लौगाक्षि गृह्य सूत्राणि/कण्डिका ११-२०


अथ
एकादशी काण्डिका ।
नवं नवावसानं समं समवस्रावं समवस्रुत्य वा यस्माद्वा प्रागुदीचीरापो निर्द्रवेयुः प्रत्यगुदीचीर्वा तस्मिन्प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयेत् ॥ १ ॥
अध्याहिताग्निं वक्ष्यति । तत्संबद्धमि-
दमनागतावेक्षणेनाभिधीयते । सहधर्मचारिणीमुडोढुकामस्तस्मिन्देशविशेषे शरणं कारयेत्
स्थपत्यादिभिर्विवहनात्पूर्वमेव । कीदृशं शरणम् ।
प्राग्द्वारं दक्षिणद्वारं वा । तथा नवं अन्यानुप- युक्तदार्वादिनिर्मितम् । नवावसानं अवसानं भूप्रदेशः नवप्रदेशमित्यर्थः । सममनिम्नोन्नतम्। समूलं प्रशस्त क्रीडाकुसुमादिमूलयुक्तम् । सम- वस्रावं समोऽवस्रावो यत्र तत्समवस्रावं, उदकं प्रक्षिप्तं यत्र समं कृत्वा स्रवति सञ्चरति, तत्समवस्रावं, अतिरश्चीनमित्यर्थः । समवस्रावं यद्भूमंडलं तस्मिन्निति संबन्धः । समवस्रुत्य
वा यस्मात्प्रागुदीच्यः आपो निर्द्रवेयुः, प्रत्यगु- दीच्यो वा निर्हरेयुः निर्गच्छेयुः । अथवा प्रतीचीमुदीचीं वा यत्रापो गच्छन्ति, तस्मिं- स्तिरश्चीनेऽपि शरणं कारयेत् ॥ १ ॥
मध्यमायाः कर्ते प्रागग्रोदगग्रान्दर्भानास्तीर्य तेषु स्थूणामवदधाति ॥
ध्रुवां सिनोम्यमृतस्य पत्नी क्षेमे तिष्ठ घृतमुक्षमाणा । तां त्वा स्थूणे सर्ववीराः सुवीरा अरिष्टवीरा इह संविशेम ॥
इहैव स्थूणे अमृतेन रोहाश्वावती गोमत्यमृतावती सूनृतावती । ऊर्जस्वती पयस्वती चास्मान्स्थूणे पयसाभ्याववृत्स्व ॥
आ त्वा कुमारस्तरुण आ वत्सो जगता सह । आ त्वा परिस्रुतः कुम्भ आ दध्नः कलशैरयमिति ॥ २॥
मध्यमायाः स्थूणायाः स्तम्भस्य सम्ब- न्धिनि कर्ते 'कृती च्छेदने' कृत्यते इति कर्तः खातः गर्तस्तस्मिन् प्रागग्रानुद्गग्रान्वा स्वस्ति-
कसन्निवेशभाजो दर्भानास्तीर्य, तेष्वेव दर्भेध्व- धिकरणभूतेषु स्थूणां स्तम्भं मध्यममव- दधाति प्रक्षिपति ||
प्रक्षेपे चेदं मन्त्रत्रयमाह ध्रुवामित्यादि
कृत्वा सिनोमि प्रक्षि- पामि गर्ते । त्वं हि अमृतस्य अमरणधर्मकस्य पत्नी पालयित्री । अतः क्षेमे तिष्ठ क्षेमनिमित्तं तिष्ठ । किं कुर्वती । घृतमुक्षमाणा ददती घृतग्रहणं सर्वसम्पदुपलक्षणार्थम् । यत एवं - भूतासि, अतस्तां त्वां हे स्थूणे वयमाविशेमे त्या- शास्महे । प्रविष्टाश्च सन्तस्त्वदायत्तं गृहमिहैव जन्मनि सर्ववीराः बहुपुत्राः, सुवीराः सुपुत्राः, अरिष्टवीराः अनुपहिंसितपुत्राश्च स्याम ॥
1
स्थूणे इहैव स्थाने अमृतेनाविनाशिना रूपेणोपलक्षिता सती रोह रूढा भव । कीदृशी सती । अश्वावती अश्वयुक्ता । एवं गोमती । अमृतैश्च गृहमानुषैर्युक्ता सती । सूनृतं सत्यं वैदिकं च कर्म यागादिकं, तद्वती । ऊर्जस्वती 'ऊर्ज बलप्राणनयोः' प्राणयन्ती बलवती वेत्यर्थः । पयस्वती क्षीरवती । सर्वसमृद्धियुक्त-
मस्मदृहं कुर्वित्यर्थः । अत एवाह 'अस्मान्स्थूणे पयसाभ्यावृत्स्व' हे स्थूणे अस्मान् पयःप्रभृ- तिना आभिमुख्येन वर्तमानेन आववर्तयख ॥ किंच त्वां कर्मभूतां कुमारस्तरुण आविशतु, वत्सश्च आविशतु । एकवचनं व्यत्ययेन बहु- वचनस्थाने | जगता जंगमेन गर्भवासादिना परिस्रुतः परिवृतो दुग्धस्य कुम्भस्त्वाविशतु अयं दध्नः कलशैः सह ॥ २ ॥
प्राञ्चं वंशं समारोपयति ऋतेन स्थूणामधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथा रयिं सर्ववीरा वयन्त इति ॥ ३ ॥
मत्रमाह ऋतेन स्थूणामिति
विराट् | हे वंश ऋतेन सत्येन अपातिना रूपेण त्वं स्थूणामधिरोह स्तम्भस्योपरि तिष्ठ । कीदृशः। उग्रः अनभिभवनीयः सन् विशेषेण रा- जमानः। अन्यञ्च अपसेध नाशय शत्रून् आत्मी- यान् स्थितिप्रतिबन्धहेतुभूतान्, आस्माकांश्च । स्तम्भाधिष्ठात्री देवतैवमभिधीयते । एवं
