लौगाक्षि गृह्य सूत्राणि/कण्डिका २१-३०


अथ
एकविंशी काण्डिका ।
यामेव द्वितीयां रात्रिं कन्यां विवाहयिष्यन्स्यात्तस्यां रात्र्यामतीते निशाकाले नवां स्थालीमाहृत्य पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोत्यग्नये सोमाय मित्राय वरुणायेन्द्रायोदकाय भगायार्यम्णे पूष्णे त्वष्ट्रे राज्ञे प्रजापतये इति ॥ १ ॥
एका विवाहाहोरात्ररात्रिस्तस्याः पूर्वा या द्वि- तया रात्रियस्यां पिता कन्यां विवाहयिष्यन्भ- वेत् विवाहयिष्यामीत्यनेनाध्यवसायेन युक्तः, अथवा यां भविष्यन्तीं रात्रिमधिकृत्य पिता कन्यां विवाहयिष्यन्स्यात्तस्या या पूर्वा द्वितीया रात्रिस्तामाश्रित्येतिकर्तव्यताप्रवृत्तः सन् तस्या- मेव रात्र्यामतीते मध्यमप्रहरद्वये महानिशाख्ये
पूर्ववत्स्थालीपाकेन यागं कुर्यात् गुरुरल्या- दिभ्यो देवताभ्यः ॥ १ ॥
एता एव देवताः पुंसः कुम्भं वैश्रवणमीशानं च यजेत ॥ २ ॥
पुंसोऽपि तस्यां रात्र्यां संस्कारार्थमेतयैवे-
तिकर्तव्यतया एता एव देवता यजेत कुम्भा- याच तिस्रः इति । एतावानेव च विशेषः
स्त्रियो
द्वादशाहुतयः, पुंसः पंचदश ॥ २ ॥
इति एकविंशी काण्डिका ॥ २१ ॥
 

अथ
द्वाविंशी काण्डिका ।

चतस्रोऽष्टौ वाविधवाः शाकपिण्डीभिः स्त्रियोsन्नेन च ब्राह्मणान्भोजयित्वा वीणागायिभिः सह संगायेयुरपिवा चतुरो नर्तनं कुर्यात् ‘क्रीडं वः शर्धो मारुतमनर्वाणं रथेशुभम् । कण्वा अभिप्रगायत ॥' इति ॥ १ ॥
अविधवा जीवद्भर्तृकाः । शाकमिश्राः पिंड्यः शाकपिंड्यः 'भक्ष्येण मिश्रीकरणम् ' (२२१।३५) इति तत्पुरुषः । चतस्रोऽष्टाविति च प्रथमान्त- स्त्रीपदसमानाधिकरणम् । चतस्रोऽष्टौ वेत यथासंभवं विकल्पः । समसंख्यानियमार्थ- मेतत् । चतुष्टाष्टत्वनियमार्थमिति तु केचित् । ते- नायमन्वयः अन्यूनाश्चतसृभ्योऽविधवाः स्त्रियः समसंख्याः षट्कवर्जाः शाकपिंडीभिरन्यैश्च य- थासम्भवद्भिर्भोजनविशेषैर्ब्राह्मणान्भोजयित्वा वीणया वाद्यमानया सह ये गायन्ति तच्छी- लास्तैः सह संभूता भूत्वा मंगलगानं गायेयुः ।
ब्राह्मणभोजनानन्तरं मंगलगानावसरोऽत्र वि- वक्षितो, नतु समानकर्तृत्वेऽतीवादरः, तेन ते ब्राह्मणान्भोजयेयुरन्ये वा, सर्वथा ब्राह्मण- भोजनानन्तरं मंगलगानं कर्तव्यम् । अपिवा चतुरो नर्तनं कुर्यात् चतुरो नर्तनप्रवीणो नर्तनं कुर्यात् यदि सौशील्यादिगुणयुक्तो भ वेत्, विपर्यये तु न ताभिः सह नर्तनं कुर्यादि- त्यनेनाभिप्रायेणापिवाशब्दः । अनुष्ठानं त्वा- र्यावर्ते यथा दृश्यते, तथा ब्रूमः - कन्याया मा- तृप्रभृतयोऽष्टौ चतस्रो वाविधवा यथाविभवं भोजयित्वा ब्राह्मणांश्चाविधवाभिः सह वीणा- गायिभिश्च गायन्ति नृत्यन्ति सोत्साहम् । तद्- नुसारेणायमर्थः - चतस्रोऽष्टौ वा स्त्रियः कर्मभूता ब्राह्मणांश्च शाकपिंडीभिरन्येन च भोज्यप्रका- रेण भोजयित्वा वीणागायिभिः सहाविधवा- भिश्च संगायेयुः । के । अर्थात् कन्यामात्रादयः । अपिवेति समुच्चये । सकलोऽसौ स्त्रीगणश्चतुरः सोत्साहो भूत्वा नर्तनं कुर्यात् ॥
'क्रीडं वः' इत्यनया गायत्र्यानुमन्त्रयते । व्याख्याता चेयं कृच्छेषु ॥ १ ॥
अक्षतसक्तूनामग्निं पुष्टिपतिं प्रजापतिं च यजेत 'अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥' 'प्रजापते नहि त्वत्' इति च ॥ २ ॥
अक्षतानामनवहतानां यवानां सक्तुभिरग्निं पुष्टिपतिं यजेत 'अग्निना रयिम्' इत्येत- यच । तथा प्रजापतिं 'प्रजापते' इत्यादिम- त्रेण । एतावाज्यभागान्ते यागौ ॥ २ ॥
सर्वत्रोद्वाहकर्मस्वनादिष्टदैवतेष्वग्निं पुष्टिपतिं प्रजापतिं च यजेत ॥ ३ ॥
यत्र नाम्ना मन्त्रवर्णैर्वा देवतानिर्दिष्टा विवाहप्रकरणो कर्मणि, तत्राग्निं पुष्टिपतिं प्रजापतिं च यजेत प्रकृतत्वादक्षतसक्तुभिः । आज्यभागान्ते भविष्यत्सु प्रास्थानिकादिष्वे- तोद्धव्यम् । पूर्वोक्तेषु तु क्वचिन्नाम्ना क्वचिन्म- वर्णेभ्यो देवता सर्वेषु प्रतीता ॥
अग्निना इज्यमानेनाहं रयिं धनमश्नवत् 'अशु व्याप्तौ' व्याप्नुयाम् । व्याप्तस्य च प्राप्तस्य
पोषं पुष्टिं दिने दिने अनुयाम् । कीदृशं रयिम् । यशसं यशस्करं वीरवत्तमं वीरपुरुषयुक्तं, वीरैर्वा पुत्रैरतिशयेन युक्तम् । 'प्रजापते नहि ' इति जातकर्मणि व्याख्यास्यते ॥ ३ ॥
इति द्वाविंशी काण्डका ॥ २२ ॥

अथ
त्रयोविंशी काण्डका ।

अथ प्रास्थानिक कर्म ॥ १ ॥
प्रस्थाननिमित्तं प्रास्थानिकं कर्मानन्तरं व- क्ष्यत इत्यर्थः । प्रस्थानं च वरस्य श्वशुरगृह- प्राप्त विवाहं कर्तुम् ॥ १॥
तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चाद्भगिनी सिचं गृह्णाति शस्त्रं गृहीत्वा ॥ २ ॥
तस्मिन्प्रास्थानिके कर्मणि यथोक्तमुपसमा धाय, अग्नेः पूर्व कर्तव्यं उद्धतस्य चावोक्षितस्य च परिसंवाहनपर्युक्षणपरिस्तरणपूर्वकमाज्याहुति- पंचकेन सन्तनीहोमैश्चैकादशभिः संस्करणमुप- समाधानमुच्यते, तत्र जयप्रभृतिभिर्मन्त्रैर्होमं कुर्यात् जयाभिधानान्वा होमान् कुर्यात् 'आ- कूतं चाकूतिश्च, 'बृहस्पतिपुरोहिताः' 'ऋताषा- द' इत्यादिभिर्मन्त्रैर्जुहुयादित्यर्थः । एते हि मन्त्रा- स्तत्साध्या वा होमा जयाभ्यातराष्ट्रभृदाज्यभा-
गादिशब्दसाध्यतया प्रसिद्धाः । आज्यभागान्ते चाग्निं पुष्टिपतिं प्रजापतिं च यजेत 'सर्वत्रोद्वा- हकर्मस्वनादिष्टदैवतेषु' इत्यादिसूत्रवचनप्रामा- ण्यादिति केचित् । अन्ये त्वाहुः सूत्रकारप्रामा- ण्यादेव जयशब्दोऽत्राग्निप्रजापतिदेवतयोहों- मयोः परिभाष्यते आज्यभागान्तं चोपसमा - धानमिति । कश्विवाह विवाहप्रकरणेऽन्तरा- न्तरा चोदितत्वात् आज्यभागान्तानि कर्माणि कृत्वा पुष्ट्यर्थमग्नये पुष्टिपतये चाक्षतसकुभि- हमः कर्तव्यः अन्यथा हि नाम्ना मन्त्रवर्णैर्वा सर्वत्र देवताव- गमान्नानादिष्टदैवतं किंचिदुद्वाहकर्मसु कर्म विद्यते इति सूत्रार्थसंप्रत्ययाभावः स्यात् । एवं जय होमेषु कृतेषु आज्यभागान्ते वरस्य पश्चा- त्स्थिता सती भगिनी मुख्या उपचरिता वाय- थासंभवं खड्गक्षुरिकादीनामन्यतमं शस्त्रविशेषं हस्ते तूष्णीं गृहीत्वा तूष्णीं सिचमुपरिपरिधा- नीयस्य वाससो भ्रातुः सम्बन्धिनोऽञ्चलं गृह्णाति परिधानदशां हस्तेन स्पृशतीत्यर्थः । अंचलम-
सूत्रकारवचनसंप्रत्ययार्थमिति
हणमदृष्टसंस्कारार्थं शस्त्रग्रहणमपि । तथाच प्रायस्तदेव शस्त्रमुत्तरकालेऽपि रक्षार्थं शयनादि- सन्निधौ स्थाप्यमानमार्यावर्ते लक्ष्यते ॥ २ ॥
पूषा मेति यान्ति यत्रोदकम् ॥३॥
पूषा मा प्रपथे पात्वित्यादिना मंत्रेणोदक- संमुखा व्रजन्तीत्यर्थः ॥ ३॥
शन्नो देवीरित्युपस्पृश्य प्राची दिगिति यान्ति यथादिशम् ॥ ४॥
उदकान्तं प्राप्य उदकोपस्पर्शनं शिरसि प्रक्षेपणमाचमनं कृत्वा 'प्राची दिगग्निर्देवता' इ- त्यादिना मत्रेण यथादिशं या दिग्येषां गन्तव्या, तदभिधायिना मन्त्रेण यथालिंगमभिधाय वरप्र- भृतयो गच्छन्ति । अत्र विवाहस्य कारयिता यो गुरुः, स एव पिता वा वरस्य मंत्रपाठे कर्ता ॥
पूषा मा प्रपथे पातु पूषा मा पशुपाः पातु पूषा माधि- पतिः पातु ॥
पुष्णाति वर्धयतीति पूषा पृथिवी अन्त- रिक्षं द्यौश्च । तथाच ब्राह्मणम्
'इयं वै पूषा प्रपथेऽन्तरिक्षं पशुपा द्यौरधिपतिः ।' इति । एतद्धि इयमित्यपरोक्षनिर्देशेन प्र- युक्तस्य पुषशब्दस्य मन्त्रे पृथिव्यर्थतां दर्शयति । अन्तरिक्षं पूषेत्यनेनापि मध्यवर्तिना मन्त्रेण पूष- शब्दस्यान्तरिक्षवृत्तित्वं दर्शयति । यथैवहि भूतानि पुष्णातीति पृथ्वी पूषा, तथैव पशूनव- काशदानेन पाति पुष्णातीति कृत्वा अन्तरिक्षं पूषा । एवं द्यौरपि पूषा, सा हि सर्वलोकाधिपतिः तोऽसौ सर्वलोकान् वृष्ट्यादिद्वारेण पुष्णाति । तेनायं मन्त्रार्थः- पूषा पृथिवी प्रपथे गन्तुं प्रस्तुते पथि मार्गे मां पातु तथा पशुपा यः पूषा अन्तरिक्षलक्षणः, सोऽपि मां पातु रक्षतु । तथा अधिपतिर्यः पूषा द्युलक्षणः, सोऽपि मां पालयतु पथि गच्छन्तम् । शन्नो देवीरित्या - दयो व्याख्याताः ॥ ४॥
प्राची दिगग्निर्देक्ताग्निं स ऋच्छतु यो मैतस्या दिशो- भिदासति, दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो मै- तस्या० प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्या० उदीची दिक मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्या० ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्या० इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्या० ॥
या प्राची दिक्, तस्या अग्निर्देवता । अत एव तस्या दिशः सम्बंधी कश्चित् यो मामभि- दासति 'दसु उपक्षये' उपक्षेतुमिच्छत्याभि- मुख्येन सोऽग्निमृच्छतु अग्निमभ्यृच्छतु अग्निं लक्षणीकृत्येन्द्रियप्रलयमनुभवतु अग्निस्तस्या- क्ष्यादिनिग्रहं करोत्वित्यर्थः । एषैव सर्वत्र यो- जना तुल्या । पर्वतारोहणावरोहणमूर्ध्वमधश्च गमनमस्तीति तत्परत्वमपि मत्रस्य युक्तम् । केचिदाहुः - यदभिमुखं गमनं तलिंगक एव मत्रैकदेशः प्रयोक्तव्य इति । तदयुक्तं यत उप- द्रवनिवारणायैष मंत्रः, अन्यतमदिगभिमुख- गमन प्रवृत्तस्य सर्वदिकेभ्योऽपि संभाव्यते वि- प्लवः सर्पाशनिप्रभृतिभ्योऽधस्तनोपरितनेभ्यः । एवं पार्श्वादिप्रभवेभ्योऽपीति । सर्वप्रस्थानेषु चैषेतिकर्तव्यता बोद्धव्या ॥
इति त्रयोविंशी काण्डिका ॥ २३ ॥

अथ
चतुर्विंशी काण्डिका ।

षडर्घ्यार्हा भवन्त्याचार्य ऋत्विग्राजा विवाह्यः प्रियः स्नातक इति ॥ १ ॥
विवाहात्पूर्वमेव पायार्ध्यमधुपर्केर्विवाह्यः श्वशुरेण पूजनीयः । तुल्यं च पूजाविधानं ष- ण्णामपीति षण्णामुद्देशः । अर्घ्यं पूजामर्हन्तीति अर्ध्याहः षट् भवन्ति । आचार्यः उपनेता- ध्यापयिता च शिष्यस्य । ऋत्विग्याज्यस्य, तस्यापि प्राक्कर्मणः संमानः । राजा क्षत्रियोऽपि, नत्वभिषेकभावेन स जनपदस्य पूज्यः । वि- वहनमर्हतीति विवाह्यः 'अर्हे कृत्यतृचश्च' ( ३।३।१६९ ) इति कृत्यो ण्यत्प्रत्ययः, स क - न्यायाः पितुरर्ध्यार्हः । तथा यो यस्य प्रियो गुणोत्कर्षेण स तस्य दानाद्यवसरे अर्ध्याहः । स्नातकस्तु सद्यःस्त्रात आचार्यस्य ॥ १ ॥
अथैनमर्हयन्ति ॥ २ ॥
अथशब्दो वक्ष्यमाणप्रकारखीकारार्थो नि- पातानामनेकार्थत्वात् । एनमाचार्यादीनाम-
न्यतमं वक्ष्यमाणप्रकारेणार्हयन्ति पूजयन्ति
संमानयन्ति ॥ २ ॥
आदौ च कर्मणः ॥ ३ ॥
विवाहोत्तरकालमर्हणं विहितमिति यथाचो- दितमानुपूर्व्यमिति नयेन विवाहादूर्ध्वमेव मधु- पर्कादिदानं कर्तव्यमिति केचित्प्राहुरत एव च विवाहोत्तरकाल एवेदमपकृष्य व्याच- क्षते । तन्निरासायेदम् । कर्मण आदावेव पूजनं कर्तव्यं पाठक्रमादर्थक्रमस्य बलीयस्त्वात् । संस्कारो ह्ययमुत्साहादिजननमुखेन ऋत्वि- प्रभृतीनां कर्मणि योग्यताविशेषाधानार्थः, सं- वृत्ते यज्ञविवाहादि कर्मणि ऋत्विक्प्रभृतीनां क्रियमाणो निष्फल एव स्यात् । स्मार्तोऽपि - चायं संस्कारः, स्मृतिषु च प्रागेव कर्मणोऽभि- हितः । किंच विवाह्य इत्यर्हे आवश्यके वा कृत्यः - विवहनमर्हतीति, विवहति वा अवश्यं कन्यामिति विवाह्यः 'अर्हे कृत्यतृचश्च' 'आव- श्यकाधमर्ण्ययोर्णिनिः' ' कृत्याश्च' इति स्मृतेः । नच विवाहादूर्ध्वं विवाहार्हो भवति ॥ ३ ॥
अर्घ्यलक्षणमाह
अर्घ्यमुदकं सौषधं दर्भा इति ॥४॥
उदकं, व्रीहियवयोश्चान्यतरत् दर्भा एत- त्रयमर्घ्यम् ॥ ४॥
मधुपर्कलक्षणपूर्विकां पूजयितुरनुपदेशां पूजाप्रतिपत्तिमाह
कंसे चमसे वा दध्यासिच्य मधु च वर्षीयसा पिधाय विष्टराभ्यां परिगृह्य पाद्य प्रथमैः प्रतिपद्यन्ते ॥ ५ ॥
अत्र पूजयितारः इत्यर्थाल्लभ्यते। कांस्यपात्रे चमसे वा दारुपात्रविशेषे दध्यासिच्यते मधु च । मधु मधुपर्क उच्यते । तच्च मधुपर्कपात्रं बृहता पात्रेण पिधाय स्थगयित्वा विष्टराभ्यां गृहीत्वा पाद्यं प्रथमं येषां पाद्यार्घ्यमधुपर्काणां तैर्यथायो- ग्यतमूर्ध्वमधोमध्ये च पूजां स्वयमेव प्रतिपद्यन्ते पूजयितारो, नतु तत्राप्युपदेशमपेक्षन्ते ॥ ५ ॥
