कथं किल शोभते।।[6-9-56]
तस्माद्बालासि मुग्धासि चपलासि विलासिनि।
नानालापविलासेन क्रीडसे क्रीड सुन्दरि।।[6-9-57]
वसिष्ठ उवाच।।
प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम्।
मध्याह्ने स्नातुमुत्थाय निर्जगामाङ्गनागृहात्।।[6-9-58]
कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान्।
राजेति खिन्ना चूडाला स्वव्यापारपराभवत्।।[6-9-59]
यत्पश्यामीति।। यद्वस्तु पश्यामि चक्षुरादिभिर्विषयीकरोमि तादृशं वस्तु न पश्यामि नानुसंदधामि। अन्यदेव तु दृश्यव्यतिरिक्तं अन्यदेव वस्तु पश्यामीति यः प्रलापः एतं प्रलापमनर्थकं वचनं अत्यक्त्वा कथं शोभते। प्रलाप इत्यसत्यस्येति पाठे इति एवंरूपोऽसन्नशोभनः प्रलापो यस्य स कथं शोभत इत्यर्थः।।[6-9-56,57,58,59]
तदा तथाङ्ग तत्राथ तादृशाशययोस्तयोः।
ताभिः पार्थिवलीलाभिः कालो बहुतिथो ययौ।।[6-9-60]
तदा तस्मिन्काले तत्र देशे तस्मिन् देशे तथा तेन प्रकारेणावस्थितयोस्ताभिः पार्थिवलीलाभिः बहुतिथः कालो ययौ। अङ्गेति संबोधनम्।।
एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम्।
चूडालाया बभूवेच्छा लीलया खगमागमैः।।[6-9-61]
खगमागमसिद्ध्यर्थमथ सा नृपकन्यका।
सर्वभोगाननादृत्य समागत्य च निर्जनम्।।[6-9-62]
एकैवैकान्तनिरता स्वासनावस्थिताङ्गिका।
ऊर्ध्वगप्राणपवनं चिराभ्यासं चकार ह।।[6-9-63]
एकदेति।। खगमागमैराकाशगमनागमनैः।।[6-9-61,62,63]
राम उवाच।।
कस्य स्पन्दविलासस्य चिराभ्यासस्य मे वद।
ब्रह्मन्खगमनाद्येतत्फलं यत्नैकशालिनः।।[6-9-64]
कस्येति।। स्पन्दविलासस्य प्राणगतिविशेषस्य। चिराभ्यासस्य चिरमभ्यस्तस्य।।
वसिष्ठ उवाच।।
अन्तस्था अखिलास्त्यक्त्वा स्वसाध्येतरवासनाः।
गुदादिस्थानसंकोचात्स्थानकादिक्रियाक्रमैः।।[6-9-65]
श्रीमच्छिखिध्वजकथाप्रसङ्गात्पतितामिमाम्।
प्राणादिपवनाभ्यासक्रियां सिद्धिफलं शृणु।।[6-9-66]
अन्तस्था इति श्लोकचतुष्टयं वाक्यम्। अन्तस्थाश्चित्तगताः स्वसाध्येतरवासनाः स्वसाध्यव्यतिरिक्तवस्तुविषया वासना अखिला अपि त्यक्त्वा समभ्यस्यमानैः द्वारसंकोचादिभिः साधनैस्तस्य पुंसः प्रभुत्वान्नियामकत्वाद्धेतोरखिला अपि प्राणादिवायवो भृत्या इव त्यागान्नियामकत्वाद्धेतोरखिला अपि प्राणादिवायवो भृत्या इव त्यागादाननिरोधेषु रेचकपूरककुम्भकेषु विधेयतां यान्तीत्यन्वयः। तत्र गुदादिद्वारसंकोचे हेतुमाह-स्थानकादिक्रियाक्रमैरिति। स्थानकानि महामुद्रादयः स्थानविशेषाः। आदिशब्दाद्यमादिग्रहणम्। स्थानकादयश्च ते क्रियाक्रमा उपायभेदाः तैस्तत्र मूलबन्धेन गुदसंकोचः खोचर्या उपरितनद्वारनिरोध इति विवेकः। तत्र मूलब्धलक्षणम्-`पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम्। अपानमूर्ध्वमाकृष्य मूलबन्धोऽयमिष्यते' इति। खेचरीलक्षणं तु बहुशः पूर्वमुक्तम्।।[6-9-65,66]
भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात्।
स्वाचारात्सुजनासङ्गात्सर्वत्यागसुखासनात्।।[6-9-67]
प्राणायामघनाभ्यासाद्राम कालेन केनचित्।
कोपलोभादिसंत्यागाद्भोगत्यागाच्च सुव्रत।।[6-9-68]
त्यागादाननिरोधेषु भृशं यान्ति विधेयताम्।
प्राणाः प्रभुत्वात्तज्ज्ञस्य पुंसो भृत्या इवाखिलाः।।[6-9-69]
भोजनासनशुद्ध्या भोजनस्य भोज्यवस्तुनः शुद्धिर्हितमितमेध्यभावः आसनशुद्धिरासनस्य निर्विकारता। साधुशास्त्रार्थभावनात् योगसास्त्रस्य सम्यगनुसंधानात्। स्वाचारो योगाङ्गानुष्ठानं सुजना योगविदः सर्वत्यागस्तत्पूर्वकात्सुखासनात्[6-9-67,68,69]
राज्यादिमोक्षपर्यन्ताः समस्ता एव संपदः।
देहानिलविधेयत्वसाध्याः सर्वस्य राघव।।[6-9-70]
राज्यादीति।। देहानिलविधेयत्वसाध्याः प्राणजयेन अणिमादयोऽपि सिध्यन्तीत्यर्थः।।
परिमण्डलिताकारा सर्मस्थानं समाश्रिता।
अन्त्रवेष्टनिका नाम नाडी नाडीशतान्विता।।[6-9-71]
परिमण्डलितेति श्लोकत्रयं वाक्यम्।। परितो मण्डलितो मण्डलीकृत आकारो यस्याः सा-`परिमण्डलिताकारा मर्मस्थानं समाश्रिता। तस्योर्ध्वं कुण्डलीस्थानं नाभेस्तिर्यगधोऽर्ध्वतः। अष्टप्रकृतिरूपा सा ह्यष्टधा कुण्डलीकृता'। इति याज्ञवल्क्येन कन्दस्योर्द्वं नाभिस्थानमाश्रिता मर्मस्थानं समाश्रिता भवति। `नाभिश्च हृदयं गार्गि कण्ठकूपं ततैवचे' ति याज्ञवल्क्येन मर्मस्थानेषु परिगणनात्।।
वीणाग्रावर्तसदृशी सलिलावर्तसंनिभा।
कीटादिष्वब्जजातेषु सर्वेषु प्राणिषूदिता।।[6-9-72]
वीणाग्रावर्तसदृशी वीणादण्डस्योपरिभागे यस्तन्त्रीसूत्रवेष्टनरूप आवर्तः त्सदृशी सलिलावर्तसंनिभा।।
शीतार्तसुप्तभोगीन्द्रभोगवद्बद्धमण्डला।
अनारतं सा सस्पन्दा पवमानेन तिष्ठति।।[6-9-73]
यतः शीतार्ततया सुप्तस्य भोगीन्द्रस् भोगद्बद्धमण्डला सर्वप्राणगता नाडीशतैरावृता आन्त्रवेष्टनिकानाम आन्त्रवेष्टनिकेति प्रसिद्धा काचिन्नाडी पवमानेन वायुना अनातरतं सस्पन्दा तिष्ठतीत्यन्वयः।।
तस्यास्त्वभ्यन्तरे तस्मिन्कदलीकोशकोमले।
पावनी परमा शक्तिः सर्वशक्तिजवप्रदा।।[6-9-74]
अनिशं निःश्वसद्रूपा कुपितेव भुजंगमी।
संस्थितोर्ध्वीकृतमुखी स्पन्दनाहेतुतां गता।।[6-9-75]
तस्या इति श्लोकद्वयं वाक्यम्।। तस्याः पूर्वोक्ताया नाड्याः कदलीकोशवत्कोमले अभ्यन्तरे कुपिता भुजङ्गमीव अनिशं निःश्वसद्रूपा स्पन्दनाहेतुत्वं गता ऊर्ध्वीकृतमुखी सर्वासां शक्तीनां जवप्रदा उल्लासहेतुः पावनी पवनसंबन्धिनी परमा शक्तिः संस्थिता।।[6-9-74,75]
अस्यां समस्ताः संबद्धा नाड्यो हृदयकोशगाः।
सातः कुण्डलिनीस्पन्दस्पर्शसंवित्कलामला।।[6-9-76]
अस्यामिति श्लोकत्रयं वाक्यम्।। अस्यामेव प्राणशक्तौ हृदयकोशगाः समस्ता नाड्यः संबद्धाः सिद्धाः स्पन्दस्पर्शसंवित्कलाक्रियाहेतुः स्पर्शानुभवहेतुश्च अमला सैव पावनी शक्तिरतः कुण्डलिनीत्युच्यते।।
कलोक्ता कलनेनाशु कथिता चेतनेन चित्।
जीवनाज्जीवतां याता मननाच्च मनःस्थिता।।[6-9-77]
कलोक्तेति।। सैव कलनेन बन्धनेन हेतुना कलेत्युक्ता। चेतनेन ज्ञानोत्पादनेन चिदित्युक्ता। जीवनादुच्छ्वासनिःश्वासप्रवर्तनात् जीवशब्दवाच्यतां गता। मननात्स्मरणहेतुत्वान्मन इति स्थिता।।
संकल्पात्सैव संकल्पा बोधाद्बुद्धिरिति स्थिता।
अहङ्कारात्मतां याता सैषा पुर्यष्टकाभिधा।।[6-9-78]
संकल्पाद्विविधात् मनोरथकल्पनात् सा हि संकल्पा इति संकल्पशब्दवाच्या शक्तिरपि बोधनान्निश्चयोत्पादनात् बुद्धिरिति स्मृता। सैवाहमित्यभिमानात् अहंकारात्मतां याता सती पुर्यष्टकशब्दवाच्यापीत्यन्वयः।।
स्थिता कुण्डलिनी देहे जीवशक्तिरनुत्तमा।
प्राणापानस्वरूपत्वादध ऊर्ध्वं व्रजत्यसौ।।[6-9-79]
स्थितेति।। देहे स्थिता कुण्डलिनीशब्दवाच्या अनुत्तमा या जीवशक्तिरस्ति असावेव प्राणापानस्वरूपत्वात् अध ऊर्ध्वं च व्रजति।।
समस्तैवोर्ध्वमायाति समस्ताधोऽथ सा व्रजेत्।
तत्पुमान्मृतिमायाति सैव प्राणमयी स्मृता।।[6-9-80]
समस्तेति।। सा प्राणशक्तिः समस्तैव कदाचिदूर्ध्वमायाति। अथानन्तरं समस्तैवाधो व्रजेत्। तत्तस्मात्प्राणगतेरध्रुवत्वात्पुमान् जीवो मृतिं मरणमायाति। हि यस्मात्कारणात्प्राणमयी स्मृता।।
सर्वथात्मनि तिष्ठेच्चेत्त्यक्त्वोर्ध्वाधो गमागमौ।
तज्जन्तोर्हीयते व्याधिरन्तर्मारुतरोधतः।।[6-9-81]
सर्वथेति।। सा प्राणशक्तिर्निरोधाभ्यासवशात् ऊर्ध्वाधो गमागमौ त्यक्त्वा आत्मनि देहे सर्वथा सर्वेण प्रकारेण तिष्ठेच्चेत्तर्हि अन्तर्मारुतरोधतः मारुतस्यान्तर्निरुद्धत्वाद्धेतोर्जन्तोर्व्याधिर्हीयते त्यज्यते। व्याधिरित्युपलक्षणम्। जरामरणादयोऽपि हीयन्त इत्यर्थः।।
राम उवाच।।
किंविनाशाः किमुत्पादाः शरीरेऽस्मिन्मुनीश्वर।
आधयो व्याधयश्चैव यथावत्कथयाशु मे।।[6-9-82]
किमिति।। विनाशोत्पत्तिशब्दाभ्यां तद्धेतू लक्ष्येते। को विनाशो येषां क उत्पादो येषाभिति बहुव्रीहिः।।
वसिष्ठ उवाच।।
देहदुःखं विदुर्व्याधिमाध्याख्यं वासनामयम्।
मौर्ख्यमूले हि ते विद्यात्तत्त्वज्ञानपरिक्षये।।[6-9-83]
देहेति।। देहदुःखं शरीरदुःखहेतुं व्याधिं विदुः। वासनामयं मानसदुःखहेतुमाध्याख्यं विदुः। ते उमे अपि दुःखे तत्त्वज्ञानपरिक्षये तत्त्वज्ञानाभावे सति मौर्ख्यमूले विद्यात्।।
अतत्त्वज्ञानवशतस्त्विन्द्रियाक्रमणं विना।
हृदि तानवमुत्सृज्य रागद्वेषेष्वनारतम्।।[6-9-84]
इदं प्राप्तमिदं नेति जाड्यात्सुघनमोहदाः।
आधयः संप्रवर्तन्ते वर्षासु मिहिका यथा।।[6-9-85]
अतत्त्वेति श्लोकद्वयं वाक्यम्।। अतत्त्वज्ञानवशतः तत्त्वज्ञानाभावात्स्वेन्द्रियाक्रमणं विना इन्द्रियजयाभावे सति तानवमल्पत्वमुत्सृज्य हृदि रागद्वेषप्रवृत्तेर्हेतोर्जाड्यवशात् इदं वस्तु प्राप्तमिदं नेत्येवंरूपा घनमोहदा आधयः संप्रवर्तन्ते। वर्षासु वर्षर्तौ मिहिका प्रालेयमिव।।[6-9-84,85]
भृशं स्फुरन्तीष्विच्छासु मौर्ख्ये च घनतां गते।
दुरन्ताभ्यवहारेण दुर्देशाक्रमणेन च।।[6-9-86]
भृशमिति श्लोकचतुष्टयं वाक्यम्।। इच्छासु पूर्वोक्तास्वाधिरूपासु भृशं स्फुरन्तीषु मौर्ख्ये च घनतां गते दुरन्तस्य दोषोद्रेकहेतोर्दुष्टस्यान्नस्याभ्यवहारेम दुर्देशस्य स्मशानादेराक्रमणेन।।
दुःकालव्यवहारेण दुःक्रियास्फुरणेन च।
दुर्जनासङ्गदोषेण दुर्भावोद्भावनेन च।।[6-9-87]
दुःकाले संध्यादौ भोजनादिव्यवहारेण दुःक्रियायाः शववहनादिरूपायाः स्फुरणेन प्रवर्तनेन कुष्ठादिदूषितजनानामासङ्गदोषेण दुर्भावस्य क्रोधादेरुद्भावनेन च।।
क्षीणत्वाद्वातिपूर्णत्वान्नाडीनां रन्ध्रसंततौ।
प्राणे विधुरतां याते काये च विकलीकृते।।[6-9-88]
नाडीनां प्राणसंचारमार्गाणां क्षणत्वात् पूर्णत्वाद्वा तद्रन्ध्रसंततौ प्राणे विधुरतां वैषम्यं याते काये च विकलीकृते सति।।
दौःस्थित्यकारणाद्दोषाद्व्याधिर्देहात्प्रवर्तते।
नद्याः प्रावृण्निदाघाभ्यामिवाकारविपर्ययः।।[6-9-89]
दौःस्थित्यकारणाद्दुःखहेतोर्दोषाद्वातादिरूपाद्देहे व्याधिर्जायते। प्रावृण्निदाघाभ्यां वृद्धिक्षयहेतुभ्यां नद्या आकारविपर्ययो वृद्धिक्षयरूप इवेत्यन्वयः।।
प्राक्तनी चैहिकी वापि शुभा वाप्यशुभा गतिः।
यैवाधिका सैव तथा तस्मिन्योजयति क्रमे।।[6-9-90]
प्राक्तनीति।। प्राक्तनी पूर्वजन्मसंभवा ऐहिकी इहजन्मनि संभूता शुभाऽशुभा वा या गतिर्वासना अधिका प्रबला सैव तस्मिन् स्वानुरूपे शुभेऽशुभे वा क्रमे व्यवहारे तथा तेनैव प्रकारेण योजयति प्रवर्तयति। दुर्वासनावशाद्व्याधिहेतुमपचारमाचरतीति भावः।।
आधयो व्याधयश्चैवं जायन्ते भूतपञ्चके।
कथं शृणु विनश्यन्ति राघवानां कुलोद्वह।।[6-9-91]
आधय इति।। एवं पूर्वोक्तेन प्रकारेण।।
द्विविधो ह्याधिरस्तीह सामान्यः सार एव च।
व्यवहारश्च सामान्यः सारो जन्मनि यः स्मृतः।।[6-9-92]
द्विविध इति।। आधिर्द्विविधोऽस्ति सामान्यः सारभूतश्चेति।। तत्र यो व्यवहारमात्रहेतुराधिः स सारः स्मृतः। सुदृढत्वाच्छुद्धवासनामय आधिः सामान्यो मलिनवासनामयस्तु सार इति तात्पर्यम्।।
प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः।
आधिक्षये चाधिभवाः क्षीयन्ते व्याधयोऽप्यलम्।।[6-9-93]
प्राप्तेनेति।। व्यावहारिकाः व्यवहारमात्रप्रयोजना आधयः प्राप्तेन सता अभिमतेनैव वस्तुना नश्यन्ति इष्टप्राप्तिरिच्छानिवृत्तेरुचितत्वात्। आधिभवा व्याधयोऽपि आधिक्षये सति क्षीयन्ते।।
आत्मज्ञानं विना सारो नाधिर्नश्यति राघव।
यथा रज्ज्ववबोधेन विना सर्पो न नश्यति।।[6-9-94]
आत्मेति।। सारस्त्वाधिः आत्मज्ञानं विना न नश्यति अविद्यामयत्वात्।।
अनाधिजा व्याधयस्तु द्रव्यमन्त्रशुभक्रमैः।
चिकित्सकादिशास्त्रोक्तैर्नश्यन्ति त्वं च वेत्सि तत्।।[6-9-95]
राम उवाच।।
आधिः कथं भवेद्व्याधिः कथं च विनश्यति।
इति मे भगवन्ब्रूहि प्रसन्नपदया गिरा।।[6-9-96]
अनाधीति।। द्रव्याणि कल्ककषायादिरूपाणिः मन्त्रा आरोग्यहेतवः सौरादयः। शुभक्रमाः देवब्राह्मणसंतर्पणादयः।।[6-9-95,96]
वसिष्ठ उवाच।।
चित्ते विधुरिते देहः संक्षोक्षमुपयाति हि।
तथाहि रुषितो जन्तुरग्रमेव न पश्यति।।[6-9-97]
चित्त इति श्लोकषट्कं वाक्यम्।। चित्ते विधुरिते विक्षिप्ते सति देहः संक्षोभमनुयाति। चित्तायत्तं धातुबद्धं शरीरमित्येतदुपपादयन्नाह-तथाहीति। रुषितः कुपितो जन्तुरग्रं पुरोभागमेव न पश्यति किमुतान्यद्वस्त्विति शेषः।।
अनवेक्ष्य पुरोमार्गममार्गमनुदावति।
प्रकृतं मार्गमुत्सृज्य शरार्तो हरिणो यथा।।[6-9-98]
तथा पुरोमार्गमनपेक्ष्य अमार्गमकार्यमेवानुधावति शरेण विद्धो हरिण इव।।
संक्षोभात्साम्यमुत्सृज्य वहन्ति प्राणवायवः।
असमे वहति प्राणे नाड्यो यान्ति विसंस्थितिम्।।[6-9-99]
ततश्च देहस्थसप्तधातुमयस्य संक्षोभात्प्राणवायवः साम्यमुत्सृज्य विषमं वहन्ति। प्राणे विषमं वहति सति नाड्यो विसंस्थितिं विषमां स्थितिं यान्ति।।
असम्यक्संस्थिते भूपे यता वर्णाश्रमक्रमः।
कुजीर्णत्वमजीर्णत्वमतिजीर्णत्वमेव वा।।[6-9-100]
एवं नाडीनां प्राणानां च विपर्ययाद्वैषम्याद्धेतोरन्नमुपभुक्तं दोषायैव दोषोद्रेकं कर्तुं कुजीर्णत्वमजीर्णत्वमेव वा प्रयाति।।
दोषायैव प्रयात्यन्नं नाडीप्राणविपर्ययात्।
यान्यन्नानि विरोधेन तिष्ठन्त्यन्तःशरीरके।।[6-9-101]
एवं यान्यन्नानि शरीरे विरोधेन कुजीर्णत्वादिरूपेण तिष्ठन्ति तान्येव चान्नानि परिणामस्वभावतः विपाकवशाद्व्याधिरूपतां यान्ति।।
तान्येव व्याधितां यान्ति परिणामस्वभावतः।
एवमाधेर्भवेद्व्याधिराधिनाशाच्च नश्यति।
यथा मन्त्रैर्विनश्यन्ति व्याधयस्तं क्रमं शृणु।।[6-9-102]
एवमुक्तेन प्रकारेणाधेर्व्याधिर्भवेत् तन्नाशाच्च नश्यति। यथा व्याधयो मन्त्रैर्यथारोग्यहेतुभिर्विनश्यन्ति तं च क्रमं वक्ष्यामि शृण्वित्यन्वयः।।
यथा विरेकं कुर्वन्ति हरीतक्यः स्वभावतः।
भावनावशतः कार्यं तथा यरलवादयः।।[6-9-103]
यथेति।। हरीतक्यः हरीतकीफलानि यथा स्वभावादेव विरेकं मलमोचनं कुर्वन्ति तथैव यरलवादयो मन्त्रवर्णा भावनावशतः आरोग्यसमुचितध्यानवशाद्रोगनिवृत्तिरूपं कार्यं कुर्वन्ति।।
शुद्धया पुण्यया साधो क्रियया साधुसेवया।
मनः प्रयाति नैर्मल्यं निकषेणेव काञ्चनम्।।[6-9-104]
तत्तत्फलोपजननीत्यपि भावनैवेति न्यायात्। आधिनाशात्तज्जन्यो व्याधिर्नश्यतीत्युक्तं तत्कथमित्याकाङ्क्षायां तत्प्रकारमाह-शुद्धयेति श्लोकत्रयं वाक्यम्।। शुद्धया निर्दोषया पुण्यया क्रियया शिवार्चनादिरूपया साधुसेवया महापुरुषशुश्रूषया च पापक्षये सति मनो नैर्मल्यं प्रयाति निकषेण घर्षणेन काञ्चनमिव।।
आनन्दो वर्धते देहे शुद्धे चेतसि राघव।
पूर्णेन्दावुदिते सम्यङ्नैर्मल्यं भुवने यथा।।[6-9-105]
ततश्चेतसि शुद्धे सति देहे आनन्दः सुखं वर्धते। पूर्णेन्दावुदिते सति भुवने नैर्मल्यं प्रकाश इव।।
सत्त्वशुद्धौ वहन्त्येते क्रमेण प्राणवायवः।
जरयन्ति तथान्नानि व्याधिस्तेन विनश्यति।।[6-9-106]