च शत्रून् अस्मदरींश्चाभिभूय निश्चिन्तं गृहाधि- तर त्वयि स्थिते सति, अथा अनन्तरं तव वयमेव सर्ववीराः बहुपुत्रयुक्ताः रयिं धनं भविष्यामः प्रतिदिनं हविर्दानेन वयमेव हि स्वभूताः । इतिशब्दो मन्त्रसमाप्तिप्रतीकः । मध्यमवंशस्तम्भयोः मन्त्रविनियोगादितरस्त- म्भवंशानाममन्त्रकं तूष्णीमेवारोहणं शस्यते ॥
उत्तरपूर्वं समाधानम् ॥ ४॥
'प्राञ्चं वंशं समारोपयति' इति 'प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयेत्' इति चोक्तम् । तत्र प्राग्द्वारतापक्षे पूर्वाग्रता वंशसमाधानस्य भावयितव्यैतदर्थमिदं सूत्रम् । समाधानं सम्यगाधानं वंशस्यारोपणं कुड्यकोटिषु ॥
इति एकादशी काण्डिका ॥ ११ ॥
 

अथ
द्वादशी काण्डिका
'अमी वहा वास्तोष्पते' इति चतसृभिर्वास्तोष्पतीयस्य स्थालीपाकस्येष्ट्वाथ वास्त्वाविशेत् ॥ १ ॥
अथ विवाहे कृते वैवाहनानौ प्रवेशिते- ऽनन्तरमध्याहिताग्निको वास्त्वाविशेत् ॥ वसन्त्यस्मिन्निति वास्तु गृहम् । किं कृत्वा प्रविशेत् । वास्तोष्पतीयस्य स्थालीपाकस्येष्ट्वा । वास्तोर्गृहस्य पतिरधिष्ठात्री देवता वास्तोष्पतिः मयूरव्यंसकादित्वात्सुपोऽलुङिपातनम्। वास्तो- पतिर्देवता यस्य स वास्तोष्पतीयः 'वृद्धाच्छः' व्यत्ययेन षष्ठी स्थालीपा के नेष्ट्रा, अवयवावय- विसम्बन्धेन वा, नहि समस्तोऽसौ हूयते भक्ष्यसंरक्षणात् । ननु चेष्ट्रा आविशेदित्युक्तम- युक्तं प्रविश्य यजनात् ? सत्यं, किन्त्वध्यवसा- पौर्वकाल्येन नेत्रे सम्मील्य हसतीत्यादिवत् ।
याजयित्वेति वा णिजर्थो योजनीयः । निर्वा- पस्यामत्रकस्येष्टत्वात् 'अमी वहा:' इत्यादिना ' चतसृभिः' इत्यन्तेन शिष्यहितार्थं चतस्रः पठित्वार्पयति ॥
अमी वहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः ॥ १ ॥
वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशोऽनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभि- रिन्दो | अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥ ३ ॥
वास्तोष्पते शग्मया संसदाते सक्षीम हिरण्वया गातु- मत्या | पाहि क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभिः सदा नः ॥ ४ ॥
प्रथमा गायत्री | अन्यास्त्रिष्टुभः । वास्तो- ष्पतिरन्तरिक्षतिवासी वायुः, यद्वा प्राणः । हे वास्तोष्पते गृहस्वामिन् विश्वेषां सर्वेषाम- स्मत्परिजनानां रूपाणि स्वरूपाणि आविशन् अधितिष्ठन् अमी अमून् परिजनानावह प्रापय पूर्वमेतानेव गृह प्रवेशय । प्रथमं परिजनस्य गृहप्रवेशमनुजानीहि पश्चादस्माकमिति भावः ।
एवमेवानुतिष्ठन्नोऽस्माकं सखा मित्रं सुप्रवेशनी- यो भव ॥
हे वास्तोष्पते प्रतिजानीह्यस्मान् गृहपतिः परमः सन् अस्मानप्यवान्तरखामितयांगी- कुर्वित्यर्थः । खावेशः सुखप्रवेशश्च नोऽस्माकं भव । तथानमीवो व्याधिशून्योऽस्माकं भव । किंच तुभ्यं किञ्चिद्मो हविरादिकं, तन्नो ऽ- स्माकं सम्बन्धि जुषस्व भजख । तथा शं सुखं नो भव द्विपदे मानुषरूपे, चतुष्पदे गवा- श्वादिके ॥
हे वास्तोष्पते नः अस्माकं प्रतरणः प्रकर्षेण संसारसागरक्लेशतरणः एधि भव । 'अस भुवि ' लोट्, सिपि ह्यादेशः 'हुझल्भ्यो' (६|४|१०१) इति धित्वं 'ध्वसोरेद्धावभ्यासलोपश्च' (६|४|११९) । गयस्फानः गयं गृहं गृहे स्फीतः सन् गोभि- रश्चैश्व सहितः हे इन्दो परमेश्वर ते तव सख्ये वर्तमाना वयमजरासः अजीर्णाः स्याम । त्वं च नोऽस्मान्प्रतिजुषस्व प्रीणीहि । क इव कान् । पितेव पुत्रान् ॥