मयि दोहोsसि विराजो दोहः पाद्यायै विराजो दोहमशीयेत्याह्रियमाणमनुमन्त्रयते ॥ ६ ॥
कन्याया दातार विवाह्यस्य निकटीभूते सति ऋत्विक् पाद्यादिकं कन्यादातृसमीपमा- नाययति । तदानीयमानमनेन मंत्रेण विवा- ह्योऽनुमंत्रयते । अमंत्रज्ञश्चेद्विवाह्मस्तदा ऋत्विगे- वैनं पाठयति । एवं सर्वत्र ज्ञेयम् । अयं मन्त्रार्थः- 'दुह प्रपूरणे' दोहः प्रपूरकः आप्यायकः, विराट् खर्गादौ प्रजापतिः, पायादिकमुच्यते हे पायादिक यस्त्वं मयि मन्निमित्तो मदर्थो दोहः प्रपूरकः, स विराजः प्रजापतेः दोहः पूरकः जलादेः प्रजापतिना दिवो नियुक्त- त्वादतो मम पाद्यायै प्रतिपत्तये त्वं भव, विराजश्च प्रजापतेः संबन्धिनं दोहं पाद्यादि- कमहमशीय व्याप्नुयां पश्येयमित्यर्थः । पाद्यस्य संस्कारार्थं दर्शनम् ॥ ६॥
विष्टरोऽसि मातरि सीदेति विष्टरमास्तीर्य तस्मिन्नुपविशति ॥ ७ ॥
विष्टोऽसीत्यादिना मंत्रेणासनान्तरस्योपरि दर्भविष्टरमास्तीर्य विवाह्य उपविशति तूष्णी- म् । हे विष्टर असि त्वं विष्टरः विष्टरो भवसि
अत आच्छादयासनान्तरमाच्छादनार्थमेव मा- तरि आसनान्तरे सीद तिष्ठ ॥ ७ ॥
विष्टर आसीनायैकैकं त्रिः प्राह ॥८॥
विष्टरे दर्भाच्छादितासनविशेषे आसीना- योपविष्टाय विवाह्याय पाद्यादीनामेकैकं त्रिः प्राह कन्याया दाता-पाद्यं ३ अर्घ्यं ३ मधुपर्कः ३ आचमनीयं ३ इति । आसीनायेति सप्त- म्यर्थे चतुर्थी, विष्टर आसीने विवाह्य इत्यर्थः ॥
नैव भोरित्याह न मार्षेति ॥ ९ ॥
अभ्यर्हणीयस्याभिमुख्यापादनाय यत् भो इति पूजासंबोधनं प्राप्तं, नामसंबोधनं च मार्ष ब्रह्मदत्त इत्यादि, तन्निषेधयति ॥ ९ ॥
शन्नो देवीरित्यपोऽभिमंत्र्य पाद्याभिः प्रक्षालयते दक्षिणं पादमवनेनिज इदम- हमस्मिन् कुले ब्रह्मवर्चसं ददाम्युत्तरं पादमवनेनिज इदमहं मां मयि तेजो वीर्यमन्नाद्यं प्रजां पशून् ब्रह्मवर्चसं ददामि ॥ १० ॥
शन्नो देवीरित्यादिमंत्रैः पूर्वव्याख्यातैरपो-
ऽभिमंत्र्य विशेषेण पाद्याभिः पादयोर्धावन- समर्थाभिः पादौ प्रक्षालयते अभ्यर्हणीयस्य कन्याया दाता । पादयोः प्रक्षालने यथालिंगं मंत्रौ दक्षिणमित्यादि, उत्तरमित्यादि ।
इदमित्यनेन सद्यः फलं दर्शयति कन्याप्र- दानं विवाहान्तरसाधितं च तत्क्षणादेव कर्मा- नुष्ठानादिसम्बन्धिरूपम् । अस्य विवाह्यस्य ब्रह्म- वर्चससम्पन्नं उत्तरं वामपाद्मवनेनिजे शोध- यामि । इदमहं तेजो वीर्यमन्नाद्यं प्रजां पशून् ब्रह्मवर्चसं ददामि विवाह्यादिके अर्ध्या । मां मयि यत्तु मां प्राप्तं तेजःप्रभृति, तन्मय्येव चिरमस्त्वित्यर्थः ॥ १० ॥
आपोहिष्टीयाभिरर्घ्यं परिगृह्य सावित्रेण मधुपर्कं विष्टरोsस्यन्तरिक्षमधिविश्रयस्वेति विष्टरमवकृष्योरु त्वेत्यपसार्य तच्चक्षुरिति वीक्ष्य पृथिव्यास्त्वेति विष्टरे निधाय मधु वाता ऋतायते इति तिसृभिः प्रदेशिन्या प्रदक्षिणमालोडयति ॥११॥
आपो हि प्रेत्यादिभिर्व्याख्यातार्थाभिरयं प्रतिगृह्णाति । देवस्य त्वेत्यादिना ' मधुपर्क प्रति- गृह्णामि' इत्यध्याहारपूरितेन सवितृदेवताकेन मंत्रेण मधुपर्कं प्रतिगृह्णाति । विष्टरोऽसीति- मंत्रेणोपरितनं विष्टरमपकर्षति । अपकृष्य चाक्षिप्य उरु त्वेति मंत्रेणापसारयति । तच्चक्षु- रित्यादिना मधुपर्क वीक्ष्य, पृथिव्यास्त्वेत्या- दिना मंत्रेणाधस्तने विष्टरे मधुपर्कपात्रं निद- धाति । मधु वाता ऋतायते इति तिसृभिरं- गुष्ठसमीपवर्तिन्या प्रदेशिनीसंज्ञयाङ्गुल्या प्रद- क्षिणं कृत्वा दधिमधुनी मिश्रयति । प्रदिशति तर्जयति तच्छीला प्रदेशिनी तर्जनी ॥
देवस्य त्ना सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां मधुपर्क प्रतिगृह्णामि ॥
देवस्य दानद्योतनादिगुणकस्य सवितुरा- दित्यस्य प्रसवेऽनुज्ञायां वर्तमाना अश्विनोर्देव- भिषजोर्बाहुभ्यां पूष्णश्च हस्ताभ्यां नतु स्वाभ्यां चर्ममयाभ्यां मधुपर्क प्रतिगृह्णामि ॥ विष्टरोऽस्यन्तरिक्षमधिविश्रयख ॥
असि त्वं विष्टरः मिथ्यैवावारकः, अतोऽस्मा- दधस्तनविष्टरादपसरान्तरिक्षमाकाशमाश्रय ॥
उरुत्वा वाताय ॥
हे विष्टर त्वामहं पृथिव्यां प्रक्षिपामि, अतः उरु दूरं गच्छ । किमर्थम् । वाताय वाय्वर्थम् ॥
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥
तदेतच्चक्षुः शस्तं यद्देवहितं सत्पुरस्तादुच्च- रति, तदेव कृतकरणीयं चक्षुः देवार्थं हविरादि- वीक्षणयागदान होमादिषु साधनभावं भजत इत्यर्थः । कीदृशम् । शुक्रं शुक्लम् । अत आशा- स्महे वयं यागादिसाधनानि वर्षशतं पश्येम, तदर्थमेव संवत्सरशतं जीवेम ॥
पृथिव्यास्वा नाभौ साधयामि ॥
हे मधुपर्क त्वामहं पात्रस्थमपि सन्तं नाभा- वधस्तने दर्भविष्टरे साधयामि । धान्यानि हवींषि वेदप्रस्तरे साध्यन्ते । पृथिव्या हि सारमोषधयस्तासामपि दर्भा इति नाभित्वं दर्भविष्टरस्य ॥
मधु वाता ऋतायते मधु क्षरन्ति सिंधवः । माध्वीर्नः सन्त्वोषधीः ॥ १ ॥ मधु नक्तमुतोषसा मधुमत्पार्थिवं रजः । मधु द्यौस्तु नः पिता ॥ २॥
मधुमानो वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥ ३ ॥
वाता वायवः मधु सन्तु मधुरसपर्य - वसायिनो भवन्तु । कस्मै । ऋतायते ऋतं सत्यं यज्ञं वा य इच्छति, तस्मै । सिंधवो नद्यः मधु क्षरन्ति क्षरन्तु स्रवन्तु । तथा ओषधयः फलपाकान्ताः व्रीह्यादयो मधुमत्योऽस्माकं सन्तु ॥ नक्तं रात्रिप्रथमभागः मधुमान्नो भवतु, उत अपिच उपसा रात्रिपश्चिमभागेन सह । मधुमत्पार्थिवं रजः- रजो भूमिलोक उच्यते, धूलिर्वा । द्यौर्युलोकः मध्वस्तु मधुरसस्यन्दिनी वृष्ट्यादिद्वारेण भवतु । कीदृशी द्यौः । पिता पालयित्री ॥ वनस्पतिः फली मधुमानस्माकं भवतु । एवमस्माकं सूर्यो मधुमान् भवतु । अनेन कर्मणा गावश्च मधुमत्यो नः सन्तु क्षीरादिदानद्वारेण मधुरसाः ॥ ११ ॥
वसवस्त्वाग्निराजानो भक्षयन्तु पितरस्त्वा यमराजानो भक्षयन्तु रुद्रास्त्वा सोमराजानो भक्षयन्त्वादित्यास्त्वा वरुणराजानो भक्षयन्तु विश्वे त्वा देवा बृहस्पतिराजानो भक्षयन्त्विति प्रदक्षिणं प्रतिदिशं प्रतिमन्त्रं पात्रस्यान्तेषु लेपान्निर्मार्ष्टि ॥ १२ ॥
प्राच्या आरभ्य प्रदक्षिणं कृत्वा भक्ष- यन्त्वन्तैर्मन्त्रैर्मधुपर्कपात्रप्रान्तेषु अंगुलिलेपान् निर्माष्टि । प्रतिदिशं प्रतिमत्रमितिवचनात्पंचमेन मद्रेणात्पूर्वोक्तदिक्कोणे निर्मार्जनमापतति । मन्त्रार्थस्तु-
हे लेप प्राच्यां दिशि वर्तमाना वसवो देवताविशेषास्त्वां भक्षयन्तु वसवस्त्वया तृप्ता भवत्वित्यर्थः । कीदृशा वसवः । अग्निराजानो- ऽग्निर्येषां राजा । तत्पुरुषे हि समासान्तः स्यात् । एषा योजना सर्वमत्रेषु तुल्या ॥ १२ ॥
यन्मधुनो मधव्यस्य परमस्यान्नाद्यस्य परममन्नाद्यं रूपं तेनाहं मधुनो मधव्यस्य परमस्यान्नाद्यस्य परमोऽन्नादो मधव्यो भूयासं त्रय्यै विद्यायै यशोऽसि श्रियै यशोऽसि यशसे ब्रह्मणो दीप्तिरसि सत्यश्रीर्यशः श्रीर्मयि श्रीः श्रीः श्रयतामिति मधुपर्कस्य चतुष्प्राश्नात्यङ्गुष्ठद्वितीयाभिः कनिष्ठया प्रथममेवमनुपूर्वं सर्वाभिस्तदवशिष्टं सुहृदे प्रयच्छति ॥ १३ ॥
यन्मधुन इत्यादिमत्रेण मधुपर्कस्य संब- न्धिनो भागानङ्गुष्ठसहितया एकैकया अंगुल्या गृहीत्वा चतुरो वारानश्नाति अंगुष्ठसहितया कनिष्ठया प्रथमं ततोऽनामिकया, मध्यमया, प्रदेशिन्या प्रत्येक मंगुष्ठसहितयावदानचतुष्टये गृहीते यच्छिष्यते, तत्सुहृदे कनीयसे भ्रातृप्र- भृतये प्रयच्छति । मन्त्रार्थस्तु -
पृथिव्यादीनि भूतानि मध्विवामृतमिव, मधव्यं मधुसारः अमृतसारः सारसार इत्यर्थः, यन्मधुनोऽमृतस्य संबन्धि मधव्यं सारसारः पृथिवीति
'इयं पृथिवी सर्वेषां भूतानां मधु' (२/५३१) इत्यादिना बृहदारण्यके पृथिव्या भूतसारत्वेन प्रतिपादनात्, तस्य मधव्यस्य पृथिवीलक्षणस्य सारसारस्य यत्परममुत्कृष्टतमं रूपमन्नादि - लक्षणं, तेन भुक्तेनाहं मधव्यस्य सर्वामृतसा- रस्य मधुनोऽमृतस्य नित्यानन्दरूपस्य परमस्य परमात्मतादात्म्यवृत्तेरन्नाद्यस्यादनीयस्य सुसं- वेदनभोग्यस्य परमोऽन्नादः परमात्मस्वरूपः तत्र लयात् भूयासं ब्रह्मभूयमहं गच्छेयमिति यावत् । किंच हे मधुपर्क असि त्वं त्रय्यै विद्यायै वेदत्रयस्य यशः प्रकाशः, तथा श्रियै संपदो यशः प्रकाशोऽसि, अतो यशसे त्वामश्नामि । किंच ब्रह्मणः परमात्मनो दीप्तिः प्रकाशस्त्वं, सत्यस्य वेदार्थस्य श्रीः संपदसि यशसश्च श्रीः, अतो मयि श्रीः श्रीः श्रयतां भूयोभूयो मयि श्रीस्तिष्ठत्वित्यर्थः ॥ १३ ॥
आचामत्यमृतोपस्तरणमसीति ॥१४॥
अनेन मत्रेणाचामति । हे आचमनोदक अमृतस्य मधुपर्कस्य उपस्तरणमाच्छादक- मसि ॥ १४ ॥
तस्मा असिपाणिर्गां प्राह ॥ १५ ॥
अर्हयिता दत्तमधुपर्कः सन् खङ्गपाणिर्भूत्वा तस्मै अर्हणीयाय भक्षितमधुपर्काय गामाह 'गां करिष्ये' इत्यनुज्ञां प्रार्थयते अन्यार्थे- नेत्यर्थः । गोश्च करणं निपातनम् ॥ १५ ॥
तां शास्ति ॥ १६ ॥
तां गां शास्ति 'ओं कुरुष्व' इत्यनुज्ञां अर्हणीयो ददातीत्यर्थः ॥ १६ ॥ अर्हयितामुं मत्रमाह
मम चामुष्य च पाप्मानं जहि हतो मे पाप्मा पाप्मानं मे हत ॥ १७ ॥

हे गौः मम चाग्निशर्मणोऽमुष्य च विष्णु- शर्मणः पूज्यस्य यदुद्देशेन वैदिक विधिपर- वशीकृतोऽहमिदमकर्तव्यं करोमि तस्य पा- प्मानं जहि नाशयेति यावत्, अथवा हतो मे पाप्मा नास्त्यतः कर्मणो मम पापं विधि- चोदितत्वादित्यर्थः । हे विशसितारः मम पाप्मानं हत नाशयत ॥ १७ ॥
ओं कुरुतेति ॥ १८ ॥
है विशसितारः गौः क्रियतामित्यनुजाना- तीत्यर्थः ॥ १८ ॥
चतुरो नानागोत्रान् ब्राह्मणान्भोजयेदेष आद्योपायः ॥ १९ ॥
नानागोत्रान्नानाप्रवरांश्चादौ चतुरो ब्राह्म- णान् भोजयेत्पश्चात्सवान्धवमर्हणीयम् । एष आयो ब्राह्मणायोपायो गोकरणादिक उपदि- ष्टस्तेन नात्र विचिकित्सा कर्तव्येत्यर्थः ॥ १९ ॥
यद्युत्सृजेन्माता रुद्राणामिति जपेत् माता रुद्राणां दुहिता वसूनां स्वसादित्या- नाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानी पिव शुद्धमुदकमाचरन्ती ॥ २० ॥
निश्चितेऽपि यदिशब्दो दृष्टः 'यदि वेदाः प्रमाणम्' इति यथा । उक्तामितिकर्तव्यतां विधाय गामुत्सृजेत् न हन्यादित्यर्थः, माता रुद्राणामित्यादिच पठेत् । इयं गौ रुद्राणाम- न्तरिक्षचारिणां देवताविशेषाणां माता परि पोषिका पयः प्रभवाहुतिद्वारक वृष्ट्यादिद्वारेण वसूनां वासयितृणामोषधीनां भूमिजानां दु- हिता पोषणीया, आदित्यानां स्वसा भगिनी अदितितनया, अतोऽहं प्रनुवोचं चिकितुषे जनाय नुशब्दो निश्चये, निश्चयं कृत्वा प्रव- दामि चिकितुषे चैतन्यातिशयवते जनाय । किं वदामि । हे विशसितारः गां मा वधिष्ट | कीदृशीम् । अनागामपापां, अदितिमखण्डितां दैन्यशून्यां वा । कुतः । यस्मादियं शोभनं यवसं घासमतीति सूयवसात् । किंच हे गौः भगो धनं पयो यशश्च विद्यते यस्याः सा भगवती पयस्विनी त्वं भूयाः, तथा वयमपि त्वत्प्रसा- दात् भगवन्तो धनयुक्ताः यशस्विनश्च स्याम | अनुप हिंसि तृणमद्धि भुङ्क्ष्व । यतस्त्वं विश्वदानी सर्वस्य दात्री पयोद्वारेण । पिव शुद्ध- मुदकमा समन्तात् चरन्ती विहरन्ती ॥ २० ॥
ओमुत्सृजत तृणान्यत्त्वित्युक्त्वा तामुत्सृष्टां पशुमंगं वा ॥ २१ ॥
नामांसो मधुपर्कः स्यादिति ह विज्ञायते ॥ २२ ॥
अपिवा घृतौदन एव स्यात् ॥ २३ ॥
अर्हयिताह ओमित्यविचारितसिद्धं कृत्वा हे विशसितारः यूयं गामुत्सृजत । उत्सृष्टा सती स्वाच्छन्द्येन तृणान्यत्तु भक्षयतु इत्युक्त्वा तामुत्सृष्टां दृष्ट्वा पशुं छागं, पश्वङ्गं वा मांसखण्डं प्रतिनिदधीत | नामांसो मांसविहीनो मधुपर्कः स्यादिति ह श्रुतितो विज्ञायते, हशब्द इति- हासे । अपिवा घृतमिश्रित ओदन एव क- र्तव्यो मांसद्वेषिणे तादृशा वा ॥ २१, २२, २३ ॥
इति चतुर्विंशी काण्डिका ॥ २४ ॥

अथ
पञ्चविंशी काण्डिका ।

