ललितास्तवरत्नम्
ललितास्तवरत्नम् दुर्वासाः १९१५ |
काव्यमाला।
श्रीदुर्वाससा विरचितं
श्रीललितास्तवरत्नम् ।
वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १ ॥
स जयति सुवर्णशैलः सकलजगञ्चक्रसंघटितमूर्तिः ।
काञ्चननिकुञ्जवाटीकन्दलदमरीप्रपञ्चसंगीतः ॥२॥
हरिहयनैर्ऋतमारुतहरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३ ॥
मध्ये पुनर्मनोहररत्नरुचिस्तबकरक्षितदिगन्तम् ।
उपरि चतुःशतयोजनमुत्तुङ्गं शृङ्गपुङ्गवमुपासे ॥ ४ ॥
तत्र चतुःशतयोजनपरिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं नमाम्यहं नगरमादिविद्यायाः ॥ ५ ॥
प्रथमं सहस्रपूर्वकषट्शतसंख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययोरूपम् ॥ ६॥
तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो घण्टास्तनसारनिर्मितः सालः ॥ ७ ॥
उभयोरन्तरसीमन्युद्दामभ्रमररञ्जितोदारम् ।
उपवनमुपास्महे वयमूरीकृतमन्दमारुतस्यन्दम् ॥ ८ ॥
आलिङ्गय भद्रकालीमासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९॥
तार्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्तिस्तनुताभाचन्द्रतारकं भद्रम् ॥ १० ॥
मध्ये तयोश्च मणिमयपल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ ११ ॥
तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ १२ ॥
नमत तदुत्तरभागे नाकिपथोल्लङ्घिश्रृङ्गसंघातम् ।
सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ १३ ॥
सालद्वयान्तराले सरलालिकपोतचाटुसुभगायाम् ।
संतानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४ ॥
तत्र तपनातिरूक्षः सम्राज्ञीचरणसान्द्रितस्वान्तः ।
शुक्रशुचिनीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिभाकल्पम् ॥ १५ ॥
उत्तरसीमनि तस्योन्नतशिखरोत्कम्पिहाटकपताकः ।
प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ १६॥
प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटी हरतादामूलमस्मदनुतापम् ॥ १७ ॥
तत्र नभश्रीमुख्यैस्तरुणीवर्गै- समन्वितः परितः ।
वज्राट्टहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८ ॥
मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे।
भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ १९॥
अनयोर्मध्ये संततमङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ २०॥
तस्यामिवोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन्स जीयादम्बामामोदमेदुरैः कुसुमैः ॥ २१ ॥
तस्यर्षिसंख्ययोजनदूरे देदीप्यमानश्रृङ्गौघः ।
कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ २२ ॥
मध्ये तयोर्मरुत्पथलङ्घातविटपाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३ ॥
तस्यामतिप्रियाभ्यां सह खेलन्सहसहस्यलक्ष्मीभ्याम् ।
सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४ ॥
उत्तरतस्तस्य महानुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥ २५ ॥
कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरककन्दलितामोदतुन्दिलसमीराम् ॥ २६ ॥
तस्यामतिशिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ २७ ॥
तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलितमधुगन्धम् ।
सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणीशरणम् ॥ २८ ॥
तत्रालये विशाले तपनीयारचिततरलसोपाने ।
माणिक्यमण्डपान्त1र्महिते सिंहासने सुमणिखचिते ॥ २९ ॥
बिन्दुत्रिपञ्चकोणद्विपनृपवसुवेददलकुरेस्वाढ्ये ।
चक्रे सदा निविष्टां षष्टयष्टत्रिंशदक्षरेशानीम् ॥ ३०॥
तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राघरबिम्बद्दष्टदरहासाम् ॥ ३१ ॥
कुङ्कुमपङ्किलदेहां कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां कोकिलनिक्काणकोमलालापाम् ॥ ३२ ॥
2वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चितमुग्धालिकमिलितचित्रकोदाराम् ॥ ३३ ॥
करविधृतकीरशावककलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥ ३४ ॥
आपाटलांशुकधरामादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिकामाद्यां संगीतमातृकां वन्दे ॥ ३५ ॥
तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम संतापं सालो नवमः स पुष्परागमयः ॥ ३६॥
अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनुचिन्तननिस्तन्द्रसिद्धनीरन्ध्राः ॥ ३७॥
तत्सालोत्तरदेशे तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मरागपाकरो मम पराभवं दशमः ॥ ३८॥
अन्तरभूकृतवासाननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥ ३९ ॥
सारङ्गवायोजनदूरेऽसंघटितकेतनस्तस्य ।
गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ ४०॥
वप्रद्वयान्तरोर्व्यां बटुकैर्विविधैश्च योगिनीवृन्दैः ।
सततं समर्चिताया: संकर्षिण्याः प्रणौमि चरणाब्जम् ॥ ४१ ।।
तापसयोजनदूरे तस्य समुत्तुङ्गगोपुरोपेतः ।
वाञ्छापूर्त्यै भवताद्वज्रमणीनिकरनिर्मितो वप्रः ॥ ४२ ॥
वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्या रचयन्तु महान्तमस्मदानन्दम् ॥ ४३ ॥
तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्यत्कलहंसीकुलकलक्कणितपुष्टा ॥ ४४ ॥
रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषितवज्रिनिमुखत्रिदशविनुतचारित्रा ॥ ४५ ॥
तस्योदीच्यां हरिति स्तबकितसुषमावलीढवियदन्तः ।
वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ।। ४६ ॥
अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् ।
कर्कोटकादिनागान्कलयामः किं च बलिमुखान्दनुजान् ॥ ४७ ॥
गन्धवहसंख्ययोजनदूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो वरणो बहलयतु वैदुषीं विशदाम् ॥ ४८ ॥
मध्यक्षोण्यामनयोर्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरीसहायान्भूपालानपि पुनः पुनः प्रणुमः ॥ ४९ ॥
आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु वप्रः ॥ ५० ॥
आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरंदर: श्रीमान् ।
अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ।। ५१ ॥
तत्कोणे व्यजनस्रुक्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ ५२ ॥
दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु मम निखिलमंहसां निकरम् ॥ ५३॥
तस्यैव पश्चिमायां दिशि दलितेन्दीवरप्रभाश्यामः ।
खेटासियष्टिधारी खेदानपनयतु यातुधानो मे ॥ ५४ ॥
तस्या 1उत्तरदेशे धवलाङ्गो विपुलझषवरारूढः ।
पाशायुधात्तपाणि: पाशी विदलयतु पाशजालानि ॥ ५५ ॥
वन्दे तदुत्तरहरित्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधान्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ ५६ ॥
तरुणीरिडाप्रधानास्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रप्रकापिशायनपानपरिभ्रान्तलोचनाः कलये ।। ५७ ॥
तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥ ५८ ॥
तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥ ५९ ॥
तत्पुरषोडशवरणस्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठितान्रुद्राणीसहचरान्भजे रुद्रान् ॥ ६० ॥
पवमानसंख्ययोजनदूरे बालतृणमेचकस्तस्य ।
सालो मरकतरचितः संपदमचलां श्रियं च पुष्णातु ॥ ६१ ॥
आवृतियुग्मान्तरतो हरितमणीनिवहमेचके देशे।
हाटकतालीविपिनं 1हालाघटघटितविटपमाकलये ॥ ६२ ॥
तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं दद्यादायूंषि दण्डनाथायाः ॥ ६३ ॥
सदने तत्र हरिन्मणिसंघटिते मण्डपे शतस्तम्भे ।
कार्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४ ॥
बिन्दुत्रिकोणवर्तुलषडस्नवृत्तद्वयान्विते चक्रे ।
संचारिणी दशोत्तरशतार्णमनुराजकमलकलहंसी ॥ ६५ ॥
को2लवदना कुशेशयनयना कोकारिमण्डितशिखण्डा ।
संतप्तकाञ्चनाभा संध्यारुणचेलसंवृतनितम्बा ॥ ६६ ॥
हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलंकषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७ ॥
धूर्तानामतिदूरा वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाछितार्थाय ॥ ६८ ॥
तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः।
प्रणमत जम्भिन्याद्या भैरववर्गाश्च हेतुकप्रमुखान् ॥ ६९ ॥
पूर्वोक्तसंख्ययोजनदूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्ति विद्रुमसालो विशङ्कटद्वारः ॥ ७० ॥
आवरणयोरहर्निशमन्तरभूमौ प्रकाशशालिन्याम् ।
आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ।। ७१ ॥
वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः संघटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२ ॥
अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् ।
माणिक्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ ७३ ॥
तत्र स्थितं प्रसन्नं तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥ ७४ ॥
शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकपम् ।
मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिकारुचिरम् ॥ ७५ ॥
नालीकदलसहोदरनयनाञ्चल1घटितमनसिजाकूतम् ।
कमलाकठिनपयोधरकस्तूरीधुसृणपङ्किलोरस्कम् ॥ ७६ ॥
चाम्पेयगन्धि कैश्यं शम्पासब्रह्मचारि कौशेयम् ।
श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७ ॥
कम्बुसुदर्शनविलसत्करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८ ॥
तद्वरणोत्तरभागे तारापतिबिम्बचुम्बिनिजशृङ्गः।
विविधमणीगणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥७९॥
प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकरसंकीर्णाम् ।
नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥ ८० ॥
प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१ ॥
तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२ ॥
तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामयकलहंसीमुद्रितकनकारविन्दसंदोहाम् ॥ ८३ ॥
शक्रोपलमयभृङ्गीसंगीतोन्भेषधोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलसत्कारण्डवषण्डताण्डवमनोज्ञाम् ॥ ८४ ॥
कुरुविन्दात्मकहल्लककोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां कन्दलिता2मन्दकैरवामोदाम् ॥ ८५ ॥
तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूरपाटलाङ्गीं सितकिरणाङ्कूरकल्पित्तवतंसाम् ॥ ८६ ॥
पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरी कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७ ॥
निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्ती परितस्तारां तारुण्यगर्वितां वन्दे ॥ ८८ ॥
प्रागुक्तसंख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्यामष्टापदऍष्टमेदिनी रुचिराम् ॥ ८९ ॥
कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥ ९० ॥
माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् ।
अमृतशीत्यभिधानामन्तः कलयामि वारुणी देवीम् ॥ ९१ ॥
सौवर्णकेनिपातनहस्ता: सौन्दर्यग्रविता देव्यः ।
तत्पुरत: स्थितिभाजो वितरन्त्वस्माकमायुषां वृद्धिम् ॥ ९२ ॥
तस्य पृषदश्वयोजनदूरेऽहंकारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ ९३ ॥
विनुमो विमर्शवापी सौषुम्नसुधाखरूपिणीं तत्र ।
बेलातिलङ्घयवीचीकोलाहलभरितकूलवनवाटीम् ॥ ९४ ॥
तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चकलसितां श्यामाविटंबिम्बडम्बरहरास्याम् ॥ ९५ ॥
आभुग्नमसृणचिल्ली हसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६ ॥
कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७ ॥
तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८ ॥
तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥ ९९ ॥
चक्षुष्मती प्रकाशनशक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं मन्ये मार्तण्डभैरवं हृदये ॥ १०० ॥
इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्तशिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१ ॥
तत्र प्रकाशमानं तारानिकरैः 2परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दलमन्त: कलयामि कुन्दुसितमिन्दुम्।।१०२॥
श्रृङ्गारसालमीडे श्रृङ्गोल्लसितं तदुत्तरे 3भागे।
मध्यस्थले तयोरपि महितां श्रृङ्गारपूर्विकां परिस्वाम् ।। १०३ ॥
तत्र मणिनौ4स्थिताभि5स्तपनीयाविरचिताग्निहस्ताभिः ।
श्रृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ १०४ ॥
श्रृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ १०५ ॥
मणिसदनसालयोरधिमध्यं दुशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६ ॥
मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः ।
संततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसंदोहाम् ॥ १०७ ॥
पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकलकूलंकषनिनदनिचयकमनीयाम् ॥ १०८ ॥
पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् ।
(देव्यर्घपात्रधारी तस्या: पूर्वदिशि दशकलायुक्तः ।)
वलयितमूर्तिर्भगवान्वह्निः क्रोशोन्नतश्चिरं पायात् ।। १०९ ।।
तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो ध्वान्तं मम बहलभान्तरं भिन्द्यात् ॥ ११०॥
तस्मिन्दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्य॑म् ।
चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११ ॥
अमृते तस्मिन्नभितो विहरन्त्यो विविधमणितरणिभाजः ।
षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ ११२ ॥
तत्रैव विहृतिभाजो धातृमुखानां च1 कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिला: कलाश्च संतापम् ॥११३॥
कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४ ॥
पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो 2भवन्तु भासा प्रदीपितजगन्ति ।। ११५ ॥
सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥११६॥
तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७ ॥
तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ ११८॥
भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः सचिवेशान्या: समस्तवन्द्यायाः ॥ ११९॥
कुर्मोऽधिहृदयमनिशं क्रोडास्याया: शताकमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो रुचिरपलाकाप्रपञ्चकञ्चुकितम् ॥ १२० ॥
परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्य: ।
कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥१२१॥
प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम्॥१२२॥
योजनयुगलाभोगा तत्क्रोशपरिणाह्यैव भित्त्या च ।
चिन्तामणिगृहभूमिर्जीयादाम्नायमयचतुर्द्वारा ॥ १२३ ॥
द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्ति दिव्या लौहित्यसिद्धयो देव्यः ॥ १२४ ॥
मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् ॥ १२५ ॥
चक्राणां सकलानां प्रथममधःसीमफलकवास्तव्याः।
अणिमादिसिद्धयो मामवन्तु देवीप्रभास्वरूपिण्यः ॥ १२६ ॥
अणिमादिसिद्धिफलकस्योपरि हरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ १२७ ॥
तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः ।
संक्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दश मुद्राः ॥ १२८ ॥
फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चके ।
दीव्यन्तु प्रकटाख्यास्तासां कर्त्री च भगवती त्रिपुरा ॥ १२९ ॥
तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः।