हे वास्तोष्पते या त्वां संसदाते सेवते विभूतिस्तया वयमपि सक्षीम 'षच समवाये' युज्येमहि । कीदृश्या । शग्मया सुखरूपया, हिरण्वया तिरमणीयया हिरण्ययुक्तया वा, गातुमत्या कीर्तिरूपगानयुक्तया उद्गातृगीत- युतया च । यच्चास्माकं किञ्चिरमुत्कृष्टं त्व- त्प्रसादोपनतं, तत्सर्वं पाहि रक्ष । किं कुर्वन् । अलब्धलाभात्मके योगे, प्राप्तपरिरक्षणरूपे च क्षेमे वर्तमानः । उतशब्दश्चार्थे । किंवा वि- शेषेण वास्तोष्पतिरेव प्रार्थ्यते । हे गृहदेवताः एवं सर्वा एव यूयं नोऽस्मान् स्वस्तिभिरवि- नाशैः ः पात रक्षत सर्वकालम् ॥ १ ॥
वंशोद्वीक्षणिकान्ब्राह्मणान्भोजयेत् ॥२॥
तस्मिन् गृहे ब्राह्मणान् भोजयेत् । तस्य च कर्मणो वंशोद्वीक्षणिकमिति नाम । ते हि वंशानुद्वीक्षमाणा भुञ्जते ॥ ३ ॥
इति द्वादशी काण्डिका ॥ १२ ॥
 
अथ
त्रयोदशी काण्डिका ।
अथ पाकयज्ञाः ॥ १ ॥
सहधर्मचारिण्या सार्धं यो गृहप्रवेशः, तद्- नन्तरं पाकयज्ञाः कर्तव्यास्तदनुष्ठानावसर- लाभात् । पाक निर्वर्त्या यज्ञाः पाकयज्ञास्तेषामा- सूत्रणमात्रमिह क्रियते, विस्तरेण ते वक्ष्यन्ते ॥
चतुर्विधः पाकयज्ञो भवति हुतोऽहुतः प्रहुतः प्राशितश्चेति ॥ २॥
बहुवचनेनोपक्रान्तानामिहैकवचनं यज्ञत्व- सामान्यापेक्षया एकस्यैव चातुर्विध्यं प्रत्यक्षस्येव चाक्षुषादिभेदेनेति प्रदर्शनाय । चतुर्णामेवा- वान्तरभेदाः षट् । यानाह गौतमः
'अष्टकाः पार्वणश्राद्धं श्रावण्याग्रहायणी चैत्री आश्व- युजी च ।'
इति 'षट्पाकयज्ञसंस्थाश्च' इति । तत्र हुतो हव- ननिर्वत्र्त्यो वैश्वदेवादिः । अहुतस्त्वहवन साध्यो बल्युपहारादिः । यस्य तु प्रारम्भे हवनं, स
प्रहुतोऽन्वष्टकादिः । प्रकृष्टेनाशनेन निर्वर्त्यते योऽतिथिब्राह्मणभोजनादिः, स प्राशितः । सर्व- वायं यागो देवतोद्देशेन द्रव्यसंकल्पनात् ॥
हुतो हुतानाम् ॥ ३ ॥
प्रकृतिरिति शेषः । इहत्यानां हुतानां वैदिको होमः प्रकृतिरित्यर्थः । यतः इति- कर्तव्यतोपजीव्यते, सा प्रकृतिः । योपजीवति, सा विकृतिः । तथाच वैश्वदेवे प्राकृताः समू- हनपर्युक्षणपरिस्तरणस्वाहाकारान्नप्रक्षेपादयः क्रियाः क्रियन्ते ॥ ३ ॥
उपहारोऽहुतानाम् ॥ ४॥
वैदिक उपहारोऽत्रत्यानामुपहाराणां प्रक- तिः । अत्रोपनिविष्टरमास्तीर्यावाहनं कृत्वा स्रजो गन्धांश्चोपहृत्य धूपं प्रदाय बल्युपक- ल्पनमिति इतिकर्तव्यता ॥ ४ ॥
पिण्डपितृयज्ञः प्रहुतानाम् ॥ ४ ॥
वैदिकः पिण्डपितृयज्ञोऽत्रत्यानां प्रहुतानां प्रकृतिः । वैश्वदेवशेषपिंडप्रतिपत्तित्वात्तदीय-
पिण्डमन्त्रा ग्रासासनदानादयश्च तद्धर्मा भवन्त्यतिदेशात् ॥ ४ ॥
मधुपर्को ब्रह्मौदनश्च प्राशितानाम् ॥५॥
प्राशिता द्विविधा अतिथिभोजनदानात्मानो ब्राह्मणभोजन वितरणात्मानश्च । तत्रातिथिभो- जनादावस्यातिथ्ये वैदिको यो मधुपर्कः, सप्र- कृतिः । तत्र च श्रोत्रियाणां पाद्यार्घ्यमधुपर्क- पूर्व मांसप्रधानं भोजनमित्यादिर्विध्यन्तः । देवताविशेषोद्देशेन तु ब्राह्मणभोजनदाने आ- धानविहितो ब्रह्मौदनः प्रकृतिः, तत्रापि बहि- र्युक्तेष्वासनेषु उपवेशनं अर्घ्यदानादिकं सघृत- मन्नं देवतायै संकल्प्य 'प्राश्नन्तु भवन्तः' इत्य- नुज्ञानपूर्वकं चाशनमित्यादिरित्थंभावः ॥५॥
दर्शपूर्णमासप्रकृतयः पाकयज्ञाः ॥६॥
साधारणेतिकर्तव्यतातिदेशीऽयम् । असाधारणास्तु पूर्वमितिकर्तव्यता निदर्शिताः ॥६॥ दार्शपौर्णमासिके विध्यते अविशेषेण प्राप्ते कचिदपवादमाह
तेष्वावृदुपचारस्तूष्णीम् ॥ ७ ॥
आवृत् क्रिया । उपचारोऽनुष्ठानम् । तूष्णीं निर्वापावघातादिक्रियानुष्ठानममन्त्रकमित्यर्थः ॥
अनर्थलुप्तम् ॥ ८ ॥
यहुतार्थं निष्प्रयोजनं तत्प्रकृतौ दृष्टमपि न कर्तव्यं विकृतावमत्रकमपि । यथा पेषण- कपालोपधानादि स्थालीपाके निष्प्रयोजनम् । एवं सामिधेनीनां लुप्तत्वात् समिदाधानं लुतार्थत्वान्न कर्तव्यं प्रयाजाभावाच्चोपभृत् । सामिधेन्याद्यभावस्तु वक्ष्यमाणात्परिसंख्या- नात् । नचैतावता दर्वि होमगृहमे धीयादि- वदपूर्वत्वं पाकयज्ञानां किं दर्शपूर्णमासप्रकृ- तित्वाभिधानेनेति वाच्यं जुहूहोमादिधर्मोप- जीवनात् ॥ १३ ॥