तथा सत्त्वशुद्धौ चित्तनैर्मल्ये सति प्राणवायवः क्रमेणैव वहन्ति। तथा साम्येन वहन्तः सन्तोऽन्नानि जरयन्ति। तेनान्नानां जरणेन व्याधिर्विनश्यति।।
आधिव्याध्योरिति प्रोक्तौ नाशोत्पत्तिक्रमौ त्वयि।
कुण्डलिन्यां कथायोगमधुना प्रकृतं शृणु।।[6-9-107]
आधीति।। आधिव्याध्योर्नाशोत्पत्तिक्रमौ नाशक्रम उत्पत्तिक्रमश्चेति पूर्वोक्तप्रकारेण प्रोक्तौ। अधुना प्रकृतं कुण्डलिन्यां कुण्डलिनिविषयं कथायोगं कथ्यमानं योगं शृणु।।
पुर्यष्टकापराख्यस्य जीवस्य प्राणनामिकाम्।
विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरीम्।।[6-9-108]
पुरीति।। अन्तःकुण्डलिनी पूर्वोक्ता। पुर्यष्टकापराख्यस्य पुर्यष्टकमित्यपरा आख्या यस्य जीवस्य प्राणनामिकां प्राणभूतां विद्धि। आमोदस्य मञ्जरीमिव। यथा हि मञ्जर्यां सत्यामेवामोदः प्राणिति तथा कुण्डलिन्यां सत्यामेव जीव इति भावः।।
तां यदा पूरकाभ्यासादापूर्य स्थीयते समम्।
तदैति मैरवं स्थैर्यं कायस्य पीनतां तथा।।[6-9-109]
तामिति।। यदा पूरकाभ्यासात् पूरकाभ्यासवशाद्धेतोः तां कुण्डलिनीमापूर्य समं निर्विकारं स्थीयते तदा मैरवं मेरुसंबन्धि स्थैर्यं स्थिरत्वं कायस्य पीनतां स्थौल्यं चैति प्राप्नोति। तादृक् पूरकाभ्यासे कायो मेरुरिव स्थितः स्थूलश्च भवतीत्यर्थः।।
यदा पूरकपूर्णान्तरायतप्राणमारुतम्।
नीयते संविदेवोर्ध्वं सोढुं घर्मश्रमक्लमम्।।[6-9-110]
यदेति श्लोकत्रयं वाक्यम्।। यदा तु सा कुण्डलिनी पूरकपूर्णान्तरायतप्राणमारुतं पूरकैः पूर्णः अन्तरायतो दीर्घश्च प्राणमारुतो यस्मिन्कर्मणि तद्यथा भवति तथा संविदा ऊर्ध्वं गतिभावनया ऊर्ध्वमुपरितनाकाशदेशं नीयते घर्मश्रमक्लमं सोढुमिव। तथाहि केनचिद्धर्मश्रान्तेन कुत्रचिच्छायायां श्रमापनोदनाय शीताख्यं कुम्भकमभ्यस्तता पूरकपूर्णान्तरायतप्राणं यथा तथा कुण्डलिन्यूर्ध्वं नीयते तद्वदित्यर्थः।।
सर्पीव त्वरितैवोर्ध्वं याति दण्डोपमां गता।
नाडीः सर्वाः समादाय देहबद्धा लतोपमाः।।[6-9-111]
तदा सा कुण्डलिनी सर्पीव भुजङ्गमीव दण्डोपमां गता सती देहबद्धाः सर्वा नाडीर्लता इव समादाय त्वरिता इवोर्ध्वं याति।।
तदा समस्तमेवेदमुत्प्लावयति देहकम्।
नीरन्ध्रपवनापूर्णा भस्त्रेवाम्बुगता नरम्।।[6-9-112]
तदा चेदं देहकं समस्तमेवोत्प्लावयति उद्गमयति। नीरन्ध्रपवनापूर्णा नीरन्ध्रं यथा तथा पवनेनापूर्णा भस्त्रा चर्मप्रसेविका अम्बुगतासती नरं यथोत्प्लावयति तद्वदित्यर्थः।।
इत्यभ्यासविलासेन योगेन व्योमगामिताम्।
योगिनः प्राप्नुवन्त्युच्चैर्दीना इन्द्रदशामिव।।[6-9-113]
इतीति।। इत्यभ्यासविलासेन ईदृशाभ्यासविशेषवता योगेन योगिनो व्योमगामितां प्राप्नुवन्ति। दीना दरिद्रा इन्द्रदशामिन्द्रपदमिवेत्यन्वयः।।
ब्रह्मनाडीप्रवाहेण शक्तिः कुण्डलिनी यदा।
बहिरूर्ध्वं कपाटस्य द्वादशाङ्गुलमूर्धनि।।[6-9-114]
रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना।
मुहूर्तं स्थितिमाप्नोति तदा व्योमगदर्शनम्।।[6-9-115]
ब्रह्मनाडीति श्लोकद्वयं वाक्यम्।। यदा सा कुण्डलिनीरूपा प्राणशक्तिः ब्रह्मनाडीप्रवाहेण सुषुम्नान्तःप्रवाहेण ऊर्ध्वं कपाटस्य ब्रह्मरन्ध्रस्य बहिर्भागे द्वादसाङ्गुलमूर्धनि द्वादशाङ्गुलपरिमितस्याकाशदेशस्योपरिभागे नाडीशतनिरोधिना सर्वानाडीनिरोधकेन प्रयोगेण रेचकाभ्यासरूपेण प्रकृष्टेन योगेन मुहूर्तमात्रं स्थितिमवस्थां प्राप्नोति तदा तस्मिन्काले व्योमगदर्शनं सिद्धविद्याधरादीनां खेचराणां दर्शनं भवति।।[6-9-114,115]
दृश्यन्ते व्योमगाः सिद्धाः स्वप्नवत्स्वार्थदा अपि।।[6-9-116]
दर्शनप्रकारमेवाह-विज्ञानेति।। विज्ञानादूरसंस्थेन विज्ञानं स्वरूपचैतन्यं तस्माददूरसंस्थेन सन्निकृष्टेन अतश्चैतन्यसंक्रान्त्या प्रकाशकेन बुद्धिनेत्रेण चक्षुषा व्योमगाः सिद्धाः स्वप्नदशायामिव दृश्यन्ते। न केवलं दर्शनमात्रं स्वार्थदा अपि स्वापेक्षितामणिमादिसिद्धिं च प्रयच्छन्तीत्यर्थः।।
मुखाद्बहिर्द्वादशान्ते रेचकाभ्यासयुक्तितः।
प्राणे चिरं स्थितिं नीते प्रविशत्यपरां पुरीम्।।[6-9-117]
परपुरप्रवेशप्रकारमाहमुखादिति।। मुखाद्वक्त्राद्बहिः द्वादशान्ते द्वादशाङ्गुलपरिमिताकाशदेशपर्यन्ते रेचकाभ्यासयुक्तितो रेचकाभ्यासरूपाद्योगविशेषाद्धेतोः प्राणे प्राणवायौ चिरं स्थितिं नीते सति अपरां पुरीं देहान्तरं प्रविशति। परकायप्रवेशसिद्धिर्भवतीत्यर्थः।।
राम उवाच।।
सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा।
अणुतां स्थूलतां वापि कायोऽयं नीयते कथम्।।[6-9-118]
सूक्ष्मेति।। सूक्ष्मच्छिद्रादिगत्यर्थं गमनसिद्धये खस्याकाशस्य पूरणार्थं व्याप्त्यर्थं वा अयं कायः अणुतां स्थूलतां वापि कथं नीयते कायस्यैकत्वात्परिणामभेदे च भेदप्रसङ्गादिति भावः।।
वसिष्ठ उवाच।।
एकं चिन्मात्रमस्तीह शुद्धसौम्यमलेपकम्।
सूक्ष्मात्सूक्ष्मतरं शान्तं नो जगन्न जगद्गताः।।[6-9-119]
एकमिति।। चिन्मात्रमेकमेवास्ति। जगद्गताः पदार्थसमृद्धयोऽपि नो सन्ति।।
तच्चिनोत्यात्मनात्मानं संकल्पोन्मुखतां गतम्।
यदा तदा जीव इति प्रोक्तमाविलतां गतम्।।[6-9-120]
तदिति।। तच्चिन्मात्रं वस्तु संकल्पोन्मुखतां गतं सत् यदा आत्मनैवात्मानं चिनोति उपचितं करोति। परिच्छिन्नमिति यावत्। तदा आविलतां कलुषतां गतं जीव इति प
्रोक्तम्।।
असत्यमेव संकल्पभ्रमेणेदं शरीरकम्।
जीवः पश्यति मूढात्मा बालो यक्षमि वोद्धतम्।।[6-9-121]
असत्यमिति।। मूढात्मा जीवः स्वसंकल्पभ्रमेण बालो यक्षमिव असत्यमेवेदं शरीरं पश्यति।।
एवं हि विदितात्मानो भावयन्ति यथैव यत्।
तत्तथैवानुपश्यन्ति दृढभावनया तया।।[6-9-122]
एतमिति।। एवं सति विदितात्मानो निश्चितात्मानः पुरुषाः यद्वस्तु यथैव भावयन्ति तथा दृढभावनया तद्वस्तु तथैवाशु पश्यन्ति।।
दृढभावानुसंधानाद्विमूढा अपि राघव।
विषं नयन्त्यमृतताममृतं विषतामपि।।[6-9-123]
दृढेति।। मूढा आत्मज्ञानरहिता अपि दृढभावनानुसंधानाद्भावो भावना दृढभावनायाः सान्तत्याद्विषं दुऋखोदर्कं निषिद्धं कर्म अमृततां नयन्ति। अमृतं विहितं कर्म विषतां दुःखहेतुतां नयन्ति।।
एवं यथावदेवेह भाव्यते दृढभावनात्।
भूयते हि तदेवाशु तदित्यालोकितं मुहुः।।[6-9-124]
सत्यभावेन दृष्टोऽयं देहोऽदेहो भवत्यलम्।
दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः।।[6-9-125]
एवमिति।। एवं यद्वस्तु यथा भाव्यते तेन तथैव भूयते। अनुभूत इत्यर्थः। तदेतदर्थस्वरूपं मुहुरालोकितम्। विचारितमित्यर्थः।।[6-9-124,125]
अणिमादिपदप्राप्तौ भावनायुक्तिरीदृशी।
सुलभेयं महाबुद्धे योगसंसिद्धिसंविदाम्।।[6-9-126]
अणिमादीति।। योगसंसिद्धिसंविदां योगे पवनजये संसिद्धा दृढं परिचया संविद्येषां तेषां अणिमादिपदप्राप्तावपि इदृशी इयं भावनायुक्तिः। सुलभा अणुत्वभावनायामणिमा महत्त्वभावनायं महिमेत्येवमणिमादिसाधिकापि युक्तिः सुखेन लभ्यत इत्यर्थः।।
अणिमादिगुणैश्वर्ययुक्ता सा नृपभामिनी।
एवं बभूव चूडाला घनाभ्यासवती सती।।[6-9-127]
अणिमेति।। सा चूडाला एवं घनाभ्यासवती सती अणिमादिगुणैश्वर्ययुक्ता बभूवेत्यन्वयः।।
जगामाकाशमार्गेण विवेशाम्बुधिकोटरम्।
चचार वसुधापीठं गङ्गेवामृतशीतला।।[6-9-128]
जगामेति।। सा गङ्गेव लोकत्रयेऽपि स्वैरं विजहारेत्यर्थः। तत्राम्बुधिकोटरप्रवेशेन पातालगमनमुच्यते।।
क्षणमप्यागता भर्तुर्वक्षस्युच्चैर्यदा तदा।
भर्तारं बोधयामीति तदुपायमवेक्षते।।[6-9-129]
यत्नेन तं च भर्तारमात्मज्ञानामृतं प्रति।
बहुशो बोधयामास पिता बालमिवात्मजम्।।[6-9-130]
क्षणमिति।। सा चूडाला भर्तुर्वक्षस्यालिङ्गनार्थं क्षणमपि यदा गता तदा भर्तारं बोधयामीति बुद्ध्या तदुपायं तद्बोधनोपायमेवावेक्षते विचारयति न पुनरालिङ्गनादिकमपेक्षते। विषयसुखेष्वनादरादिति भावः।।[6-9-129,130]
न चासावापतद्भर्ता राजा विश्रान्तिमात्मनि।
मुक्ताफलं सुसंक्लिष्टं मुक्ताफल इवामलम्।।[6-9-131]
न चासावापतद्भर्ता राजा विश्रान्तिमात्मनि।
मुक्ताफलं सुसंक्लिष्टं मुक्ताफल इवामलम्।।[6-9-132]
साप्यलब्धात्मविश्रान्तेः स्वां सिद्धिं श्रियमात्मनः।
दर्शयामास नो राज्ञः शूद्रस्येव मखक्रियाम्।।[6-9-133]
राव उवाच।।
महत्याः सिद्धयोगिन्यास्तस्या अपि शखिध्वजः।
यत्नेन प्राप नो योगं बुध्यतेऽन्यः कथं प्रभो।।[6-9-134]
न चेति।। मुक्ताफलममले मुक्ताफले सुसंक्लिष्टमपि यथा विश्रान्तिं नापतति तथासौ राजा आत्मनि विश्रान्तिं नापतत्। असंक्लिष्टमिति पाठे मुक्ताफलं असंक्लिष्टं सत् यथा विश्रान्तिं नापतति तद्वदिति भावः।।[6-9-131,132,133,134]
वसिष्ठ उवाच।।
उपदेशक्रमो राम व्यवस्थामात्रपालनम्।
ज्ञप्तेस्तु कारणं शुद्धा शिष्यप्रज्ञैव केवला।।[6-9-135]
उपदेशेति।। उपदेशक्रमः गुरूपदेशरूपः उपायः व्यवस्थामात्रपालनं व्यवस्था ज्ञानशास्त्रोक्ता मर्यादा तन्मात्रस्यैव पालनम्। ज्ञप्तेरात्मसाक्षात्कारस्य तु शुद्धा शिष्यप्रज्ञैव कारममिति।।
नवमे किराटोपाख्यानम्।
राम उवाच।।
"एवंस्थिते वद मुने कथमेतज्जगत्स्थितौ।
क्रमो गुरूपदेशाख्य आत्मज्ञानस्य कारणम्।।[6-9-136]
एवमिति।। एवंस्थिते सति जगत्स्थितौ लोकव्यवहारेषु गुरुपदेशाख्यः क्रमः आत्मज्ञानस्य कारणमित्येतत्कथं केन प्रकारेण तं प्रकारं वदेत्यर्थः।।
वसिष्ठ उवाच।।
अत्यन्तकृपणः कश्चित्किराटो धनधान्यवान्।
आस्ते विन्ध्याटवीकच्छे कुटुम्बी ब्राह्मणादिवत्।।[6-9-137]
अत्यन्तेति।। किराटो वैश्यः किरति धनलाभार्थं अटति पुनः प्राप्नोति च तद्द्विगुणत्रिगुणादिरूपेणेति व्युत्पत्तेः। वैश्यविडम्बने `किराटः कटसंनिभ' इति वचनात्। किरात इति तु न पाठः धनधान्यवत्त्वस्य ब्राह्मणादिवत् कुटुम्बित्वस्य दिनत्रयमरण्ये कपर्दिकान्वेषणस्य च किरातं प्रत्यनौचित्यात्।।
तस्यैकदा निपतिता गच्छतो विन्ध्यजाङ्गले।
एका वराटिका राम तृणजालसमावृते।।[6-9-138]
तस्येति।। विन्ध्यजाङ्गले जङ्गलमरण्यप्रायोदेशः। जाङ्गलं इति पाठे अल्पोदकं स्वल्पतरुस्थलम्। वराटिका कपर्दिका।।
कार्पव्यात्स प्रयत्नेन सर्वं तृणबुसादिकम्।
कपर्दिकार्थमभितो दुधाव दिवसत्रयम्।।[6-9-139]
कार्पण्यादिति।। कृपणस्य भावः कार्पण्यम्। लोभातिशय इत्यर्थः। नृणबुसादिकं बुसं कडङ्गरः। कपर्दिकार्थं पतितां वराटिकामन्वेष्टुम्।।
ततो दिनत्रयस्यान्ते तेन तस्मात्कुजाङ्गलात्।
पुर्णोन्दुबिम्बप्रतिमो लब्धश्चिन्तामणिर्महान्।।[6-9-140]
तत इति।। कुजाङ्गलात्कुत्सितादरण्यप्रदेशात्।।
यथा तत्र किराटेन कपर्दान्वेषणेन तत्।
रत्नं लब्धं जगन्मूल्यमहोरात्रमखेदिना।।[6-9-41]
तथा श्रुतोपदेशेन स्वात्मज्ञानमवाप्यते।
अन्यदन्विष्यते चान्यल्लभ्यते हि गुरुक्रमात्।।[6-9-42]
यथेति श्लोकद्वयं वाक्यम्।। यथाहि किराटेन कपर्दान्वेषणाय यज्जगन्मूल्यं रत्नं लब्धं तथा गुरोः श्रुतोपदेशेन शिष्येण स्वात्मज्ञानमवाप्यते। हि यस्मात्कारणात् गुरुक्रमात् गुरूपदिष्टादुपायाद्धेतोः। अन्यदुपहितं वस्त्वन्विष्यते मार्ग्यते अन्यदनुपहितं वस्तु च लभ्यते साक्षात्क्रियते।।[6-9-141,142]
तत्त्वस्यास्य महार्घस्य गुरूपकथनं गतम्।
अकारणं कारणतां मणेरिव कपर्दिकः"।।6-9-143]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे नवमसर्गे किराटोपाख्यानम्।।
तत्त्वस्येति।। महाघस्य बहुमूल्यस्य अस्य तत्त्वस्य तत्त्वज्ञानस्य गुरूपकथनं गुरूपदेशः अकारणं साक्षादकारणमपि मणेः कर्पदिकं इव परम्परया कारणतां गतम्।।
इति श्रीवासिष्ठविवरणे निर्वाणप्रकरणे नवमः सर्गे किराटोपाख्यानम्।।
ततः शिखिध्वजो राजा तत्त्वज्ञानपदं विना।
आजगाम परं मोहं तमोऽन्धत्वमिव प्रजाः।।[6-9-144]
दुःखाग्निदीपितमना मनागपि विभूतिषु।
तास्वभीष्टोपनीतासु न रेमेऽग्निशिखास्विव।।[6-9-145]
ददावतितरां दानं तीर्थयात्रां चकार ह।
तपः कृच्छ्रादिकं चक्रे बभ्राम परितो दिशः।।[6-9-146]
सर्वथापि विशोकत्वं न मनागपि लब्धवान्।
चिन्तापरवशो दीनो राज्यं पश्यन्विषोपमम्।।[6-9-147]
अथैकदैकान्तगतश्चूडालामङ्कमास्थिताम्।
इदं मधुरया वाचा समुवाच शिखिध्वजः।।[6-9-148]
शिखिध्वज उवाच।।
भुक्तं राज्यं चिरं कालं दृष्टा विभवभूमयः।
अधुनास्मि विरागेण युक्तो गच्छामि काननम्।।[6-9-149]
तत इति।। तत्त्वज्ञानपदं विना तत्त्वज्ञानरूपस्य विश्रान्तिपदस्याभावादित्यर्थः। तमोऽन्धत्वम्। प्रजा जनाः।।[6-9-144,145,146,147,148,149]
न सुखानि न दुःखानि नापदो न च संपदः।
क्रोडीकुर्वन्ति तन्वङ्गि मुनिं वननिवासिनम्।।[6-9-150]
नेति।। क्रोडिकुर्वन्ति स्वाधीनं कुर्वन्ति।।
न देशभङ्गसंमोहो न संग्रामे जनक्षयः।
राज्यादप्यधिकं मन्ये सुखं वननिवासिनाम्।।[6-9-151]
यथा विविक्तमेकान्ते मनो भवति निर्मलम्।
न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु।।[6-9-152]
अस्मिन्मे मन्त्रणे तन्वि न विघ्नं कर्तुर्महसि।
भर्तुर्विघटयन्तीच्छां न स्वप्नेऽपि कुलस्त्रियः।।[6-9-153]
चूडालोवाच।।
प्राप्तकालमिदं कार्यं राजते नाथ नेतरत्।
वसन्ते राजते पुष्पं फलं शरदि राजते।।[6-9-154]
जराजरठदेहानां युक्तो वनसमाश्रयः।
न यूनां त्वादृशामेव तेनैतन्मे न रोचते।।[6-9-155]
शिखिध्वज उवाच।।
अलमुत्पलपत्राक्षि विघ्नेनाभिमतस्य मे।
विद्धि त्वं मां गतमितो दूरमेकान्तकाननम्।।[6-9-156]
बाला त्वमनवद्याङ्गि नागन्तव्यं त्वया वनम्।
पुंसामपि हि मृद्वङ्गि दुर्विगाह्यो वनाश्रयः।।[6-9-157]
भवत्या पालयन्त्येह राज्ये स्थातव्यमुत्तमे।
कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः।।[6-9-158]
वसिष्ठ उवाच।।
इत्युक्त्वा दयितां राजा तामिन्दुवदनां वशी।
उत्तस्थौ स्नातुमखिलं दिनकार्यं चकार ह।।[6-9-159]
अथोत्झितप्रजाचारो रविरस्ताचलं ययौ।
यामिनी यौवनं प्राप सरोसमुकुलस्तनी।।[6-9-160]
कृतसंध्यासमाचारः सहचूडालयेष्टया।
सुष्वाप शयने भूयो मौनाक इव सागरे।।[6-9-161]
अथार्धरात्रिसमये देशे निःशब्दतां गते।
घननिद्राशिलाकोशे निलीने सकले जने।
तत्याज दयितां सुप्तामङ्काद्राजाथ निर्ययौ।।[6-9-162]
नेति।। वानवासिनां देशभङ्गसंमोहो नास्ति न संग्रामे जनक्षयः युद्धनिमित्तः प्राणिनां संक्षयो नास्ति। अतश्च वननिवासिनां सुखं राज्यसुखादप्यधिकं मन्ये।।[6-9-151,152,153,154,155,156,157,158,159,160,161,162]
वीरक्रमार्थं यामीति तत्रैवानुचरं निजम्।
योजयित्वा जगामासौ पुरान्निर्गत्य पूर्णधीः।।[6-9-163]
जडे लक्ष्मि नमस्तुभ्यमित्युक्त्वा मण्डलाद्गतः।
विवेशोग्रामरण्यानीमेको नद इवार्णवम्।।[6-9-164]
पुनः प्रातः पुना रात्रिरुषित्वा दश शर्वरीः।
जवेन लङ्घयामास मण्डलानि गिरीन्नदीः।।[6-9-165]
वीरेति।। वीरक्रमार्थं वीरचर्यार्थम्।।[6-9-163,164,165]
ततो मन्दरशैलस्य तटस्थं जनदुर्गमम्।