अनृक्षरा ऋजवः सन्तु पंथा येभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नो निनीयात् सं जास्पत्यं सुयममस्तु देवा इत्युदाहारं प्रहिणोति ॥ १ ॥
अनृक्षरा इत्यादिमन्त्रेण गृहीतजलभाण्ड- मुदकस्य आहर्तारं प्रेषयति कन्यास्नानाद्युप- योगि जलमानेतुं पुरुषं प्रहिणोतीत्यर्थः । ऋगर्थस्तु - ब्रह्मण आर्ष सूर्यस्य वा । त्रिष्टुप् । पंथा इति व्यत्ययेनैकवचनम् । ऋक्षराः कण्ट- कादयः परुषास्तृणविशेषाः, न विद्यन्ते ऋ- क्षराः येषु ते अनुक्षराः पंथानः सन्तु, ऋज- वश्चाकुटिलाः । येभिर्यैः नोऽस्माकं संबन्धिनः सहाया वरेयं वरणीयं गंगादिकं जलाहरण- स्थानं यन्ति गच्छन्ति । सखाय इति व्यत्य- येन बहुवचनम् । किंचार्यमा आदित्यः भगश्च नोऽस्माकं संबन्धिनं सखायं सन्निनीयात् सम्यगुदकस्थानं प्रापयेत् । हे देवाः ऋत्विग्प्रभृ- तयः आदित्यप्रभृतयश्च युष्मत्प्रसादात् जा- स्पत्यं जायायाः पत्युश्च समागमः सम्यक् सु- यममस्तु सुसंयतं स्थिरतरं संपूर्णमस्तु । 'जायायास्पत्यौ वा च्छन्दसि' इति जास्पत्यश- ब्दश्छन्दसि निपातितः ॥ १ ॥
शमीशाखया सपलाशया पिधायाहरेत् ॥ २ ॥
स प्रति उदाहारः उदककुम्भं शमीशा- खया सपत्रया पिधाय स्थगयित्वा उदक- मानयेत् ॥ २ ॥
एतासामेवापामुदकार्थान् कुर्वीत ॥३॥
एतासामेव आहारितानामपां संबन्धिनो भागानवदायावदायोदकसंपाद्यानर्थान् कन्या- स्नानसुवर्णक्षारणाग्निपर्युक्षणादीन् कुर्यान्नान्येन जलेन ॥ ३ ॥
शन्न आपो धन्वन्याः शन्नः सन्त्वनूप्याः । शन्नः समुद्रिया आपः शमु नः सन्तु कूप्या या इमा इत्यकेवलाभिरद्भिः स्नातां या अकृन्तन्या अवयन्या अतन्वत याश्च देवीरन्तां अभितोऽततन्थ । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इत्यहतं वासः परिधाप्याशासानेत्यन्तरतो मौञ्जेन दार्भेण वा योक्त्रेण सन्नह्यति ॥ ४ ॥
शन्न आप इत्यादिमन्त्रेणाकेवलाभिः स- वौषध्यादिगन्धद्रव्ययुक्ताभिः फलविशेषस- हिताभिश्चाद्भिः कन्यां स्त्रापयेत् । ततो 'या अकृन्तन्' इत्यादिना अहतमपूर्वपरिहितमत्य- न्ताभिनवं वस्त्रं परिधापयेत् । ततश्च 'आशा- साना' इत्यादिना मन्त्रेणान्तरे गुप्तां कृत्वा यथा न दृश्यते तथा वा सन्नहनं कन्यायाः कुर्यात् मौञ्जेन दर्भनिर्मितेन वा योक्रेण ॥
शन्न आप इत्यनुष्टुप् व्याख्याता । या इमा उदाहारेणाहृताः, ताः शं सुखं नः संत्विति विशेषः ॥
या अकृन्तन्निति जगती। हे आयुष्मति कन्ये इदं वासः परिधत्ख परिधेहि । त्वां च सर्वास्ता देव्यो जरसा परिव्ययन्तु जरसा वेष्टयन्तु जराजर्जरितां सभर्तृकां सतीं त्वां देवताः सम्पादयन्तु दीर्घमायुस्तव कुर्व- न्त्वित्यर्थः । कास्ता देव्यः । या इदं वासो - कृन्तन् याभिः कर्तनेन संपादितमधिष्ठात्री - भिर्देवताभिः, या अवयन् याभिरुतं संपादितं वासः, या अतन्वत याभिः सूत्रमाततं दैर्येण प्रसारितं, याश्च देवीरन्तां अभितोऽततन्थ, उभयतो मूलपल्लवस्य चान्ताः प्रान्ताः याभि- रातानिता इत्यर्थः । ताश्च देवता मन्त्रान्तरे स्व- नाम्नैवोपात्ताः 'रेवतीस्त्वा व्यक्ष्णन्' इति ॥ आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । अग्नेरनुव्रता भूत्वा सन्न सुकृताय कम् ॥
अनुष्टुप् । पृथिव्या आर्षम् । अहं सन्न वस्त्रं बध्नामि । किमर्थम् । सुकृताय कर्मणे वि- वाहपूर्वयागदान होमादिकर्मार्थम् । कामायेत्यर्थः । यथा 'चक्षुषे कं पूर्वमात्यज्यते' इत्यत्र चक्षुष्कामप्रतीतिः, एवं सुकृताय कमिति सुकृतकामप्रतीतिः । कीदृशी सती सन्नये । सौमनसं प्रसन्नमानसत्वं तथा सौभाग्यं भर्त्रानुकूल्यं रयिं च धनमाशासाना इच्छन्ती, तथा अग्नेरनुत्रता सती आहवनीयादिपरिचरण- शीला सती सन्नद्ये ॥ ४ ॥
प्रेतो मुञ्चातु मामुतः सुबद्धाममुतस्करत् । यथेयमिंद्र मीढ्वः सुपुत्रा सुभगासति ॥ पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथे मा वदासि ॥ मा विदन्परिपंथिनो य आसीदन्ति दम्पती । सुगेभिर्दुर्गमतीतामपद्रावन्त्वरातय इत्युदानीयोक्तं वाससः कर्म ॥ ५ ॥
प्रेतो मुञ्चात्वित्यादिभिस्तिसृभिः उदानीय- स्थानादुत्क्षिप्य त्संगे कृत्वा स्थानान्तरे पिता ज्येष्ठो भ्राता वा यथोक्तं वासस उपरिभागाच्छा- दनस्याप्यधस्तनाच्छादनवत् 'या अकृन्तन्' इ- त्यादिना मन्त्रेण कर्म कुर्यादित्यर्थः । सूर्यस्या- र्षम् । प्रथमतृतीयेऽनुष्टुभौ, द्वितीया त्रिष्टुप् । हे कन्ये इतः स्थानात्प्रमुञ्चातु प्रमुञ्चामि त्वां नयामि भवतीम् । मुञ्चात्विति तिव्यत्ययः पुरुषव्यत्ययश्च, तथाच शाखान्तरे प्रेतो मु- चामीति मत्रः पठ्यते । पितृकुले भर्तृकुले च सुद्धां सुष्टां सतीमेतां कन्याममुतः पितृ- कुलादमुतश्च भर्तृकुलात् माकरत् कश्चिन्मा कार्षीत् कुलद्वये विगमं तस्या मा कार्षीत् कश्चि- दपीत्यर्थः । हे इन्द्र परमेश्वर मीद: सेक्तः इयं कन्या सुपुत्रा सुभगा च यथा भवति, तथा कुरु । हे कन्ये इतः स्थानात् पूषा इन्द्र- स्त्वां नयतु । हस्तगृह्य हस्तेन गृहीत्वा । अश्विनौ च त्वां रथेन प्रवहतामभिमतं स्थानं प्रापयताम् । तथा क्रमेण त्वं गृहान्भर्तृवे- श्मानि गच्छ । तत्र च गृहपत्नी गृहस्य पाल- यित्री प्रभुर्यथा असः भवसि तथास्तु । वशिनी जितकर्मकरजनादिका भव । विदथे च यज्ञे मा वदासि यज्ञप्रतिकूलं भर्तुर्मा वादीः वैदि- ककर्मकलापानुकूला भवेत्यर्थः ॥
ये परिपंथिनो मार्गे प्रतिकूलाचौरप्रभृतयो दम्पती जायावरौ आसीदन्ति दुष्टबुद्ध्या स- मासीदन्ति ते त्वां मा विदन् मा द्राक्षुः सुगेभिः शोभनगमनैर्दुर्ग मार्गमतीतामतिक्रा- न्तां सर्वम् । किंच अपद्वान्त्वरातयः शत्रवो दानहीनाश्च धनाभावाश्च दारिद्याभिधाना अ- पद्रान्तु भीताः पराङ्मुखाः सन्तः पलायमानाः कुत्सितां स्खलनरूपां गतिं लभन्तामित्यर्थः ॥
आचारिकाणि ॥ ६ ॥
अस्मिन्नवसरे आचारिकाणि आचारादा- गतानि देशजातिकुलधर्मतया प्रसिद्धानि क- र्माणि कारयेदित्यर्थः । तद्यथा - आगमनप्रयो- जनकथनं कन्याया नामग्रहणं कुलदेवतापूजनं सुमनोलताभिस्ताडनमित्यादीनि ॥ ६ ॥
तूष्णीं निर्मन्थ्यं भ्राष्ट्रात्सान्तपनं यत्र दीप्यमानं वा बहिरग्निमुपसमाधाय परि- समूह्य पर्युक्ष्य परिषिच्य परिस्तीर्याज्यं विलीनोत्पूतं कृत्वाघारादाज्यभागान्तं हुत्वापरेणाग्निमनो रथं वावस्थाप्य योगे योग इति युनक्ति दक्षिणमितरमुत्तरमितराम् ॥ ७ ॥
'एष औपसदोऽभिर्वैवाहनो वा' 'तस्मिन् पाकयज्ञाः' इति वक्ष्यति ( ४७ का० ) । वैवाह - नस्य विकल्प्यमानाश्चतस्रः प्रकृतयोऽत्रोच्यन्ते । सद्यः अरणिभ्यां निर्मथितो यस्तत्र निर्मन्थ्य- शब्दो रूढः । तत्र निर्मन्थन सामान्यान्निर्मन्थ- नान्तरवन्मत्रे प्राप्ते तूष्णीमित्युक्तम् । एष एकः । भ्राष्ट्राद्वितीयः । सान्तपनस्तृतीयः । यो बलेनाग्निना सन्तप्तादपसारिताग्निकाभागात् कार्पासगोमयचूर्णादिसंसर्गं कृत्वोत्पाद्यते पा- पाणं कंसमणिं वा तापयित्वा सूर्यसंमुखं सूर्य- कान्तमणिं वा स्थापयित्वा सोऽभिमतः । यत्र दीप्यमानश्चतुर्थः । अत्राविशेषश्रुतावपि त्रेता- वसथश्मशानपरिगृहीतसूतकपतिताद्यग्निवर्ज- मिति ज्ञेयम् । उपसमाधायेति प्रत्येकं सम्ब- न्धनीयम्, गार्हपत्यवदुद्धतावोक्षिते जानुदने कुण्डे स्थापयित्वेत्यर्थः । गृहाइहिरेवेति नि- यमः । परिसमूहनं सजलेन करेण चतुर्दिक्सं- स्पर्शनम् । पर्युक्षणमासेचनम् । एवं चतुर्दिक- मेव दर्भैः परिस्तरणं प्रथितम् । प्राग्दक्षिणोद- क्ष्ववस्तरणमित्यन्ये मन्यन्ते त्रिभिस्तरैः स्तृणातीति वैश्रवणीयदर्शनात् । आज्यस्य विलयनं विगलनम्, उत्पवनं पवित्रेण पावनम् । आधा- रादाज्यभागान्तान् होमान् हुत्वा अग्नेः पश्चि- मभागे स्थितयोः सतोः कन्यावरयोर्यथासंख्यं वामदक्षिणभागेनाग्नेरपरभागे अनः शकटं, रथं स्यन्दनं वा सयुगमवस्थाप्य योगे योग इत्या- दिकयर्चा कन्यावरौ यूपे युनक्ति दक्षिणभागे वरमुत्तरभागे कन्यां योक्रेण संयोजयतीत्यर्थः ॥ योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये ॥

गायत्री । मैत्री । कश्यपस्यार्षम् । वयमिन्द्रं हवामहे आह्वयामः । कुत्र । योगे योगे, दम्प- त्योः सहभावेनावस्थितयोः परिकर्मसम्बन्धे । तथा वाजे वाजे, वाजशब्दोऽन्नबलसंगमवचनः, इह त्वन्नवचनो गृह्यते गार्हस्थ्यस्यान्नमूल- त्वात्, वाजशब्देन चान्नसाधनं वक्ष्यते, हविषि हविषि चाज्येष्टभागदानायेति प्रो- त्साहना । किमर्थमाह्वयामः । ऊतये अवनाय । कीदृशा वयम् । सखायः समानख्यानाः । की- दृशमिन्द्रम् । तवस्तरं तवः शब्दो बलवचनः महत्त्ववचनो वा, बलवत्तरं महत्तरं वा ॥ ७॥
तूष्णीं विमुच्य खे रथस्य खेऽनसः खे युगस्य शतक्रतो | अपालामिन्द्रस्त्रिष्पूत्वा करोतु सूर्यवर्चसमिति हिरण्यं निष्टर्क्यं बद्ध्वाध्यधि मूर्धनि दक्षिणस्मि - न्युगतर्मण्यद्भिरवक्षारयते शं ते हिरण्यं शमु सन्त्वापः शं ते मेथी भवतु शं युगस्य तर्म । शं त आपः शतपवित्रा भवन्त्वेना पत्या तन्वा संसृजस्वेति ॥ ८ ॥
प्रकृतयोऋयुक्ताविवात्रापि प्राप्तं मंत्रं निषेधयति तूष्णीमिति । विमुच्य कशायो- जितं यो मोचयित्वा । खे रथस्येत्यादिक- यच हिरण्यं दर्भपवित्रेण वद्धा युगस्य दक्षि- भागगते रन्ध्रे निदधाति । कथं बद्धा । नि- टव कृत्वा यथा सुखमोचनं भवति तथेत्यर्थः, निष्टक्यं सुखविमोचनम् । तत्सुवर्णे बद्धान- न्तरं दक्षिणभागे वरस्थाने कन्यामानीय ससुवर्णे दक्षिणस्मिन्युगस्य तर्मणि च्छिद्रे पूर्वो- ताभिरद्भिरध्यधि क्षारयति, 'उपर्यध्यधसः सामीप्ये' (८११७) इति वीप्सायां सामीप्ये अध्यधीति द्विर्वचनम्, युगच्छिद्रस्याधः समीपे कन्यां स्थापयित्वा मूर्धनि सुवर्णोदकं क्षारय- तीत्यर्थः । अस्मिन्नवसरे कन्यावरयोः स्था नपरिवृत्तिः संपन्ना, पुनः स्थान एव स्थिति- भविष्यति । यद्वक्ष्यति 'दक्षिणतः पुमा- भवति' ( २५ का० ) इति ॥
खे रथस्येत्यैन्द्री अनुष्टुप् । ब्रह्मण आर्षम् । अन्यत्राप्युच्यमाने ब्रह्मण एवार्षम्
'अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिर्गताः ।' इति सर्ववेदानां सामान्येन तद्दृष्टत्वस्मृतेः । हे शतक तो अनन्तक्रिय इन्द्रस्तेजस्विनां मध्ये परमेश्वर आदित्य एतां कन्यां सूर्यवर्चसमादि- त्यकल्पकान्तिं करोतु । किं कृत्वा । त्रिष्पूत्वा त्रीन् वारान् पवित्रयित्वा । कीदृशीम् । अपालां विवाहात्पूर्वं स्वच्छन्दचारिणीमत एव पावन - योग्याम् । क्व । रथस्य खे, तथा अनसः शक- टस्य युगस्य च खे च्छिद्रे । अथवा अपाला- मिवेन्द्र इमां कन्यां पूतां कृत्वा सूर्यवर्चसं क- रोत्विति इवार्थगर्भ व्याख्यानम् । यथा किलापालेति नाम्ना अत्रेर्दुहिता कुष्ठव्याधिग्रस्ता शु- न्याश्रमे स्नानाद्यर्थापस्सृतमुनिके दृष्टा यूपादि- च्छिद्रेषु सुवर्णोदकेनाभिषिच्येन्द्रेण व्यपगत- रोगा सूर्यकान्तिः संपादिता, तद्वदेतामप्यपग- तपापां कृत्वा सूर्यवर्चसं करोतु इन्द्रः । तथा चेतिहासः
'अपालात्रिसुता त्वासीत्कन्या त्वग्दोषिणी पुरा | तामिन्द्रचकमे दृष्ट्वा विजने पितुराश्रमे ॥ रथच्छिद्रे तु तामिन्द्रो युगस शकटस्य च । प्रक्षिप्य निचकर्ष त्रिस्ततः सा सुखचाभवत् ॥ इति । शं ते हिरण्यमिति जगती । हे कन्ये ते तव हिरण्यं शं सुखमस्तु । शमु सन्त्वापः, उ इति निपातः समुच्चये, आपश्च ते सुखं सन्तु | मेथी रथावस्तम्भनं वरूथं शं सुखं तवास्तु । युगस्य तर्म च्छिद्रं तव सुखकरमस्तु । आपस्ते शतप- वित्रा वहुपावन्यः सुखकारिण्यो भवन्तु । एना पत्या तन्वा संसृजस्व, एना अनेन भर्त्रा सह तन्वा शरीरेण संसृजस्व संबध्यस्व । क्वचित्तु शाखायां पठ्यते तन्वं संसृजखेति, भर्त्रा सह संयोजयेति तत्रार्थः ॥ ८ ॥
दक्षिणतः पुमान् भवति ॥ ९ ॥