इति त्रयोदशी काण्डिका ॥ १३ ॥
 
अथ
चतुर्दशी काण्डिका ।
उदगयने भार्यां विन्देत ॥ १ ॥
" स्नात्वा भार्यामधिगच्छेत्” इति स्नाना- नन्तरं भार्यान्वेषणकालः । भरणमर्हतीति भार्या 'अर्हे कृत्यतृचश्च' ( ३।३।१६९) इति ण्यत् । विन्देत लभेत पश्येदित्यर्थः । उदगयने आ- दित्यस्य दक्षिणदिग्भागादुत्तरदिग्भागाभिमु- खगमने सति उत्तरायण इत्यर्थः ॥ १ ॥
नक्षत्राण्याह
कृत्तिकास्वातिपूर्वैर्वरयेत् ॥ २ ॥
कृत्तिका च स्वातिश्च पूर्वाणि च तैर्वरयेत् कंचित्प्रयुञ्जीत नतु स्वयं वृणुयादित्यौचित्यं णिचा दर्शयति ॥ २ ॥
लक्षणिना लक्षणानि परीक्षयेत् ॥३॥
हस्तादिलक्षणवेदिना लक्षणानि शुभसूचकानि परीक्षयेत् । पाठक्रमादर्थक्रमस्य ब-
लीयस्त्वाद्यथार्थं क्रमो ज्ञेयः - लक्षणपरीक्षण-
पूर्वकं वरणमिति ॥ ३ ॥
लक्षणालाभे परीक्षायाः करणान्तरमाह
भागधेयमपि वा पिण्डैः परीक्षयेत् ॥४॥
अपिशब्द उपायान्तराभ्युपगमे । वाशब्दो विकल्पे । पिण्डैर्वा भाग्यानि परीक्षयेत् भर्त- र्यनुकूलत्वापादनानि पूर्वोक्तालाभ इत्यर्थः ॥
वेद्याः सीताया हृदाद्गोष्ठादादेवनादादहनाच्चतुष्पथादिरिणात्संभार्यं नवमम् । ऋतमेव परमेष्ठ्यृतं नात्येति किञ्चन । ऋत इयं पृथिवी श्रिता सर्वमिदमियमसौ भूयादिति ॥ ५ ॥
यज्ञार्थी वेदिः प्रसिद्धा । सीता हलो- खाता भूमिः । अशोष्यः पद्माद्याकरो जला- शयो हृदः । गोष्ठं गवाश्रयो गोकुलादिः । आदीव्यन्त्यस्मिन्नादेवनं कितवस्थानम् । आद- ह्यन्तेऽस्मिन्नित्यादहनं श्मशानम् । स्वस्तिकाका- रेण सम्बध्यमानं मार्गद्वयं चतुष्पथः । इरिणं
ऊषरप्रदेशः । एतेभ्यः प्रत्येकैकं पिण्डं गृह्णी-
यात् । संभार्यं च नवमम्, वेद्यादिभ्यो लेशं लेशं मृदः संभृत्य, नवमं कुर्यादित्यर्थः ॥
वेद्यादिभ्य उद्धृतानां पिण्डानामनुमन्त्रणे मत्रमाह ऋतमेवेति । इतिशब्दः सर्वप्रतीकार्थः । परमेष्ठी प्रजापतिः । ऋतं सत्यं नात्येति नाति- वर्तते किमपि । अतः सोऽत्र सन्निहितो भूत्वा सत्यं द्योतयतु । इयमपि वेद्यादिरूपा पृथिवी ऋते आश्रिता । असावित्युक्ते नाम प्रतीयात् । कन्या उच्यते असौ शोभावत्यादिसंज्ञिता । इयं प्रत्यक्षत्वेन वर्तमानत्वात् । इदं भूयः सत्यप्रकाशयोः ॥ ५ ॥
कन्याया नाम गृहीत्वा सर्वतः कृतलक्षणान्पिण्डान्पाणावादाय कुमार्या उपनामयेदेतेषामेकं गृहाणेति ब्रूयात् पूर्वेषां चतुर्णामेकं गृह्णतीमुपयच्छेत् ॥ ६ ॥
वेदिसताहृद्गोष्ठोद्धृतानामन्यतमं गृह्णीया- चेदोद्वहेदेनाम्, इतरग्राहिणीं तु वर्जयेत् ।
'वेदिपिण्डे हि वेदार्थक्रिया साहाय्यमावहेत् । प्रजावतीति सीतायां गोष्ठपिण्डे गवादिकम् ॥ इदपिण्डे ह्रदोद्भूतकुसुमाभरणोचिता । तृप्तिदा चैत्यहेतुश्च भर्तृजीवनकारिणी || श्मशाने विधवावश्यं द्यूतभूमौ कलिप्रिया । इरिणे नित्यसंतप्तावकीर्णा च चतुष्पथे ॥'
सम्भार्यमपीत्येके ॥ ७॥
मन्यन्ते इत्यध्याहारः । गृह्णतीमुपयच्छेदि- त्यनुषंगः ॥ ७ ॥
रोहिणी मृगशिरः श्रविष्ठोत्तरा इत्युपयमे ॥ ८ ॥
उपयमः स्वीकारः, तत्रैवानुकूलानि नक्ष-
त्राणि एतानीत्यर्थः ॥
यद्वा पुण्योक्तम् ॥ ९ ॥
पुण्योक्तं ज्योतिःशास्त्रोक्तं यथासम्भवमनु- सर्तव्यमित्यर्थः ॥
इति चतुर्दशी काण्डिका ॥ १४ ॥
 
अथ
पञ्चदशी काण्डिका ।
अथ ब्राह्मदेयायाः प्रदानविधिं वक्ष्यामः ॥१॥
