लेखकः:पाणिनिः
अष्टाध्यायी (Dr. Sujaikumar.C.K, Asst.Professor, Department of Sanskrit General, SSUS, Kalady) भारतस्य धैषणिकपारम्पर्यस्य वैदेशिकानां सम्मानपात्रस्य एक एव ग्रन्थो भवति पाणिनिमहर्षिणा विरचिता अष्टाध्यायी। यास्कानन्तरं भाषा संस्कारकर्तृषु पाणिनिमहर्षिः विशेषरूपेण प्रसिद्धः। अनेन महाशयेन भाषा व्याकरणनियमानुसारं चतुस्सहस्रेषु सूत्रेषूपनिबद्धा। अधिकाश्च विद्वांसः पाणिनिसमयं क्रिस्तोः पूर्वं 700-750 मध्ये इति चिन्तयन्ति। अष्टाध्यायी स्वविशिष्टवशात् अद्यापि भाषाविज्ञानक्षेत्रस्य अमूल्यं रत्नमस्ति। अष्टाध्याय्याः पविशिष्टतामधिकृत्य चिन्तायां सूत्ररीत्या अतिविस्तृतं व्याकरणशास्त्रं लिखितमस्मिन् ग्रन्थे, पाणिनिमते भाषायाश्चरमावयवं वाक्यं न तु शब्दः।, पाणिनिः शब्दात् सुबन्तं, तिङन्तं , अव्ययमिति त्रिधा विभजति। एकाक्षरधातुभिः सम्पूर्णशब्दानां रचना कृता। अत एवोक्तं पतञ्जलिना -महता यत्नेन सूत्रं प्रणयति स्म इति।। शास्त्रीयरीत्या शास्त्रविषयं सूत्ररूपेण (अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखं अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः।।) चतुर्षु अध्यायेषु परस्परपूरकत्वनेन विविधानां युक्तीनां बलेन च व्याकरणशास्त्रं अनेनाचार्येण निगदितम्।