कन्याया अभिषेकसंस्कारे कृते सति पुन - रग्नेरपरभागे प्राङ्मुखः पुरुषो भवति दक्षिणेन, अर्थात् कन्या उत्तरेण भवतीति लभ्यते । अत्र दक्षिणभागमानीय संस्क्रियमाणत्वात् कन्या प्रधानमित्येके, स्वतत्रत्वात् सदा दक्षिणभागे चावस्थानात् पुरुषः प्रधानं विवाह इत्यन्ये ॥ ९ ॥
अथ जुहोत्यग्नये जनिविदे स्वाहा सोमाय जनिविदे स्वाहा गन्धर्वाय जनिविदे स्वाहेति ॥ १० ॥
अथशब्द मंगलार्थ इति माठरः, अन्त- रालेऽक्षतसक्तहोमद्योतनायाथशब्द इत्यादि - त्यदर्शनः । अवश्यं हि उक्तयुक्त्या ते होमान्त- लादावपि होतव्या इत्यत्रैवावसरेन क्षति- रिति । होमान् क्रमेणाह अग्नये इत्यादि ।
‘पूर्वं देवैः स्त्रियो भुक्ताः सोमगन्धर्ववह्निभिः ।' इति श्रूयते । तेन निष्क्रयाय तेषां होमः । यद्यपि च सोमः प्रथमस्तथाप्यग्रतो होमोऽत्रा- नये 'येन कर्मणेच्छेदग्निमुखं कुर्यात् इत्यभिप्रायेण । अग्नये स्वाहा सुहुतमस्तु । कीदृशाय । जनिविदे जनी वधूः जनीं वेत्ति विन्दते वा जनिवित् तस्मै । एवमन्यत् ॥ १० ॥
आयुषः प्राणं संतन्विति संतनीर्जुहोति ॥ ११ ॥
एकादश संतन्य एवमाद्याः ॥ ११ ॥
जयाभ्यातानान् राष्ट्रभृतश्च ॥ १२ ॥
जुहोति इत्यनुषङ्गः । जयाश्चाभ्यातानाश्च, तान् राष्ट्रभृतश्च जुहोतीत्यर्थः ॥ १२ ॥
तानि यथोक्तम् ॥ १३ ॥
तानि त्रीणि जयादीनि कर्माण्युक्तानति- क्रमेण कर्तव्यानि । द्वादशगृहीतेन जयाञ्जु - हुयादिति लौगाक्षः । यथाधीतं मत्रमनुडुत्य ऋगन्तेन स्वाहाकारेण द्वादशप्रक्षेपा अपीति केचित् । अन्ये तु द्वादशावदानगृहीताज्यस्य सर्वमंत्रानुद्रवणे सर्वान्ते स्वाहाकारेणैक एव प्रक्षेप इत्यनुतिष्ठन्ति, प्रतिमंत्रं तु द्वादशावदा- नान्युद्धरन्ति । अभ्यातानां होमे तु चतुर्गृहीतं जुहोति । तत्र 'बृहस्पतिपुरोहिताः' 'देवहूत्याम्' इति आघातग्रहणम् । राष्ट्रभृतस्तु द्वाद- शगृहीतेन त्रयोदश होमाः । ऋताषाडिति द्वादशभिर्वडन्तैर्हुत्वा स नो भुवनस्य पते' इति रथमुखेऽध्यध्यग्निं श्रियमाणस्येति यथो- कता । पाकयज्ञेषु तत्रयं यथावद्व्यवस्थितं, तत्रैव समन्त्रकं व्याख्यास्यामः ॥ १३ ॥
आधिपत्यानि जुहोति ॥ १४ ॥
अधिपतिशब्दो पलक्षितलिंगादाधिपत्यान्यु- च्यन्ते । तानि सानुषङ्गान्येकविंशतिर्यजूंषि ।
अग्निर्भूतानामधिपतिः स मावतु तस्मै स्वाहा । यमः पृथिव्या अधि० वायुरन्तरिक्षस्याधि० सूर्यो दिवोऽधि० चं- द्रमा नक्षत्राणामधि० विष्णुर्दिशामधि० पूषा पथीनामधि० त्वष्टा रूपाणामधि० सविता प्रसवानामधि० इन्द्रो ज्येष्ठा- नामधि० मित्र : सत्यानामधि० वरुणो धर्मणामधि० रुद्रः पशूनामधि० बृहस्पतिर्ब्रह्मणामधि० ब्राह्मणो वाचामधि० सोम ओषधीनामधि० समुद्रः स्रवत्यानामधि० अन्नं साम्रा ज्यानामधिपतिस्तन्मावतु तस्मै स्वाहा । गायत्री च्छन्दसाम- विपत्ती सा मावतु तस्यै स्वाहा । मरुतो गणानामधिपतयस्ते मावन्तु तेभ्यः स्वाहा । पितरः पितामहाः परेश्वरेभ्यस्ते नः पान्तु ते नोऽवन्त्वस्मिन्त्रह्मण्यस्मिन्कर्मण्यस्मिन्क्षेत्रेऽस्या- माशिष्यस्यां पुरोधायामस्यां देवहूत्यां स्वाहा ॥
भूतानां स्थावरजंगमानामग्निरधिपतिर्नि- यन्ता स मा अवतु आगच्छतु हविर्ग्रहीतुं मां रक्षतु च तस्मै स्वाहा सुहुतमस्तु च । यमः पृथिव्या नियन्ता स मातु स्वाहेत्यनुषंगः | एवमन्यत्र । विष्णुर्दिशामधिपतिर्व्यापकत्वात् । पूषा पथीनां पथिकानाम् । त्वष्टा रूपाणां, त्वष्टा प्रजापतिर्विश्वकर्मा, सरूपाणां सर्वाकृतीनाम- धिपतिः । सविता प्रसवानां, प्रसूयन्त इति प्रसवाः अंकुरादयः । इन्द्रो ज्येष्ठानां प्राश- स्त्यानाम् । मित्रः सत्यानामिति तथाच श्रू- यते ' मित्राय सत्यपतये' इति । वरुणो धर्मणां धर्माणो धर्तारस्तेषां वरुणोऽधिपतिः 'वरुणोऽसि धृतव्रतो वरुणस्त्वोत्तुस्नातु' इति दर्शनात्, धर्तॄणां पृथिव्यादीनां सर्वेषां वरुणो धर्तेति वैशेषिकादिभिरप्युक्तम् । रुद्रः पशूनां सह्य- Sभ्यर्थयते ' अहमेव पशूनामीशे' इति । बृहस्प- तिर्ब्रह्मणां वेदानामधिपतिः । ब्राह्मणो वाचां, स एव हि दैवीनां मानुषीणां च वाचामुपदेष्टा 'तस्माद्वाह्मण उभे वाचौ वदति दैवीं च मा- नुषीं च' इति श्रुतेः । सोमश्चन्द्रो ग्राम्यारण्यानामोषधीनां फलपाकान्तानामधिपतिः । स्रव - त्यानां नदीनां समुद्रोऽन्तरिक्षाख्योऽधिपतिः, अपामाश्रयणीयं ह्यन्तरिक्षं सूक्ष्माणामन्यथाव- श्यायः कथम् । साम्राज्यमैश्वर्य, तेषामन्नं, पृ- थिव्याः सौरो रसोऽधिपतिः । मरुतो गणानां, सर्वेषामेवान्यादिगणानां मरुतोऽधिपतयो व्या- ख्याताः । अवरेभ्यः निकटेभ्यः पितृपितामहा- दिभ्यो ये परे सर्गसमुद्भवा हिरण्यगर्भमनुप्रभृ- तयः पितरः, ते नः पान्तु पालयन्तु चेति प्रकृ- तमपेक्षणीयमवतेः प्रकृतस्य गत्यर्थत्वात् । कावन्तु । अस्मिन् ब्रह्मणि, एतेषु ब्राह्मणेषु ऋत्विक्षु दक्षिणया स्वीकृतेषु, अस्मिन् विवा- हाख्ये कर्मणि, अस्मिन् क्षेत्रे पालने, अस्यां चाशिषि ऋत्विग्भिराधीयमानायां दम्पत्योः फलभूतायां, यद्यपि ऋत्विग्विशेषा मामवन्त्व- त्युच्चारयन्ति, तथापि कर्मणो दक्षिणया तदी- यस्य परिक्रीतत्वाद्यजमानस्यैव फलम्, पुरो- धायां पौरोहित्यकर्मणि, देवहूत्यां देवानां हृति- राहानं हविर्दानाय यत्र, सा देवहूतिर्विवाह- भूमिरिह ॥ १४ ॥
आकूत्या इति त्रिभिस्त्वेत्यन्तैर्हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचं भूः स्वाहेति महा- व्याहृतिभिश्चतसृभिरग्न आयूंषीत्याग्नि- पावमानीभिस्तिसृभिर्हुत्वा हुत्वा मूर्ध्नि संपातानवनयेत् ॥ १५ ॥
'आकूत्यै त्वा' इत्यादिभिर्मन्त्रैराज्यं हुत्वा हुत्वा कन्याया मूर्ध्नि संपातान् हुताज्यशेषबिंदून् मूवनयेत् स्रावयेत् । त्वेत्यन्तैरिति खाहाका - रान्ततां निवर्तयतीति केचित् । अन्ये त्वाहुः त्वान्तानामेव पाठात् त्वान्तत्वाव्यभिचारात् अन्यान्तत्वमप्यस्तीति स्वाहाकारान्तताद्योत - नाय त्वान्तग्रहणमिति । हिरण्यगर्भ इत्या- दिना सकलेनानुवाकेनैक एव होमो मा वि - ज्ञायीति प्रत्यृचग्रहणम् । आग्निपावमानीभिरि- त्यग्निलिङ्गाभिः पवमानलिङ्गामिश्च ॥ आकूत्यै त्वा कामाय त्वा समृद्ध्यै त्वा ॥
आकवनमाकूतिरभिप्रायः, अभिप्रेतसिद्धये हे आज्य त्वां जुहोमीत्यर्थः । व्याख्यानांग जुहोतिरध्याहियते नतु मंत्रैकदेशः । अध्याह्रियमाणस्य मन्त्रैकदेशत्वे ऋचामपि साकां- क्षत्वादध्याहारसहितानां यतिर्विनश्येत् त- तश्च गायत्र्यनुवाक्या त्रिष्टुबिति नाव कल्पते । तस्मादर्थव्याख्यानाङ्गमेव अध्याहारो, न मंत्र- कदेशः, -इत्याहुः । कामाय काम्यमानसि - ये त्वां जुहोमि । समृद्धिः संपत्, तदर्थ जुहोमि ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥१॥ अष्टानामपि पुरुषस्य नारायणस्यार्षम् । हिरण्यगर्भः प्रजापतिः पुरुषो नारायणः प्राणो जगत्सूत्रं कः सम्राडिति पर्यायाः । हिर- ण्यगर्भः अग्रे सर्गादौ समवर्तत प्रादुर्बभूव । स च जातः प्रादुर्भूतः सन् एक एव भूतस्य स- मस्तस्य पृथिव्यादिभूतजातस्य अभिव्यंग्यस्य वा महदादेः पतिः पालकः प्रभुरासीत् व्यत्य- येनातीतविभक्तिः, प्रादुर्भवति जगदादौ हि - रण्यगर्भः पतिश्च भवति सर्वस्येत्यर्थः । सं मां प्रत्यक्ष पृथिवीं क्षितिं दाधार धारयते,
उत तथा द्यां स्वर्गं पृथिवीं च । पृथिवीशब्दः सामीप्यादन्तरिक्षे वर्तते । हिरण्यगर्भ एव हि सर्व प्रोतं सूत्रे मणिगणा इव । तस्मै कस्मै प्रजापतये, देवाय दानादिगुणयुक्ताय हविषा आज्येन विधेम परिचराम, तस्मै हविर्द इति यावत् ॥
यः प्राणतो निमिषतश्च राजा पतिर्विश्वस्य जगतो बभूव । ईशे यो अस्य द्विपदचतुष्पदः कस्मै० ॥ २ ॥
यः प्राणापानादिमतो निमेषादिमतश्च दे- वमानुषादेः राजा प्रभुः पतिः पालयिता । प्राणेन अपानाद्युपलक्ष्यते, निमेषेण स्पर्शना- दिकं बुद्धीन्द्रियकर्मेन्द्रियक्रियायोगित्वम् । प्रा- णनादिकं कुर्वतः निमिषतो जिघतो विहरत इत्यादि ज्ञेयम् । विश्वस्य सर्वस्य जगतो जंग- मस्य वभूव भवति । सहि ईशे ईष्टे प्रभवति द्विपदो देवमनुष्यादेः, चतुष्पदो गवादेः । तस्मै कस्मै देवायेति पूर्ववत् ॥
ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य च्छायामृतं यस्य मृत्युः कस्मै ० ॥ ३ ॥
ओज उत्साहः, वलं सामर्थ्यं, तददातीत्योजोदा बलदाः । यस्य संबन्धिनं प्रशिषमनुशा- सनमनुज्ञां विश्वे सर्वे जना देवाश्चोपासते सेव- न्तेऽनुवर्तन्ते । यस्य संबन्धिनी छाया आश्रय आराधनम्, अमृतं मोक्षफलम् । यस्य च वि- पर्यय अर्थादनाराधनं, मृत्युः संसारकारी । तस्मै कस्मा इति समानम् ॥
येन द्यौरुग्रा पृथिवी दृढा च येन स्वः स्तभितं येन नाकम् । यो अन्तरिक्षं विममे वरीयः कस्मै ० ॥ ४ ॥
येन प्रजापतिना द्यौरन्तरिक्षमुग्रा उन्नता, ढा अवष्टब्धा, तथा पृथिवी व्याप्ता, तथा स्वः स्तभितं व्याप्तमवष्टब्धं प्रोतं, स्वर्गेऽप्यवष्टब्ध इत्यर्थः । येन नाकमादित्यमण्डलमवष्टब्धम् । स्वरित्यस्य विशेषणं वा नाकमिति, कं सुखं, न कमकं दुःखं न विद्यते यत्र तन्नाकम् । यश्चा- न्तरिक्षं विममे निर्ममे । कीदृशम् । वरीय उरु- तरम् । तुल्यमन्यत् ॥
य इमे द्यावापृथिवी तस्तभाने अधारयद्रोधसी रेजमाने । यस्मिन्नधि विततः सूर एति कस्मै ० ॥ ५ ॥
इमे प्रत्यक्षदृश्ये द्यावापृथिव्यौ रेजमाने वेपमाने सत्यौ योऽधारयत् धारयते । की- दृश्यौ । रोधसी रुन्धाने । कथं कृत्वा । तस्त- भाने निःशल्ये कृत्वा । यस्मिन्नधि यस्यो- परि सूर आदित्य एति गच्छति । कीदृशः । विततो विस्तीर्णः ॥
यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः । दिशो यस्य प्रदिशः पंच देवीः कस्मै० ॥ ६ ॥
यस्य हिरण्यगर्भस्य इमे प्रसिद्धा मेर्वा - दयो गिरयः महित्वा महिमानं माहात्म्य- माहुः, तथा पंच दिशः प्रागाद्या ऊर्ध्वया सह, विदिशश्च नाग्या सह पंच यस्य माहात्म्य- माहुः । देवीदनादिधर्मिकाः इति दिशां वि- शेषणम् ॥
आपो ह यन्महतीर्विश्वमायन्गर्भ दधाना जनयन्तीरग्निम् । ततो देवानां निरवर्ततासुरेकः कस्मै० ॥ ७ ॥
यस्मिन् काले सर्गादौ महत्य आपः प्रथमं सृष्टाः सत्यो विश्वं सर्वमायन् व्याप्तवत्यः । किं कुर्वाणाः । गर्भं दधानास्तमेव हिरण्यगर्भ गर्भरूपेण दधानाः धारयन्त्यः । यथोक्तं
'अप एव ससर्जादौ तासु वीर्यमवासृजत् |' (मनुस्मृ० ) इति । कीदृश्यः । जनयन्तीरग्निम् | अग्निं तेजःपुंजरूपं, अन्यच्च अण्डादिकं जनयन्त्यः । अथवा अग्निमिति गर्भविशेषणं, तेजःपुञ्ज- रूपमित्यर्थः । ततो गर्भाधानानन्तरं देवानां द्योतमानानामिन्द्रियाणां प्राणिनां वा गत्या - दियोगिनां सुरमानुषप्रभृतीनां य एक ए- वासुः प्राणः सर्वसूत्ररूपो निरवर्तत निर्वृत्तः, तस्मै हविषा विधेम ॥
आ नः प्रजां जनयतु प्रजापतिर्धाता दधातु सुमनस्यमानः । संवत्सर ऋतुभिश्राक्कॢपानो मयि पुष्टिं पुष्टिपतिर्दधातु ॥८॥ स व्यानरूपो हिरण्यगर्भः प्रजापतिर्नोऽ- स्माकं प्रजामाजनयतु, धाता विधाता च भूत्वा गर्भं दधातु नः सुमनस्यमानः प्रसन्नचित्तः । सं- वत्सररूपः सन् ऋतुभिश्चाक्लपानो विवर्तमानः आर्तवैः पदार्थैर्विपरिणममानः । चाक्लपान इति लिटः कानच् । उपलक्षणमेतत्प्रथमविवर्तस्य । जलस्य हिरण्यगर्भो विवर्तः, तस्योङ्कारस्तस्य
वेदा इत्यादिरूपेण स एव विवर्तते । स हिरण्यगर्भो यतः पुष्टिपतिस्ततोऽस्माकं पुष्टि - मादधातु ॥ महाव्याहृतयो व्याख्याताः ॥ अग्न आयूंषि पवस आसुवोर्जमिषञ्च नः । आरे बाधस्व दुच्छुनाम् ॥ १ ॥
तिस्रो गायत्र्यः । कूष्माण्डानामार्षम् । हे अग्ने त्वमायूंषि पवसे पुनासि रोगजरादिम- लैर्विहीनानि संपादयसि । नोऽस्मभ्यमूर्जं वलं इषं चान्नमासुव जनय देहि । दुरः शुनि परतस्ता- न्तादेशे प्रातिशाख्ये दुच्छ्रुनामित्यन्वाख्यानात् शुनामिव दुष्टानां दुछुनां हिंस्राणां बाधस्व आरे दूरत एव । दुच्छुनामिति हिंसार्थाना - मिति कर्मणि षष्ठी ॥ १ ॥
अग्निर्ऋषिः पवमानः पाश्चजन्यः पुरोहितः । तमीमहे महागयम् ॥ २ ॥