ब्राह्मेन विधिना या दीयते सा ब्राह्मदेया । तस्याः प्रकृष्टे दाने विधिमितिकर्तव्यतां व- क्ष्यामः । अथेत्यधिकारार्थः । ब्राह्मो दैव आर्षः प्राजापत्य आसुरो गान्धर्वो राक्षसः पैशाच इत्यष्टौ विवाहाः । तत्र ब्राह्मासुरव्यतिरेकिणां षण्णां विधानं सुप्रथितं नेह वचनमर्हति । तेन ब्राह्मासुरयोरेवेतिकर्तव्यतोक्ता । तथाहि प्रसह्यापहारात् राक्षसो विवाहः, तत्र किं प्रकाराभिधानेन । एवमसंविज्ञातोपगमात्यै- शाचोऽपि प्रकारवचनानर्होऽतिपापत्वात् । स्वय- मिच्छन्त्या सहेच्छावतः संयोगो गान्धर्वः, तत्राप्यसाधारणेतिकर्तव्यता । सह धर्मश्चर्यतां, सहापत्यमुत्पाद्यतां धर्मे चार्थे च कामे च न व्यभिचरितव्यमिति प्राजापत्यविधिः प्रथितः ।
अलंकृत्य कन्यान्तर्वेद ऋत्विजे प्रदीयते, - इति दैवो विवाह उक्तः स्मृतिकारैः । गोमि- थुनं कन्यावते दद्यादित्यार्षस्य विधानम् ॥१॥
शुक्लपक्षस्य पुण्याहे पर्वणि वोदगग्रान्दर्भानास्तीर्य तेषूपविशतः प्राङ्मुखः प्रतिग्रहीता सामात्यः प्रत्यङ्मुखः प्रदाता ॥ २ ॥
शुक्लपक्षस्य सम्बन्धिनि प्रशस्ते ज्योतिः - शास्त्रविशुद्धे दिवसे पर्वणि वा पौर्णमासीरूपे, विष्टरविशेषे पवित्रार्थमुत्तरदिगग्रान्दर्भाना-
स्तीर्य, तेषु तयोर्दातृप्रतिग्रहीत्रोरुपविशेत् प्राङ्मुखो भूत्वा । कः । प्रतिग्रहीता । कीदृशः । सामात्यः परिजनसहितः । प्रदाता पुनः प्रत्य- मुख उपविशेत् तथैव सामात्यो दर्भानास्ती- र्योदयान् ॥ २ ॥
मध्ये प्रागग्रोदग्रान्दर्भानास्तीर्य तेषूदकं सन्निधाय व्रीहियवानुप्य दक्षिणत उदङ्ङासीन ऋत्विगुपयमनं कारयेत् ॥ ३ ॥
तयोर्दातृप्रतिग्रहीत्रोर्दक्षिणदेशे उत्तराभि- मुख उपविष्टः सन् ऋत्विग्विशेषः आचार्यस्त- योः उपयमनं दातृप्रतिग्रहीतुसम्बन्धं कारयेत् । किं कृत्वा । दातृप्रतिग्रहीत्रोर्मध्ये प्रागग्रानु- दांश्च दर्भानास्तीर्य, तेषु च दर्भेषु कांस्यपा- त्र्यामुदकं सन्निधाय तत्रोदकमध्ये ब्रीहि- यवस्यावपनं कृत्वा । अथ 'उदकं सन्निधाय' इति सामान्यवचनात्कंसस्य कुतो लाभः ? 'कंसे हिरण्यं समुप्य' (१६५ ) इति दर्शनात् ॥३॥
समेतेष्वाह ददानीति प्रतिगृह्णामीति त्रिरावेदयते ॥ ४ ॥
समेतेषु सङ्घटितेषु दातृप्रतिग्रहीतृवन्धुषु सत्सु ऋत्विग्ब्रूयात्, दातुस्तावदिदं ब्रूयात् कन्यास्मै प्रदीयतामिति, प्रतिग्रहीतुः कन्या- स्मात्प्रतिगृह्यतामिति । ततो ददानि ते ददा- नि ते, ददानि ते इति त्रिरुच्चारयेति दातारं बोधयेत् । दाता च तथैव कुर्यात् । एवं प्रति- गृह्णामि इत्यपि ऋत्विजावेदितः प्रतिग्रहीता ब्रूयात् । 'त्रिःसत्या हि देवाः' इति श्रुतिः,
'त्रिरभिहितं न व्यभिचारि भवति' इति त्रि- रुच्चारणमिष्टमत एवं समेतेष्वाहेत्युक्तम् । बहुजनसन्निधौ दत्तां प्रतिगृहीतां च नापहर्तुं त्यक्तुं वा शक्ष्यतीति ॥ ४ ॥
एतद्वः सत्यमित्युक्त्वा 'समाना वः' 'सं वो मनांसि' इति ऋत्विगुभौ समीक्षमाणो जपति ॥ ५ ॥
एतद्दानप्रतिग्रहकर्म युष्माकं सत्यमव्य- भिचरितमस्त्विति लौकिकोक्त्या ऋत्विक 'स- माना' इत्यादि ऋग्द्वयं जपति, उभौ दातृप्र- तिग्रहीतारौ वीक्षमाणः ॥
समाना व आकूतानि समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥ १ ॥ सं वो मनांसि संव्रता समु चित्तान्याकरम् । अभी ये विव्रताः स्थन तान्न सन्नमयामसि ॥ २ ॥ अनुष्टुभौ । हे दातृप्रतिग्रहीतारौ वः यु- माकं सम्बन्धीन्याकूतान्यभिप्रायाः समाना- स्तुल्यान्येकरूपाणि आसति सन्तु, कस्यचि - दपि कन्यापहाराद्यभिप्रायो दुष्टो माभूदि- त्यर्थः । एवं मनः समानमस्तु, अहं च वो युष्माकं तथा आ अकरं करोमि जपेन, यथा
सुसह असति सुष्ठु वः सहभावो भवति, तथा मनांसि समाकरं, व्रतानि च संमिलितानि करोमीत्यर्थः । एवं चित्तानि चैतन्यानि समा- करमिति योज्यम् । ये च युष्माकं मध्ये वित्रता विरुद्धाचाराः यूयमिति केचित्, अमी इति प्रत्यक्षं तानेव मुखविकारादिना दुरा- चारान्दर्शयति, स्थन भवथ, तान्न सन्नमया- मसि नेतिवर्णोपजनः तान्वयं सन्नयामः सम्यक् नतान् कुर्मः सदाचारान् संपाद- याम इत्यर्थः ॥ ५ ॥