प्राप काननमत्यन्तदूरस्थजनतापुरम्।।[6-9-166]
रटत्प्रणालसलिलावापीवलितपादपम्।
शीर्णवेद्यादिविज्ञानभूतपूर्वद्विजाश्रमम्।।[6-9-167]
क्षुद्रप्राणिविनिर्मुक्तं सिद्धसेव्यलतागृहम्।
तत्रैकस्मिन्समे देशे स चकारोटजालयम्।
सर्वं संपादितं तद्वद्योग्यं तापसकर्मणि।।[6-9-168]
तत इति श्लोकद्वयं वाक्यम्।। अत्यन्तदूरस्था जनता जनसमूहः पुराणि च यस्माद्रटन्ति ध्वन्ति प्रणालसलिलानि कुल्याजलानि यासां ताभिर्वापीभिर्दीर्घिकाभिर्वलिताः पादपा यस्मिन्। शीर्णैः शिथिलितैः वेद्यादिभिः वेदिकापर्णशालादिभिः विज्ञाता भूतपूर्वाः पूर्वंभूताः द्विजानां आश्रमा यस्मिंस्तत्तादृशं मन्दराशैलस्य तटस्थं काननं प्रापेत्यन्वयः।।[6-9-166,167,168]
मसृणं वैणवं दण्डं फलभोजनभाजनम्।
अर्घ्यपात्रं पुष्पभाण्डमक्षमालां कमण्डलुम्।।[6-9-169]
कन्थां शीतापनोदाय बृसीमथ मृगाजिनम्।
आनीयायोजयत्तत्र मणिकामन्दरे नृपः।।[6-9-170]
मसृणमिति श्लोकद्वयं वाक्यम्।। मसृणं स्निग्धम्।। बृसीम् व्रतिनामासनरूपं मृगाजिनमित्यर्थः।।[6-9-169,170]
संध्यापूर्वं जपं प्रातः प्रहरे स तदाकरोत्।
पुष्पोच्चयं द्वितीये तु स्नानं देवार्चनं ततः।।[6-9-171]
पश्चाद्वन्यं फलं किंचिद्वनकन्दबिसादि च।
भुक्त्वा जप्यपरो भूत्वा निनायैकां निशां वशी।।[6-9-172]
तस्य दिनचर्यामाह-संध्यामिति श्लोकद्वयं वाक्यम्।। प्रहरे यामे।।[6-9-171,172]
एवं शिखिध्वजः पर्णमठिकायां वने स्थितः।
इदानीं शृणु चूडाला सा किंवृत्तवती गृहे।।[6-9-173]
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे।
हरिणी ग्रामसुप्तेना चूडाला बुबुधे भयात्।।[6-9-174]
अपश्यत्पतिनिर्हीना शयनं शून्यतां गतम्।
उत्तस्थौ किंचिदाम्लानवदना खेदशालिनी।।[6-9-175]
कुमित्रेव महावल्ली निरुत्साहाङ्गपल्लवा।
क्षणं शय्योपविष्टैव चिन्तयामास खिन्नधीः।
कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति।।[6-9-176]
एवमिति।। किंवृत्तवती कीदृशचरित्रयुक्ता।।[6-9-173,174,175,176]
तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम्।
भर्तैव गतिरूद्दिष्टा विधिना प्रकृता स्त्रियाः।।[6-9-177]
इति संचिन्त्य भर्तारमनुगन्तुं समुत्थिता।
चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ।।[6-9-178]
तदिति श्लोकद्वयं वाक्यम्।। विधिना शास्त्रेण स्त्रियाः भर्तैव प्रकृता न्याय्या गतिरुद्धिष्टा। वातरन्ध्रेण गवाक्षेण।।[6-9-177,178]
चकार सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम्।
ददर्शाथ यथा यान्तं रात्रौ खड्गधरं पतिम्।।[6-9-179]
चकारेति।। मुखेन स्वमुखेन सिद्धसार्थस्य सिद्धसङ्घस्यान्येन्दुविभ्रमं अन्योऽयमिन्दुरिति भ्रान्तिः।।
तादृशं पतिमालोक्य स्थित्वा गगनकोटरे।
भविष्यं चिन्तयामास सर्वं भर्तुरखण्डितम्।।[6-9-180]
अवश्यं भवितव्यं तद्दृष्ट्वा भर्तुः पुरःस्थितम्।
तदेव संपादयितुं गगनात्सा न्यवर्तत।।[6-9-181]
आस्तां ममाद्य गमनं कालेनातिचिरेण हि।
मयास्य पार्श्वं गन्तव्यं नियतेरेष निश्चयः।।[6-9-182]
इति संचिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः।
सुष्वाप शयने कान्ता नभसीवैन्दवी कला।।[6-9-183]
केनचित्कारणेनासौ गतः संप्रति भूपतिः।
इति पौरजनं सर्वमाश्वास्यातिष्ठदङ्गना।।[6-9-184]
राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शिनी।
जगामाथ दिनं पक्षो मासः संवत्सरस्तथा।।[6-9-185]
बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना।
चूडालोवास सदने वनं याते शिखिध्वजे।।[6-9-186]
भर्तुः समीपगमने मम कालोऽयमित्यथ।
संचिन्त्य मन्दरप्रातं गन्तुं बुद्धिं चकार सा।।[6-9-187]
चचालान्तःपुराद्रात्रौ ततार नभसः पथम्।
जगाम वातस्कन्धेन प्राप मन्दरकन्दरम्।।[6-9-188]
अदृश्यैव नभस्थैव प्रविवेश वनान्तरम्।
नृपं योगेन बुबुधे देहान्तरमिवास्थिरम्।।[6-9-189]
हारकेयूरकटककुण्मडलादिविवर्जितम्।
कृशाङ्गं कृष्णवर्णं च पतिं जर्जरतां गतम्।।[6-9-190]
तमालोक्यानवद्याङ्गीं चूडाला पीवरस्तनी।
किंचिज्जातविषादैवमुवाचात्मनि चेतसा।।[6-9-191]
अहो नु विषमं मौर्ख्यं सर्वशास्त्रार्थदर्शिनः।
एवंविधाः समायान्ति दुर्दशा यत्प्रमादतः।।[6-9-192]
तदवश्यमिहाद्यैव नाथं विदितवेद्यताम्।
नयाम्येनं न संदेहो भोगमोक्षश्रियं तथा।।[6-9-193]
इदं रूपं परिज्यज्य रूपेणान्येन केनचित्।
सकाशमस्य गच्छामि बोधं दातुमनुत्तमम्।।[6-9-194]
बालेयं मम कान्तेति मदुक्तं न करिष्यति।
तस्मात्तापसवेषेण बोधयामि पतिं क्षणात्।।[6-9-195]
तादृशमिति।। भविष्यं भाविभर्तः सर्वं शुभाशुभं अखण्डितमशेषं चिन्तयामास।।[6-9-180,181,182,183,184,185,186,187,188,189,190,191,192,193,194,195]
भर्ता कषायपाकेन परिपक्वमतिः स्थितः।
चेतस्यस्याद्य विमले स्वतत्त्वं प्रतिबिम्बति।।[6-9-196]
भर्तेति।। कषायपाकेन कषाया रागादयः तेषां पाको निषिद्धवर्जनेन विहिते प्रवृत्तिः तेन।।
इति संचिन्त्य चूडाला बभूव द्विजदारकः।
ईषद्ध्यानाद्गतान्यत्वं भर्तुरग्रे पपात ह।।[6-9-197]
इतीति।। द्विजदारकः द्विजपुत्रकः। ईषद्ध्यानात् अल्पादेव ध्यानात् अन्यत्त्वं रूपान्तरम्।।
ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः।
द्रवत्कनकगौराङ्गं मुक्ताहारविभूषणम्।।[6-9-198]
शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम्।
भूमावलग्नचरणं किष्कुमात्रोपरि स्थितम्।।[6-9-199]
तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः।
देवपुत्रागमधिया संपरित्यक्तपादुकः।।[6-9-200]
देवपुत्र नमस्कार इदमासनमास्यताम्।
इत्यस्य दर्शयामास पाणिना पत्रविष्टरम्।।[6-9-201]
हे राजर्षे नमस्तुभ्यमित्युक्त्वा स उपाविशत्।
तदर्पितां पुष्पवृष्टिं गृह्णन्नुपविवेश ह।।[6-9-202]
शिखिध्वज उवाच।।
देवपुत्र महाभाग कुत आगमनं कृतम्।
दिवसं सफलं मन्ये यत्त्वामद्यास्मि दृष्टवान्।।[6-9-203]
इत्युक्त्वा पाद्यमर्घ्यं च मालापुष्पाणि चानघ।
शिखिध्वजस्तदिष्टायै देवतायै ददौ क्रमात्।।[6-9-204]
ब्राह्मण उवाच।।
पेशलेनानुरूपेण प्रश्रयेणामुनानघ।
मन्येऽहं नूनमत्यन्तं चिरजीवी भविष्यसि।।[6-9-205]
किष्कुमात्रोपरि स्थितं भूमिं मुक्त्वा हस्तमात्रादुपरि वर्तमानम्।।[6-9-198,199,200,201,202,203,204,205]
शान्तेन मनसोदारमारादुन्मुक्तकल्पनम्।
निर्वाणार्थं तपः साधो कच्चित्संभृतवानसि।।[6-9-206]
शान्तेनेति।। आराद्दूरादेव उन्मुक्तकल्पनं यथा तथा शान्तेन मनसा निर्वाणार्थं उदारं महत्तपः संभृतवानसि कच्चित्।।
असिधारासमं सौम्य शान्तव्रतमिदं तव।
स्फीतं यद्राज्यमुत्सृज्य महावननिषेवणम्।।[6-9-207]
शिखिध्वज उवाच।।
जानासि भगवन्सर्वं देवस्त्वं कोऽत्र विस्मयः।
श्रियैव सर्वोत्तमया ज्ञायसे चिह्नभूतया।।[6-9-208]
तत्कस्त्वं कस्य पुत्रस्त्वं किमायातोऽस्यनुग्रहात्।
एवं मे संशयं छिन्धि विमलेन्दुसमानन।।[6-9-209]
ब्राह्मण उवाच।।
राजन्मे शृणु वक्ष्यामि यथा पृष्टमखण्डितम्।
को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान्।।[6-9-210]
अस्त्यस्मिञ्जगतः कोशे शुद्धात्मा नारदो मुनिः।
पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः।।[6-9-211]
स कदाचिन्मुनिर्देवो गुहायां ध्यानमास्थितः।
तत्र हेमतटे गङ्गा वहत्युरुतरङ्गिणी।।[6-9-212]
एकदा नारदमुनिर्ध्यानान्ते सरितस्तटे।
ध्वनद्वलयमश्रौषील्लीलाकलकलारवम्।।[6-9-213]
किमेतदित्यसौ किंचित्कौतूहलमवाप्तवान्।
हेलयालोकयन्नद्यामपश्यल्ललनागणम्।।[6-9-214]
रम्भातिलोत्तमाप्रायं नितान्तं जललीलया।
क्रीडान्तं त्यक्तवसनं देशे पुरुषवर्जिते।।[6-9-215]
सर्वत्र दृष्टसर्वाङ्गं विश्वरूपमिव स्थितम्।
प्रतिबिम्बितसर्वाङ्गमन्योन्यादर्शतां गतम्।।[6-9-216]
स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः।
अनाश्रितविवेकं तद्बभूवानन्दितं स्फुरन्।।[6-9-217]
आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते।
बभूव तस्य तुष्टस्य मदनस्खलितं तदा।।[6-9-218]
तादृशोऽपि बहुज्ञोऽपि जीवन्मुक्तोऽप्यसौ मुनिः।
कथमेवंविधां ब्रूहि प्राप्तो मदनवश्यताम्।।[6-9-219]
असिधारेति।। असिधारासमं असिधाराव्रततुल्यम्। तल्लक्षणं तु-`युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत्। अन्तर्निवृत्तसङ्गस्तदसिधाराव्रतं विदुः' इति। तत्सादृश्यं च संनिहितायामपि राज्यलक्ष्म्यां भोगसामर्थ्येऽपि भोगत्यागात्।।[6-9-207,208,209,210,211,212,213,214,215,216,217,218,219]
ब्राह्मण उवाच।।
राजन्मे शृणु वक्ष्यामि यथा पृष्टमखण्डितम्।
को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान्।।[6-9-220]
पूनश्चूडालावाक्यम्।। स्वरूप इति।। निर्मले सत्ये चात्मस्वरूपे निमेषमात्रमपि विस्मृते सति दृश्यं जगद्रुल्लासं प्रादुर्भावमाप्नोति।।
अनारतानुसंधानादप्युन्मेषमविस्मृते।
स्वरूपे नोल्लसत्येष चिति दृश्यपिशाचकः।।[6-9-221]
अनारतेति।। चिति चिन्मात्रस्वभावे स्वरूपेऽनारतानुसंधानाद्धेतोरुन्मेषमात्रमप्यविस्मृते सत्येव दृश्यरूपपिशाचक एष नोल्लसति न स्फुरति।।
सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः।
तदभावो हि मोक्षः स्यादिति द्वेधा व्यवस्थितिः।।[6-9-222]
सुखेति।। जीवस्य सुखदुःखकलास्पन्दः सुखदुःखलेशस्फुरणमेव बन्धः। तदभावः सुखदुःखकलास्पन्दाभाव एव मोक्षः स्यात्। इत्येवं द्विधा द्वयोर्बन्धमोक्षप्रकारयोः व्यवस्थितिर्निष्कर्षः। देधेति षष्ठीद्विवचनान्तम्।।
शुद्धेन बोध्यबोधेन स्वात्मज्ञानमयात्मना।
सुखदुःखादि नास्तीति ज्ञाते ज्ञो याति सौम्यताम्।।[6-9-223]
शुद्धेनेति।। स्वात्मज्ञानमयात्मना स्वस्वरूपज्ञानादभिन्नेन शुद्धेन बोध्यबोधेन बोध्यस्य ज्ञेयस्य परतत्त्वस्य बोधेन स्वरूपाभिन्नपरब्रह्मानुभवेन सुखदुःखादिकं नास्तीति ज्ञाते सति ज्ञः ज्ञानी सौम्यतां जीवन्मुक्ततां याति।।
सर्वमेव चिदाकाशं ब्रह्मेति घननिश्चये।
स्थितिं याते समं याति जीवो निःस्नेहदीपवत्।।[6-9-224]
सर्वमिति।। सर्वमेव जगत् चिदाकाशरूपं ब्रह्मैवेति घननिश्चये स्थितिं याते सति जीवभावः शमं याति।।
आत्मस्वभाववशतो जातं जगदिदं महत्।
स्थितिं वासनयाभ्येत्य धर्माधर्मवशे स्थितम्।।[6-9-225]
आत्मेति।। इदं जगदात्मस्वरूपं जातं वासनया स्थितिमभ्येत्य धर्माधर्मवशे कर्मपारतन्त्र्ये स्थितम्।।
वासनांशमपानीय धर्माधर्मैर्न गृह्यते।
ततो न जायते जन्तुरिति नो दर्शनं मुने।।[6-9-226]
शिखिध्वज उवाच।।
अत्युदारं महाश्चर्यं वक्षि त्वं वदतांवर।
अनुभूतिमुपारूढं रूढं च परमार्थवत्।।[6-9-227]
तद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर।
पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम्।।[6-9-228]
तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे।
ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव।।[6-9-229]
तेन पद्मजपुत्रेण मुनिना नारदेन तत्।
क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम्।।[6-9-230]
वासनामिति।। अन्तःकरणाद्वासनांशमपानीय धर्माधर्मैर्न गृह्यते न बद्ध्यते ततः कर्मबन्धाभावाज्जन्तुर्न जायते इति एवंविधं नोऽस्माकं दर्शनं सिद्धान्तः।।[6-9-226,227,228,229,230]
ब्राह्मण उवाच।।
ततो निबध्नता तेन मनोमत्तमतङ्गजम्।
विवेकविपुलालाने शुद्धबुद्धिवरत्रया।।[6-9-231]
मुनिना पार्श्वगे कुम्भे स्फाटिके वीर्यमर्पितम्।
संकल्पितेन क्षीरेण स कुम्भस्तेन पूरितः।।[6-9-232]
अवर्धत ततो मासाद्गिरिगर्भादिवोडुराट्।
परिपूर्णसमस्ताङ्ग कुम्भाद्गर्भो विनिर्ययौ।।[6-9-233]
सर्वसंस्कारसंपन्ने स तस्मिन्नारदो मुनिः।
भाण्डाद्भाण्ड इवाशेषं विद्याधनमयोजयत्।।[6-9-234]
अथैनं पुत्रमादाय जगाम ब्रह्मणोऽन्तिकम्।
पौत्रं तं भगवान्वेधाश्चकार ज्ञानपारगम्।।[6-9-235]
तत इति श्लोकद्वयं वाक्यम्।। विवेकविपुलालाने। आलानं गजबन्धनस्तम्भः। शुद्धबुद्धिवरत्रया। वरत्रया चर्ममयी रज्जुः।।[6-9-231,232,233,234,235]
साधो सोऽयमहं नाम कुम्भनामास्मि कुम्भजः।
चत्वारः सुहृदो वेदा मम लीलाविवासिनः।।[6-9-236]
मातृष्वसा मे गायत्री माता मम सरस्वती।
यथाकाममशेषेण जगन्ति विचराम्यहम्।।[6-9-237]
शिखिध्वज उवाच।।
अद्य तिष्ठाम्यहं साधो ध्यानां धुरि धर्मतः।
अमृतस्पन्दिवचसा यत्त्वयास्मि समागतः।।[6-9-238]
न केचन तथा भावाश्चेतः शीतलयन्ति मे।
राज्यलाभादयोऽप्येते यथा साधुसमागमः।।[6-9-239]
कुम्भ उवाच।।
आस्तामेषा कथा तावत्सर्वं ते कथितं मया।
त्वं मे कथय हे साधो कस्त्वमद्रौ करोषि किम्।।[6-9-240]
शिखिध्वज उवाच।।
देवपुत्रोऽसि जानासि पृष्टश्चेद्वच्म्यहं शृणु।
संसारभयभीतत्वान्निवसामि वनान्तरे।।[6-9-241]
शिखिध्वजोऽहं भूपालस्त्यक्त्वा राज्यमिह स्थितः।
भृशं भीतोऽस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः।।[6-9-242]
इमामखण्डितां सम्यक् क्रियां संपादयन्नपि।
दुःखाद्गच्छामि दुःखौघममृतं मे विषं स्थितम्।।,6-9-243]
साधो इति श्लोकद्वयं वाक्यम्।। चत्वारो वेदाः मम सुहृद इत्यनेन वेदार्थतत्त्वज्ञानं सूचयति। गायत्री मे मातृष्वसा। माता सरस्वती पोषयित्रितिकृत्वा तस्याः स्वसा भगिनी गायत्रीत्यनेन च सरस्वतीप्रसादलब्धं सार्वज्ञ्यं सूचयति कुम्भवाक्यम्।।[6-9-236,237,238,239,240,241,242,243]
कुम्भ उवाच।।
ज्ञानं हि परमं श्रेयः कैवल्यं तेन वेत्त्यलम्।
कालातिवाहनायैव विनोदाय क्रियोदिता।।[6-9-244]
ज्ञानमिति।। ज्ञानं ज्ञानसाधनम्। कालातिवाहनाय कालहरणरूपाय विनोदायैव क्रिया तपःस्वाध्यादिरूपा उदिता।।
अलब्धज्ञानदृष्टीनां क्रियामृतपरायणम्।
वासनामात्रसारत्वादज्ञस्य सफलाः क्रियाः।
सर्वा एवाफलाज्ञस्य वासनामात्रसंक्षयात्।।[6-9-245]
अलब्धेति।। अलब्धज्ञानदृष्टीनां अनात्मविदां क्रियैव परायणं परा गतिः। यतो वासनामात्रसारत्वात् प्रकृष्टवासनत्वाद्धेतोरज्ञस्यैव क्रियाः सफला न तु निर्वासनस्य ज्ञस्येत्यर्थः।।
ऋत्वन्तरे यता याति विलयं पूर्वामार्तवम्।
तथैव वासनानाशे नाशमेति क्रियाफलम्।।[6-9-246]
ऋत्वन्तर इति।। पूर्वं प्राक्तनं आर्तवमृतौ भवं कुसुमफलादिकं वस्तु ऋत्वन्तरे पूर्वर्त्वन्तरापगमेनान्यस्मिन्नृतौ यथा विलयं याति तथैव वासनानां नाशे सति क्रियाफलमपि नाशमेति वासनाहेतुत्वात्क्रियाफलस्य।।
न स्वभावेन फलति यथा शरलता फलम्।
क्रियानिर्वासनामुत्र फलं फलति नो तथा।।[6-9-247]
यस्य मौर्ख्यं क्षयं याति सर्वं ब्रह्मेति भावनात्।
नोदेति वासना तस्य प्राज्ञस्येवाम्बुधिर्मरौ।।[6-9-248]
वासनामात्रसंत्यागाज्जरामरणवर्जितम्।
पदं भवति जीवोऽन्तर्भूयोजन्मविवर्जितम्।।[6-9-249]
सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः।
ज्ञानेन ज्ञेयतामेत्य पुनर्जीवो न जायते।।[6-9-250]
ज्ञानमेव परं श्रेय इति ब्रह्मादयोऽपि ते।
संसारतारणं ज्ञानं त्वं किमज्ञानवान्स्थितः।।[6-9-251]
कोऽहं कथमिदं जातं कथं शाम्यति वेति भो।
राजन्नावेक्षसे कस्मात्किमज्ञ इव तिष्ठसि।।[6-9-252]
एतदेवोपपादयन्नाह-नेति।। शरलता शराख्यतृणस्य स्तम्बः सा यथा स्वभावेनैव वस्तुस्वभावेनैव फलं न फलति कुसुममात्रपर्यवसितत्वात् तथा निर्वासना अपि क्रिया अमुत्र जन्मान्तरे फलं नो फलति तस्या अपि तादृशस्वभावत्वात्।।[6-9-247,248,249,250,251,252]
कथं बन्धः कथं मोक्ष इति प्रश्नानुदाहरन्।
पारावारविदां पादान्कस्माद्राजन्न सेवसे।।[6-9-253]
साधूनां समदृष्टीनां परिप्रश्नेन सेवया।
संगमेन च सा युक्तिर्लभ्यते मुच्यते यया।।[6-9-254]
वसिष्ठ उवाच।।
कान्तया देवरूपिण्या तयैवं प्रतिबोधितः।
अश्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह।।[6-9-255]
शिखिध्वज उवाच।।
अहो नु बोधितोऽस्म्यद्य चिरात्सुरसुत त्वया।
मौर्ख्यादार्यसमासङ्गं मुक्त्वाहमवसं वने।।[6-9-256]
अहो नु मे क्षयं यातं मन्ये पापमशेषतः।
स त्वं मे वनमागत्य संप्रबोधयसीह माम्।।[6-9-257]
गुरुस्त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन।
शिष्यो नमस्कारोम्यद्य पादौ त्व कृपां कुरु।।[6-9-258]
यदुदारतमं वेत्सि यस्मिञ्ज्ञाते न शोच्यते।
भवामि निर्वृतो येन तद्ब्रह्मोपदिशाशु मे।।[6-9-259]
कथमिति।। पारावारविदां संसारसागरस्य पारमवारं च ब्रह्मैव तद्विदाम्। पारावारशब्दाभ्यां अन्तादी लक्ष्येते।।[6-9-253,254,255,256,257,258,259]
कुम्भ उवाच।।
यद्युपादेयावाक्योऽहं राजर्षे तद्वदामि ते।
अन्यथानेकधा प्रोक्तमपि स्याद्विफलं वचः।।[6-9-260]
पुनः कुम्भवाक्यम्।।
अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया।
व्रजन्त्यफलतां वाचस्तमसीवाक्षसंविदः।।[6-9-261]
अनुपादेयेति।। लीलया अनादरेण पृष्टस्य अनुपादेयवाक्यस्य अनाप्तस्य वक्तुर्वाचस्तमसि अक्षसंविदः चक्षुरिन्द्रियवृत्तय इव अफलतां व्रजन्ति।।
शिखिध्वज उवाच।।
यद्वक्षि तदनुष्ठेय मया विधिरिव श्रुतेः।
अविचारितमेवाशु सत्यमेतन्मयोदितम्।।[6-9-262]
यदिति।। त्वं यद्वक्षि ब्रूषे तच्छ्रुतेर्विधिरिव वैदिकं कार्यमिव अविचारितमेव मया स्वनुष्ठेयं एतन्मया सत्यमेवोदितम्।।

नवमे चिन्तामण्युपाख्यानम्।।
कुम्भ उवाच।।
यथा बालः पितुर्वाक्यं मुक्तिहेतूपपादनम्।
आदत्ते हि तथैव त्वं गृहाण वचनं मम।।[6-9-263]
प्रथमं शृणु भो राजन्वृत्तान्तं कंचिदद्भुतम्।
पश्चात्ते वर्णयिष्यामि प्रकृतार्थव्यवस्थितिम्।।[6-9-264]
"अस्ति कश्चित्पुमाञ्छ्रीमान्स्थानं सर्वगुणश्रियाम्।
सर्वशास्त्रार्थतत्त्वज्ञो नतु जानात्यजं पदम्।।[6-9-265]
अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने।
प्रवृत्तो वाडवो वह्निरबिधिसंशोषणे यथा।।[6-9-266]
तस्य यत्नेन महता कालेनाध्यवसायिनः।
कालस्य वशतस्तस्य मुनेर्निर्बन्धशालिनः।।[6-9-267]
सिद्धिश्चिन्तामणिः किं वा न सिद्ध्यत्युद्यतात्मनाम्।
मणिमग्रे स्थितप्रायं हस्तप्राप्यं ददर्श सः।।[6-9-268]
मेरोरुदयशृङ्गस्थो मुनिरिन्दुमिवोदितम्।
बभूव मणिराजेन्द्रे नतु निश्चयवानसौ।।[6-9-269]
राज्ञि द्रागिति संप्राप्ते सुदीन इव पामरः।
इदं स चिन्तयामास मनसा स्मयशालिना।।[6-9-270]
पुनः कुम्भः-यथेति।। बालो यथा पुतुर्वाक्यं मुक्तिहेतूपपादनं त्यक्तयुक्तिसमर्थनमेवादत्ते स्वीकरोति तथैव त्वमपि मम वचो गृहाण।।[6-9-263,264,265,266,267,268,269,270]अयं मणिर्मणिर्नायं मणिश्चेत्तद्भवेन्न सः।
पश्यामि न स्पृशाम्येनं कदाचित्स्पर्शतो व्रजेत्।।[6-9-271]
अयमिति सप्तभिः श्लोकैर्वाक्यम्।। अयं तु पुरोवर्ती मणिर्वा अयं दृश्यमानो मणिर्न भवति वा। मणिश्चेन्मणिर्भवति चेत्तर्हि स चिन्तामणिर्न भवेत्। अतः संदेहदशायां पश्याम्येव न स्पृशामि। कुतः स्पर्शतः कदाचिद्व्रजेदपि।।
नैतावतैव कालेन मणीन्द्रः किल सिद्ध्यति।
यत्नेन जीवितान्तेन सिद्ध्यतीत्यागमक्रमः।।[6-9-272]
मणीन्द्रश्चिन्तामणिरेतावतैव कालेन न सिद्ध्यति किल किं तर्हि जीवितान्तेन प्रामसंपादितेन महता यत्नेन सिद्ध्यतीत्यागमानां मणिसाधनकल्पनाक्रमः।।
कृपणः कुणितेनाक्ष्णा लोलालातलतोपमम्।
रत्नालोकं प्रपश्यामि द्विचन्द्रत्वमिव भ्रमात्।।[6-9-273]
अहं तु कृपणः सन् कुणितेन संकुचितेनाक्ष्णा लोलालातलतोपमं अलातमुल्मुकं तच्छाखासदृशं रत्नालोकं द्विचन्द्रत्वमिव भ्रमादेव पश्यामि।।
कुत एतावती स्फीता भाग्यसंपत्समागता।
अधुनैव यदाप्नोमि मणीन्द्रं सर्वसिद्धिदम्।।[6-9-274]
एतावती स्फीता भूयिष्ठा भाग्यसंपन्मम कुत आगता तस्या भाग्यसंपदो हेतोरधुनैव सर्वसिद्धिदं मणीन्द्रं प्राप्नोमि।।[6-9-274]
केचिदेव महान्तस्ते महाभाग्या भवन्ति हि।
येषामल्पेन कालेन भवन्त्यभिमुखाः श्रियः।।[6-9-275]
येषामल्पेनैव कालेन श्रियोऽभिमुका भवन्ति ते केचिदेव महान्तो महाभाग्या भवन्ति।।
अहमल्पतपाः साधुर्वराको मानुषः किल।
सिद्धयः कथमायान्ति मामभाग्यैकभाजनम्।।[6-9-276]
अहं पुनरल्पतपाः साधुवराकः साधूनां शोच्यो मानुष एव। अतो मामभाग्यैकभाजनं सिद्धयः कथमायान्ति।।
एवं विकल्पसंकल्पैश्चिरमज्ञः परामृशन्।
न मणिग्रहणे यत्नमकरोन्मौर्ख्यमोहितः।।[6-9-277]
इति तस्मिंस्थिते यातो मणिरुड्डीय सिद्धयः।
त्यजन्ति ह्यवमन्तारं शरा गुणमिवोज्झिताः।।[6-9-278]
पुमान्भूयः क्रियायन्तं चक्रे रत्नेन्द्रसाधने।
नोद्विजन्ते स्वकार्येषु जना अध्यवसायिनः।।[6-9-279]
एवं विकल्पसंकल्पैः विकल्पैः संक्लपैश्च चिरं परामृशन्मौर्ख्यमोहितोऽज्ञानपरवशो मणिग्रहणे यत्नं नाकरोत्।।[6-9-277,278,279]
ददर्शाथ कचद्रूपं काचखण्डमखण्डितम्।
हसद्भिर्वञ्चकैः सिद्धैः पुरस्कृतमलक्षितैः।।[6-9-280]
ददर्शेति।। अथ हसद्भिर्वञ्चकैः सिद्धैरलक्षितैरेव पुरस्कृतं कचद्रूपं अखण्डितं काचखण्डं ददर्श।।
अयं चिन्तामणिरिति मूढस्तस्मिन्स वस्तुताम्।
बुबुधे मोहितो ह्यज्ञो मृदं हेमेव पश्यति।।[6-9-281]
ततस्तं मणिमादाय प्राक्तनीं स श्रियं जहौ।
सर्वं चिन्तामणेरस्मात्प्राप्यते किं धनैरिति।।[6-9-282]
देशोऽयमसुखो रूक्षो जनैः पापिभिरावृतः।
दूरं गत्वा यताकामं सुखं तिष्ठामि संपदा।।[6-9-283]
इत्यादाय मणिं मूढः शून्यकाननमाययौ।
तत्रैष काचमणिना महतीमापदं गतः।।[6-9-284]"
इति श्रीयोगवासिष्ठसारे चिन्तामण्युपाख्यानं नाम प्रकरणम्।।
अयमिति।। स मूढः तस्मिन्काचखण्डे अयं चिन्तामणिरिति वस्तुतां परमार्थचिन्तामणित्वं बुबुधे। अज्ञो हि मोहितः सन्मृदं मृत्तिकाविशेषं हेमवत्पश्यति।।[6-9-281,282,283,284]
इति श्रीयोगवासिष्ठविवरणे चिन्तामण्युपाख्यानं नाम प्रकरणम्।।

नवमे गजेन्द्रपाख्यानम्।।
कुम्भ उवाच।।
अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप।
परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः।।[6-9-285]
"अस्ति विन्ध्यवने हस्ती महायूथपयूथपः।
वज्रास्तिविषमौ दीर्घौ तस्यास्तां दशनौ सितौ।।[6-9-286]
अस्तीति।। महायूथपयूथपो महायूथपानामपि यूथपः श्रेष्ठः। वज्रास्थिविषमौ वज्रादप्यस्थ्नोऽपि कठिनौ। वज्रास्त्रविषमौ इति पाठे वज्रायुधकोटिरिव विषमावित्यर्थः।।[6-9-285,286]
स बद्धो लोहजालेन हस्तिपेन किलाभितः।
निबद्धो यन्त्रणामाप क्रूरशृङ्खलयार्दितः।।[6-9-287]
खेदान्निगडनिर्भेदं चकार स मतङ्गजः।
दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन तु।।[6-9-288]
स इति।। स हस्ती हस्तिपेन कर्त्रा लोहजालेन श्रृङ्खलया साधनेन अभितो बद्धोऽभूत्। इत्थं निबद्धश्च क्रूरशृङ्खलया अर्दितः सन् यन्त्रणां पारतन्त्र्यमापेति वाक्यभेदान्निबद्ध इति न पौनरुक्त्यम्।।[6-9-287,288]
तस्य तं निगडोच्छेदं दृष्ट्वा तद्बन्धनिश्चयः।
पपाताथ गजेन्द्रस्य मूर्ध्नि तालतरो रिपुः।।[6-9-289]
सोऽपतद्दुर्मतिर्भूमावप्राप्य करिणः शिरः।
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ।।[6-9-290]
केऽपि स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि।
पतितं दलयामीति किनाम मम पौरुषम्।।[6-9-291]
वारणोऽपीति कलयन्न जघान स तं रिपुम्।
केवलं तं परित्यज्य स्वदेशं स ययौ गजः।।[6-9-292]
गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः।
सोऽन्वियेष गजं यत्नादुल्मुकान्तरितं वने।
चिरेणालभ्यतेभेन्द्रं कस्मिंश्चित्कानने स्थितम्।।[6-9-293]
तस्येति।। तद्बन्धनिश्चयः तस्य हस्तिनो बन्धे निश्चयो यस्य स रिपुर्हस्तिपकः तालतरोः सकाशाद्गजेन्द्रस्य मूर्ध्नि पपात।।[6-9-289,290,291,292,293]
स खातवलयं चक्रे हस्तिपः काननेऽभितः।
उपर्यस्थागयज्जीर्णलतौघेन स तं शठः।।[6-9-294]
दिनैः कतिपयैरेव वारणो विहरन्वने।
तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः।।[6-9-295]
इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः।
तिष्ठत्यद्यापि दुःखेन स्वसद्मनि यथा बलिः।।[6-9-296]
अहनत्पुष्करेणासौ यद्यग्रे पतितं रिपुम्।
तन्नालप्स्यत तद्दुःखं गजः खातनिबन्धनम्।।[6-9-297]
स इति।। खातवलयं श्वभ्रबलयम्। अस्थगयदावृणोत्।।[6-9-294,295,296,297]
मौर्ख्यादागामिनं कालं वर्तमानक्रियाक्रमैः।
अशोधयन्नरो दुःखं याति विन्धअयगजो यथा।।[6-9-298]"
इति श्रीयोगवासिष्ठसारे गजेन्द्रोपाख्यानं नाम प्रकरणम्।।
मौर्ख्यादिति।। नरो मौर्ख्यादज्ञानाद्धेतोः आगामिनं कालं वर्तमानैः क्रियाक्रमैः उपायभेदैरशोधयन्निरुपायमकुर्वन्दुःखं याति विन्ध्यगजो यथेत्यन्वयः।।
इति श्रीयोगवासिष्ठविवरणे गजेन्द्रोपाख्यानं नाम प्रकरणम्।।

नवमे चिन्तामण्युपाख्यानविवरणम्।।
शिखिध्वज उवाच।।
मणिसाधकविन्ध्येभबन्धनादमरात्मज।
सूचितं यत्कथाजालं पुनर्मे प्रकटीकुरु।।[6-9-299]
इदानीं शिखिध्वजः कथाद्वयस्य तात्पर्यं पृच्छति-मणीति।। मणिसाधकविन्ध्येभबन्धनान्मणिसाधकाद्विन्ध्येभबनधनाच्चेत्यर्थः।।
कुम्भ उवाच।।
"योऽसौ शास्त्रार्थकुशलस्तत्त्वज्ञाने त्वपण्डितः।
रत्नसंसाधकः प्रोक्तः स त्वमेव महीपते।।[6-9-300]
योऽसाविति सार्धश्लोकद्वयं वाक्यम्।। यः पुमान् सास्त्रकुशलः शास्त्रज्ञाने प्रवीमः तत्त्वज्ञाने त्वपण्डितः अप्रगल्भः स पुमान् रत्नसंसाधक प्रोक्तः। शास्त्रोक्तविधिना रत्नसाधनाल्लब्धेऽपि रत्ने तत्त्वनिश्चयाभावात्। स च रत्नसंसाधकः पुमांस्त्वमेव।।
तज्ज्ञो भवसि शास्त्रेषु तत्त्वज्ञाने त्वशिक्षितः।।[6-9-301]
यतस्त्वं शास्त्रेषु तत्त्वज्ञो भवसि। ते हृदि विश्रान्तिस्तत्तवनिष्ठा च नास्ति।।
विद्धि चिन्तामणिं साधो सर्वत्यागमकृत्रिमम्।
तं मतं सर्वदुःखानां त्वं साधयितुमुद्यतः।।[6-9-302]
संत्यक्तं भवता राज्यं सदारधनबाधवम्।
स्वदेशस्यादिदूरस्थमागतोऽसि ममाश्रमम्।।[6-9-303]
कस्तिर्हि चिन्तामणिरित्यत्राह-विद्धीति श्लोकद्वयं वाक्यम्।। यतो भवता राज्यं संत्यक्तं यतश्चातिदूरमिममाश्रममागतोऽसि अतस्त्वं सर्वदुःविनाशकं सर्वत्यागं नाम चिन्तामणिं साधयितुमुद्यत इत्यन्वयः।।[6-9-302,303]
केवलं सर्वसंत्यागे शेषिताहंमतिस्त्वया।
ततः सर्वपरित्यागो यावन्नाप्नोति पूर्णताम्।
तावत्त्यागविकल्पस्त्वां खमम्बुद इवावृणोत्।।[6-9-304]
कथं तर्हि स चिन्तामणिर्मया न लब्ध इत्यत्राह-केवलमिति अर्धत्रयं वाक्यम्।। यतस्त्वया सर्वसंत्यागेऽहंमतिः केवलं शेषिताऽभिमानो न त्यक्त इत्यर्थः। ततस्तस्माद्धेतोः सर्वत्यागस्यास्यापूर्णत्वात्तद्विषयो विकल्पस्त्वामावृणोत्। खमाकाशमम्बुद इव।।
नायं स परमानन्दः सर्वत्यागो महोदयः।
कोऽप्युच्चैरन्य एवासौ चिरसाध्यो महानिति।।[6-9-305]
नायमिति श्लोकद्वयं वाक्यम्।। अयमिदनीं सिद्धः सर्वत्यागः परमानन्दः परम आनन्दो यस्मिन्। महानुदयः उद्बोधो यस्मिंस्तादृशः सर्वत्यागो न भवति। यतोऽसौ परमानन्दहेतुः सर्वत्यागश्चिरसाध्यो महानन्य एव कोऽपीति।।
चिन्तयेति गते वृद्धिं विकल्पे तव चेतसि।
वात्ययेव वनस्पन्दे त्यागः प्रोड्डीय ते गतः।।[6-9-306]
सर्वत्यागमहारत्ने गते कमललोचन।
तपःकाचमणिर्दृष्टस्त्वया संकल्पचक्षुषा।।[6-9-307]
एवं चिन्तया विकल्पे चेतसि वृद्धिं गते सति ते त्यागः प्रोड्डीय गतः वात्यया वातसमूहेन वनस्पन्दे कम्पे वृद्धिं गते तु पक्षी यथा प्रोड्डीय गच्छति तद्वत्।।,6-9-306,307]
अमितानन्दमुत्सृज्य सुसाध्यं यः प्रवर्तते।
मिते वस्तुनि दुःसाध्यो स्वात्महा स शठः स्मृतः।।[6-9-308]
अमितेति।। अमितानन्दः सुसाध्यश्च सर्वत्यागः। मितं परिमितानन्दं दुःसाध्यं च वस्तुतः।।
चिन्तामणिर्मया प्राप्त इत्यलं बुद्धवानसि।
न लब्धवान्भवान्साधो स्फटिकस्यापि खण्डिकाम्।।[6-9-309]"
इति योगवासिष्ठसारे चिन्तामण्युपाख्यानविवरणं नाम प्रकरणम्।।
चिन्तेति।। तपःकाचमणिं लब्धवान् श्रेयस्तु किंचिदपि न लब्धवानित्यर्थः।।
इति श्रीयोगवासिष्ठविवरणे चिन्तामण्युपाख्यानविवरणं नाम प्रकरणम्।।

नवमे गजेन्द्रोपाख्यानविवरणम्।।
कुम्भ उवाच।।
"योऽसौ विन्ध्यवने हस्ती सोऽस्मिन्भूमितले भावान्।
यौ वैराग्यविवेकौ ते तौ तस्य दशनौ सितौ।।[6-9-310]
इदानीं विन्ध्यहस्तिकथां विवृणोति योऽसावित्यादिना नृप बद्धो यथा बलिरित्यन्तेन।। विन्ध्यहस्ती भवान् मूर्खत्वात्। वैराग्यविवेकौ च त्वदीयौ दशनौ शृङ्खलादिबन्धभञ्जकत्वात्।।
यश्चासौ वारणाक्रान्तितत्परो हस्तिपः स्मृतः।
त्वदज्ञानं त्वदाक्रान्तितत्परं तेऽतिदुःस्वदम्।।[6-9-311]
अतिशक्तोऽप्यशक्तेन दुःखाद्दुःखं भयाद्भयम्।
हस्ती हस्तिपकेनेव राजन्मौर्ख्येण नीयसे।।[6-9-312]
हस्तिपकस्त्वदज्ञानं बन्धकत्वाद्दुःखहेतुत्वाच्च।।[6-9-311,312]
यल्लोहरज्जुजालेन वारणः परिवेष्टितः।
तदाशापाशजालेन भवानपि समावृतः।।[6-9-313]
आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा।
कालेन क्षीयते लोहं तृष्णा तु परिवर्धते।।[6-9-314]
यद्वभञ्ज गजः शत्रोः शृङ्खलाजालबन्धनम्।
तत्तत्याज भवान्भोगान्भूमिं राज्यमकण्टकम्।।[6-9-315]
लोहरज्जुजालमाशापाशजालम्। शृङ्खलाभङ्गस्तु राज्यभोगत्यागः।।[6-9-313,314,315]
यत्तु तालतरोर्भ्रष्टो भूमौ हस्तिपकोऽपतत्।
त्वयि त्यजति तद्राज्यमज्ञानं पतितं कृतम्।।[6-9-316]
यदा विरक्तः पुरुषो भोगाशां त्यक्तुमिच्छति।
तदा प्रकम्पतेऽज्ञानं छेद्ये वृक्षे पिशाचवत्।।[6-9-317]
भोगौघे नूनमुन्मुक्ते पतत्यज्ञानसंस्थितिः।
यदा विवेकी पुरुषो भोगान्संत्यज्य तिष्ठति।।[6-9-318]
तदा पलायतेऽज्ञाने छिन्ने वृक्षे पिशाचवत्।
यदा वनं प्रयातस्त्वं तदा ज्ञानं क्षतं त्वया।
पतितं सन्न निहतं सर्वत्यागमहासिना।।[6-9-319]