अग्निर्ऋषिः दुष्टान् पवमानः पुनानः, पंच- जना मनुष्याश्चत्वारो वर्णाः अनुलोमजवर्गः पंचमस्तेभ्यो हितः, पुरोहितः 'अग्निर्वै देवानां पुरोहितः पुरोऽग्रे परलोके वा हितः कर्मसंपा- दनद्वारेण, तं वयं ईमहे याचामहे महागयं महागृहम् ॥ २॥
अपवस्व खपा अस्मे वर्चः सुवीर्यम् । दधद्रयं मयि पोषम् ॥ ३॥
हे अग्ने अस्मे अस्मान् पवस्व पुनीहि । अप इति कर्मनाम, शोभनान्यपांसि यस्य स स्वपाः सुकर्मा अग्निः । किं कुर्वन् पुनीहि । वर्च- स्तेजः शोभनं च वीर्यं, तथा रयिं धनं पोषं च पुष्टिं दधद्विदधानः दद्द्द्वास्मभ्यम् ॥३॥१५॥
या ते पतिघ्नी तनूरपतिघ्नीं ते तां करोमि स्वाहा या तेऽपुत्रिया तनूः पुत्रियां ते तां करोमि स्वाहा या तेऽपशव्या तनूः पशव्यां ते तां करोमि स्वाहेति त्रिभिः ॥ १६ ॥
या त इत्यादिभिश्च त्रिभिमंत्रेहुवा हुत्वा कन्याया मूर्ध्नि संपातानवनयेदित्यनुषंगेण स- माप्तिः । मंत्रत्रयार्थस्तु - हे कन्ये या ते तव पतिघ्नी तनूस्तामपतिघ्नीं करोमि अनेन संपातावनयेन, तथा तव या अपुत्रिया पुत्रेभ्योऽहिता तनूस्तां पुत्रेभ्यो हितां पुत्रियां करोमि, याच अप- शव्या पशुभ्योऽहिता तनूस्तां पशव्यां पशुभ्यो
वाहितां करोमि । अत्रावसरे पूर्वनिदर्शितविधा- नेनाक्षतसक्तून् जुहुयात् ॥ १६ ॥
पाणिग्रहणमाह
उदग्नेर्दर्भेषु प्राचीमवस्थाप्य शुचिः पुरस्तात्प्रत्यङ्ङुपयन्ता देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णामीति हस्तं गृह्णाति दक्षिणमुत्तानं सांगुष्ठं नीचारिक्तमरिक्तेनैवं सव्यं सव्येन ॥ १७ ॥
अग्नेरुदीच्यां दिशि दर्भास्तीर्णे देशे प्रा- खीं कन्यामवस्थाप्य गुरुर्देवस्य त इत्यादिना मंत्रेण कन्यायाः संबन्धिनं हस्तं ग्राहयतीत्य- ध्याहर्तव्यं समानकर्तृकत्वार्थम् । केन प्रयुज्य ग्राहयतीत्यपेक्षायामर्थाद्वरेणोपयत्रेति योज्यम् । सचोपयन्ता गुरुणानुज्ञातस्तं गृह्णाति । कीदृशो वोढा गृह्णाति । शुचिः करग्रहणेऽधिकृतः धर्मो- पयोगिनी ममेयमिति शुद्धसंकल्पः, प्रत्यङ्मुखः कन्यायाः पुरस्तादग्रे स्थितः सन् । 'प्राङ्मुखः सर्वकर्माणि कुर्वीत' इत्यस्यापवादार्थं प्रत्यङ्मुख इति । दक्षिण लोकप्रसिद्धं, साङ्गुष्ठमङ्गुष्ठसहित- मुत्तानं नीचा दक्षिणेन नितान्तमञ्चति चेष्टासु प्रगल्भते न्यक् दक्षिणस्तेन । यथोक्तं धनुर्वेदे 'पूर्वं वामेन शिक्षेत पूर्वसिद्धो हि दक्षिणः ।' इति । न्यञ्चतीति न्यक् तेन नीचा न्यग्भू- नेत्यावृत्त्या योज्यम् । अरिक्तं साभरणं, अस- म्भवे सुवर्णकर्णिकादियुक्तम्, अतिदौर्गत्ये पुष्पफलादिसहितम् । अरिक्तेनेति तद्वत् । एवं सव्येन सव्यमिति समस्तस्य मंत्रादेरतिदेशः। हे कन्ये ते तवाहं हस्तं गृह्णामि देवस्यान्तरात्मनः सवितुः वैदिककर्माणि चिकीर्षोः प्रसवेऽनुज्ञायां वर्तमानः आदित्यस्य वा सवितुः प्रसवेऽनुज्ञायां वर्तमानोऽश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यां चर्म- मयाभ्यां पूष्णो हस्ताभ्यां गृह्णामि ॥ १७ ॥
गृह्णामीति चतस्रस्त्रिष्टुभावनुष्टुभौ जपति ॥ १८ ॥
गृह्णामि ते सुप्रजास्त्वाय हस्तौ मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥ १ ॥ सूर्याया आर्षम् । मांत्रवर्णिकी देवता ।
अहं ते तव हस्तौ गृह्णामि । किमर्थम् ।
सुप्रजास्त्वाय लोक्यपुत्रसिद्धये । त्वं च मया पत्या भर्त्रा सता जरदष्टिर्यथासः भवसि तथा भूयाः जराजर्जरितदेहा भूयाः असमये भवत्याः प्रमयो मा भूदित्यर्थः । अमुत्र पक्षे जरया दष्टिरुपक्षयो यस्याः सा जरदष्टिः । त्वा त्वां भगादयश्चत्वारो देवा अदुर्दतवन्तः गार्हप- त्या गार्हपत्यार्थम् ॥
तां पूषशिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् २ हे पूषन् आदित्य अस्याः प्रियायास्तां शिवतमां मतिं आ ईरयस्व प्रेरयस्व तनुं वा । यस्यां सत्यामधिकरणभूतायां वीजं रेतो म- नुष्या वपन्ति क्षिपन्ति । या नोऽस्मानुशती कामयमाना सती ऊरू विश्रयाते विविधं कृत्वा श्रयाते समर्पयति वितंतयति वात्मी- यावूरू । वयमपि यस्यामुशन्तः कामयमानाः सन्तः प्रहराम प्रक्षिपाम शेपं प्रजननम्, अन्योन्यमावयोः प्रीतिरस्त्वित्यर्थः । तथाह्यय- मुपकारो भवति-
'संप्रीतिर्यत्र दम्पत्योस्त्रिवर्गस्तत्र वर्धते । ' सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् || ३ || इयं कन्या पूर्वं सोमस्य संबन्धिन्यासीत् । स सोमो भुक्त्वेमां गन्धर्वायाददत् ददौ, गन्धर्वो । अग्निर्मह्यं संप्रति ददातु । न केवलमिमां यावता रयिं धनं पुत्रांश्चाग्निर्मह्यं ददातु अग्निरिमां कन्यां मह्यं दत्त्वा पुत्रधन- समृद्धां करोत्वित्यर्थः ॥ एतमेवार्थं चतुर्थ्यर्चा प्रपंचयति
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजः ॥ ४ ॥ हे कन्ये त्वां सोमः प्रथमो विविदे पति- स्तव बभूव प्रथमः । तत उत्तरो द्वितीयः गंधर्वो विविदे | तृतीयोऽग्निस्ते पतिस्तव पति- र्बभूव । तुरीयश्चतुर्थोऽहं मनुष्यजो मानुष्यः संप्रति भवामि ॥ १८ ॥
ततो गाथा वाचयति सरस्वति प्रेदमवेत्यनुवाकमुभावित्येके यदि पृथक्तंत्रम् ॥ १९॥
गीयन्त इति गाथाः विशिष्टा एव ऋचः । अत एव कास्ता इत्यपेक्षायां सरखति प्रेम- वेत्यनुवाकमाह अत्रानुवाके याः स्थितास्ता एवेत्यर्थः । द्व्यन्तरखरयुक्तासु च कासुचिदृक्षु गाथाशब्द रूढः । यथोक्तं
'छन्दोगा बहूचाचैव तथा वाजसनेयिनः । उच्चनीचखरं प्राहुः स वै गाथिक उच्यते ॥' इति । अयं समुदायार्थः- ततोऽनन्तरं सरख- तीत्यनुवाकपरिच्छिन्ना गाथा गुरुवरं वाचयति भाणयति । एके पुनर्मन्यन्ते उभावपि कन्यावरौ गाथा गुरुवचयति । किं सर्वदा । नेत्याह, यदि पृथक्त्रमिति । अत्रायमभिप्रायः - विवा - हो हि भिन्ने कर्मणी । कन्यासंस्कारो विवाहः । वरसंस्कार उद्वाहः । तत्र यदि देश- कालकत्रैक्यात्तत्रेणेतिकर्तव्यता, तदा सकृदेकं वरमेव भाणयति गाथाः स्वाध्यायिको गुरुः, यदि तु देशकालैक्येऽपि कन्यावरयोरेवाधि- कृतत्वादृत्विजो दक्षिणया कीतत्वात् कर्तृ- भेदात्तंत्र भेदस्तदभावपि वाचयितव्यौ - इति ॥
सरस्वति प्रेमव सुभगे वाजिनीवति ।
यां त्वा विश्वस्य भूतस्य प्रागायाम्यस्याग्रतः ॥ १ ॥ अत्रानुवा ब्रह्मण आर्षम् । अनुष्टुप् छन्दः । गन्धर्वाप्सरोराजर्षिप्रभृतीनां चरितं द्वन्तरेण वरेण याभिर्गीयते, ता गाथा इत्यु- क्तम् । इह च सर्ववाक् सरखती, तद्रूपेण च वधूरुपचर्यते । मनोमेघप्रभृतिश्च गन्धर्वः । तद्रूपो वरः स्तुत्यर्थमुच्यते सरखतीति प्रेत्युपसर्गोऽवेत्याख्यातेन संबध्यते । हे सर- स्वति सा त्वमिदं कर्म प्राव 'अव रक्षणे' गोपाय । सुभगे सर्वहितकारिणि । वाजिनी - वति वाजिन्यः फलपाकान्ता ओषधयस्तद्वति । स्तनयित्नुवाग्रूपा सरस्वती वृष्ट्यादिद्वारेण । साका । यां त्वामहं प्रागायामि शब्दयामि स्तौमि । कीदृशीम् । अस्य विश्वस्य सर्वस्य भू- तस्योत्पन्नस्य सर्गादावग्रे स्थितां शब्दब्रह्म- विवर्तत्वात् सर्वस्य सरस्वत्याश्च शब्दरूपत्वात् ॥ या सर्व समभवद्यस्यां विश्वमिदं जगत् ।
तामद्य वाचं गास्यामि या स्त्रीणामुत्तमं मनः ॥ २ ॥ तां चाद्य अस्मिन्नहनि सरखतीं वाचं गास्यामि शब्दयिष्यामि । या स्त्रीणामुत्तमं मनः
मानसं प्रकाशनम्, प्रकाशात्मिका हि वाक्, प्रकाशरूपं च हृदयं चेतः । याच अग्रे प्रथमं सर्गादौ समभवत् सर्वं विवर्तरूपा बभूव । यस्यां चेदं वर्तमानं विश्वं सर्वं जगदाश्रितम् ॥ य इह पूर्वे जना आसन् पूर्वे पूर्वतरेभ्यः । मूर्धन्वांस्तेभ्यो गन्धर्वः पुरा देवेभ्य आतपत् ॥ ३ ॥ य इह पूर्वे जनाः, य इह जगति पूर्वे जना अभूवन्, तत्पूर्वतरेभ्योऽपिच पूर्वे, तेभ्योऽपि पुरा गन्धर्वो मूर्धन्वान्नान्नासीत् । किं बहुना, देवे- भ्योऽपि यः पुरा आतपत् प्रकाशितवान् ब्रह्मरूप इत्यर्थः । गां सरखतीं धारयति वृणोति च गंधर्वः । सरखती वागात्मिकेयमधिगीयमाना कन्या, प्रजापतिरूपो गन्धर्वो वर इति प्ररो- चनार्थः ॥ ३ ॥
य एति सर्वतः प्राग्भ्यो दिशो ऽधिपवमानः । मूर्धन्वांस्तेभ्यो० ॥ ४ ॥
यो वायुरूपः सन् सर्वत एति आगच्छति अधिपवमान आधिक्येन पवित्रीकुर्वन् । अतश्च प्रागादिभ्यो दिग्भ्य आगच्छन्तः प्राच्यादिदेश- भेदेन व्यपदेशभेदभिन्ना वायवो भवन्ति, तेभ्योऽपि देवेभ्यो वायुभ्यः पुरा पूर्व मूर्धन्वा - नेव गन्धर्वः आतपत् ॥ ४॥
स भगवो न मरिष्यस्यहं चेदस्मि भेषजम् । मूर्धन्वांस्तेभ्यो० ॥ ५ ॥
यः पूर्वोत्पन्नः सन् जीवात्मना सह प्राणा- ख्यो वायुः, हे भगवः भगवन् जीव, स त्वं मरणधर्मापि न मरिष्यसि यावदहमस्मि भवामि भेषजं तिष्ठामि इन्द्रियैः सह । तेभ्योऽपि देवेभ्यो द्योतनादिधर्मकेभ्यः प्राणेन्द्रियेभ्यः रामूर्धन्वान् गन्धर्व आतपत् ॥ ५ ॥ हिरण्यवर्णो वैरम्पः स त्वा मन्मनसं करोतु । यद्राजा याति समितिं समुद्रमिव सौश्रवः ॥ ६ ॥ स प्रकृतो गन्धर्वः प्रजापतिः हे वधु त्वां मन्मनसं करोतु इति वर आशास्ते मदे- कचित्तां पतिव्रतां करोत्वित्यर्थः । कीदृशः स । हिरण्यवर्णः भाखरप्रकाशैकरूपः । वैरम्पो वी- रस्य योगिनो मोहवैचित्र्यमोहनसमर्थस्य कर्म वैरं तत् पाति रक्षतीति वैरम्पः । यत् यः सौ- भ्रवः शोभनभ्रूमध्यसंयमात्प्रतीतो योगिनां, राजा राजमानः, समितिं संग्राममिव समुद्रमिमं संसारदुःखभारं याति तारयतीत्यर्थः । य एति स- र्वतः प्राग्भ्यो दिश इति पंचम्याः स्थाने व्यत्य- येन प्रथमा । केचित्प्राग्भ्यो विश इति पठन्ति, तत्र च्छन्दसो वर्णव्यत्ययः। पुराणतरच्छान्द- सास्तु पठन्ति प्राग्वादिभ्यो ऽधिपवमान इति, अर्थं च व्याचक्षते प्राक् प्रथमं वाति वायते वा गच्छति प्राग्वा, सर्वाभ्यः सर्वतो दिग्भ्यः पवमान तीति ॥
विच्छिन्न संप्रदायेषु शताध्ययनवर्तिषु । मन्त्रेष्वपौरुषेयेषु यथेच्छं परिकल्पनात् ॥ पाठानां गत्यभावेन यथादृष्टि प्रदर्शनम् । क्रियमाणं सतामग्र्यैर्नोपालभ्यं कथंचन ॥ न वातस्यामि वायते नोद्वातस्यामि धीयते । न वातस्या धुरं वहतो नोद्वातस्यापमीयते ॥ ७ ॥ वातस्याभि अग्रे न अन्येन केनापि देवेन वायते गम्यते । नोद्वातस्याभि धीयते नच वात- स्याभिमुखेन केनापि धीयते आगन्तुं मन्यते । वातस्य धुरं वहतः पृथिव्यादिकं धारयतो वि- मानादिकं च प्रेरयतो नान्येन केनाप्यपमीयते सह गम्यते माहात्म्यमाचर्यते । उदिति निपातः सहार्थे । पुनःपुनर्वातशब्दोदीरणमति- शयार्थमहो रमणीया अहो रमणीयेत्यादिवत् । केचित्तु पठन्ति नेद्वातस्याद्ध धीयते न इत् वातस्य आत् ह धीयते, उकारो वर्णागमः, हशब्द इतिहासे, अन्येनाधीयते सहायेना- गम्यते ॥ ७ ॥
आ सत्यहरितो रथः सौभ्रवः सुहिरण्ययः । तं वात इद्रजीयत्युद्वातो दृढया धुरा ॥ ८ ॥ आ इत्युपसर्गो धजीयतीत्यनेनाख्यातेन सं- बध्यते । सत्यः सत्यप्रधानो हरितो हरितवर्णः आदित्यरथः, अथवा सत्यप्रधानाश्च ते हरयो - श्वास्ते विद्यन्ते यस्य स सत्यहरित इति मत्व- र्थीयस्तकारः । सौभ्रवः भ्रूसंयमेन तीक्ष्णदृष्टि- भिरपि द्रष्टुमशक्यः । हिरण्ययः हिरण्मयस्तै- जसः । तमुद्वात ऊर्ध्वगतिर्वात आध्रजीयति 'आधजयति गमयतीति विवर्तस्य प्रजापतिरू- पस्य वायोर्माहात्म्यवर्णनम् । कया आध्रजीयति उद्वातः । दृढया धुरा ऊर्ध्व उत्कृष्टो वात एव ढा धूतया ॥ ८॥
तवैव राजन्दुन्दुभयस्तव दुन्दुभिरानकः ।
तब बातोद्वाता अवौ तव चैत्ररथं वनम् ।। ९ ।।
मूर्धन्वान् गन्धर्व उच्यते । हे मूर्धन्वन् रा- जन् तवैव दुन्दुभयो जयोद्घोषणा वाद्यविशेषाः - उत्कृष्टा वा शब्दादयः प्रकाशनपराः, तथा आ- नकः पटहाख्योऽपि दुन्दुभिविशेषः, तवैव वात- स्तिर्यग्गतिः पवनः, उद्वातः ऊर्ध्वगतिर्वातोऽधः- पतनाद्वा, तथा अश्वौ । अथवा देहगतः प्राणो वायुरुद्वातः, अपानो वातस्तौ वातोद्वातौ प्राणा- पानौ शरीरस्य रथस्य अश्वाविव सर्वप्राणिनाम् । चैत्ररथाख्यं वनं देवोद्यानं तवैव, सर्वविभवा- स्त्वत्स्वामिका इत्यर्थः ॥ ९॥