इति पञ्चदशी काण्डिका ॥ १५ ॥


अथ
षोडशी काण्डिका ।
आसुरविवाहविधिमाह
अथ शुल्कदेयायाः ॥ १ ॥
प्रदानविधिरुच्यते इति शेषः । शुल्केन मूल्येन दीयते या, सा शुल्कदेया ॥ १ ॥
हिरण्यं व्यतिहरतः ॥ २ ॥
सुवर्ण विजिगीषया परस्परं ददतो दातृ- प्रतिग्रहीतारावसुरत्वात्, दस्युविजिगीषुप्रधा- नत्वाच्चासुराणां राजसत्वेनान्योन्योपचारं कु- रुत इति शस्यते । कन्यामूल्यभूतं तु सुवर्णं व्यतिहरतो निश्चिनुतो द्वौ दातृप्रतिग्रहीतारौ सम्भूयेत्यर्थद्वयं तत्रेणावगम्यते ॥ २ ॥
प्रजाभ्यस्त्वेति प्रददाति ॥ ३ ॥
तत्प्रकृतं हिरण्यं प्रजाभ्यस्त्वेत्यनेन ददाति वरः कन्यायाः पित्रे, हे हिरण्य प्रजार्थं त्वा- महं ददानि ॥ ३ ॥
रायस्पोषाय त्वेति प्रतिगृह्णाति ॥४॥
कन्यायाः पिता । रायस्पोषाय त्वां प्रति- गृह्णामि ॥ ४ ॥
कंसे हिरण्यं समुप्य 'हिरण्यवर्णाः' इति चतसृभिः समवमृशन्ते ॥ ५ ॥
तत्कन्या मूल्य भूतं हिरण्यं प्रतिगृहीतं कांस्य- पात्रे निधाय जलयुक्तं 'हिरण्यवर्णाः' इति ऋग्भिश्चतसृभिः समवमृशन्ते उपस्पृशन्ति घोरपापविशुद्धये । वहुवचनं सर्वबंध्वपेक्षं स- र्वेषां पापभागित्वप्रदर्शनाय । हिरण्यवर्णा इत्याद्याः संमार्जनावसरे व्याख्याताः ॥ ५ ॥ प्रजाभ्यस्त्वा ददानि । रायस्पोषाय वा प्रतिगृह्णामि ॥ इत्येतावन्तावेव मत्रौ केचित्प्रयुञ्जते वाक्य- परिसमाप्तेरिषे त्वेत्यादिवत्, अन्यमते तु प्रजा- भ्यस्त्वानुप्राणन्तु त्वं च प्रजाः अनुप्राणि- हीति प्रथमस्य, सुप्रजार्थं च वीर्यार्थं च त्वामहं प्रतिगृह्णामीति द्वितीयस्य शेषः ॥
इति षोडशी काण्डका ॥ १६ ॥
 
अथ
सप्तदशी काण्डिका ।
अथ विवाहमाह
गौदानिकैर्मन्त्रैः कन्यामलङ्कृत्य चतुष्पादे भद्रपीठे प्रागासीनायाश्चतस्रोऽविधवा माता पिता च गुरुः सप्तमस्तां सहस्रच्छिद्रेण पवित्रेण स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्रायेन्द्राण्यै कामाय भगाय ह्रियै श्रियै लक्ष्म्यै पुष्ट्यै विश्वावसवे गन्धर्वराजाय स्वाहेति ॥ १ ॥
पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तदनुसारेण व्याख्या कर्तव्या यथा जातं जनिना जुहोति जातमतिप्राणितीति, तथाग्निहोत्रेण जुहोति यवागूमधिश्रयतीति । तेनायमर्थः - पादच- तुष्टययुक्ते भद्रपीठे शोभने आसने प्रामुख्या उपविष्टायाश्चतसृषु दिक्षु चतस्रोऽविधवा भवन्ति, वामभागे माता, दक्षिणभागे पिता,
अग्रे गुरुः संस्कारस्य कर्ता सप्तमः । तेषु यथास- निवेशं स्थितेषु गोदाने भवा गौदानिकास्त- न्मन्त्रैस्तां गुरुः कन्यां सहस्रच्छिद्रयुक्तेन पवि- त्रेण पावनेन वस्त्रविशेषेण सुप्रजस्त्वाय गौ- दानिकैरेव मत्रैः कटककेयूरादिभिर्यथाविभ- वमलंकृत्याह तेनानुपभुक्तेन वाससा प्रच्छाद्य स्थालीपाकेन गुरुर्जुहोति । अत्र पल्लवचतुष्टयं वस्त्रस्य पवित्रस्य चतस्रोऽविधवा अवष्टनन्ति । पितरौ जलमभिषिञ्चतः । गुरुर्मन्त्रपाठ करोति । स्नापनेऽलंकरणे च गुरुरेव प्रयोजक- कर्ता, तेन होमेन समानकर्तृकत्वम्। ये त्वलं- करणं विपरीतलक्षणया केशवपनं व्याचक्षते, अमाङ्गलिकास्ते । स्थालीपाकस्येत्युपादीयमान- गतत्वादेकत्वं विवक्षितं पशुगतैकत्ववत् । जुहोतीत्येकवचनं एक एव होमो नवस्वप्या- हुतिषु, - इति प्रत्यभिज्ञानबलेन सूचयति, तेनै- वाहुतीर्निगदिति । विश्वावसवे गन्धर्वराजा- येत्येवाहुतिस्तेन नव भवन्ति । इन्द्रः परमे - श्वरः । इन्द्राणी शची । कमनीयः कामः । भजनीयो भगः । हीर्लज्जा । श्रीः श्रयणीया ।
लक्षणीया लक्ष्मीः । पोषः पुष्टिः । स्वाहा
सुहुतमस्तु ॥ १ ॥