तेन भूयः समुत्थाय स्मृत्वा परिभवं कृतम्।
ततः प्रपञ्चखातेऽस्मिन्गहने त्वं नियोजितः।।[6-9-320]
तदैवाघातयिष्यस्त्वं यद्यज्ञानं तथा गतम्।
राज्यत्यागविधौ तत्त्वां नाहनिष्यत्क्षयं गतम्।।[6-9-321]
यत्खातवलयस्तेन वैरिणा हस्तिनः कृतः।
तत्तेन दुःखमतुलमज्ञानेन तवार्पितम्।।[6-9-322]
या तस्य परिवारश्रीर्गजारेर्नृपसत्तम।
सा त्वदज्ञाननृपतेश्चित्तभूतिर्विसारिणी।।[6-9-323]
हस्तिपकस्य तालतरोर्भ्रशो नाम त्वया राज्ये त्यज्यमाने त्वदज्ञानस्य भ्रंशः। पतितं हस्तिपकमुपेक्ष्य हस्तिनो वनगमनं नाम तव सर्वत्यागमहासिना निःशेषमज्ञानस्योच्छेदनेनारण्याश्रयणम्।।[6-9-316,317,318,319,320,321,322,323]
यत्स्वातवलयो बाललताभिरवगुण्ठितः।
आवृतं तत्तपोदुःखमीषत्सज्जनवृत्तिभिः।।[6-9-324]
इत्यद्यापि तपःखाते दुःखे ह्यस्मिन्सुदारुणे।
स्थितोऽसि पातालतले नृप बद्धो यथा बलिः।।[6-9-325]
इति श्रीयोगवासिष्ठसारे गजेन्द्रोपाख्यानविवरणं नाम प्रकरणम्।।
हस्तिपकेन भूयो हस्तिबन्धनाय वने खातकल्पनं अज्ञानेन तपोनियमेन नियोजनं खातवलयस्य बालतृणलताभिरवगुण्ठनं च तपोदुःखस्य सज्जनवृत्तिभिरीषदावरणमिति तात्पर्यनिष्कर्षः।।[6-9-326,327]

कुम्भ उवाच।।
यदुक्तं तव शालिन्या तया विदितवेद्यया।
तदा चूडालया ज्ञानं तत्कस्मान्नेररीकृतम्।।[6-9-328]
शिखिध्वज उवाच।।
राज्यं त्यक्तं गृहं त्यक्तं देशस्त्यक्तस्तथाविधः।
दारास्त्यक्ताः सुतास्त्यक्ताः सर्वत्यागो न किं कृतः।।[6-9-329]
अथेति।। तस्याश्चूडालाया वचनं नानुष्ठितं चेत्तत्तर्हि स त्वया क्रियमाणः सर्वपरित्यागोऽपि कस्माद्धेतोर्न निपुणीकृतः न संपूर्णीकृतः।।[6-9-328,329]
कुम्भ उवाच।।
धनं दारा गृहं राज्यं भूमिश्छत्रं च बान्धवाः।
इति सर्वं न ते राजन्सर्वत्यागो हि कस्तव।।[6-9-330]
धनमिति।। छत्रं राजचिह्नानां अन्येषामुपलक्षणम्। इति सर्वं एतत्सर्वं ते त्वदीयं न भवति अतः सर्वत्यागः को नाम त्यागः कथम्। अस्वकीयस्य त्यागः त्यागो न भवतीत्यर्थः।।
तवास्त्येवापरित्यक्तः सर्वस्माद्राग उत्तमः।
तं परित्यज्य निःशेषं परमां यास्यशोकताम्।।[6-9-331]
तर्हि मदीयः क इत्यत आह-तवेति।। सर्वस्माद्वस्तुनः अपरित्यक्तः अनपगत उत्तमो रागः इच्छा विषयस्तवास्ति तं रागं निःशेषं परित्यज्य परमामशोकतां यासि।।
शिखिध्वज उवाच।।
राज्यं चेन्मम नो सर्वं तत्सर्वं वन्मेव मे।
शैलवृक्षादिगुल्माद्यं तदप्येतत्त्यजाम्यहम्।।[6-9-332]
राज्यमिति।। सर्वं राज्यं मम मदीयं नोचेत्तर्हि शैलवृक्षादिगुल्माद्यं वनमेव सर्वं मे मदीयं यदस्ति तदेतदपि त्यजामीत्यन्वयः।।
वसिष्ठ उवाच।।
इति राम वदन्नेव कुम्भवाक्येन नोदितः।
निमेषान्तरमात्रेण वशी धीरः शिखिध्वजः।।[6-9-333]
प्रममार्ज वनास्थां तां हृदा स दृढनिश्चयः।
प्रावृडोघस्तटगतां रजोरेखामिवात्मनः।।[6-9-334]
शिखिध्वज उवाच।।
सवृक्षाद्रिवनश्वभ्राद्विपिनादपि वासना।
परित्यक्ता मया नूनं सर्वत्यागः स्थितो मम।।[6-9-335]
इतीति श्लोकद्वयं वाक्यम्।। आत्मनस्तां वनास्थां वनाभिमानं प्रममार्जेत्यन्वयः।।[6-9-9333,334,335]
इत्यादि तव नो सर्वं सर्वत्यागः कथं तव।
तवास्त्येवापरित्यक्तः सर्वस्माद्राग उत्तमः।।[6-9-336]
शिखिध्वज उवाच।।
एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे।
वापीस्थलोटजयुतस्तमेवाशु त्यजाम्यहम्।।[6-9-337]
कुम्भ उवाच।।
आश्रमोऽपि न ते तस्मिंस्त्यक्ते त्यागो न सर्वगः।
तवास्त्येवापरित्यक्तः सर्वस्माद्राग उत्तमः।।[6-9-338]
शिखिध्वज उवाच।।
एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे।
चर्मकुड्यकुशूलादि तत्तावत्संत्यजाम्यहम्।।[6-9-339]
वसिष्ठ उवाच।।
इत्युक्त्वोत्थाय तत्सर्वमक्षमालाजिनादिकम्।
एकत्रैव समानीय ददाह त्यागबुद्धितः।।[6-9-340]
भाण्डजातं दहत्यग्नौ सहशुष्केन्धनेन तत्।
केवलाकृतिरस्नेहस्तुष्टिमानाह भूपतिः।।[6-9-341]
वासनां तत्र संत्यज्य सर्वत्यागी स्थितो ह्यहम्।
अहो रुचिरकालेन देवपुत्रप्रबोधितः।
संपन्नः केवलः शुद्धः सुखेनोद्बोधवानहम्।।[6-9-342]
अद्रिरिति सार्धश्लोकत्रयं वाक्यम्।। पूर्वद्व्याख्येयम्।।[6-9-336,337,338,339,340,341,342]
किं नाम किल वस्त्वेतद्भवे संकल्पितक्रमम्।
यद्भाण्डोपस्करस्थानसदनाद्यवलम्बनम्।।[6-9-343]
किं नामेति।। संकल्पितक्रमं बुद्धिपरिकल्पितोपयोगं भाण्डोपस्करस्थानसदनाद्यवलम्बनं भाण्डं भाजनं उपस्करं गृहोपकरणं स्थानं निवासभूः सदनं गृहं इत्यादिनामवलम्बनं परिग्रह इति यदेतत्किं नाम वस्तु। न किंचिद्वस्तु दुःखैकहेतुत्वात्।।
यावद्यावत्प्रहीयनते विविधा बन्धहेतवः।
तावत्तावत्समायाति परमां निर्वृतिं मनः।।[6-9-344]
शाम्यामि परिनिर्वामि सुखितोऽस्मि जयाम्यहम्।
विबन्धाः प्रलयं याताः सर्वत्यागो मया कृतः।।[6-9-345]
दिगम्बरो भवाम्येव दिक्समोऽयमहं स्थितः।
देवपुत्र महात्यागाद्यदन्यद्वद शिष्यते।।[6-9-346]
कुम्भ उवाच।।
सर्वमेव न संत्यक्तं त्वया राजञ्शिखिध्वज।
सर्वत्यागपरानन्दे मा मुधाभिनयं कुरु।।[6-9-347]
वसिष्ठ उवाच।।
इत्येवं ब्रुवता तेन किंचित्संचिन्त्य भूभृता।
इदमुक्तं महाबाहो राम राजीवलोचन।।[6-9-348]
शिखिध्वज उवाच।।
इन्द्रियव्यालसंघात रक्तमांसमयाकृतिः।
शिष्यते सर्वसंत्यागे देहो मे देवतात्मज।।[6-9-349]
तदुत्थाय पुनर्देहं भृगुपाताद्यविघ्नतः।
विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्यहम्।।[6-9-350]
वसिष्ठ उवाच।।
इत्युक्त्वा देहमग्रस्थे श्वभ्रे त्यक्तुमसौ जवात्।
करोति यावदुत्थानं तावत्कुम्भोऽभ्युवाच ह।।[6-9-351]
कुम्भ उवाच।।
राजन्किमिति देहं त्वं निरागस्कं महाऽवटे।
त्यजस्यज्ञो हि वृषभो रुषितो हन्ति तर्णकम्।।[6-9-352]
त्यक्तेनापि शरीरेण किल तामरसेक्षण।
सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः।।[6-9-353]
येनायं क्षोभ्यते देहो यद्बीजं जनमकर्मणाम्।
तत्संत्यजसि चेत्त्याज्यं तन्महात्यागवान्भवान्।।[6-9-354]
शिखिध्वज उवाच।।
केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम्।
कस्मिंस्त्यक्ते परित्यक्तं सर्वं भवति सुन्दर।।[6-9-355]
यदुक्तं वैष्णवे-`यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान्। तावतोऽस्य निखन्यन्ते हृदये शोकशङ्कवः' इति।।[6-9-344,345,346,347,348,349,350,351,352,353,354,355]
कुम्भ उवाच।।
साधो सर्वगताकारं जीवनामादिनामकम्।
न जडं नाजडं भ्रान्तं चित्तं सर्वमवस्थितम्।।[6-9-356]
चित्तं विद्धि जगज्जालं बन्धश्चित्तमुदीर्यते।
तस्मिन्साधो परित्यक्ते सर्वत्यागो भवेदिति।।[6-9-357]
जन्मनां कर्मणां वापि चित्तं बीजमुदाहृतम्।
पादपः पवनेनेव देहश्चित्तेन चाल्यते।।[6-9-358]
चित्तत्यागं विदुः सर्वत्यागं त्यागविदो जनाः।
चित्ते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः।।[6-9-359]
शिष्यते परमं शान्तमेकमच्छमनामयम्।
सर्वत्यागः परानन्दो दुःखमन्यत्सुदारुणम्।।[6-9-360]
इत्योमित्युररीकृत्य यदिच्छसि तदाचर।
कृत्वा सर्वपरित्यागं शान्तः स्वस्थो वियत्समः।
सौम्यो भवसि यद्रूपस्तद्रूपो भव भूपते।।[6-9-361]
शिखिध्वज उवाच।।
चित्तस्यादौ स्वरूपं मे यथावद्भगवन्वद।
ततश्चित्तपरित्यागं वद मे वदतां वर।।[6-9-362]
कुम्भ उवाच।।
वासनैव सदा राजन्स्वरूपं विद्धि चेतसः।
चित्तशब्दस्तु पर्यायो वासनाया उदाहृतः।।[6-9-363]
साधो इति श्लोकद्वंय वाक्यम्।। सर्वगताकारं सर्वजगदाकारेण परिणतं न जडं संक्रान्तचैतन्यतया प्रकाशकत्वात्। नाजडं कल्पितत्वेनात्मव्यतिरिक्तत्वात्।।[6-9-356,357,358,359,360,361,362,363]
अहमर्थोदयो योऽयं सर्वानर्थैकभाजनम्।
एतच्चित्तद्रुमस्यास्य विद्धि बीजं महामते।।[6-9-364]
अहमिति।। सर्वानर्थैकभाजनं सर्वस्यानर्थरूपस्य संसारस्य मूलकारणं योऽयमहमर्थोदयः अहंकारोदयोऽस्ति एतदेवास्य चित्तद्रुमस्य बीजं निदानं विद्धिः।।
एतस्मात्प्रथमोद्भिन्नादङ्कुरोऽनुभवाकृतिः।
निश्चयात्मा निराकारो बुद्धिरित्येव सोच्यते।।[6-9-365]
एतस्मादित।। प्रथमोद्भिन्नात्प्रथममुद्भूतात् एतस्मादहंकारानुभवाकृतिः अनुभवरूपो निश्चयात्मा निश्चयस्वभावो निराकारः बाह्यविषयाकारानुपरक्तो योऽङ्कुरो जातः सैव बुद्धिरित्युदीर्यते।।
अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता।
संकल्परूपिणी तस्याश्चित्तचेतोमनोऽभिधाः।।[6-9-366]
अस्येति।। बुद्ध्यभिधानस्य बुद्धिरूपाङ्कुरस्य संकल्परूपिणी या प्रपीनता स्थूलतास्ति तस्याः संकल्परूपिण्याः स्थूलताया एव चित्तं चेतः मन इति वाभिधाः संज्ञा भवन्ति।।
ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम्।
शाखाविलवनं कुर्वन्मूलकाषे भरं कुरु।
मूलाद्धरणमेवाशु त्यागं त्यागविदो विदुः।।[6-9-367]
ईदृशेति।। ईदृशस्य उक्तप्रकारस्यास्य चत्तरूपस्य दुर्वृक्षस्य शाखाविलवनं कामसंकल्पविचिकित्सादिरूपवासनानां शाखानां विच्छेदं कुर्वन् चित्तस्य मूलकाषे अहंकारात्मनो मूलस्य छेदे भरमास्थातिशयं कुरु।।
वासना विविधाः शाखाः फलन्त्यो विविधं फलम्।
अभाविता भवन्त्यन्तर्लूनाः संविद्बलेन वै।।[6-9-368]
तच्छाखाविलवनप्रकारामाह-वासना इति।। विविधं नानाप्राकारं फलं सुखदुःखादिरूपं फलन्त्यो वितरन्त्यो वासनारूपा विविधाः शाखाः संविद्बलेन आत्मानुसंधानबलेन अन्तः अभाविता उपेक्षिताः सत्यो लूनाः छिन्ना भवन्ति।।
असंसक्तमना मौनी शान्तवादविचारणः।
संप्राप्तकारी यः सोऽन्तर्लूनचित्तलतो भवेत्।।[6-9-369]
असंसक्त इति।। यः पुमानसंसक्तमनाः विषयेष्वनासक्तः मौनी मौननिष्ठः शान्तवादविचारणः शान्ता निवृत्ता परेषां वादेषु संकथासु विचारणा किं केन कथमित्यादिरूपा यस्य तादृशः सन्संप्राप्तकारी आवश्यककार्यकारी भवति पुरुषोऽन्तर्लूनचित्तलतश्छिन्नचित्तशाखो भवेत्।।
गौणं शाखाविलवनं मुख्यं मूलविकर्तनम्।
चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव।।[6-9-370]
गौणमिति।। गौणमप्रधानम्। मुख्यं प्रधानम्।।
मुख्यत्वेन महाबुद्धे मूलदाहमलं कुरु।
चित्तकण्टकखण्डस्य भवत्येवमचित्तता।।[6-9-371]
मुख्यत्वेनेति।। चित्तकण्टकखण्डस्य चित्तमेव कण्टकसमूहस्तस्य तत्समूलदाहं अलं सम्यक्कुरु। एवं सत्यचित्तता भवति।।
शिखिध्वज उवाच।।
अहंभावात्मनश्चित्तद्रुमबीजस्य हे मुने।
कोऽनलो दहनाख्योऽस्मिन्कर्मण्यर्थकरो भवेत्।।[6-9-372]
अहमिति।। अहंभावात्मनोऽहंकाररूपस्य चित्तद्रुमबीजस्य दहने को वा अनलोऽर्थकरोऽर्थक्रियाकारी भवेत्।।
कुम्भ उवाच।।
राजन्स्वात्मविचारोऽयं कोऽहं स्यामिति रूपकः।
चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः।।[6-9-373]
राजन्निति।। चित्तदुर्द्रुमबीजस्य अहंकारस्य दहने को वाहमित्येवंरूप आत्मविचार एव दहनः स्मृतः।।
शिखिध्वज उवाच।।
मुने मया स्वया बुद्ध्या बहुशः प्रविचारितम्।
नाहं जगत्तदा देहो न मांसास्थ्यसृगादिमान्।।[6-9-374]
कर्मेन्द्रियाण्यपि न च न च बुद्धीन्द्रियाण्यपि।
न मनो नापि च मतिर्नाहंकारश्च जाड्यतः।
कटकत्वं यथा हेम्नि तथाहन्त्वं चिदात्मनि।।[6-9-375]
कुम्भ उवाच।।
एतावन्मात्रकं वृन्दं यदि न त्वं महीपते।
जडत्वात्तन्महाबुद्धेर्योऽसि तं वद मेऽनघ।।[6-9-376]
मुने इति श्लोकद्वयं वाक्यम्।। जगदादिरहंकारान्तो वर्गो जडत्वात् नाहमिति स्वयैव बुद्ध्या बहुशः प्रविचारितमित्यन्वयः।।[6-9-374,375,376]
शिखिध्वज उवाच।।
चिन्मात्रमजमच्छात्म वेदनं विदुषांवर।
यत्र भावाः स्वदन्त्येते निर्णीयन्ते च येन वा।।[6-9-377]
चिदिति।। एते प्रतीयमाना भावाः पदार्था यत्र यस्मिन्वस्तुनि स्वदन्ते यदाश्रिता रोचन्ते येन च निर्णीयन्ते निश्चीयन्ते तदच्छात्म निर्मलं अजं चिन्मात्रं वेदनमेवाहं अहंशब्दस्य मुख्योऽर्थः।।
एवंरूपस्य मे लग्नं नूनं मलमकारणम्।
चित्तद्रुमस्य यद्बीजमहंभावात्मकं हृदि।।[6-9-378]
एवमिति।। यच्चित्तद्रुमस्य बीजं तदहंभावात्मकं मलं एवंरूपस्य विशुद्धचिन्मात्ररूपस्य मे हृदि अकारणमेव लग्नम्।।
तच्च त्यक्तुं न शक्नोमि त्यक्तं त्यक्तमुपैति माम्।
मुने यस्मान्न शक्नोमि तेन तप्ये सुदारुणम्।।[6-9-379]
तच्चेति।। तच्च अहंभावात्मकं मलं भूयोभूयस्त्यक्तमपि मामुपैति अतस्त्यक्तुं न शक्नोमि। यस्माच्च न शक्नोमि तेन हेतुना सुदारूणं तप्ये तप्तो भवामि।।
कुम्भ उवाच।।
कारणाज्जायते कार्यमहंभावात्मकस्य तत्।
मुने कारणमन्विष्य कथयाशु ममाधुना।।[6-9-380]
कारणामिति।। कार्यं वस्तु कारणादेव जायते तत्तस्मात्कारणादहंभावात्मकस्य कार्यस्य कारणमन्विष्यात्मनैव कथम्।।
शिखिध्वज उवाच।।
मुनेऽहमिति दोषस्य वेदनं वेद्मि कारणम्।
तद्यथोपशमं याति तन्मे वद मुनीश्वर।।[6-9-381]
मुने इति।। अहमिति दोषस्य अहंकारस्य वेदनं चितश्चेत्योन्मुखत्वमेव कारणं वेद्मि। तच्च वेदनं यथोपशमं याति तन्मे वद।।
चितश्चेत्योन्मुखत्वेन दुःखायायमहं स्थितः।
चेत्योपशमनं ब्रूहि मुने दुःखोपशान्तये।।[6-9-382]
एतदेव विवृणोति-चित इति।। चितश्चैतन्यस्य चेत्योन्मुखत्वं दृश्यानुसंधानं तेन हेतुना अयमहंकारो दुःखाय स्थितः। अतो दुःखोपशान्तये चेत्योपशमनं दृश्यस्यास्फुरणं ब्रूहि।।
कुम्भ उवाच।।
कारणं कारणज्ञोऽसि वेदनस्य वदाशु मे।
अतस्त्वां बोधयिष्यामि कारणाकारणक्रमम्।।[6-9-383]
कारणमिति।। त्वं कारणज्ञोऽसि अतो वेदनस्य कारणं वद। अतो वेदननिमित्तनिरूपणानन्तरं त्वां कारणाकारणक्रमं कारणस्य कारणाभावस्य च क्रमं प्रकारं बोधयिष्यामि। इदमस्य कारणं भवति इदमस्य कारणं न भवत्येतद्बोधयिष्यामीत्यर्थः।।
शिखिध्वज उवाच।।
देहादिरूपयोदेति वेदनं वस्तुसत्तया।
असत्याभासया स्पन्दो यथा पवनलेखया।।[6-9-384]
देहेति।। वेदनं कर्तृ देहादिरूपया असत्याभासया मिथअयाभूतस्फुरणया वस्तुसत्तया पदार्थः रूपसत्तया उदेति पवनलेखया स्पन्दः कम्प इव।।
असत्तां वस्तुसत्ताया नावगच्छाम्यहं यया।
अहन्त्ववेदनं चित्तबीजं समनुशाम्यति।।[6-9-385]
असत्तामिति।। यया असत्तया चित्तबीजं अहन्त्ववेदनं अहंकारस्तत्कारणं च वेदनं समनुशाम्यति तां वस्तुसत्ताया असत्तां मिथ्यात्वं नावगच्छामि।।[6-9-385]
कुम्भ उवाच।।
विद्यते यदि देहादिवास्तुसत्ता तदस्ति ते।
अभावाद्देहसत्तादेः किंनिष्ठं तव वेदनम्।।[6-9-386]
विद्यत इति।। देहादिवस्तुसत्ता यदि विद्यते तत्तर्हि ते वेदनमस्ति संभवति युज्यत इति यावद्देहसत्तादेरभावात् तव वेदनं किंनिष्ठम्। निरालम्बनमित्यर्थः।।
शिखिध्वज उवाच।।
हस्तपादादिसंयुक्तक्रियाफलविलासवान्।
सदानुभूयमानोऽयं देहो नास्ति कथं मुने।।[6-9-387]
हस्तेति।। सावयवोऽर्थक्रियाकारी सदानुभूयमानश्च देहः कथमपलपितुं शक्यत इत्यर्थः।।
कुम्भ उवाच।।
कारणं यस्य कार्यस्य भूमिपाल न विद्यते।