ते शुक्रं शक्रस्याविन्दन्पराञ्चं निहितगुहा । मूर्धन्वांस्तेभ्यो गन्धर्वः पुरा जत्रुभ्य आवृदः ॥ १० ॥ ते देवा वाय्वादयः शक्रस्य शक्तस्य सर्वकार- णस्य प्रजापतेः शुक्रं सारमविन्दन् ज्ञातवन्तः । पराञ्चं परोक्षं गुहायां हृदये विदुषां निहितं, अविद्याभेदप्रपञ्च वा गुहा । यद्वा शक्रस्येन्द्रस्य शुक्रं प्रजननमुदकलक्षणं गुहायां रश्मिसं- घाते निहितं परोक्षं ज्ञातवन्तः ते देवाः । तेभ्यो देवेभ्यः पुरा पूर्वं मूर्धन्वान् गन्धर्वो ऽ- विन्दत् । किमवधि ज्ञातवान् । जत्रुभ्य आतृदः आजत्रुभ्य आतृदः जत्रूणि संश्लेषणानि सर्वा- धिकरणानि 'सृपितृदोः कसुन (३|४|१७) तृदः तर्दनं विनाशः आस्सृष्टेराप्रलयात् यदु- त्पादनपालनप्रलयसंपादनसामर्थ्यं, तन्मूर्धन्वा - नविन्दत् सकलमिच्छातः ॥ १० ॥
हिरण्यवर्ण सुभृतं शोभमानं कन्याया हस्तं परिगृह्य पुण्यम् । सा पुत्रकामा सुभगाय भर्त्रे भव वशीयान्गिरिवत्स्थिराय ॥११॥ एष कश्मीरेष्वेव संप्रति पठ्यते । वर आ- शास्ते कन्याया हस्तं गृहीत्वा अहं वशीयान्भव भूयासम् । भवेति व्यत्ययेन मध्यमपुरुषः । अथवा अन्तरात्माभिधीयते कन्याया हस्तं गृहीत्वा हे अन्तरात्मन् वशीयान्भव गिरिव- स्थिराय पर्वतवत् स्थैर्याय । हे वधु त्वमपि या मयोह्यसे सा भर्त्रे भर्त्रर्थं पुत्रकामा भव । कामनं कामः पुत्रार्थ एव कामो रतिर्यस्याः पुत्रकामा | किमर्थम् । सुभगाय सौभा- ग्याय, पुत्रवती हि सती लोके श्लाघ्या भ- वति, नतु रत्येकफला । भर्तृविशेषणं वा सुभगायेति । हस्तं विशिनष्टि - हिरण्यवर्णं सुवर्णकान्ति, सुभृतं कङ्कणायाभरणैः सु-
पूर्णमत एव शोभमानं, मंत्रवत्परिग्रहात्पुण्यं पवित्रम् ॥ ११ ॥
वैरम्पे मुनिपर्वते गिरौ हरितसंकाशे । संकल्परमणेऽमरावुभौ सुमनसौ चरावः ॥ १२ ॥ वर आह- हे वधु वैरम्पाख्ये मुनिजनसे - विते हरित संकाशे सुवर्णमये मेराविति यावत्, संकल्पमात्रेण सर्वाभिलषितसत्फलप्राप्तिर्यत्र तत्र संकल्परमणे, अमरावमरणधर्मको देवो भूत्वा उभावपि सुमनसौ प्रसन्नचित्तौ चरावः संचरिष्यावः पुरुषायुषे पूर्णे ॥ १२ ॥
आणी व रथवेष्टसि वने वारिवर्षण्ण्ये |
अप्सराः सूर्यवर्चसिनी वशिनी मन्मना भूयाः ॥ १३ ॥ आणी रथकाष्ठिका, हे वधु त्वमाणी व रथ- वेष्टसि रथव्यापिनी यथा रथाव्यभिचारिणी, तथा मयि भूयाः पवित्रा | वशब्द उपमायाम् । तथा वने वारिवर्षण्ये विद्युल्लता यथा अव्यभि चारिणी मेघं वनं विना न दृश्यते, तथा त्वं मयि भूयाः । वारि वर्षत् पतत् नयत्यनुमापयतीति वारिवर्षण्ण्या तडित् । अप्सराश्च सेत्याहुः । तथा सूर्यवर्चसिनी तेजखिनी भूयाः वशिनी
च ईशाना मन्मनाश्च मयि दत्तचित्ता पतिव्रता भूया इत्यर्थः ॥ १३ ॥
यासा उपरि तिष्ठति वने वारिवर्षण्ण्ये ।
वसुगा सूर्यवर्चसिनी वशिनी मन्मना भूयाः ॥ १४ ॥ अथवा यासौ तडिद्रूपधारिणी अप्सरा उपरि तिष्ठति, सैवेह त्वं रूपान्तरेणावतीर्णा अहं च मेघो वारिवर्षण्ण्यः । अतश्च त्वं मयि दत्तचित्ता भूया इति समानं पूर्वेण । वसुगा धनवतीति विशेषः ॥ १४ ॥
अश्वत्थक उपरि श्येनो रमणीयतरो नाम ।
तस्मिन्ह रम्भा रमते शक्र इव परितक्म्यायाम् ॥ १५ ॥ प्रशस्तो वटवृक्षोऽश्वत्थकस्तत्रोपरि श्येनः शंसनीयो रमणीयतरो नाम गन्धर्व आस्ते । तस्मिन्नप्सरा रम्भा नाम रमते क्रीडते । शक्र आदित्यः, स यथा परितक्म्यायां रात्रौ विश्राम्यति ॥ १५ ॥
आस्यन्दमाना सुभगे निर्गिरिभ्यः सरस्वति । मातेव दुहितृभ्यः कुल्याभ्यो विभजा वसु ॥ १६ ॥ सरखतीं नदीं वाचं वा मध्यमामभ्यर्थयते । हे सरस्वति सुभगे निर्गता गिरिभ्यः, स्यन्दमाना स्रवन्ती, कुल्याभ्योऽन्यनदीभ्यः वसु जलमा- भज विभज मातेव दुहितृभ्यः । यथा माता दुहितृभ्यो धनं पैतृकं विभजते, तद्वत् । मध्य- मवाक्पक्षे गिरयो देहाः, कुल्या गलबिलानि ॥ इदानीं 'वाग्वा अनुष्टुप् वाक्सरस्वती' इति श्रुत्यानुष्टुभः सरखतीरूपत्वप्रतिपादनादनुष्टु- छन्दोरूपेण स्तोतुमाह
मध्यं तच्छन्दस आहुर्यत्रादधुर्नाम परेति देवाः । अरुणपिशङ्गोऽश्वोऽस्य दक्षिणा यस्तद्वेद स इहागन्तुमर्हति १७ छन्दस इति व्यत्ययेनैकवचनम् । छन्दसां देवानामसुराणां च तदनुष्टुप्छन्दो मध्यं मध्य- वर्ति देवा ऋत्विज आहुर्वदन्ति । यत्र च्छन्दसि परेति परागच्छति देवासुरच्छन्दसां मध्यमनु- सरति अनुष्टुबित्यनर्थकं नाम देवा आदधुः विहितवन्तः । अत्रान्तरा मध्येऽनुष्टुप् व्यव- स्थिता । तानि षोडशिनि ग्रहे विनियुक्तानि । तत्र च षोडशिनि ग्रहे अरुणपिशङ्गोऽश्वोऽस्य दक्षिणा मता । सा चेतरच्छन्दोमध्ये व्यवस्थितस्य रा- जप्रख्यस्यास्यैव च्छन्दसोऽनुष्टुब्लक्षणस्य भव- तीति सम्भाव्यते। अत एवंभूतं तदनुष्टुप्छन्दो यो वेद वेत्ति, स इह पाणिग्रहणस्थाने आग- न्तुमर्हति ऋत्विग्जन्यप्रभृतिः, नातद्वित् । देवासुरच्छन्दसां तु मध्यवर्तित्वमनुष्टुभ इत्थं 'गायत्र्युष्णिगनुष्टुभो बृहतीपंक्तित्रिष्टुभः । जगती चेति विज्ञेयाश्छन्दसां सप्त जातयः ॥ तत्रैकैकाक्षरवृच्या दैवान्येकाक्षरादीनि सप्ता- क्षरान्तानि सप्त च्छन्दांसि भवन्ति । देवी एकाक्षरा गायत्री । यक्षरा उष्णिक् । त्र्यक्षरा- नुष्टुप् । एवमादिक्रमेण दैवी जगती स- ताक्षरा, आसुरी तु पंचदशाक्षरा । एकैकाक्षर- हान्या च प्रातिलोम्येनान्यान्यासुराणि च्छन्दां- सि भवन्ति । तत्र नवाक्षरा गायत्री भवति । एवं चैकाक्षरादारभ्य सप्तमाक्षरपर्यन्तान्यानु- लोम्येन दैवानि च्छन्दांसि स्थितानि । पंचदशा- क्षरादारभ्य प्रातिलोम्येन नवममक्षरं यावदा- सुराणि । अष्टमं त्वक्षरं वर्गद्वयस्य मध्ये भवति । तेनेयमष्टाक्षरा अनुष्टुप् मध्ये भवती- त्यलमतिवैतत्ये ॥ १७ ॥
इषीकवर्णे लेखः सुभगे सुस्मिते ।
मूर्धन्वांस्त्वा गन्धर्वो मामभिनियच्छतु ॥ १८ ॥ इषीकं शरकाण्डं सुवर्णमित्येके । हे सु- र्णवर्णे शरकाण्डगौराकारे वा, हे लेखनः अंजनलेखावद्ध्रुवौ यस्याः, सा सम्बोध्यते, हे सुभगे प्रियदर्शने, सुस्मिते चारुहासिनि, त्वां मूर्धन्वान्गन्धर्वो मामभि मां प्रति नियच्छतु नियतां मदेकाधीनां करोतु । स हि कन्याखा - मीत्युक्तम् ॥ १८ ॥
उभये त्वा देवगन्धर्वाः सभ्यश्च विह्वयामहे । तेषां यतरान्कामयसे तानभ्येहि सरस्वति ॥ १९ ॥ सोमक्रयिणी वाक् सरखतीत्युच्यते । हे सर- स्वति देवा गन्धर्वाश्वोभये सध्यञ्चः सहाञ्च- मानाः सह भूत्वा त्वां विहृयामहे तव विवि- धमाह्वानं कुर्मः । तेषामुभयेषां मध्ये यतरान् कामयसे देवान् गन्धर्वान्वा, तानभ्येहि अभि- मुख्येन गच्छ ॥ १९ ॥
अभ्यावर्तेऽहं देवान्गायतः कामयामहे ।
गायन्तं स्त्रियः कामयन्ते न तथा ब्रह्मवादिनम् ॥ २० ॥
सरखत्याह- गायतो देवानेवाहमभ्यावर्ते आभिमुख्येन वर्ते, नतु वेदं पठतः सुरान् । यतो- Sहं गायत एव कामयामहे कामये इति वचन- व्यत्ययः । तथाहि गायन्तमेव हि स्त्रियः काम- यन्ते, नतु ब्रह्मवादिनं वेदानां पाठकम् ॥२०॥
या सा उपरि पर्वत आत्मना रममाणेव । क्षौममृद्वी ह वा असि त्वोत ओजस शृणोमि ॥ २१ ॥ या उपरि पर्वते गिरौ मेघे वा विद्युद्रूपेण मध्यमवाग्रूपेण वा आत्मना खेन रूपेण रम- माणेव क्रीडन्तीव तिष्ठति सरखती, सा हे वधु असि भवसि त्वं नास्ति नः संशयः । कीदृशी । क्षौममृी दुकूलवत्कोमला जल- वृष्टिदानेनार्थाभिधानेन वा । ह वै इति निपातौ पादपूरणौ । एवं च सति वधूं वदति वरः- यतस्त्वं सरखती, तेन त्वया ऊतो रक्षितः सन्नहमोजसि सति शृणोमि आकर्णयामि सकलं कर्तव्यं श्रुतिस्मृतिविहितं कर्तव्यतया व्यवस्यामि सहधर्मचारिण्यास्तव लाभबलेने- त्यर्थः । केचित्तु शृणोत्विति पठन्ति । तत्राप्ययं मदात्मा शृणोत्वित्यर्थः ॥ २१ ॥
इति सारस्वतानुवाकविवृतिः ॥
ततो गाथा वाचयति सरस्वति प्रेमवेत्य- नुवाकभावित्येके यदि पृथक्तत्रमिति विवृत- मियता । यदि पृथक्तन्त्रमित्युत्तरसूत्रेणापि संबध्यते ॥ १९ ॥
प्रदक्षिणमग्निमानीय तत्रैवोपवेश्य संस्थापयेत् ॥ २० ॥
पृथक्तत्रपक्षेऽग्निप्रदक्षिणं कृत्वा वधूवरावा- नीय पुनस्तत्रैवोपवेश्य यत्र पाणिग्रहणं वृत्तं, संस्थापयेत् समापयेदृतुतिथ्यादिकं भविष्य- तत्रमुद्वाहसंबन्धितया, ततो विवाहसंबन्धि- तया भूय उद्वाहनतत्रं सकलं पूर्व प्रदर्शितं विवाहसंबन्धितयोपक्रम्य वक्ष्यमाणं कुर्यादि- त्यर्थः ॥ २० ॥
एककर्मणि तन्त्रे उत्तरेणाग्निं प्रत्येत्य ततो विवाहः ॥ २१ ॥
कर्मशब्दः प्रयोगवचनः । तत्रमितिकर्त- व्यता विध्यन्ता । सकृद्नुष्ठीयमानेतिकर्तव्य- तोपकारपक्षे उत्तरेणाग्निं प्रत्येत्य प्रदक्षिण- मकृत्वैव उत्तरभागेनैव कतिपयक्रमान् गत्वा प्रत्यागत्य ततो विवाहः विवाहाङ्गतया वक्ष्य- माणानामृतुतिथ्यादीनां प्रयोगः । तत्रेण चो- द्वाहोपकारोक्तानां वक्ष्यमाणानां च आवृत्त्यानु- ष्ठानमित्यर्थः । एककर्मणि तत्र विवाहोद्वाहल- क्षण इत्यपि केचित्पदयोजनां कुर्वन्ति ॥ २१ ॥
एत एव तत्रावृत्ती स्पष्टार्थमेकेनैव सूत्रेण विवरीतुमाह
य इमे द्यावापृथिवीत्यादय उद्वाहहोमा जयप्रभृतयश्च नैककर्मणि तन्त्रे स्विष्टकृ- दाज्यभागौ च ॥ २२ ॥
उद्वाहे . होमा ये जयप्रभृतयः, य इमे द्यावापृथिवीत्यादयश्च तथा स्विष्टकृत्, तथा आज्यभागौ । एते सर्वे न एककर्मणि तत्रे आ- वृत्त्या कर्तव्याः इत्यर्थाज्ज्ञायते । तेन श्रुत्यर्थानां विधिनिषेधलक्षणमर्थद्वयं यथासंभवमनेन नि- दर्शितम् । स्विष्टकृच्छन्द उपरितनस्य तत्र- खण्डस्योपलक्षणार्थः, आज्यभागशब्दो ऽप्यधस्तनस्य ॥ २२॥
पश्चादग्नेर्दर्भेषु सा त्वमसीति वाचयति सा त्वमस्यमोहममोऽहमस्मि सा त्वम् । ता एहि विवावहै पुंसे पुत्राय कर्तवे । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ २३ ॥
एककर्मणि तत्रे उत्तरेणाभिं प्रत्येत्य प्रत्यानीयाः पश्चाद्दर्भेषु विनिहितचरणौ वधूवरौ कृत्वा 'सा त्वमसि' इति वरं गुरुवचयति ॥ सा नाम ऋगासीत् अमो नाम साम, सा च अमश्च साम ऋक् च गीतिश्चेत्यर्थः । एवं सामशब्दस्य व्युत्पत्तिः । ऋक्सामरूपावावा- मिति विभज्य वरः प्रदर्शयति - हे वधु त्वं सा ऋगसि भवसि, अमोऽहमस्मि अहममः साम भवामि । सा त्वं सा त्वं भवसि, अमोऽहम- मोऽहं भवामीति द्विरुक्त्या ऋक्सामरूपत्वं द्रढयति । ता एहि विवहावहै तौ द्वावावा हे वधु एह्यागच्छ विवहाव है विवाहं कुर्वः । किमर्थम् । पुंसे पुत्राय कर्तवे, कर्तवे इति तुमर्थे भावे तवेन्प्रत्ययः, पुंसे पुत्रायेति सुब्व्य- त्ययः, पुमांसं पुत्रं कर्तुम् । तथा रायो धनस्य पोषाय पुष्टये, सुप्रजास्त्वाय शोभन प्रजाला- भाय, सुवीर्याय सुवीर्यं कर्मखोजस्विता तदर्थम् ॥ २३ ॥
अग्निमभिदक्षिणमानीयेह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव । कृण्वन्तु विश्वेदेवा आयुष्टे शरदः शतमिति दक्षिणेन पदाश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुवस्यवः सहस्व पृतन्यत इति ॥ २४ ॥
अग्निमभिदक्षिणं वधूवरावानीय, अग्नेरु- त्तरभागेऽश्मानं स्थापयित्वा दक्षिणेन चरणेन आस्थापयति गुरुः प्रयोजकः, वधूवरावातिष्ठत आक्रामतः । यथामन्त्रलिङ्गमाद्येन वरोऽश्मान- माक्रामति, उत्तरेण वधूः । गुरुस्त्वाशास्ते तयो- मणेष्टम् - हे वर अश्मानमातिष्ठ अश्मवत् स्थिरो भव, किंच ते तव विश्वेदेवाः शरदः शतमायुः कृण्वन्तु कुर्वन्तु, हे वधु इममश्मा- नमातिष्ठ त्वं चाश्मवत् स्थिरा भव, तथा दुव- स्यवः दुवस्यून् उपतापमिच्छतः शत्रून् प्रमृणीहि जहि, तथा पृतन्यतः पृतनां सेनामिच्छतो युयुत्समानान् सहस्व प्रसहस्व अभिभव दक्षिणेन पदेत्युत्तरमन्त्रेऽप्यनुषज्यते ॥ २४ ॥
आज्यस्याञ्जलावुपस्तीर्येदं हविरित्यभिमृश्याथास्यै शमीलाजानावपति भ्राता ब्रह्मचारी वा ॥ २५॥
आज्येनाञ्जलावुपस्तृणाति चतुरवदानेन । तत इदं हविरित्यादिना मत्रेण शूर्पस्थान् श- मीपर्णमिश्रांल्लाजानभिमृशति वरः । अनन्तर- मञ्जलावस्या वध्वा भ्राता, ब्रह्मचारी वा भ्रातु- रसन्निधाने शमीपर्णमिश्रांलाजानावपति ॥
इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये । आत्मसन प्रजासन पशुसन्यभयसनि लोकसनि । अग्निः प्रजां बहुलां मे करोतु अन्नं पयो रेतो अस्मासु धत्त ॥ कोकिलस्य राजपुत्रस्यार्षम् । अनुष्टुप् छंदः । इदं लाजाख्यं हविः मे मम प्रजननं दशपुत्रसं- पादनं भवतु, तथा सर्वगणं सर्वेषां गणैः पुत्रप्रभृतीनां पशूनां गणैर्युक्तं, स्वस्तयेऽवि- नाशाय चास्तु | आत्मसान आत्मानं शरीर- मात्मीयत्वात्सनति ' षणु दाने' इत्यस्माद्धातोः ददाति प्रज्ञापयतीत्यात्मसनि । एवं प्रजासनि पशुसन्यभयसनि लोकसनि । सर्वत्रेह हवि- रन्यपदार्थः । अग्निर्मम पुत्रपौत्रादिकां भूयसीं प्रजां करोतु | अन्नादिकं चास्माकं धत्त स्थिरं कुरुत | बहुवचनादर्द्धमगन्धर्वत्र्यम्बका इज्य- माना एवं प्रार्थ्यन्तेऽपरार्धे ॥ २५ ॥
तानविच्छिन्दती जुहोत्यर्यमणं नु देवमिति ॥ २६ ॥
तान् लाजान् अविच्छिन्दती विच्छेदम- कुर्वती एकेनैव प्रक्षेपेण जुहोत्यर्यमणं नु देव- मित्यादिमन्त्रेण ॥
अर्यमणं नु देवं कन्या अग्निमयक्षत ।
सोऽस्मान्देवो अर्यमा प्रेतो मुञ्चातु मामुष्य गृहेभ्यः स्वाहा ॥ ब्रह्मण आर्षम् । अर्यमगन्धर्वत्र्यम्बका देवताः। उपरिष्टादृहत्यो होममंत्राः । इयं नारीत्यनुष्टुप् । कन्या अग्निं देवमयक्षत इष्टवत्यः । अर्यमण- मित्यग्नेर्विशेषणम् । अरीन् यच्छतीत्यर्यमाग्निः, तम् । अयक्षतेति तिव्यत्ययः यजन्ते । अन्ये त्वग्निमित्यपि द्वितीयां सप्तम्याः स्थाने वर्ण- यन्ति अग्नावर्यमणं कन्या यजन्ते । अत्र पक्षेऽर्यमैव देवता । एवमनूच्य वधूर्यज्ञफल- माशंसति । अमुष्येति सामान्येन भर्तृनाम लक्ष्यते । सोऽर्यमा इष्टः सन् अमुष्य देवद्- तस्य इतो गृहेभ्योऽस्मान्मा प्रमुञ्चातु, माइत निषेधार्थो निपातः, इतो भर्तृगृहेभ्योऽस्माकं घ्यावं मा कार्षीदित्यर्थः । स्वाहा सुहुतमस्तु ॥
अग्निर्मा जनिमानिति वाचयति ॥ २७ ॥
वरं भाणयति गुरुरग्निरित्यादिमन्त्रमित्यर्थः ॥ अग्निर्मा जनिमाननया जनिमन्तं करोतु | जीवपत्निर्भूयासम् ।। जनी जाया । अग्निर्यतो जायावानतो मा- मपि जायया अविच्छिन्नसंबन्धं करोतु | तत्प्रसादादहमपि जीवपत्तिर्भूयासं जीवा पत्नी यस्य स जीवपत्त्रिरहं स्याम् ॥ २७ ॥
इयं नारीति सर्वत्रानुषजति ॥ २८ ॥
इयं नारीत्यस्य अनुष्टुभः त्रिष्वप्यनुषङ्गः कर्तव्यः ॥
इयं नार्युपब्रूते तोक्मान्यावपन्तिका ।
दीर्घायुरस्तु मे पतिरेवन्तां ज्ञातयो मम ॥
एषा नारी ब्रवीति । किम् । दीर्घायुरस्तु मे पतिर्ज्ञातयश्च मित्रादयो मम वर्धन्तामिति । किं कुर्वती ब्रवीति । तोक्मान्यावपन्ती ला- जान् जुह्वतीत्यर्थः ॥ २८ ॥
एवं द्विरुत्तरम् ॥ २९ ॥
द्वौ वारौ द्विः । एवमुत्तरं कर्म द्वौ वारौ कर्तव्यम् ॥ २९ ॥
तदेव स्फुटं दर्शयितुमाह
पर्ययणे पर्ययणे लाजाहोमो यजमानं चाश्मानं चास्थापयति गन्धर्वं पतिवेदनमिति ॥ ३० ॥
पर्ययणमग्निपरिगमनं यजमानानुषञ्जनम् । तत्र च वरः कर्ता अर्थात् । ततोऽश्मनः स्थाप- नम् । तत्र परिस्तीर्य लाजानामावपनं गन्धर्व पतिवेदनमिति ॥
गन्धर्व पतिवेदनं कन्या अग्निमयक्षत । सोऽस्मान्देवो गन्धर्वः प्रतो मुञ्चातु मामुष्य गृहेभ्यः खाहा ॥ गां पृथ्वीं धारयतीति गन्धर्वस्तमग्निं पति- वेदनं पत्युर्लम्भयितारं कन्या अन्या यतो- ऽयक्षत इष्टवत्यः, अतोऽहमपि यजे इति नारी ब्रूते इत्यर्थः । सच देवोऽग्निरिष्टः सन् गन्धर्वो ऽ- मुष्य भर्तुर्गृहेभ्योऽस्मान् मा प्रमुञ्चातु इति पूर्ववत्प्रतिषेधः ॥ ३० ॥
सोमो मा ज्ञातिमानिति वाचयति ॥ ३१॥
सोम इत्यादिमत्रं गुरुवचयतीत्यर्थः ॥ सोमो मा ज्ञातिमाननया ज्ञान्तिमन्तं करोतु । जीव- पत्निर्भूयासम् ।।
यतः सोमो ज्ञातिमानतो मामप्यनया नार्या ज्ञान्तिमन्तं करोतु । जीवपत्तिर्भूयासमिति
व्याख्यातम् ॥ ३१ ॥
त्र्यम्बकं यजामह इति ॥ ३२ ॥
त्र्यम्बकमित्यादिना तृतीयो होमः ॥ त्र्यम्बकं यजामहे सुगन्धि पतिपोषणम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामुष्य गृहेभ्यः स्वाहा॥ त्र्यम्बकं शंकरं यजामहे हविर्दानेन पूज- यामः । सुगन्धि सुयशसं, गन्धशब्दो यशो- ऽभिधायी प्रसिद्धः । पतिपोषणं भर्तुः पोष- यितारम् । अहं च त्र्यम्बकस्य पूजितस्य प्रसा- दात् मृत्योः सकाशात् मुक्षीय । कुतः किंवत् । उर्वारुकमिव बन्धनात् उर्वारुकं कर्करीफलं, तद्यथा बन्धनाद्वृन्तात्पक्कं सत्स्वत एव विमु- च्यते वा अर्थिभित्रोव्यते, तद्वदहं मृत्योः सका- शान्नित्यविश्लिष्टा स्यामित्यर्थः । अमुष्य भर्तु- गृहेभ्यः पुनर्मा कदाचन मुक्षीयेति निषेधः ॥
पूषा मा पशुमानिति वाचयति ॥३३॥
अस्यापि वाचनमेव, नत्वनेन होमः ॥
पूषा मा पशुमाननया पशुमन्तं करोतु । जीवपत्तिर्भूयासम् ॥ अनया पशुस्वामिनं मां पूषा करोत्विति विशेषः ॥ ३३ ॥
शिष्टान्स्विष्टकृते जुहोति शूर्पेण कर्ता ॥३४॥
लाजशब्द उभयलिङ्गः सूत्रकृता दृष्टः । कन्यया ये हुतास्तेभ्यो ये शिष्टा लाजास्तान् स्विष्टकृते जुहोति शेषान् 'स्विष्टकृते समवद्यति' इति वचनात् । कन्यया हि प्रधानहोमः कृतो- ऽञ्जलिना । तन्निवृत्तये शूर्पग्रहणं कर्तृग्रहणं च । विवाहकर्मणि यः कर्ता ॥ ३४ ॥
अथ दक्षिणा केन देयेत्याह
वरो दक्षिणाम् ॥ ३५ ॥
वर एव दक्षिणां विवाहकर्मकर्त्रे दद्यादि - द्वत्त्वाद्धनखामिकत्वाच्च, नतु नारीत्यर्थः । ऋ- तुतिथ्यादि यावत् स्विष्टकृत् ॥ ३५ ॥
तूष्णीं हस्तौ विमुच्य वि ते मुञ्चामीति सन्नहनम् ॥ ३६ ॥
सावित्रेण मन्त्रेण हस्तग्रहणं यथा, तथा विमोको मा भूदिति तूष्णींग्रहणम् । हस्तौ विमुच्य ततो 'वि ते मुञ्चामि इति मन्त्रेण सन्नहनं योकं विमुञ्चति कर्ता मत्रलिंगात् नतु स्वयम् ॥
विमुञ्चामि रशनां वि रश्मीन्वि योक्राणि परिवर्तनानि । दत्त्वायास्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद्धविर्दा देवताभ्यः ॥
त्रिष्टुप् । यतीनामार्षम् । 'विमोक एवा- स्यैष ते' इति वचनादग्नेरेष विमोकोऽन्यत्रानेन प्रतीतः । बन्धनस्य च रशनारश्मियोऋशब्दा अभिधायका उच्यन्ते । युज्यन्ते एभिरिति योक्राणि । कीदृशानि । परिवर्तनानि समन्तात् चर्तनं नियन्त्रिततया येषां तानि परिवर्तनानि । मुक्तमग्निं यजमानो ब्रूते-विमुक्तः सन्नग्निर- स्मभ्यं द्रविणानि यज्ञोपयोगीनि धनानि दत्त्वा भद्रं च कल्याणं दत्त्वा मां प्रब्रूयात् । कीदृशं माम् । हविर्दा देवताभ्यः, हविषो दातारं यज्ञा- नुष्ठाने मां विनियुक्तमिति प्रार्थयते यजमान इत्यर्थः । इहापि परिक्रीतेनर्त्विजा अर्थ्यमानस्य यजमानार्थतया यजमानस्याशीर्भवति । रश- नारश्मिशब्दौ च योऋपर्यायौ, पर्यायप्रयोगो- ऽतिशयार्थः । अथवा योत्राणि विमुञ्चामि न केवलं योत्राण्येव रशनां च अविद्यामित्यर्थः, वि रश्मीन् रश्मींश्चाविद्यामूलात्रागादीनित्यर्थः । दम्पत्योश्च योॠविमोकेन विवाहभूमौ स्थितोऽ- निर्मुक्तो भवति स्वातत्र्यसंचरणेन तस्य संक- टपरिहारात् । अतो विमुक्तः पूर्ववद्यर्थ्यते ॥
उत्तरतोऽग्नेर्दर्भेषु प्राचीं प्रक्रामयत्येकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मयोभवाय पञ्च प्रजाभ्यः षडृतुभ्यो दीर्घायुत्वाय सप्तमं सखा सप्तपदा भव । सुमृडीका सरस्वति मा ते व्योम सन्दृशि ॥ विष्णुस्त्वान्वेत्वित्यनुषङ्गः ॥ ३७ ॥
अग्नेरुत्तरेणास्तीर्णेषु दर्भेषु प्राङ्मुखीं वधूं प्रक्रामयति कर्ता सप्तपदानि सप्तभिर्मंत्रैः । विष्णुस्त्वान्वेस्विति सर्वत्रानुषङ्गः । एकमिषे विष्णुस्त्वान्वेतु - एकं पदमिषेऽन्नाय निधेहि, त्वां
च गच्छन्तीं विष्णुरन्वेतु । द्वे ऊर्जे विष्णुस्त्वा- न्वेतु-दे पदे ऊर्जे बलाय निधेहीति पूर्ववत् । त्रीणि रायस्पोषाय विष्णुस्त्वान्वेतु - त्रीणि पदानि रायो धनस्य पुष्टये निधेहि । चत्वारि मयोभवाय विष्णुस्त्वान्वेतु-मयः सुखं तद्भ- वत्यस्मादिति मयोभूस्तस्येदं मयोभवं, तदर्थं चत्वारि पदानि निधेहि सुखभवनप्रार्थनाये- त्यर्थः । पंच प्रजाभ्यो विष्णुस्त्वान्वेतु-पुत्रपौ - प्रजार्थं पंच पदानि निधेहि । षडृतुभ्यो वि- ष्णुस्त्वान्वेतु - षट् पदानि ऋतुसांमुख्याय नि- वेहि, ते च ऋतवः संमुखीभूताः फलैः संब- नन्तु त्वामित्यर्थः । दीर्घायुत्वाय सप्तमं सखा सप्तपदा भव । सुमृडीका सरस्वति मा ते व्योम सन्दृशि ॥ विष्णुस्त्वान्वेतु - दीर्घायुत्वायायुषे सप्तमं पदं निधेहि । एभिश्च सप्तभिः पद्भिर्भर्तुः सुखाय भव । सुमृडीका 'मृड सुखने' सुसुखा । : सरस्वति मा ते तव व्योम आकाशस्थः क- श्चित्सप्तमं पदं द्राक्षीत् पवनान्दोलितवाससो नग्नं वा कंचित्प्रदेशम् ॥ ३७ ॥
तच्चक्षुरित्यादित्यमुपस्थापयति ॥ ३८ ॥
तचक्षुरित्यादिना कर्ता कन्यामादित्यमुपस्थापयति ॥
- तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥
देवहितं देवविहितं देवेभ्यो वा हितं हित- कारि । शुक्रं शुक्लम्। उच्चरत् ऊर्ध्वं चरत् गच्छत् उद्यत् ॥ ३८ ॥
अस्तमितेऽग्निम् ॥३९॥
विवाहे क्रियमाणे यदि रात्रिर्भवति रात्रौ चा विवाहः, तदा तचक्षुरित्यनयाग्निमुप. स्थापयेत् ॥ ३९ ॥
जीवन्तीं ध्रुवं स्वस्त्यात्रेयं दर्शयत्यरुन्धतीं च ॥ ४० ॥
"जीवन्तीं कन्यामिच्छन् ध्रुवादिकं दर्शयेत् । अत्र केचिद्रात्रावित्यनुवर्तयन्ति दिवा ध्रुवा - दिदर्शनाभावात्, अपरे नानुवर्तयन्ति यतोऽये पश्यसीति प्रश्ने अपश्यन्ती अपि पश्यामीति प्रतिवचनमाहेत्यर्थो लक्ष्यते । दर्शनमात्र विवक्षया हि पश्येः प्रैषः पश्यामि नवेत्यत्र चोत्तरं
पश्येम ॥ ४० ॥
एतेषामेकैकं पश्यसीत्याह ॥ ४१ ॥
पश्यसीत्यैकैकस्य नाम गृहीत्वा पृच्छेद्गुरुः ॥
पश्यामीति प्रत्याह ॥ ४२ ॥
सापि पृष्टा सती पश्यामीति प्रतिब्रूयात् ॥
सुमङ्गलीरियं वधूरिमां समेत्य पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरीतनेति वीक्षिताननुमन्त्रयते ॥ ४३ ॥
वीक्षितान् ध्रुवादीन् गुरुरनुमन्त्रयते । सुमं गलीरित्याद्यानुष्टुप् । इयं वधूः शोभनमंगलयुक्ता भवतु भवत्प्रसादात् । इमां समेत्य संभूय पश्यत । अस्यै च सौभाग्यं दत्त्वा पश्चादस्तं गच्छत । दत्त्वायेति क्त्वो यक् । तेन दिवापि ज्ञेयमे - तत् । ध्रुवादिदर्शनं हि जीवनद्योतनमाहुः । 'तदिहावसरेऽपश्यन्त्या अपि पश्यामीति प्रति- वचनमपमृत्युव्याघाताय स्मर्यते । अत एव ध्रुवादिकं यद्दर्शयेत्, तत्स्वस्त्यविनाशमेव दर्श- येदित्यर्थः ॥ ४३ ॥
उदुत्तममिति प्रागुदीचीमावसथं यतीमनुमन्त्रयते यतो वा स्यात् ॥ ४४ ॥
उदुत्तममित्यादिना अनुष्टुप्चतुष्टयेनावसथं गृहं यतीं गच्छन्तीं प्रागुदीचीमुत्तरपूर्वदि- गभिमुखीमनुमन्त्रयते । यत्र वा आवसथः `स्यात्, तदभिमुखं गच्छेत् ॥
उदुत्तममारोहन्ती व्यस्यन्तीव पृतन्यतः । मूर्धानं पत्युरारोह प्रजया च विराङ्गव ॥ १ ॥ हे वधु उत्तममुत्कृष्टं गृहं सुचरितं वा आरो- हन्ती, पृतन्यतः पृतनां सेनामिच्छतः शत्रून् व्यस्यन्तीव क्षिपन्तीव, पत्युर्भर्तुर्मूर्धानमधिरोह तस्य स्वगुणगणेन मान्या भवेत्यर्थः, तथा प्रज- या पुत्रपौत्रादिकया विशेषेण राजमाना भव ॥ इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । • दशास्यां पुत्रानाघेहि पतिमेकादशं कृधि ॥ २ ॥ हे इन्द्र मी: 'मिह सेचने' सेक्तः, गर्भग्रह- णाख्याया रेतः स्थितेरिन्द्रप्रसादायत्तत्वादेवं संबोधनम्, इमां वधूं सुपुत्रां सौभाग्ययुक्तां च कुरु । दशास्यां पुत्रानाधेहि विधेहि एका- दशं पतिं सम्पादय ॥ २॥