नाडीं तूणवं मृदङ्गं पणवं सर्वाणि च वादित्राणि गन्धोदकेन समुपलिप्य कन्या प्रवादयते 'स्वनं वद दुन्दुभे सुप्रजस्त्वाय गोमुख | प्रक्रीडयन्तु कन्याः सुमनस्यमानाः सहेन्द्राण्या कृतमंगलाः ॥' इति ॥ २ ॥
नाड्यादीनि सर्वाणि वादित्राणि गन्धो- दकेन सुगन्धिनोपलिप्य पूर्वं कन्यैव प्रवादय- ते । वाद्यमानेषु च गुरुमंत्रं पठति । तत्र नाडी वंशः, तूणवो गोमुखो वाद्यविशेषः । मंत्रार्थस्तु हे दुन्दुभे पटह स्वनं वायुं वद वाढ्य शब्द कारय । किमर्थम् । सुप्रजस्त्वाय सत्प्रजार्थम् । एवं हे गोमुख खनं वदेति पूर्ववत् । प्रक्रीडन्तु अन्योन्यं कन्याः सखिभूताः प्रक्रान्तविवाहया कन्यया सहिताः । ता अपि हि कन्या एव भ वितुमर्हन्ति समानशीलानां सखित्वस्यान्यो- न्यान्तरत्वात् । कीदृशः कन्याः । सुमनस्य- मानाः सुमनस्का हृष्टा इत्यर्थः । इन्द्राण्या सह
इन्द्राण्यप्यत्रोत्सवे क्रीडितुमवतरत्वित्याशा- स्यते । सुमंगला मंगलप्रधानगीतघोषिण्यः ॥ अथ गौदानिकमंत्रा व्याख्यायन्ते
या आपो दिव्याः पयसा संबभूवु- र्या अन्तरिक्ष्या उत पार्थिवासः ।
तासां त्वा सर्वासां रुचाभिषिंचामि वर्चसा ॥ अभि त्वा वर्चसासिचं यज्ञेन पयसा सह । यथासो मित्रवर्धनस्तथा त्वा सविताकरत् ॥ इन्द्राय स्वाहा ॥
पूर्वा विराट् । उत्तरानुष्टुप् । या दिव्या दिवि भवा आपो, याश्च अन्तरिक्ष्या अन्तरिक्षे भवाः, याश्च पार्थिवासः पार्थिव्यः, पयसा सम्बभूवुः क्षीरेण यज्ञोपयोगिना सम्भूताः, तासां सर्वासां रुचा दीत्या वर्चसा च सारेण बन हे कन्ये त्वामभिषिञ्चामि त्वामहमभ्य- सिचमभिषिञ्चामि यज्ञेन पयसा वर्चसा सह यज्ञादियोग्यां च करोमीत्यर्थः 1 मित्रस्य मेह- नस्य स्वर्गपशुपुत्रादेरसौ यज्ञादेश्व वर्धनो यथा भवति, तथा सविता आदित्य अकरत् तव करोतु हे कन्ये । इन्द्राय सुहुतमस्तु ॥ २ ॥ इति सप्तदशी काण्डिका ॥ १७ ॥
 
अथ
अष्टादशी काण्डिका ।
यज्ञियस्य वृक्षस्य प्रागायतां शाखां सकृदाच्छिन्नां सूत्रतन्तुना प्रच्छाद्य सावित्रेण कन्यायै प्रयच्छति 'या तेऽलक्ष्मीर्मातृमयी पितृमयी संक्रामणी सहजा वापि काचित्तां तिष्येण सह देवतया निर्भजामि निर्णुदामि सा द्विषन्तं गच्छतु तिष्यबृहस्पतिभ्यां नमो नमः' इति ॥१॥
यज्ञमर्हति यज्ञियः 'यज्ञर्विग्भ्यां घखनौ' (५/१/७१ ) इति घः, यज्ञार्हाणां वृक्षाणां वटा- दीनामन्यतमस्य सम्बन्धिनीं शाखां सकृदा- च्छिन्नां सूत्रतन्तुना प्राच्यां दिश्यायतां प्रसृतां सकृदेकेनैव प्रहारेण छिन्नामेकसारेण सूत्रत- न्तुना प्रच्छाद्य कन्यायै प्रयच्छति 'देवस्य त्वा' इत्यादिना 'तां प्रयच्छामि' इति शब्दान्तेन ॥ गुरुर्गृहीतशाखां कन्यामनुमन्त्रयते ' या ते ' इत्यादिना ।
हे कन्ये या ते तव काचिदलक्ष्मीरलक्षणं मातृमयी पितृमयी वा मातुः पितुर्वा सकाशा- संक्रान्ता बीजादिदोषात् अन्यतो वा कुत- श्चित् संक्रान्ता, तामहमनेन मत्रेण निर्भ- जामि त्वां प्रति निर्भागां करोमि । किमेककः । नेत्याह तिष्येण देवतया सहकृतः, तथा निर्गुदामि निःशेषेण नुदामि अपसारयामि । सा चापसारिता सती द्विषन्तं तव शत्रुं ग- च्छतु । अलक्षणापसारे चोद्यतस्य मम विघ्ना- पसारणाय तिष्यबृहस्पतिभ्यां नमस्कारोऽस्तु । अन्ये तु 'तिष्यबृहस्पतिभ्यां नमो नमः' इत्येतं यजुरेकदेशमाच्छिद्य शाखोत्सर्गेऽपि प्रयुञ्जते ॥
तस्या उत्सर्गः स्थावरोदके शुचौ वा देवतायतने ॥ २ ॥
स्थावरोदकं तडागादि । तत्र तस्याः शा- खाया उत्सर्गः प्रतिपत्तिकर्म शुचौ देवगृहे । देवगृहं मद्योपहारशोणितादिना अपवित्रमपि सम्भाव्येत, तदर्थं शुचिग्रहणम् ॥
इति अष्टादशी काण्डिका ॥ १८ ॥

अथ
एकोनविंशी काण्डिका ।
अथातो हविष्यकल्पं व्याख्यास्यामः ॥ १