विद्यते न हि तत्कार्यं तत्संवित्तिस्तु विभ्रमः।।[6-9-388]
कारणमिति।। कारणं विना प्रतीयमानं कार्यं नास्त्येव। तत्संवित्तिस्तु विभ्रमो भ्रान्तिरित्यर्थः।।
अविद्यमानमेव त्वं विद्धि सर्वं भ्रमोदितम्।
अकारणं हि यद्वस्तु तन्मिथ्या रज्जुसर्पवत्।।[6-9-389]
अविद्यमानमिति।। भ्रमोदितं भ्रान्तिकल्पितं सर्वं अविद्यमानमेव विद्धि। हि यस्मात्कारमाद्यद्वस्तु अकारणं उत्पत्तिकारणं विनैव प्रतीयते तत्कार्यं रज्जुसर्पवन्मिथ्या।।
शिखिध्वज उवाच।।
आद्यः पितामहो यः स्यात्तेन सृष्टमिदं जगत्।
स एवास्य कथं न स्यात्कारणं वद मे मुने।।[6-9-390]
आद्य इति।। इदं जगत्पितामहेन सृष्टमिति कृत्वा स एव पितामहोऽस्य कारणं कथं न स्यात्।।
कुम्भ उवाच।।
सर्गादौ केवलं शान्तं ब्रह्मैवास्ति महीपते।
द्वितीयकलनाभावाद्वेधसोऽस्ति न कारणम्।।[6-9-391]
शिखिध्वज उवाच।।
वेधसः परमं ब्रह्मा कारणं किं न हे मुने।
अकारणकतां साधो तन्न प्रत्येमि वेधसः।।[6-9-392]
सर्गादाविति।। सर्गादौ केवलं अद्वितीयं ब्रह्मास्ति तत्तु न कारणं निर्विकारत्वात्। अन्यदपि कारणभूतं वस्तु नास्ति द्वितीयकलनाभावात्। द्वितीयस्य ब्रह्मव्यतिरिक्तस्य वस्तुनः प्रतीत्यभावात्। `आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्' इति श्रुतेः। अतो वेधसः कारणं नास्तीत्यन्वयः।।[6-9-391,392]
कुम्भ उवाच।।
अनन्तमजमव्यक्तं यदाद्यमुपलम्भनम्।
अप्रतर्क्यमविज्ञेयमक्षरं शान्तमच्युतम्।
अद्वितीयमनाद्यन्तं तच्छिवं शान्तमव्ययम्।।[6-9-393]
अनन्तमिति सार्धश्लोकत्रयं वाक्यम्।। अनन्तत्वादिलक्षणं यदाद्यमुपलम्भनं ज्ञानस्वरूपं वस्त्वस्ति तद्विस्तु शिवं शान्तं अव्ययं चेति कृत्वा।।
तत्कथं कस्य केनैव कर्तृ भोक्तृ कदा भवेत्।
अतो नेदं कृतं किंचिज्जगदेतन्न विद्यते।।[6-9-394]
तत्कथं केन प्रकारेण कर्तृ भवेत्। न कथंचित्कस्यचित्कर्तृत्वं व्यतिरिक्तस्य कार्यस्याभावात्। केन वा उपकरणेन न केनचित्तस्याप्यभावात्। एवं कर्तृत्वाभावात् भोक्तृत्वमपि नास्तीत्यर्थः। अतः कर्त्रभावादिदं जगत्किंचिदपि न कृतं अतश्चैतज्जगन्न विद्यते वस्तुतो नास्ति च।।
चिन्मात्रकल्पितो वेधाश्चिदेवेति विनिश्चितः।
तन्मात्रजनितः सर्गस्तदात्मक इति स्थितिः।।[6-9-395]
अतश्च वेधाश्चिन्मात्रकल्पितत्वाच्चिदेव। सर्गश्च चिन्मात्रजनितश्चिन्मात्ररूपिणा वेधसैव जनितत्वात्तदात्मकश्चिन्मात्रात्मक इत्येवं स्थितो निश्चितः।।
न कर्तास्मि न भोक्तास्मि सर्वं शान्तमजं शिवम्।
इति निश्चयवानन्तरज्ञानं तनुतां नय।।[6-9-396]
नेति।। सर्वं इदन्तया अहन्ताय च प्रतीयमानं सर्वं वस्तु शान्तं अजं शिवं च। अतो न कर्ता भोक्ता चास्मि इत्येवं निश्चयवान्सन् अन्तस्थमज्ञानं तनुतां कृशतां नय।।
अज्ञानं शिथिलीभूतमेवं नष्टं विदुर्बुधाः।
न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः।।[6-9-397]
अज्ञानमिति।। एवं पूर्वोक्तरीत्या शिथिलीभूतमज्ञानं नष्टं विदुः। यस्मान्नाशेन विना पुर्वसंस्थानविच्युतिर्नोदेति असमवायिकारणनाशे कार्यद्रव्यनाशस्य न्याय्यत्वात्पूर्वसंस्थानविच्युतेश्चासमवायिनाशरूपत्वादिति भावः।।
तानवं दृश्यते यस्य तस्यानुक्रमतः स्वयम्।
पूर्वसंस्थानविगमात्प्रशमोऽप्युपपद्यते।।[6-9-398]
तानवमिति।। स एवार्थप्रशमस्तेजोद्रव्यविनाशो निर्विकारता वा।।
तस्माच्चिदात्मकतयात्मनि चित्ततोऽयं नित्यं स्वयं कचति भूमिप देवदेवः।
तेनैव पद्मज इति स्वयमात्मनात्मा प्रोक्तः स्वरूपामिति शान्तमिदं समस्तम्।।[6-9-399]
तस्मादिति।। तस्माद्धेतोः देवदेवः परमात्मा स्वयं स्वात्नि चिदात्मकतया इत्थंभूत एव चित्ततः स्वसंकल्पवशादयं प्रतीयमानप्रपञ्चरूपः कचति स्फुरति। तेनैव देवदेवेनात्मा स्वयं स्वस्वरूपमेव पद्मज इत्यात्मनैव प्रोक्त इति। अतो हेतोरिदं समस्तं देवदेवस्य शान्तरूपम्।।
शिखिध्वज उवाच।।
बुद्धोऽस्मि भगवन्युक्तियुक्तमुक्तं त्वयोत्तम।
कर्तृभावाज्जगन्नास्ति तेन नास्ति पदार्थदृक्।।[6-9-400]
बुद्ध इति।। बुद्धः प्रबुद्धोऽस्मि। कर्त्रभावात्कार्यं जगन्नास्ति। तेन जगदभावेन च पदार्थदृङ्नास्ति इति त्वया युक्तियुक्तमुक्तम्।।
एवं स्थिते विबुद्धोऽस्मि प्रबुद्धोऽस्मि शिवोऽस्मि च।
नमो मह्यं परं चेत्यं न किंचिदिति बोधितः।।[6-9-401]
एवमिति।। यतोऽहमतः परं चेत्यं किंचिदपि नास्तीति बोधितः चिन्मात्ररूपोऽहमेव सर्वात्मा स्फुरामीति बोधवानास्मि। अतः कारणादेवं चिन्मात्र एव स्थितो विशुद्धो निर्मलोऽस्मि। विशुद्धस्वरूपावबोधवानस्मि। तेन च शिवः परमात्मैवास्मि। ततश्च मह्यमेव नमः नन्तव्यस्य देवतान्तरस्याभावात्।।
पदार्थवेदनादित्थमसदेवावभासते।
अहमद्यालमेतेन शान्तमासे खकोशवत्।।[6-9-402]
पदार्थेति।। पदार्थवेदनाद्भेदेन पदार्थानुसंधानाद्धेतोः असदेवेदं जगदित्थमनेन प्रकारेणावभासते। अत एतेन पदार्थवेदनेनालं पर्याप्तम्। अद्येदानीमहं खकोशवदाकाशगर्भवच्छान्तमासे।।
जगत्पदार्थप्रविभागदृष्टिः सदेशदिक्कालकलाक्रियौघा।
अहो नु कालेन चिरेण शान्ता ब्रह्मैव शान्तं स्तितमव्ययात्मा।।[6-9-403]
वसिष्ठ उवाच।।
कुम्भेन बोधितस्त्वेवं स बभूवावबोधवान्।
विनिर्गतो रराजाथ महामोहसमुद्गकात्।।[6-9-404]
एवं कुम्भवाचो राजा भावयंस्तदकृत्रिमम्।
स्व एवात्मपदे तस्मिन्क्षणं परिणतोऽभवत्।।[6-9-405]
जगदिति।। सदेशदिक्कालकलाक्रियौघा देशादिसंवित्सहिता जगत्पदार्थप्रविभागदृष्टिर्जगद्विषया पदार्थभेदविषया च सन्विच्चेरेण शान्ता निवृत्ता अव्ययात्मा शान्तं ब्रह्मैव स्थितं अवस्थितम्।।[6-9-403,404,405]
बभूवामीलितमनोलोचनः शान्तवाङ्मुनिः।
शिलातलादिवोत्कीर्णो निष्पन्दावयवाकृतिः।।[6-9-406]
ततो मुहूर्तमात्रेँ प्रबुद्धस्फुरितेक्षणम्।
तमुवाच महाबाहो चूडाला कुम्भरूपिणी।।[6-9-407]
बभूवेति।। आमीलितमनोलोचनः। मनोमीलनं नाम वृत्तिनिरोधः शिलातलादुत्कीर्णइव टङ्कादिभिः शिलातले उत्कीर्य निर्मित इव।।[6-9-406,407]
कुम्भ उवाच।।
कच्चिदस्मिन्पदे स्फारे शुद्धे मृदुनि निर्मले।
सुतल्पे निर्विकल्पानां सुखं विश्रान्तवानसि।।[6-9-408]
कच्चिदन्तः प्रबुद्धोऽसि कच्चिद्भ्रान्तिस्त्वयोज्झिता।
कच्चिज्ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यमेव वा।।[6-9-409]
कच्चिदिति।। निर्विकल्पानां समाधिभाजाम् सुतल्पे विश्रान्तिस्थाने।।[6-9-408,409]
शिखिध्वज उवाच।।
भगवंस्त्वत्प्रसादेन महाविभवभूषिता।
महती पदवी दृष्टा सर्वस्योर्ध्वं स्थिता मया।।[6-9-410]
सतां विदितवेद्यानामहो बत महात्मनाम्।
अपूर्वैकामृतमयः सङ्गः सारफलप्रदः।।[6-9-411]
जन्मनापि मया लब्धं यन्न नाम महामृतम्।
तदद्य त्वत्समासङ्गात्तेनैवासादितं मया।।[6-9-412]
अनन्तमाद्यममृतमेतत्कमललोचन।
कथं नासादितमभूत्पूर्वमात्मपदं मया।।[6-9-413]
भगवन्निति।। महाविभवभूषिता महाविभवा अणिमादयः। महतीपदवी जीवन्मुक्तमार्गः।।[6-9-410,411,412,413]
कुम्भ उवाच।।
मनस्युपशमं याते त्यक्तभोगैषणे स्थिते।
कषायपाके निर्वृत्ते सर्वेन्द्रियगमस्य च।।[6-9-414]
मनसीति श्लोकत्रयं वाक्यम्।। त्यक्तभोगैषणे त्यक्तविषयाभिलाषे कषायपाके अन्तःकरणपाके सर्वेन्द्रियगमस्य च पाके।।
यान्ति चेतसि विश्रान्तिं विमला देशिकोक्तयः।
यथा सितांशुके शुद्धे बिन्दवः कुसुमाम्भसः।।[6-9-415]
आनुकूल्ये निवृत्ते निष्पन्ने। कुसुमाम्भसः कुसुम्भकुसुमादिरसस्य।।
देहान्मलानि सर्वाणि कालेन कमलेक्षण।
साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः।।[6-9-416]
कालेन यः पाकः तेन वृक्षात्फलानीव देहात्सर्वाणि मलानि विगलन्ति।।
द्वित्वैकत्वदृशौ चित्तं तदेवाज्ञानमुच्यते।
एतयोर्यो लयो दृष्ट्योस्तज्झानं सा परा गतिः।।[6-9-417]
प्रबुद्धोऽसि विमुक्तोऽसि त्यक्तं चित्तं त्वया नृप।
महोदयो मुनिर्मौनी स्वरूपे तिष्ठ निर्मलः।।[6-9-418]
शिखिध्वज उवाच।।
प्रबुद्धस्य न तज्ज्ञस्य चित्तं नाम किल प्रभो।
जीवन्मुक्तास्तदेते हि विहरन्ति कथं वद।।[6-9-419]
द्वित्वेति।। द्वित्वैकल्वदृशौ द्वित्वैकत्वविषये दृष्टी तदेव चित्तं तदेवाज्ञानम् एतयोर्दृष्टयोर्यो लयः तदेव ज्ञानम् सैव परा गतिःकैवल्यम्।।[6-9-417,418,419]
कुम्भ उवाच।।
पुनर्जननयोग्या या वासना घनवासना।
सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते।।[6-9-420]
पुनरिति।। पूर्वोक्ता मलिना वासनैव चित्तम्। सा तु तज्ज्ञस्य नास्तीत्यर्थः।।
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु।
तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम्।।[6-9-421]
ययेति।। तज्ज्ञस्य व्यवहारहेतुः शुद्धवासना सत्त्वमभिधीयते न चित्तमिति।।
मूढं चित्तं चित्तमाहुः प्रबुद्धं सत्त्वमुच्यते।
अप्रबुद्धा हि चित्तस्थाः सत्त्वस्थाः सुमहाधियः।।[6-9-422]
स्वर्गमोक्षादिफलदं यत्किंचित्सर्वमेव तत्।
त्यक्त्वा समस्तमाभासो योऽस्यसावेव वै भवान्।।[6-9-423]
पदार्थौघमगृह्णानस्तिष्ठास्पन्दितचित्तभूः।
अपरिस्पन्दचित्तस्य संसृतिर्नेह धावति।।[6-9-424]
यानि यानीह दुःखानि प्रस्फुरन्ति जगत्रये।
चेतश्चापलजान्येव तानि तानि महीपते।।[6-9-425]
तदेवाह-मूढं मलिनवासनानुविद्धम्। प्रबुद्धं शुद्धवासनम्।।[6-9-422,423,424,425]
अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ त्वमेकताम्।
नीत्वा तिष्ठ यथाकाममैक्यमागत्य शाश्वतम्।।[6-9-426]
अथेति।। स्पन्दः चित्तस्य बहिः प्रसरः अस्पन्दः समाधिः तावेकतां नीत्वा सर्वदा स्वरूपानुसंधानेन विक्षेपाविक्षेपावभेदं नीत्वा शाश्वतं नित्यमैक्यं ब्रह्माद्वैतमागत्य यथाकामं तिष्ठ।।
शिखिध्वज उवाच।।
कथमैक्यं विभो यातः स्पन्दास्पन्दाविमावुभौ।
सर्वसंशयविच्छेदकारणं तद्वदाशु मे।।[6-9-427]
कथमिति।। यात इति लटि द्विवचनम्। विभो कुम्भ।।
कुम्भ उवाच।।
एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधिः।
तदेव स्पन्दते धीभिः शुद्धवारीव वीचिभिः।।[6-9-428]
एकमिति।। सर्वं जगच्चिन्मात्रमेकं वस्तु यथाम्बुधिः सर्वो वार्मात्रं तद्वत् तदेव चिन्मात्रं वस्तु वीचिभिः शुद्धवारीव धीभिर्बुद्धिवृत्तिभिः स्पन्दते।।
ब्रह्म चिन्मात्रममलं सत्यमित्यादिनामकम्।
यद्गीतं तदिदं मूढाः पश्यन्त्यङ्ग जगत्तया।।[6-9-429]
ब्रह्मेति।। ब्रह्मैव मूढजगत्तया पश्यन्तीत्यर्थः।।
सर्गचित्स्पन्दमात्रात्मा सम्यग्दृष्टौ विलीयते।
उदेत्यसम्यगदृष्ट्या तु रज्ज्वां सर्पभ्रमो यथा।।[6-9-430]
सर्ग इति।। चित्स्पन्दमात्रमेष सर्गः। स च सम्यग्गृष्टौ अधिष्ठानयाथाम्यज्ञाने विलीयते। असम्यग्दृष्ट्या तु रज्ज्वां सर्पभ्रम इवोदेति।।
शास्त्रसज्जनसंपत्तिसंतताम्भयासयोगतः।
कालेनामलतां याते चेतसीन्दाविवोदिते।।[6-9-431]
एतत्केवलमाभासं स्वानुभूतिमयं ततम्।
उदेत्यन्तर्महाबुद्धे स्वयमेव महात्मनाम्।।[6-9-432]
शास्त्रेति श्लोकद्वयं वाक्यम्।। स्वानुभूतिमयं स्वप्रकाशम्।।[6-9-431,432]
इति ते कथितं सर्वं शिखिध्वज महीपते।
यथेदमुत्थितं सर्वं यथा च प्रविलीयते।।[6-9-433]
एतत्कृत्वा च मत्वा च बुद्ध्वा च मुनिनायक।
यथेच्छसि तथा तिष्ठ दृष्टस्पष्टपदे पदे।।[6-9-434]
इतीति श्लोकद्वयं वाक्यम्।। एतत्कृत्वा चेतसि कृत्वा मत्वा युक्तिभिरनुसंधाय बुद्ध्वा तत्त्वतोऽवगम्य दृष्टस्पष्टपदे दृष्टस्फुटस्वरूपे पदे जीवन्मुक्तिपदे यथेच्छसि तथा तिष्ठेत्यन्वयः।।[6-9-433,434]
स्वर्गं गच्छाम्यहं पर्वकालेऽस्मिन्नारदो मुनिः।
ब्रह्मलोकात्समायातो भवत्यमरसंसदम्।।[6-9-435]
स्वर्गमिति श्लोकत्रयं वाक्यम्।। अमरसंसदं देवसभाम्।।
न मां पश्यति चेत्तत्र स कोपमुपगच्छति।
नोद्वेजनीया भव्येन गुरवो हि कदाचन।।[6-9-436]
तत्र देवसभायाम्। नोद्वेजनीयाः विक्षेपं न प्रापणीयाः।।
त्यक्तसंकल्पलेखेन न किंचिदभिवाञ्छता।
त्वया सदैव वस्तव्यं दृष्टिरेषा हि पावनी।।[6-9-437]
वसिष्ठ उवाच।।
इत्युक्त्वा भगवान्कुम्भः क्षणादन्तर्धिमाययौ।
गते कुम्भे महीपालः परं विस्मयमाययौ।।[6-9-438]
शिखिध्वज उवाच।।
अहो नु शीतला शुद्धा शान्तेयं पदवी निजा।
रसायनोद्भवाकारा सत्त्वं शान्तयतीव मे।।[6-9-439]
वसिष्ठ उवाच।।
एवं संचिन्तयन्राजा नूनं निर्वासनाशयः।
शैलादिव समुत्कीर्णो मौनमेवावतस्थिवान्।।[6-9-440]
तस्मिन्नेव ततो मौने निःसंकल्पे निराश्रये।
प्रतिष्ठां निश्चलां प्राप्य स तस्थौ गिरिशृङ्गवत्।।[6-9-441]
निर्विकल्पसमाधानात्काष्ठकुह्योपमस्थितिः।
एवं शिखिध्वजो राजा चूडालामधुना शृणु।।[6-9-442]
शिखिध्वजं तं भर्तारं कुम्भवेषेण तेन सा।
प्रबोध्यान्तर्धिमागत्य ततार तरसा नभः।।[6-9-443]
विदग्धमुग्धमाकारं स्त्रैणं जग्राह सुन्दरम्।
स्वपत्तनमथो गत्वा विवेशान्तःपुरं क्षणात्।।[6-9-444]
दृश्या बभूव लोकस्य नृपकर्म चकार च।
वत्सरत्रितयेनाथ पुनरम्बरमेत्य सा।।[6-9-445]
बभूव कुम्भो योगेन शिखिध्वजवनं ययौ।
ततस्तत्रैव तं भूपमपश्यद्वनभूमिगम्।।[6-9-446]
निर्विकल्पसमाधिस्थं तत्रापश्यन्महीपतिम्।
राजानं तावदेतस्माद्बोधयामि परात्पदात्।।[6-9-447]
इति संचिन्त्य चूडाला सिंहनादं चकार सा।
भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम्।।[6-9-448]
त्वया ज किंचिदभिवाञ्छता सदैव त्यक्तसंकल्पलेखेन स्थातव्यम्। लेखा राजिः समूहः।।[6-9-437,438,439,440,441,442,443,444,445,446,447,448]
न चचाल शिलेवाद्रौ यदा नादेन तेन सः।
भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम्।।[6-9-449]
चालितः पातितोऽप्येष यदा न बुबुधे नृपः।
सा तदा चिन्तयामास चूडाला कुम्भरूपिणी।।[6-9-450]
सा चूडाला।।[6-9-449,450]
अहोऽप्युपरतः साधुः स्वपदे भगवानयम्।
आलोकयामि वै तावदेनं देहं महीपतेः।।[6-9-451]
यद्यस्य सत्त्वशेषोऽस्ति बोधबीजं हृदन्तरम्।
तदाहमपि जीवामि प्रभोर्दाम्पत्यसिद्धये।।[6-9-452]
अन्यथा त्वङ्गनादेहमिमं त्यक्त्वा परं पदम्।
अपुनर्जननायैव गच्छामीह हि किं मम।।[6-9-453]
अहो इति श्लोकचतुष्टयं वाक्यम्। देहमालोकयाति जीवितसेषवद्भवति नवेति विचारयामीत्यर्थः। सत्त्वशेषे जीवितशेषः।।[6-9-451,452,453]
वसिष्ठ उवाच।।
इति संचिन्त्य चूडाला स्पर्शेन नयनेन च।
पतिमालोक्य शाशङ्कमुवाच वरवर्णिनी।।[6-9-454]
अस्त्येव सत्तवशेषोऽस्य हृदि संबोधकारणम्।
संबोदहेतूदयने सत्त्वशेषं व्यबुध्यत।।[6-9-455]
राम उवाच।।
प्रबोधकारणं ज्ञस्य दुर्लक्ष्याणुवपूर्हृदि।
विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा।।[6-9-456]
स्वर्शेन प्रामसंचारसूचकेन शरीरगतसर्वमर्मस्थानसंस्पर्शेन। नयनेन च जीवितसूचकेनागलितगोलकेन। रक्तरेखायुक्तेन नेत्रद्वयेन च सत्त्वशेषं व्यबुध्यतेत्यन्वयः।।[6-9-454,455,456]
वसिष्ठ उवाच।।
प्रबोधकारणं ज्ञस्य दुर्लक्ष्याणुवपुर्हृदि।
विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा।।[6-9-457]
प्रबोधेति श्लोकत्रयं वाक्यम्।। ज्ञस्य समाधिस्थस्य दुर्लक्ष्याणुवपुर्हृदि दुर्दर्शसूक्ष्मरूपे हृदि अन्तःसत्त्वशेषो बीजे पुष्पफलमिव विद्यते।।
चित्तस्पन्दिवुमुक्तस्य तस्याचलसमस्थितेः।
कायः समसमाभोगो न ग्लायति न हृष्यति।।[6-9-458]
चित्तस्पन्दविमुक्तस्य अचलसमस्थितेस्तस्य कायः समसमाभोगत्वात् न ग्लायति न हृष्यति।।
नास्तमेति न चोदेति सममेवावतिष्ठते।
पृष्टं ते कथितं राम सांप्रतं प्रकृतं शृणु।।[6-9-459]
नास्तमेति न चोदेति किंतु साम्येन तिष्ठति। पृष्टमेवं कथितम्। सांप्रतं प्रकृतं शृण्वित्यन्वयः।।
इति निर्णीय चूडाला स्वदेहं तं तथा स्थितम्।
संत्यज्य प्राप चित्तत्त्वे स्थितिमाद्यन्तवर्जिते।।[6-9-460]
तत्र सा चेतसः स्पन्दं कृत्वा सत्त्ववतः प्रभोः।
स्वं विवेश पुनर्देहं खान्नीडमिव पक्षिणी।।[6-9-461]
कुम्भाकृतिरथोत्थाय प्रविष्टा निजविष्टरे।
साम गातुं प्रवृत्ता सा भ्रमरीवृन्दनिःस्वना।।[6-9-462]
इतीति श्लोकद्वयं वाक्यम्।। चूडाला इति सत्त्वशेषस्य सत्तां निर्णीय परकायप्रवेशप्रवीणतया स्वदेहं संत्यज्य चित्तत्त्वे स्थितिमाप। तत्र च स्वपरसाधारणे चित्तत्त्वे स्थिता सती प्रभोः शिखिध्वजस्य चेतसः स्पन्दं कृत्वा नीडं पक्षिणीव स्वं देहं पुनर्विवेश।।[6-9-460,461,462]५
तं सामस्वनामाकर्ण्य चित्सत्त्वगुणशालिनी।
बुबुधे भूपतेर्देहे वसन्त इव पद्मिनी।।[6-9-463]
दृशं विकासयामास तां तदार्क इवाब्जिनीम्।
अपश्यत्कुम्भमग्रस्थं स्वस्थचेताः सिखिध्वजः।।[6-9-464]
अहो बत वयं धन्याः पुनः प्राप्तो मुनीश्वरः।
इत्येवोदाहरन्राजा कुम्भाय कुसुमं ददौ।।[6-9-465]
दिष्ट्या दृष्टोऽसि भगवन्नागतोऽसि पुनर्वनम्।
अस्मत्पवित्रीकरणं तवागमनकारणम्।।[6-9-466]
कुम्भ उवाच।।
यतःप्रभृति यातोऽस्मि त्वत्सकाशादनिन्दितम्।
ततःप्रभृति चेतो मे त्वय्येवेह समं स्थितम्।।[6-9-467]
न रमे स्वर्गलीलासु निवत्स्यामि समं त्वया।
त्वादृशो बन्धुराप्तश्च सुहृन्मित्रं तथा सखा।
विश्वास्यो वापि शिष्यश्च मन्ये जगति नास्ति मे।।[6-9-468]
शिखिध्वज उवाच।।
अहो नु फलितं पुण्यपादपैर्नश्चिरार्जितैः।
यस्माद्भवानसङ्गोऽपि वाञ्छत्यस्मत्समागमम्।।[6-9-469]
भवद्वितीर्णया योगयुक्त्या विश्रान्तवानहम्।
यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः।।[6-9-470]
तामेवं स्वां स्थितिं स्वच्छामवलम्ब्य प्रकाशिनीम्।
विहरेयं यथाकामं स्वर्गे भूमितले तथा।।[6-9-471]
कुम्भ उवाच।।
परे पदे महानन्दे कच्चिद्विश्रान्तवानसि।
इदं भेदमयं दुःखं कच्चित्संत्यक्तवानसि।।[6-9-472]
कच्चिदापातरम्येभ्यः संकल्पेभ्यो रतिर्भृशम्।
निर्मूलतां गता राजन् तव तत्त्वार्थदर्शिनः।।[6-9-473]
हेयादेयदशातीतं शान्तं सममवस्थितम्।
यथाप्राप्तेष्वनुद्वेगं कच्चित्तवः मनः स्थितम्।।[6-9-474]
शिखिध्वज उवाच।।
त्वत्प्रसादेन भगवन्दृष्टा दृश्यातिगा गतिः।
प्राप्तः संसारसीमान्तो लब्धो लब्धव्यनिश्चयः।।[6-9-475]
नोपदेष्टव्यमस्माकं किंचिदप्युपयुज्यते।
सर्वत्रैवातितृप्ताः स्मः स्थिताः स्मो विगतज्वराः।।[6-9-476]
तमिति।। भूपतेश्चिच्चेतना बुबुधे।।[6-9-463,464,465,466,467,468,469,470,471,472,473,474,475,476]
निःसंसृतिर्विगतमोहभयो विरागो नित्योदितः शमसमाशयसर्वसौम्यः।
सर्वात्मकः सकलसंकलनाविमुक्त आकाशकोशविशदः सममागतोऽस्मि।।[6-9-477]
वसिष्ठ उवाच।।
इत्यध्यात्मविचित्राभिः कथाभिस्तौ परस्परम्।
आसातां वेद्यवेत्तारौ चरन्तौ विपिने ततः।।[6-9-478]
वनान्यनेकरूपाणि जङ्गलानि तटानि च।
सरांसि गुल्मजालानि मृगादिगहनानि च।।[6-9-479]
सममेव समस्नेहौ समेतौ तौ स्थितावुभौ।
समसत्त्वौ समोत्साहौ चरन्तौ तस्थतुः सह।।[6-9-480]
आनर्चतुः पुदॄन्देवान्बुभुजाते च राघव।
इदं ग्राह्यमिदं नेति विकल्पकलनां मनः।।[6-9-481]
नाजहार तयो राम वात्येव विबुधाचलम्।
विचेरतुस्तौ सुहृदौ क्वचिद्धूलिविधूसरौ।।[6-9-482]
क्वचिच्चन्दनदिग्धाङ्गौ क्वचिद्भस्मानुरञ्जितौ।
दिनैः कतिपयैरेवं समचित्ततया तया।।[6-9-483]
सत्त्वौदारतया चैव राजा कुम्भवदाबभौ।
अथ तं सुरगर्भाभं चूडाला सा शिखध्वजम्।।[6-9-484]
दृष्ट्वा शोभामुपगतं चिन्तयामास भामिनी।।[6-9-485]
निःसंसृतिरिति।। शमसमाशयसर्वसौम्यः शमसमेन शमप्रकारेण आशयेनाभिप्रायेण सर्वत्र सौम्यो हर्षविषादरहितः सकलसंकलनाविमुक्तः संकलनाः कलत्रपुत्रादिममतापाशाः। सममागतोऽस्मि समं सर्वगतं ब्रह्म तत्प्राप्तोऽस्मीत्यर्थः।।[6-9-477,478,479,480,481,482,483,484,485]
निजः पतिरुदारात्मा निराधिश्च नवं वयः।
गृहाणि पुष्पजालानि सा हता या न कामिनी।।[6-9-486]
निज इति श्लोकचतुष्टयं वाक्यम्।। निजः पतिः स च उदारात्मा उदारचित्तो निराधिर्निश्चिन्त उभयोर्नवं वयः पुष्पजालानि पुष्पलतासमूहा एव गृहाणि एवंविधे सुखसाधनसंदेहे सत्यपि या कामिनी भोगेच्छावती न भवति सा हता अनिषिद्धसुखत्यागात्।।
समुज्झता यथाप्राप्तमपि वेद्यविदा सदा।
अनिन्द्यं समुदारार्थं किंतु ज्ञेन कृतं भवेत्।।[6-9-487]
समुज्झतेति।। यथाप्राप्तमपि अनिन्द्यं स्वमात्मीयं उदारार्थं महत्सुखं समुज्झता त्यजता वेद्यविदा वेद्यं ब्रह्म प्राप्तवता ज्ञेन किंनु कृतं भवेत् किंवा प्रयोजनं साधितं स्यात्। न किंचिदित्यर्थः। न्याय्यसुखत्यागी व्यर्थ एव स्यात् इति पूर्वोक्त एवार्थः।।
तत्किंचिद्रचयाम्याशु प्रपञ्चं प्रज्ञया नवम्।
येनायं भूपतिर्भर्ता रमेत मयि मानदः।।[6-9-488]
तदिति।। तत्तस्मात्कारणात्प्रज्ञया स्वप्रज्ञया विशेषेण नवं प्रपञ्चं किंचिद्रचयामि कल्पयामि। येन कल्पितप्रपञ्चहेतुना अयं भर्ता मयि रमेत।।
इति संचिन्त्य चूडाला कुम्भवेषधरा पतिम्।
प्राह काननमध्यस्था कोकिलं कोकिला यथा।।[6-9-489]
इति संचिन्त्य चूडाला पतिं प्राहेत्यन्वयः।।
कुम्भ उवाच।।
चैत्रमासस्य शुक्लोऽयं प्रतिपद्दिवसो महान्।
अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः।।[6-9-490]
संनिधानं मया तत्र कर्तव्यं पितुरग्रतः।
यथास्थिता हि नियतिर्न संत्याज्या कदाचन।।[6-9-491]
चैत्रेति श्लोकपञ्चकं वाक्यम्।।[6-9-490,491]
प्रतिपालयितव्यं तत्त्वयेह चरतावनौ।
क्रीडता ध्यानपुष्पाभ्यां समुद्वेगमगच्छता।।[6-9-492]
आगच्छामि दिनान्तेऽद्य निर्विकल्पं नभःस्थलात्।
स्वर्गादतितरामेव त्वत्सङ्गो मम तुष्टये।।[6-9-493]
इत्युक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम्।
प्रीतये स्वामिवत्प्रीतिं कान्तां नन्दनवृक्षजाम्।।[6-9-494]
ध्यानपुष्पाभ्यां समाधौ ध्यानेन असमाधौ पुष्पेण च क्रीडता। पुष्पशब्दो जातिवाची अतो द्विवचनम्।।[6-9-492,493,494]
आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ।
पुप्लुवे तरसा व्योम शरन्मुखपयोदवत्।।[6-9-495]
शरन्मुखपयोदवत् यथा शरदादौ पयोदो मेघः तरसा व्योम प्लवते लघुत्वात्तद्वदित्यर्थः।।
शिखिध्वजदृशामन्ते व्योम्नि कुम्भवपुर्जहौ।
शान्तावर्तेव वारिश्रीर्मुग्धा स्वं रूपमाययौ।।[6-9-496]
शिखिध्वजेति।। दृशो नयनरश्मयः शान्तावर्तेव वारिश्रीर्यथा वारिसमृद्धिः आवर्तशान्तौ स्वरूपमादत्ते तद्वत्।।
प्राप्य मञ्जरिताकारं कल्पवृक्षोपमं पुरम्।
अन्तःपुरमदृश्येव विवेश ललनाकुलम्।।[6-9-497]
राजकार्यण्यशेषाणि तत्र संपाद्य सत्वरम्।
शिखिध्वजस्य पुरतः कुम्भरूपधरापतत्।।[6-9-498]
प्राप्येति।। मञ्जरिताकारं मञ्जर्यः कृता मञ्जरिताः तादृशा आकाराः प्रासादादिसन्निवेशा यस्मिन्नत एव कल्पवृक्षोपमम्।।[6-9-497,498]
तत्र म्लानद्युति मुखं चकाराखिन्नमानसा।
इन्दुं सनीहारमिव श्यामा खिन्नमिवाम्बुजम्।।[6-9-499]
तं दृष्ट्वा तादृशाकारं समुत्तस्थौ शिखिध्वजः।
बभूव खिन्नचेताश्च समुवाचेदमादरात्।।[6-9-500]
देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे।
कुम्भ संत्यज्य संरम्भमिदमासनमास्यताम्।।[6-9-501]
तत्रेति।। तत्र शिखिध्वजस्य पुरोभागे च चूडाला अखिन्नमानसैव कलनयाशु मुखं म्लानद्युति चकार। श्यामा रात्रिः सा यथा इन्दुं सनीहारं करोति। अम्बुजं वा खिन्नं मुकुलितं करोति तद्वत्।।[6-9-499,500,501]
सन्तो विदितवेद्या ये ते हि हर्षविषादजाम्।
नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम्।।[6-9-502]
वसिष्ठ उवाच।।
तेन क्ष्मापतिनेत्युक्ते कुम्भआहासने विशन्।
गिरा विषण्णाया शीर्णवंशस्वनसमानया।।[6-9-503]
सन्त इति।। पद्मा जलार्द्रतां यथा हि पद्माः कमलानि जले वसन्तोऽपि तज्जन्यामार्द्रतां नाश्रयन्ति तद्वत्।।[6-9-502,503]
कुम्भ उवाच।।
यावद्देहमवस्थासु समचित्ततयैव ये।
कर्मेन्द्रियैर्न तिष्ठन्ति न ते तत्त्वविदः शठाः।।[6-9-504]
यावदिति।। अवस्थासु सुखदुःखदशासु ये यावद्देहं समचित्ततयैव निर्विकारचित्ततयैव कर्मेन्द्रियैर्न तिष्ठन्ति ते तत्त्वविदो न भवन्ति किंतु ते शठा वञ्चका एव।।
ये ह्यतत्त्वविदो मूढा राजन्बालतयैव ते।
अवस्थाभ्यः पलायन्ते गृहीताभ्यः स्वभावतः।।[6-9-505]
ये पुनरतत्त्वविदो मूढाः सन्ति ते बालतयैव हेतुना स्वभावतो गृहीताभ्योऽवस्थाभ्यः सुखदुःखदशाभ्यः पलायन्ते। अवस्थाभिर्विकारं नीय्त इत्यर्थः।।
यावत्तिलं यथा तैलं यावद्देहं तथा दशा।
यो न देहदशामेति स च्छिनत्त्वयसिनाम्बरम्।।[6-9-506]
यावदिति।। तिलेषु सकलेषु तैलमिव देहेष्वपि सर्वेषु सुखदुःखदशास्त्येव। अतो यो देहदशां नैति तावाप्नोति सः असिना अम्बरं छिनत्ति। अम्बरछेदकवद्देहदशारहितोऽपि नास्तीत्यर्थः।।
एष देहदशादुःपरित्यागो ह्यनुत्तमः।
यत्साम्यं चेतसो योगान्न तु कर्मेन्द्रियस्थितेः।।[6-9-507]
एष इति।। योगात्समाधेर्हेतोश्चेतसो यत्साम्यं निर्विकारता एष एवानुत्तमो देहदशादुःखपरित्यागः। कर्मेन्द्रियस्थितेः साम्ये तु देहदशादुःखपरित्याग इति नोच्यते ज्ञानिनामपि तदसंभवात्।।
यावद्देहं यथाचारं दशास्वङ्ग विजानता।
कर्मेन्द्रियैर्हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित्।।[6-9-508]
यावदिति।। तस्माद्विजानता पुरुषेण यावद्देहं देहदशासु यथाचारं स्ववर्णश्रमोचिताचारानुसारेण कर्मेन्द्रियैरेव सह स्थातव्यं न तु बुद्धीन्द्रियैः बुद्धीन्द्रियप्रवृत्तेर्बुद्धिपूर्वकत्वात्। निवृत्तौ निवृत्तेः कर्मेन्द्रियाणां त्वबुद्धिपूर्वमपि प्रवृत्तेः बुद्धिनिवृत्तौ निवृत्त्यसंभवात्।।
परमेष्ठीप्रभृतयः सर्व एवोदिताशयाः।
देहावस्थासु तिष्ठन्ति नियतेरेष निश्चयः।।[6-9-509]
परमेष्ठीति।। परमेष्ठीप्रभृतयो ब्रह्मादयः।।
अज्ञतत्त्वज्ञभूतानि दृश्यजातमिदं हि यत्।
तत्सर्वमेव नियतिं धावत्यम्बु यथाम्बुधिम्।।[6-9-510]
अज्ञेति।। अज्ञतत्त्वज्ञभूतानि अज्ञाः तत्त्वज्ञाश्च प्राणिनः। तर्ह्यज्ञतत्त्वज्ञयोः को विशेष इत्याशङ्क्य श्लोकद्वेयन विशेषं दर्शयन्नाह।।
तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च।
नियतिं यापयन्तीमां यावद्देहमखण्डिताम्।।[6-9-511]
तज्ज्ञा इति।। तज्ज्ञास्तावद्बुद्ध्यादिसाम्येन बुद्धीन्द्रियादिसाम्येन पाण्यादिचलनेन च कर्मेन्द्रियाणामायासेन च यावद्देहं यावद्देहपर्यन्तमेव नियतिमखण्डितां यापयन्ति।।
अज्ञास्तु सर्वक्षोभेण सुखदुःखदशाहताः।
नियतिं यापयन्त्यङ्ग देहलक्षैर्विखण्डिताम्।।[6-9-512]
शिखिध्वज उवाच।।
एवं स्थिते महाभाग कथमुद्वेगमीदृशम्।
लब्धवानसि देवोऽपि वद वेद्यविदां वर।।[6-9-513]
कुम्भ उवाच।।
कथयामि तवाशेषं स्वर्गे यद्वृत्तमद्य मे।
सुहृद्यावेदितं दुःखं परमायाति तानवम्।।[6-9-514]
अहं तावदितो यातो भवते पुष्पमञ्जरीम्।
दत्त्वा गगनमुल्लङ्घ्य संप्राप्तश्च त्रिविष्टपम्।।[6-9-515]
ततः पित्रा सहेन्द्रस्य सभास्थाने यथाक्रमम्।
स्थित्वास्थाय तदोत्थानकाले पित्रा विसर्जितः।।[6-9-516]
इहागन्तुमहं स्वर्गं त्यक्त्वा संप्राप्तवान्नभः।
दिवाकरहयैः साकं वहाम्यनिलवर्त्मनि।।[6-9-517]
अथैकत्र गतो भानुरेकेनान्येन वर्त्मना।
आगच्छाम्यहमाकाशं सागरात्पतिताकृतिः।।[6-9-518]
अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना।
अपश्यन्मुनिमायान्तमहं दुर्वाससं जवात्।।[6-9-519]
कृत्वा तस्य नमस्कारमुक्तं के वहता मया।
मुने लीलाभ्रवस्त्रस्त्वमभिसारिकया समः।।[6-9-520]
इत्याकर्ण्य मुमोचासौ मयि मानद शापकम्।
स्तनकेशवती कान्ता हावभावविकारिणी।।[6-9-521]
गच्छानेन दुरुक्तेन रात्रौ योषा भविष्यसि।
इति श्रुत्वा शुभं वाक्यमुत्थितं जर्जरद्विजात्।।[6-9-522]
विमृशामि मनाग्यावत्तावदन्तर्हितो मुनिः।
इत्युद्विग्नमनाः साधो प्राप्तोऽहं नभसस्तलात्।।[6-9-523]
अतिवाह्यं दिनान्तेषु स्त्रीत्वमेकं मया कथम्।
गुरुदेवद्विजातीनां लज्जापरवशात्मना।।[6-9-524]
कथमग्रे मया सम्यग्वस्तव्यं यामिनीस्त्रिया।।[6-9-525]
शिखिध्वज उवाच।।
परिदेवनया कार्यं देवपुत्र न विद्यते।
यदायाति तदायातु देहस्यात्मा न लिप्यते।।[6-9-526]
यदि त्वमत्र विद्वान्सन्नखेदार्होऽपि खिद्यसे।
तदान्येषामुपायः स्यात्क इवागमभूषण।।[6-9-527]
वसिष्ठ उवाच।।
तावेवमादिभिर्वाक्यैरन्योन्याश्वासनं स्वयम्।
कृत्वा स्थितौ वने स्निग्धौ सुहृदौ खेदिनौ यथा।।[6-9-528]
अथार्कोऽप्यस्य कुम्भस्य स्त्रीत्वमुत्पादयन्निव।
जगामास्तं जगद्दीपो दीपः स्नेहक्षयादिव।।[6-9-529]
सुहृदौ तावदुत्थाय संधअयामुद्यन्निशाकरम्।
वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ।।[6-9-530]
ततः कुम्भः शनैस्तत्र स्त्रैणमभ्याहरद्वपुः।
शिखिध्वजं पुरःसंस्थं प्रोवाच गलदक्षरम्।।[6-9-531]
अज्ञास्तु सर्वेन्द्रियक्षोभेण सुखदुःखदशाहताः सन्तो देहलक्षैरनन्तैः देहैर्नियतिं विखण्डितां विविधं खण्डितां यापयन्तीति शेषः।।[6-9-512 TO 6-9-531]
पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः।
लज्जयैव वने राजन्मध्ये स्त्रीत्वं व्रजाम्यहम्।।[6-9-532]
पश्येमे परिवर्धन्ते राजन्मम शिरोरुहाः।
पश्येमौ मम जायेते प्रोन्मुखावुरसि स्तनौ।।[6-9-533]
पतामीवेति।। लज्जयैव तावदङ्गयिष्टिभिः तनुतरैरङ्गैः पतामीव भूमाविति शेषः। स्फुरामीव द्रवामीव। वने बन्धुमित्रादिरहिते मध्ये नतु जन्मादौ स्त्रीत्वं व्रजामि।।[6-9-532,533]
आगुल्फमवलम्बानि संपद्यन्तेऽम्बराणि मे।
संविदानुभवाम्येतं नितम्बजघने त्विमे।।[6-9-534]
वसिष्ठ उवाच।।
विपिने कुम्भ इत्युक्त्वा तूष्णीं खिन्नो बभूव ह।
राजापि च तमालोक्य खिन्नचित्तोऽभ्युवाच ह।।[6-9-535]
शिखिध्वज उवाच।।
साधो विदितवेद्यस्त्वं जानासि नियतेर्गतिम्।
अवश्यभाविन्यर्थेऽस्मिन्मा खिन्नहृदयो भव।।[6-9-536]
कुम्भ उवाच।।
एवमस्त्वनुतिष्ठामि नृपते स्त्रीत्वमात्मनः।
न खेदमनुगच्छामि नियतिः केन लङ्घ्यते।।[6-9-537]