कामाकर्षण्याद्याः कलये देवी: कलाधरशिखण्डाः ॥ १३०॥
सर्वाशापरिपूरकचक्रेऽस्मिन्गुप्तयोगिनीसेव्या ।
त्रिपुरेशी मम दुरितं 1तुद्यात्कण्ठावलम्बिमणिहारा ॥ १३१ ॥
तस्योपरि मणिपीठे ताम्रास्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२ ॥
संक्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्नी गुप्ततराख्या गोपायतु मां कृपार्द्रया दृष्टया ॥ १३३ ॥
संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणीरन्तः कलयामि यावैनोन्मत्ताः ॥ १३४ ॥
सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च संप्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५ ॥
मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये।
संततविरचितवासा: शक्ती: कलयामि सर्वसिद्धिमुखाः ॥१३६॥
सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन्समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७ ॥
तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वज्ञाद्या देव्यः सकला: संपादयन्तु मम कीर्तिम् ॥ १३८ ॥
चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् ।
मनसि निगर्भासहितां मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ १३९।।
सर्वज्ञासदनोपरि चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्या: शक्ती: सिन्दूररेणुरुचः ॥ १४०॥
श्री1सर्वरोगहराख्यचक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१ ॥
वशिनीगृहोपरिष्टाद्विंशतिहस्तोन्नते महापीठे।
शमयन्तु शत्रुवृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२ ॥
शस्त्रसदनोपरिष्टाद्वलये बलवैरिरत्नसंघटिते ।
कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ १४३ ॥
चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री।
त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ १४४ ॥
कामेश्वरीगृहोपरि वलये विविधमनुसंप्रदायज्ञाः ।
चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥ १४५ ॥
2नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः कलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६ ॥
नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७ ॥
सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारं मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८ ॥
परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः।
मायामयी जवनिका मम दुरितं हरतु मेचकच्छाया ॥ १४९ ॥
मञ्चस्योपरिलम्वन्मदनीपुंनागमालिकाभरितम् ।
हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ १५० ॥
पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥ १५१ ॥
फलकं सदा शिवमयं प्रणौमि सिन्दूररेणुकिरणामम् ।
आरभ्याङ्गेशीनां सदनात्कलितं च 1रत्नसोपानम् ॥ १५२ ॥
पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यकोपरि घटितं पातु चिरं हंसतूलशयनं नः ॥ १५३ ॥
तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तफुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४ ॥
सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् ।
2कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५ ॥
पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गित3शफराङ्कनशास्त्रसंप्रदायार्थम् ॥ १५६ ॥
मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधरविसृमरसस्मितकिशोरसंचारम् ॥ १५७ ॥
आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीचीद्विगुणितवकारविन्दसौरभ्यम् ॥ १५८ ॥
पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ १५९ ॥
तस्याङ्कभुवि निषण्णां तरुणक4दम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६० ॥
कुङ्कुमललामभावन्निटिलां कुटिलतरचिल्लिका5युगलाम् ।
नालीकतु6ल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१ ॥
अङ्कुरितमन्दहासामरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥ १६२ ।।
कर्पूरसान्द्रवीटीकवलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३ ॥
कह्वारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलसत्काञ्चनमयकटकवलयसंदोहाम् ॥ १६४ ॥
पाणिचतुष्टयविलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलंकषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५ ॥
अणुदायादवलग्नामम्बुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६॥
करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मो पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७ ॥
कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८ ॥
आदिमरसावलम्बामनिदंप्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीमन्त: कलयामि सुन्दरीमनिशम् ।। १६९ ।।
कस्तु क्षितौ पटीयान्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरंतनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥१७०॥
प्रभुसंमितोक्तिगम्यं परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किंचन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१ ॥
मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् ।
कैरविणीविटचूडं कैवल्यायास्तु किंचन महो नः ॥ १७२ ॥
अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीमनि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३ ॥
भृङ्गरुचिसंगरकरापाङ्गं श्रृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलसभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४ ॥
प्रपदजितकूर्ममूर्जितकरुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शंभोः किंचन मम नर्म शर्म निर्मातु।। १७५ ॥
कालकुरलालिकालिमकन्दल विजितालिविधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं बहुलितगलगरलकेलि किमपि सहः १७६
कुङ्कुमतिलकितभाला कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ १७७ ।।
पुष्पंधयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रोण्यः ।
जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ।। १७८ ।।
तपनीयांशुकभांसि1 द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि क्षपयन्तु कपालितोषितमनांसि ।।१७९ ॥
असितकचमायताक्षं कुसुमशरं कूलमुद्बहकृपाद्रम् ।
आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ।। १८० ॥
कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दिकण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ १८१ ॥
अरविन्दकान्त्यरंतुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः ।
छन्दः क2न्दलमन्दिरमन्तःपुरमैन्दुशेखरं वन्दे ॥ १८२ ॥
बिम्बिनिकुरम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकचं बिब्बोकं कमपि चुम्बतु मनो मे ॥ १८३ ॥
3कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः संपादितकान्त्यलंकृतदिगन्तम् ॥ १८४ ॥
शम्पारुचिभरगर्हासंपादककान्तिकवचितदिगन्तम् ।
सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ १८५ ॥
उद्यद्दिनकरशोणानुत्पलबन्धुस्तनंधयापीडान् ।
करकलितपुण्ड्रचापान्कलये कानपि कपर्दिनः प्राणान् ॥ १८६ ॥
रशनालसज्जघनया रसना जीवातु चापमासुरया ।
घ्राणायुष्करशरया घ्नातं चित्तं कयापि वासनया ॥ १८७ ।।
सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो नासामणिशोभिवदनया भरितम् ॥१८८।।
1नवयावकाभसिचयान्वितयागजयानया दयापरया ।
धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ।।१८९॥
अलमलमकुसुमबाणैरबिम्बशोणैरपुण्डूकोदण्डैः ।
अकुमुदवान्धवचूडैरन्यैरिह जगति दैवतमन्यैः ॥ १९० ॥
कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकै।।१९१॥
नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो महसे नवनी3पाटलाय नमः ॥ १९२ ॥
कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरंतनगिरां भूम्ने कस्मैचिदाददे प्रणतिम् ।। १९३ ॥
कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलंकषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४ ॥
कोकनदशोणचरणात्कोमलकुरलालिविजितशैवालात् ।
उत्पलसुगन्धिनयनादुररीकुर्मो न देवतामन्याम् ॥ १९५ ॥
आपाटलाघराणामानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनानामाकूतानां हरस्य दासोऽस्मि ॥ १९६॥
पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनो मदीयं कास्वपि कायारिजीवनाडीषु ॥ १९७ ।।
। ललिता पातु शिरो मे ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८ ।।
पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९ ॥
कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् ।
श्रृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥ २०० ॥
स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ २०१॥
कोदण्डिनी च वक्षः कुक्षिं चाव्यात्कुलाचलतनूजा ।
कल्याणी च वलग्नं कटिं च पायाकलाधरशिखण्डा ॥ २०२ ॥
ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात्पादौ च पाशसृणिहस्ता ॥ २०३ ॥
प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४ ॥
भार्या रक्षतु गौरी पायात्पुत्रांश्च बिन्दु1गृहपीठा!
श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ २०५ ॥
पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ २०६ ॥
कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥२०७॥
अभिनव सिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये।
उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोला: ॥ २०८ ॥
वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सित्तवर्णां वाचो निर्यान्त्ययन्नतो वदनात् ॥ २०९ ॥
कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥२१०॥
शीर्षाम्भोरुमध्ये शीतलपीयूषवर्षिणी भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ २११॥
मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रावतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥२१२ ॥
ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ २१३ ॥
इति श्रीभगवता दुर्वाससा विरचितं ललितास्तवरत्नं समाप्तम् ।