हविष्यकल्प इति पारिभाषिकी कर्मविशे- षस्य संज्ञा ॥ १ ॥
दशवार्षिकं ब्रह्मचर्यं कुमारीणां द्वादशवार्षिकं वा ॥ २ ॥
वर्षदशकादूर्ध्व कुमारी न स्थापयितव्या पित्रा, अगत्या वा द्वादश वर्षाणि नाति- क्रमणीयानि ॥ २ ॥
ब्रह्मचर्यान्ते गन्धर्वे देवकुले वा द्वावग्नी प्रज्वाल्य द्वौ पशू उपाकरोत्यर्यम्णे दक्षिणं प्राजापत्यमुत्तरम् ॥ ३ ॥
ब्रह्मचर्यावसाने विवाहात्पूर्वं गन्धर्वे निर्नि मित्तजलस्राविण देशे, देवतायतने वा लौकिकौ द्वावग्नी प्रज्वाल्य, द्वौ पशु च्छागौ कन्यासंस्कारार्थमुपाक्कुर्यात्पशुकल्पवत्, एक- मर्यम्णे दक्षिणभागवर्तिन्यग्नौ, द्वितीयं प्रजाप-
तये उत्तरदिग्भागवर्तिन्यग्नौ । इतिकर्तव्यतां स- मन्त्रव्याख्यानां पशुकल्पे एव व्याख्यास्यामः ॥
असम्भवे त्वेकपशुः ॥ ४ ॥
प्रचुराद्यभावे एक एव द्विदैवतः पशु- रुपाकर्तव्यः । अवदानानि च हृदयादिभ्यो मेदोऽन्तेभ्यो द्वादशभ्यो द्विर्द्विर्ग्रहीतव्यानि । 'अर्यमप्रजापतिभ्यां स्वाहा' इति चोहः । एक एव च योगः संहतयोरेकदेशत्वधर्म समवायात् । अत एवच केचित् हृदयादिभ्यो द्विगुणानि अवदानानि नेच्छन्ति ॥ ४ ॥
तण्डुलैर्वा कुर्यात् ॥ ५ ॥
धनदौर्गत्ये सति अहिंसानियमे वा तण्डुलैर्वा कुर्यात् । तण्डुलग्रहणं पिष्टार्थम् ॥ ५ ॥
यथास्थानं पशुर्यथास्थानमवदानानि तथा हविः ॥ ६ ॥
यत्रैव स्थाने आज्यभागाभ्यां पूर्वो मुख्यप- शुः, तत्रैव पिष्टकपशुः, अवदानान्यपि हृदया- दिभ्यस्तद्वत् । तेषां च श्रपणहोमौ सर्वदा - न्यापीतिकर्तव्यता रशनाबन्धयूपनियोजनो
पायेन विशसनादिः । लुप्तार्थवर्ज हविः पशु- पुरोडाशस्थाने स्थालीपाकस्तदपि यथास्थानं पशुपुरोडाशक्रमे, वपाहोमस्थाने त्वाज्यहोमः ॥
अग्निं सोमं वरुणं मित्रमिन्द्रं बृहस्पतिं स्कन्दं रुद्रं वात्सीपुत्रं भगं भगनक्षत्राणि कालीं षष्ठीं भद्रकालीं पूषणं त्वष्टारं महिषिकां च गन्धाहुतिभिर्यजेत ॥ ७ ॥
सुगन्धचन्दनघनसारादिद्रव्ययुतेनाज्येना-
हुतयो गन्धाहुतयः, ताभिरम्यादिकाः सप्तदश देवता यजेत । वात्सीपुत्र इति देवतानाम यतः शब्दैकसमधिगम्या देवता । विभक्ति- विपरिणामेन चतुर्थ्यन्तैः स्वाहाकारयुक्तैः शब्दैरुद्दिश्याम्यादिदेवता यष्टव्याः 'अग्नये स्वाहा' इत्यादिकैः ॥
इति एकोनविंशी काण्डका ॥ १९ ॥
 
अथ
विंशी काण्डिका ।
अथातो हविष्यपुण्याहः ॥ १ ॥
इयमपि पारिभाषिकी संज्ञा । हविष्येण व्रीह्यादिना पुण्येऽहनि क्रियमाणता शब्द - प्रवृत्तिनिमित्तम् ॥ १ ॥
उदकान्तं गत्वा यथोपपत्ति वा पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्राणी वरुणानी गन्धर्वाण्युदकान्यग्निर्जीवपुत्रः प्रजापतिर्महाराजः स्कन्दोऽर्यमा भगः प्रजानक इति ॥ २ ॥
उदकस्य समीपं गत्वा अतिदूरतडागा- दिके तु ग्रामे, यथोपपत्ति यत्रोपपद्यते स्थाने, तत्र क्षीरे स्थालीपाकं कृत्वा मांगलिकविल्वा- क्षोटादिफलोपेताभिः सर्वोषध्यादिगन्धयोगि- नीभिश्चाद्भिरामलकैः कन्यां स्नापयेत् । सशि-
रस्कामित्यनेनान्यदा स्त्रीणामशिरस्कमपि स्नानं भवतीति सूचयति । स्नापनाहतवस्त्राच्छादन- व्यवधानेन च स्थालीपाकेन होम:, स्नानाच्च पूर्व स्थालीपाक इति विवक्षितः क्रमः । च- तुर्थ्या देवतापदपरिणामः स्वाहाकारश्च पूर्ववत् । जीवपुत्रोऽग्निरित्येकैव देवता जीवः प्राणो वायुः पुत्रो रक्षकोऽस्येति बहुव्रीहिरन्य पदार्थप्रधानो योग्यश्च सन्निहितोऽग्निरेवान्यपदार्थः । महाराज इत्यत्र 'न पूजनात् ' ( ५।४।६९) इति प्रतिषेधो नास्ति नियमाश्रयणात् 'पूजायां स्वतिग्रहणं कर्तव्यम्' इति वचनात् अन्यथा हि परमराज इत्यादावपि टचः प्रतिषेधः स्यात् । ये महाराजा इत्याकारान्तं पठन्ति ते स्वति- नियमं नाद्रियन्ते ॥
इति विंशी काण्डिका ॥ २० ॥