इति निर्णीय तौ खेदं तं नीत्वा तनुतामिव।
एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण तौ।।[6-9-538]
अथ प्रभाते तत्स्त्रैणं वपुरुत्सृज्य यौवनम्।
बभूव कुम्भः कुम्भाभः कुचप्रोज्झितमूर्तिमान्।।[6-9-539]
इति सा राजमहिषी चूडाला वरवर्णिनी।
कुम्भत्वमाश्रिता भर्तुः पश्चात्स्त्रीत्वमुपागता।।[6-9-540]
विजहार वनान्तेषु कुमारीधर्मिणी निशि।
कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता।।[6-9-541]
ततः कतिपयेष्वेवं गतेषु दिवसेषु सा।
इदं प्रोवाच भर्तारं कुम्भरूपधरा सती।।[6-9-542]
राजन्राजीवपत्राक्ष ममेदं वचनं शृणु।
निशायां प्रत्यहं तावद्भवाम्येवाहमङ्गना।।[6-9-543]
तदिच्छाम्यङ्गनाधर्मं निपुणीकर्तुमीदृशम्।
भर्त्रे कस्मैचिदात्मानं विवाहेन ददाम्यहम्।।[6-9-544]
तद्भवानेन मे भर्ता रोचते भुवनत्रये।
गृहाण मां विवाहेंन भार्या ते निशि सर्वदा।।[6-9-545]
शिखिध्वज उवाच।।
कृतेनानेन कार्येण न शुभं नाशुभं सखे।
पश्यामि तन्महाबुद्धे यथेच्छसि तथा कुरु।।[6-9-546]
आगुल्फमिति।। अम्बराणि बाह्यानि आभ्यन्तराणि चानेकानीति बहुवचनम्। इमे नितम्बजघने नितम्बः स्त्रीकट्याः पश्चाद्भागः जघमं। ते उभे अपि संविदा अन्तरनुभवामि। अत्र नितम्बस्य जघनस्य च मायाल्पितत्वेन देहारम्भकत्वाभावात्प्राण्यङ्गत्वं नास्तीत्येकवद्भावो न कृत इत्यनुसंधेयम्।।[6-9-534,535,536,537,538,539,540,541,542,543,544,545,546]कुम्भ उवाच।।
यद्येवं तन्महीपाल लग्नमद्यैव शोभनम्।
राकेयं श्रावणस्यास्य ह्यः सर्वं गणितं मया।।[6-9-547]
यद्येवमिति श्लोकचतुष्टयं वाक्यम्।।
रात्रावुद्द्योतिते चन्द्रे परिपूर्णकलामले।
जन्यत्रो नौ महाबाहो द्वयोरेव भविष्यति।।[6-9-548]
उत्तिष्ठात्मविवाहार्थे कुर्वन्कमललोचन।
राजंश्चन्दनपुष्पादिसंभारं रत्नसंयुतम्।।[6-9-549]
वसिष्ठ उवाच।।
इत्युक्त्वा कुम्भ उत्थाय सह तेन महीभृता।
कुसुमावचयं चक्रे तथा रत्नादिसंचयम्।।[6-9-550]
राका पूर्णचन्द्रयुक्त्या पूर्णिमायाः पूर्वस्मिन्नहनि। जन्यत्रो जन्या वरस्य स्निग्धाः संबन्धबान्धवास्तांस्त्रायते पालयति वाञ्छितार्थसाधनेनेति जन्यत्रशब्देन विवाह उच्यते। नौ आवयोरेव विवाहो भविष्यति।।[6-9-548,549,550]
तथा जन्यत्रसंभारं कृत्वा काञ्चनकन्दरे।
ययतुस्तौ महामित्रे स्नातुं मन्दाकिनीं नदीम्।।[6-9-551]
तथेति।। जन्यत्रसंभारं विवाहोपयुक्तरत्नकुसुमादिद्रव्यसंभारम्। महामित्रे अतिप्रियसखौ।।
पूजयामासतुः स्नातौ तत्र देवपितॄन्मुनीन्।
यथा क्रियाफलेऽनिच्छौ क्रियात्यागे तथैव तौ।।[6-9-552]
कल्पवृक्षदुकूलानि परिधाय सितानि तौ।
फलानि भुक्त्वा जन्यत्रस्थानमाययतुः क्रमात्।।[6-9-553]
एतावताथ कालेन रविरस्ताचलं ययौ।
सांध्ये कर्मणि निर्वृत्ते वधूत्वं कुम्भ आययौ।।[6-9-554]
उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः।
क्रमेणाग्निं च संज्वाल्य मत्पाणिग्रहणं कुरु।।[6-9-555]
पूजयामासतुरिति।। यथा क्रियाफलेनिच्छौ क्रियायाः सत्कर्मणः फले यथा इच्छारहितौ तथा क्रियात्यागेऽप्यनिच्छौ तत्र वैराग्यात्क्रियाफलेनिच्छौ लोकसंग्रहार्थं क्रियात्यागे।।[6-9-552,553,554,555]
अहं मदनिका नाम भार्या ते पद्मलोचन।
एवमुक्तो महीपालस्तत्सर्वं समवर्तयत्।।[6-9-556]
एवं महेन्द्रदर्यां तावुभौ कुम्भशिखिध्वजौ।
स्वयं विवाहिताविष्टौ संपन्नौ स्निग्धदंपती।।[6-9-557]
विलेसतुर्विचित्रासु प्रत्यहं वनराहिषु।
प्रपक्वफलभारासु पुष्पपल्लविनीषु च।।[6-9-558]
दिनैस्त्रिभिस्त्रिभिर्गत्वा निद्रां याते शिखिध्वजे।
चूडाला राजकार्याणि कृत्वा स्वान्याययौ पुनः।।[6-9-559]
ततो यातेषु मासेषु शनैः कतिपयेषु सा।
चूडाला चिन्तयामास देवपुत्रकरूपिणी।।[6-9-560]
कुम्भ उवाच।।
सांप्रतं भोगभारेण परीक्ष्येऽहं शिकिध्वजम्।
मा कदाचन चेतोऽस्य भोगेषु रतिमेष्यति।।[6-9-561]
वसिष्ठ उवाच।।
इति संचिन्त्य चूडाला सा ययौ विपिनावनौ।
आगतं दर्शयामास ससुराप्सरसं हरिम्।।[6-9-562]
इन्द्रमभ्यागतं दृष्ट्वा परिवारसमन्वितम्।
यथा च पूजयामास वनसंस्थः शिखिध्वजः।।[6-9-563]
ते मदनस्य मदनतुल्यस्य।।[6-9-556,557,558,559,560,561,562,563]
शिखिध्वज उवाच।।
आत्मनः किंकृता दूरादभ्यागमकदर्थना।
देवराज यथावन्मे प्रसादाद्वक्तुमर्हसि।।[6-9-564]
इन्द्र उवाच।।
इमे वयमिहानीतास्त्वद्गुणातिशयेन च।
हृदि लग्नेन सूत्रेण खगा वनगता इव।।[6-9-565]
उत्तिष्ठ स्वर्गमागच्छ तत्र सर्वे त्वदुन्मुखाः।
त्वद्गुणश्रवणाश्चर्याः स्थिता देवाङ्गनागणाः।।[6-9-566]
आकल्पं विविधा भोगास्त्वया विबुधसद्मनि।
जीवन्मुक्तेन भोक्मतव्यास्तेन त्वामहमागतः।।[6-9-567]
शिखिध्वज उवाच।।
सर्वं स्वर्गसमाचारं वेद्मि देवाधिनायक।
किंतु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित्।।[6-9-568]
सर्वत्रैव तु तुष्यामि सर्वत्रैव रमे प्रभो।
अवाञ्छनत्वान्मनसः सर्वत्रानन्दवानहम्।।[6-9-569]
नियतं कं चिदेकत्र स्थितं सर्गकमीदृशम्।
शक्र गन्तुं न जानामि त्वदाज्ञां न करोम्यहम्।।[6-9-570]
वसिष्ठ उवाच।।
एवमुक्ते क्षितिभृता सुरवृन्दमशेषतः।
कल्याणं तेऽस्तु कुम्भेति वददन्तर्धिमाययौ।।[6-9-571]
तां मायां शममानीय चूडाला समचिन्तयत्।
दिष्ट्या भोगेच्छया नायं ह्रियते वसुधाधिपः।।[6-9-572]
शान्तः समसमाभोग एवं शक्रसमागमे।
असंभ्रममहेलं च कृतवान्व्यावहारिकम्।।[6-9-573]
भूय एव प्रपञ्चेन विमृशाम्येव सादरम्।
रागद्वेषप्रधानेन केनचिद्बुद्धिहारिणा।।[6-9-574]
इति संचिन्त्य सा रात्राविन्दावभ्युदिते वने।
संध्याजप्यपरे नद्यास्तीरसंस्थे शिखिध्वजे।।[6-9-575]
संजातकलना गेहं नीरन्ध्रा पुष्पगुच्छकैः।
शुद्धान्तं वनदेवीनां प्रविश्य मदनान्विता।।[6-9-576]
तत्र संकल्पिते पुष्पशयने माल्यमालिना।
कण्ठे संकल्पितें कान्तं स्वाङ्कमादाय संस्थिता।।[6-9-577]
आगत्यान्विष्य कुञ्जान्तः संध्यान्ते स शिखिध्वजः।
मिथुनं तद्ददर्शाथ मिथः प्रहसिताननम्।
तदालोक्याविकारेण चेतसालं तुतोष सः।।[6-9-578]
अहो स्थितौ सुखं खिङ्गावित्याह च शिखिध्वजः।
तिष्ठतोऽङ्ग यताकामं सुखं खिङ्गौ यथासुखम्।।[6-9-579]
विघ्नं मा कुरुतं भीतावित्युक्त्वा निर्जगाम सः।
ततो मुहूर्तमात्रेण प्रपञ्चंम तमुपेत्य सा।।[6-9-580]
निर्ययौ दर्शयन्ती स्वं रतियुद्धाकुलं वपुः।
उपविष्टं ददर्शैनं नृपं हेमशिलातले।।[6-9-581]
समाधिसंस्थमेकान्ते मनाग्विकसितेक्षणम्।
तत्प्रदेशमुपागम्य लज्जावनमितानना।।[6-9-582]
तूष्णीमासीत्क्षणं खिन्ना म्लाना मदनिकाङ्गना।
क्षणाच्छिखिध्वजो ध्यानाद्विरतस्तामुवाच ह।।[6-9-583]
प्रसन्नो मधुरं वाक्यमिदमक्षुब्धया धिया।
तन्वि किं शीघ्रमेव त्वं विघ्नितानन्दमागता।।[6-9-584]
भूयस्तोषयितुं गच्छ कान्तं प्रणयवृत्तिभिः।
परस्परेप्सितस्नेहो दुर्लभो हि जगत्रये।।[6-9-585]
मदनिकोवाच।।
एवमेष महाभाग स्त्रीस्वभावो हि चञ्चलः।
कामो ह्यष्टगुमः स्त्रीणां न कोपं कर्तुमर्हसि।।[6-9-586]
अबला स्त्री तथा बाला मूढाहमपराधिनी।
क्षन्तुमर्हसि नाथ त्वं क्षमावन्तो हि साधवः।।[6-9-587]
शिखिध्वज उवाच।।
मन्युर्मम न बाले हि विद्यते ख इव द्रुमः।
केवलं साधुनिन्द्यत्वान्नेच्छामि त्वामहं वधूम्।।[6-9-588]
वसिष्ठ उवाच।।
एवं समतया तत्र स्थिते तस्मिञ्शिखिध्वजे।
चूडाला चिन्तयामास तत्साम्येनोदिताशया।।[6-9-589]
अहो बत परं साम्यं भगवानयमागतः।
नैनं हरन्ति भोगाशा न महत्योऽपि संपदः।।[6-9-590]
आत्मवृत्तान्तमखिलं तदेनं स्मारयाम्यहम्।
त्यक्त्वा मदनिकारूपं चूडालैव भवाम्यहम्।।[6-9-591]
वसिष्ठ उवाच।।
इति संचिन्त्य चूडाला चूडालावपुराददे।
तां ददर्शानवद्याङ्गीं पुरः प्रणयपेशलाम्।।[6-9-592]
अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः।
शिखिध्वज उवाचेदमाश्चर्याकुलया गिरा।।[6-9-593]
का त्वमुत्पलपत्राक्षि कुतः प्राप्तासि सुन्दरि।
किमिहासि कियत्कालं किमर्थमिह तिष्ठसि।।[6-9-594]
अङ्गेन व्यवहारेम स्मितेनानुनयेन च।
मम जायाविलासेन चूडालेवोपलक्ष्यसे।।[6-9-595]
चूडालोवाच।।
एवमेव प्रभो विद्धि चूडालास्मि न संशयः।
अकृत्रिमेण देहेन लब्धोऽस्यद्य मया स्वयम्।।[6-9-596]
कुम्भादिदेहनिर्माणैस्त्वां बोधयितुमेव मे।
प्रपञ्चशतशाखात्वमिह यातो वनान्तरे।।[6-9-597]
बुद्ध्याविदितवेद्यस्त्वं ध्यानेनैतदखण्डितम्।
सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाथावलोकय।।[6-9-598]
वसिष्ठ उवाच।।
अथ चूडालयेत्युक्तो बध्वा परिकरं नृपः।
आत्मोदन्तमशेषेण ध्यानेनालमवैक्षत।।[6-9-599]
आस्वराज्यपरित्यागाच्चूडालादर्शनावधि।
सर्वमालोक्य भूपालो विरराम समाधितः।।[6-9-600]
विस्तार्य तरसा बाहू पुलोकज्ज्वलतां गतौ।
आलिलिङ्ग चिरं कान्तां समाधिविरतो नृपः।।[6-9-601]
घनानन्दं क्षणं स्थित्वा तूष्णीं प्रणयपेशलम्।
तामथाङ्के समारोप्य प्रोवाच स शिखिध्वजः।।[6-9-602]
एवं दुरुत्तरादस्मात्संसारकुहरादहम्।
उत्तारितो यया युक्त्या सा हि केनोपमीयते।।[6-9-603]
मोहादनादिगहनादनन्तविषमादपि।
पतितव्यवसायिन्यस्तारयन्ति कुलाङ्गनाः।।[6-9-604]
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः।
कथमस्योपकारस्य करिष्ये ते प्रतिक्रियाम्।।[6-9-605]
चूडालोवाच।।
देव शुष्कक्रियाजालपरे त्वय्याकुलात्मनि।
भूयोभूयो भृशमहं त्वदर्थं दुःखिताभवम्।।[6-9-606]
तेन त्वदबबोधान्मे स्वार्थ एवोपपादितः।
मया तत्र कथं देवः करोति मम गौरवम्।।[6-9-607]
तास्तुच्छतृष्णाकलनास्ताः संकल्पकुकल्पनाः।
त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः।।[6-9-608]
शिखिध्वज-आत्मन इति।। आत्मनस्तव दूरात् अभ्यागमकदर्थना दूरादागमनप्रयासः।।[6-9-564 TO 6-9-608]
शिखिध्वज उवाच।।
निरीहोऽस्मि निरंशोऽस्मि नभःस्वच्छोऽस्मि निःस्पृहः।
शान्ताहमर्थरूपोऽस्मि चिरायाहमंह स्थितः।।[6-9-609]
निरीह इति।। शान्ताहमर्थरूपः शान्तः अहमर्थोऽहंकारो यस्मिन् रूपे तादृग्रूपोऽस्मि।।
अकिंचिन्मात्रचिन्मात्रनिष्ठोऽस्मि स्वस्थ आस्थितः।
न तुष्टोऽस्मि न खिन्नोऽस्मि नायमस्मि न चेतरत्।।[6-9-610]
अकिंचिदिति।। अकिंचिन्मात्रचिन्मात्रनिष्ठः अकिंचिन्मात्रं परिपूर्णँ यच्चिन्मात्रं तन्निष्ठोऽस्मि।।
तेजबिम्बात्प्रयातेन भित्तावपतितेन च।
क्षयातिशयमुक्तेन प्रकाशेनास्म्यहं समः।।[6-9-611]
तेजोबिम्बाच्चन्द्रमण्डलादेः प्रयातेन निर्गतेन भित्तौ कुड्यादावाश्रयान्तरे अपतितेन क्षयातिशयमुक्तेन नित्येन निरतिशयेन च प्रकाशेन समोऽस्मि।।
यदस्ति तत्तदेवास्मि वक्तुं शक्नोमि नैव तत्।
तरङ्गतरलापाङ्गे गुरुस्त्वं मे नमोऽस्तु ते।।[6-9-612]
प्रसादेन विशालाक्ष्यास्तीर्णोऽस्मि भवसागरात्।
सर्वातीतः सर्वगश्च खमिवायमहं स्थितः।।[6-9-613]
चूडालोवाच।।
एवं स्थिते महासत्त्व प्राणेश हृदयप्रियम्।
किमिदानीं प्रभो ब्रूहि रोचते ते महामते।।[6-9-614]
शिखिध्वज उवाच।।
प्रतिषेधं न जानामि न जानाम्यभिवाञ्छितम्।
यदाचरसि तन्वि त्वं कदाचिद्वेद्मि तत्तथा।।[6-9-615]
यदेव किंचिज्जानासि तदेव कुरु सुन्दरि।
तदेव धारयिष्यामि प्रतिबिम्बं यथा मणिः।
न स्तौमि न च निन्दामि यथेच्छसि तता कुरु।।[6-9-616]
चूडालोवाच।।
यद्येवं तन्महाबाहो समाकर्णय मन्मतम्।
आकर्ण्य जीवन्मुक्तात्मंस्तदेवाहर्तुमर्हसि।।[6-9-617]
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभयान्विताः।
निरिच्छास्तावदाकाशविशदाः संस्थिता वयम्।।[6-9-618]
तस्मादाद्यन्तमध्येषु ये वयं पुरुषोत्तम।
मौर्ख्यमेकं परित्यज्य गत्वा तद्रूपतां पुनः।।[6-9-619]
राज्येन प्रकृतेनेमं कालं नीत्वा क्रमेण वै।
विदेहतां प्रयास्यामः प्रभो कालेन केनचित्।।[6-9-620]
स्व एव नगरे राजा भव त्वं स्वासने स्थितः।
उत्तमाहं तु कामानां महिषी ते भवाम्यहम्।।[6-9-621]
इदं सुखमिदं नेति मिथुने क्षयमागते।
सममेव पदे शान्ते तिष्ठ त्वं विगतेषणः।।[6-9-622]
शिखिध्वज उवाच।।
युक्तमुक्तं विशालाक्षि त्वयैतत्समया धिया।
कोवार्थः किल राज्यस्य ग्रहे त्यागेऽपि वा भवेत्।।[6-9-623]
सुखदुःदशाचिन्तां त्यक्त्वा विगतमत्सरम्।
यथासंस्थानमेवेमौ तिष्ठावः स्वच्छमागतौ।।[6-9-624]
वसिष्ठ उवाच।।
अथोत्थाय तु चूडाला रत्नकुम्भं पुरः स्थितम्।
कान्तं संकल्पयामास पूर्णँ सप्ताब्धिवारिभिः।।[6-9-625]
तेन मङ्गलकुम्भेन तं पूर्वाभिमुखं स्थितम्।
भार्या भर्तारमेकान्ते स्वराज्येऽभिषिषेच सा।।[6-9-626]
तथासने समास्थाप्य महादेवीं पदे तथा।
अभिषिक्तां नृपः कृत्वा चूडालामाह तां प्रियाम्।।[6-9-627]
शिखिध्वज उवाच।।
प्रिये कमलपत्राक्षि क्षणात्संकल्पसंभवम्।
महाविभवमुद्दामं सैन्यमाहर्तुमर्हसि।।[6-9-628]
वसिष्ठ उवाच।।
इति कान्तवचः श्रुत्वा चूडाला वरवर्णिनी।
सैन्यं संकल्पयामास नीरन्ध्रीकृतकाननम्।।[6-9-629]
तत्र गन्धद्विपवरं कृतपार्थिवमण्डनम्।
रक्षितं हृष्टसामन्तैरारूढौ नृपदम्पती।।[6-9-630]
ततः शिखिध्वजो राजा महिष्या सममिष्टया।
पदातिरप्यसंबाधं कर्षन्नतिबलो बलम्।।[6-9-631]
तस्मान्महेन्द्रशैलेन्द्राच्चलितः स्वां पुरीं प्रति।
प्रापाल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम्।।[6-9-632]
पुरीस्थास्तस्य सामन्तास्तदागमनमादृताः।
विविदुर्जयशब्देन निर्जग्मुश्चोदिताशयाः।।[6-9-633]
एकतां संप्रयातेन तारतूर्यादिना सह।
प्रत्युद्गतेन पूर्वेण स सामन्तेन तेन च।।[6-9-634]
वलद्वयेन तेनासौ विवेश नगरं नृपः।
दशवर्षसहस्राणि राज्यं कृत्वा महीतले।।[6-9-635]
सह चूडालया राम विरतो देहधारणात्।
देहमुत्सृज्य निर्वाणमस्नेह इव दीपकः।।[6-9-636]
अपुनर्जन्मने राजा जगामेति महामतिः।।[6-9-637]
यदिति।। अस्मीत्येतदव्ययमहमित्यर्थे। तत्प्रसिद्धं यद्वस्त्वस्ति अहं तदेवास्मि तत्तद्वस्तु वक्तुं न शक्नोमि नामजात्याद्यभावात्।।[6-9-612 TO 6-9-637]
भुक्त्वा भोगाननन्तान्भुवि सकलमहीपालचूडामणित्वे स्थित्वासौ दीर्घकालं परममृतमनन्तं गतः शून्यशेषः।
एवं रामागतं तं प्रकृतमनुसरन्कार्यजातं विशोकैः स्थित्वातिष्ठत्स्वयं वा प्रसभमनुसरन्भोगमोक्षादिलक्ष्मीम्।।[6-9-638]
इति श्रीवासिष्ठरामायणे मोक्षोपाये निर्वामप्रकरणे किराटचिन्तामणिगजेन्द्रोपाख्यानत्रयगर्भं शिखिध्वजोपाख्यानं नाम नवमः सर्गः।। 9 ।।
ततः परं तावन्योन्यानुमत्या स्वराज्योन्मुखौ संकल्पसिद्धेन सर्वतीर्थजलेन परस्परमभिषिक्तो महता राज्यवैभवेन स्वपुरीं प्रविश्य दशवर्षसहस्राणि साम्राज्यसुखमनुभूय भूयो जन्मविमुक्तां विदेहमुक्तिं जग्मतुरिति कथाशेषसंक्षेपः।।
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे शिखिध्वजोपाख्यानं नाम नवमः सर्गः।। 9 ।।