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधिदेवृषु ॥ ३ ॥ हे वधु सम्राज्ञी श्वशुरे त्वं सम्राज्ञी माननी- यतमा सम्यग्राजमाना भव, तथा वन- नान्दरि च भर्तुर्भगिन्या मेवमधिदेवृषु देवरेषु ॥ नुषाणां श्वशुराणां च प्रजायाश्च धनस्य च । पतीनां च देवृणां च सजातानां विराङ्कव ॥ ४ ॥ सजाताः बान्धवपरिजनप्रभृतयः । देवृणां 'छन्दस्युभयथा' (६।४।५) इति हखः, मध्यदेशे तु दीर्घः पठ्यते, देवराणाम् । सर्वं गृहगतं तवायत्तमस्त्वित्यर्थः । अत ऊर्ध्वं त्वं नो अग्न इत्यादितंत्रपरिसमाप्तिः। अत्र भर्तृगृहगमना- वसरे मधुपर्ककाण्डिका पठ्यते । सा चना- तकप्रकरणे व्याख्यास्यते ॥ ४४ ॥
इति जालन्धरीयजयपुरवास्तव्यभट्टोपेन्द्रसूनुहरिपालपुत्रदेव- पालविरचिते समंत्रकाठगृभाष्ये विवाह- प्रकरणं समाप्तम् ॥
इति पञ्चविंशी काण्डिका ॥ २५ ॥
अथ
षड्विंशी काण्डिका ।

पुण्याहे युंक्ते । योगे योग इति युनक्ति ॥
यदा वधूः पुण्ये दिवसे भर्तृगृहं गच्छति तदा रथं शिविकां वा यथासम्भवं युंक्ते । तत्र च योगे योग इति व्याख्यातमंत्रावृत्त्या अश्वा- दिकं युनक्ति ॥ १ ॥
अङ्कुन्यङ्का अभितो रथं ये ध्वान्ता वाताग्रमभि ये संपतन्ति । दूरेहेतिः पतत्रिणी वाजिनीवांस्ते नोऽग्नयः पप्रयः पारयन्त्विति चक्रे अनुमन्त्रयते ॥ २ ॥
अङ्कुन्यङ्कावित्यादिकया जगत्या आग्निमारुते रथचक्रेऽनुमंत्रयते ऋत्विक् पार्श्वे वा । सकृच्च मंत्रः प्रयोक्तव्यो द्विवचनलिंगात् | अंचती- त्यंकुः, न्यञ्चतीति न्यङ्कः, अंकुश्च न्यंकश्चाङ्कु- न्यंकौ अञ्चकन्यञ्चकौ गन्तृविशेषौ याभ्यां चक्रे गच्छतः । अङ्कुन्यङ्कौ रथस्याभितः स्थितौ नोऽस्माकं तेऽग्नयः पारयन्तु पथस्तारयन्तु पालयन्तु वा पथि । केनयः । ये ध्वान्तास्तमो- रूपाः काष्ठादीन्धनजाः । ये च वाताग्रमभि- संपतन्ति वैद्युतादिरूपा इत्यर्थः । यश्च दूरे- हेतिर्दूरगतार्चिरादित्यादिरूपः । यश्च पतत्रिणी- वाजिनीवान् पतत्रिणीवान् वाजिनीवांश्चेत्यर्थः, पतत्रिणीवान् वायुगरुडादिमूर्तिषु व्यवस्थितः, वाजिनीवान् व्रीह्यादिमूर्त्याश्रितः । कीदृशा अग्नयः । पप्रयः 'पॄ पालनपूरणयोः प्रीणन्तीति पप्रयः पालयितारः पूरयितारो वा कामानां 'प्रा पूरणे' इत्यस्य वा पत्रिशब्दः ॥ २ ॥
खे रथस्य खेऽनसः खे युगस्य च तर्मसु । खे अक्षस्य खे अवदधामीति युगतर्मसु शमीशाखामवदधाति ॥ ३ ॥
खे रथस्येत्यादिना युगस्य तर्मसु च्छिद्रेषु शमीशाखामवदधाति । रथंस्य खे आकाशे छिद्रे अवदधामि शाखां, तथा खेऽनसः गव्याः, एवं युगस्य तर्मसु च्छिद्रेषु, तथा खे अक्षस्य रथाधारकाष्ठविशेषस्यान्यत्रापि च खे छिद्रे शा- न्त्यर्थं शमीशाखामवदधामि ॥ ३ ॥
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् | आरोह सूर्ये अमृतस्य योनिं स्योनं पत्ये वहतुं कृणुष्वेत्यारोपयते ॥ ४ ॥
सुकिंशुकमित्यादिना वधूं रथमारोपयति । वधु रथमारोह । कीदृशम् । सुकिंशुकं शो- पलाशकुसुमैस्तदुपलक्षितैरन्यपुष्पैश्च परि- जनाहितैः शोभनं शल्मलिं 'शल हुल पल्लू गतौ' गमनशीलं, अथवा किंशुकशल्मलिदारु- निर्मितत्वादेवमुच्यते, विश्वरूपं नानाकारं, हिरण्यवर्ण उज्वलरूपं, सुवृतं फलकुसुमादिभिः परिवृतं सुवर्तुलं वा सुवर्तनं सुखचेष्टं वा, तथा शोभनचक्रं, अमृतस्य योनिं अमरण- धर्मस्य कारणमप्रमापणकारिणम् । पत्ये भर्त्रे व्यत्ययेन भर्तुः स्योनं सुखं कृणुष्व कुरुष्वैनं वहतुं वहतीति वहतुस्तम् ॥ ४ ॥
मा विदन्परिपन्थिनः सुमंगलीरिति च प्रवाहयते ॥ ५ ॥
' मा विदन्परिपन्थिनः' इति 'सुमंगली:' इति चैताभ्यां व्याख्यातार्थाभ्यां प्रवाहयते रथम् ॥
संकाशया विवहतं ब्रह्मणा गृहैरघोरेण चक्षुषा मैत्रेण । पर्याणद्धं विश्वरूपं यदस्याः स्योनं पतिभ्यः सविता कृणोतु तदिति वधूसंगमे ॥ ६ ॥
एतां जगतीं सावित्रीं वधूसंगमे जपति संकाशयेत्यादिकाम् । अश्वावुच्येते । सम्यग- नया प्रकाशमानया दृष्टया इदमनो विवहतं प्रापयतम् । ब्रह्मणा अन्नेन सह, गृहैश्च पत्या गृहशब्देन गृहस्थपत्युच्यते, अघोरेण शिवेन, चक्षुषा मैत्रेण मित्रसम्वन्धिना, नतु शात्रवेण । कीदृशं वहतम् । पर्याणद्धं समन्ताच्छन्नम् । तथा नानारूपं यदनः अस्या वध्वाः पतिभ्यः स्योनं सुखं पतिभ्य इति वचनव्यत्ययः पत्ये तच्च सविता च सुखादिकं सर्वं करोतु । रथयोरन्योन्यसंघाते विघातशंकायामेष जपः॥
ये पथीनामिति चतुष्पथेषु जपतीमे चत्वार इति च ॥७॥
व्याख्यातौ मंत्रौ । ये पथीनामित्यनुष्टुप् । इमे चत्वार इति त्रिष्टुप् ॥ सूत्रं स्पष्टार्थम् ॥७॥
ये श्मशानेष्विति श्मशानेषु ॥ ८ ॥
जपतीत्यनुषङ्गः ॥
ये श्मशानेषु पुण्यजनाः शावास्तेषु शेरते । तत्रैव ते रमन्तां मा वधूरन्ववेक्षत ॥
श्मशानेषु शवशयनेषु ये पुण्यजना यक्षा ये च शावाः प्रेतास्तेषु श्मशानेषु शेरते तिष्ठन्ति, तत्रैव ते रमन्तां रतिं कुर्वन्तु, मा वधूरन्ववेक्षत मा द्राक्षुर्वधूम् । वधूरिति सुब्व्यत्ययः ॥ ८ ॥
ये वनेष्विति महावनं महावृक्षं च दृष्ट्वा जपति ॥ ९ ॥
स्पष्टम् । मंत्रोऽपि विवृतः ॥ ९ ॥
इह रडिरिति क्रूरं दृष्ट्वा ॥ १० ॥
इह रडिरित्यादिकं क्रूरं सिंहादिकं दृष्ट्वा जपतीत्यनुषंगः ॥
इह रडिरिह रतिरिह धृतिरिह विधृतिरिह स्वधृतिरिह रन्तिरिह रमतामग्रे वेट् स्वाहा वट् ॥
'लड विलासे' लडनं रडिः क्रीडा इह अस्मासु रमताम् । तथा रतिः प्रीतिः । सर्वत्र रमतामित्यनुषजति । इह धृतिः संतोषः । इह विधृतिर्विधरणं स्थैर्यम् । स्वधृतिः स्वस्य धनस्य धारणम् । इह रंतिः रमणं रन्तिः, रड्यादिकं हिंस्रदर्शनादस्मत्सकाशान्मा दूरी- भूदित्यर्थः । अग्रे वेट् स्वाहा वट् संप्रदानार्थीया निपाताः ॥ १० ॥
नमो अस्तु सर्पेभ्य इति सर्पान् ॥११॥
दृष्ट्वा जपतीत्यनुषंगः ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिव्यामधि । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ येषु वा यातुधाना ये वा वनस्पतिरनु । ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ये वादो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येऽप्सु सदांसि चक्रिरे तेभ्यः सर्पेभ्यो नमः ॥
गतार्थम् ॥ ११ ॥
ये तीर्थानीति तीर्थे ता मन्दमानेति च ॥ १२ ॥
तीर्थे जपति प्रतीकमुद्रितान्मन्त्रानित्यर्थः । ये तीर्थानीति व्याख्याता । तीर्थमत्र निपानं नद्यवतारस्थानम् । यथोक्तं
'तीर्थाभिधानमिच्छन्ति त्रितयं कृतबुद्धयः । शास्त्रं चैव निपानं च वारि चाप्यृषिसेवितम् ॥'
इति ॥
ता मन्दमाना मनुषो दुरोण अधत्तं रयिं सहवीरं वचस्यवे । कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥
आश्विनी । जगती । हे अश्विनौ मन्द- मानौ स्तूयमानौ हर्षयुक्तौ मद स्तुतिमोदमदे- त्यादिकादर्थनिर्देशात् मनुषो मनुष्यस्य दुरोणे गृहे रयिं धनं अधत्तं छान्दसो ह्रस्वः आधत्तम् । कीदृशं धनम् । सहवीरम् पुत्रसहितं सहस्र- वीर्य वा पुत्रपौत्रादिमालायुक्तमित्यर्थः । किंच तीर्थं सुप्रपाणं कृतं युवां कुरुतं स्ववगाहं, तथा स्थाणुं तिष्ठन्त्यस्मिन् संपद इति स्थाणुः । कस्मै । वचस्यवे वच इच्छत्यात्मनः 'सुप आत्मनः
क्यच्' (३|१|१८) 'क्याच्छन्दसि' (३।२।१७०) इत्युत्वं तस्मै वचस्यवे । हे शुभस्पती शुभस्य पालयितारौ दुर्मतिं दुष्टां मतिमस्य मनुष्यस्य अपहृतं विनाशयतम् । कीदृशीं दुर्मतिम् पथेष्ठां पथि तिष्ठति पथेष्ठा तां सुरूढामित्यर्थः ॥ अयं नो मह्याः पारं स्वस्ति नैषद्वनस्पतिः । सीरा नः सुतरा भव दीर्घायुत्वाय वर्चसे || तीर्थविशेषनदीतरणेऽयं मंत्रः । गायत्री । अयं वनस्पतिर्वानस्पत्यो रथः नोऽस्मान् मह्याः महत्या नद्याः पारं नैषत् नयतु । स्वस्ति अवि- नाशं कृत्वा । सीरा च नदी नोऽस्माकं सुतरा भव भवतु । दीर्घायुत्वाय दीर्घायुषे, वर्चसे च अस्माकं सीरा भवतु । दीर्घायुत्वायेत्यत्र त्वप- त्योरिति सलोपश्छान्दसः ॥
अश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रतराम सखायः । अत्राजहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभिवाजान् ॥ अनेन प्रकृता नदी तीर्यते । हे सखायः जन्याः उत्तिष्ठत, संरभध्वं सप्रयत्ना भवत, प्रत- रामो नदीम् । प्रयत्नविशेषेण प्रेषणे हेतुमाह
यतोऽश्मन्वती पाषाणसंघट्टवती नदी रीयते
तीर्यते । शेव इति सुखनाम । ये चाशेवा अ- सुखा असन् संति, तानत्रैव स्थाने आजहाम त्यामः त्यक्त्वा तान्गच्छाम इत्यर्थः । वयं च शिवान्देशविशेषान् अभिवाजान् वाजाभि- मुखान् अन्नविशेषयुक्तान् तरेम तीर्त्वा प्राप्नु- यामेत्याशंसा ॥ १२ ॥
इति षड्विंशी काण्डिका ॥ २६ ॥
 

अथ
सप्तविंशी काण्डिका ।

शन्न इति नदीं तरति ॥ १ ॥
गतार्थं समत्रकम् ॥ १॥
य ऋत इति रथाङ्गे विशीर्णे ॥ २
अविशेषाभिधानाद्यस्मिन्कस्मिंश्चिद्रथाङ्गे विशीर्णे श्लथे रथे य ऋत इत्यादिकामैन्द्री बृहतीं जपतीत्यर्थः ॥
ऋते चिदभिश्रिषः पुरा जत्रुम्य आवृदः । सन्धाता सन्धि मघवा पुरूवसुर्निष्कर्ताविडुतं पुनः ॥ हे रथ यस्त्वं जत्रुभ्यो ग्रन्थिभ्यो बन्धने- भ्यः ऋते विना अभिषिः विशीर्णो विनाशं प्राप्तः पुरा पूर्वमेवातृदः आतर्दनादहिंसित एव नष्ट इत्यर्थः, तं त्वा मघवा पुनः निष्कर्ता सन्धि सन्धीयत इति सन्धिस्तं निःशेषेण पुनः करिष्यतीत्यर्थः । सहि सन्धाता सन्धा- नशीलः । कीदृशं सन्धीयमानं त्वां करिष्यति । अविद्दुतमकुटिलगतियोग्यम् । कीदृशो मघवा । पुरूवसुः बहुधनः। चिदिति पादपूरणो निपातः॥
अपराह्णेऽधिवृक्षसूर्ये गृहानुपयायोर्जं बिभ्रतीति गृहान्प्रतिदृश्य जपति ॥ ३ ॥
अपराह्नसमयेऽधिवृक्षसूर्ये यदा वृक्षाणामु- पर्येव रविरश्मयो दृश्यन्ते नाधस्तात्, तदा गृहानुपयाय, गृहग्रहणेन स्वग्राम उपलक्ष्यते, स्वग्रामसमीपं गत्वा तत्र स्वगृहान् प्रतिदृश्य आभिमुख्येन दृष्ट्वा ऊर्ज बिभ्रतीत्यादि जपति । वध्वा एष जपो मंत्रलिङ्गात् ॥
ऊर्जे विभ्रती वसुवनिः सुमेधा गृहानागां मोदमाना सुवर्चाः । अघोरेण चक्षुषा मैत्रेण गृहाणां पश्यन्ती वय उत्तिरामि ॥ गृहाणामायुः वयं तिराम गृहा अस्माकं प्रतिरन्त्वायुः । गृहानहं सुमनसः प्रपद्ये वीरभी वीरपतिः सुशेवा ॥ इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशामि । येषां मध्येऽधिप्रवसन्नेति सौमनसं बहु || गृहानुपह्वयामहे ते नो जानन्तु जानतः । नृतान्तः स्वधावन्त इरावन्तो ह सामदाः ॥ .अक्षुध्या अनुष्यास्त गृहा मास्मद्विभेतन । • उपहूता इह गाव उपहूता अजावयः ॥ अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । उपहूता भूरिधनाः सखायः साधुसम्मदाः ॥ अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ।
अहं गृहानागां आगता, ऊर्जं बिभ्रती अन्नं धारयन्ती पुष्णती च, वसुवनिः 'वन षण संभक्त' वसूनि धनानि विभजमाना, सुमे- धाः शोभनया प्रज्ञया युक्ता, मोदमाना हृष्य- न्ती, सुवर्चाः शोभनदीप्तिः, गृहाणामिति व्य त्ययेन द्वितीयार्थे षष्ठी, अघोरेण सौम्येन, मैत्रेण हितैषिणा चक्षुषा गृहान्पश्यन्ती । वय इति धननाम, धनमुत्तिरामि ददामि परिजनाय | वयमेतेषामायुः प्रतिरामः उपलेपनादिद्वारेण स्थैर्यं सम्पादयामः । गृहा अपि गृहाधिष्ठात्र्यो देवता अस्माकमायुः प्रतिरन्तु सम्पादयन्तु । अहमेतान् गृहान् प्रपद्ये गच्छामि प्रविशामि । कीदृशान् । सुमनसः सौमनस्यकारिणः। वीरघ्नी गत्यर्थोऽत्र हन्तिः पुत्राणां प्रापिका लम्भिका । वीरपतिः विक्रान्तियुक्तभर्तृका । सुशेवा शेवो- ऽन्नं धनं च, सुधना । कीदृशान् गृहान् । इरा- मन्नं वहतः धारयतः । तथा घृतमुक्षमाणा आसिञ्चन्तो बहुगवादिकत्वात् ये गृहास्ता - नहं सुमनस्का सती प्रविशामि । किंच येषां गृहाणां मध्ये निवसन् बहु सौमनस- मेति प्रपद्यते, तान् गृहानुपह्वयामहे आह्वयामः । तेऽस्माञ्जनतो ज्ञानयुक्तान् जानन्तु । गृहाधिष्ठातृदेवताप्रसादाच्च वयं सूनृतावन्तः सत्य- वाचः स्याम, तथा स्वधावन्तः पितृयज्ञकारिणः इरावन्तोऽन्नवन्तः, हेत्यनर्थकः, सामदाः स्याम सान्त्वनलक्षणेन प्रथमेनोपायेन स्वीकारकाः स्यामेत्यर्थः । यथोक्तं 'साम दानं च भेदश्व दण्डश्रेति चतुर्विधः । मायेन्द्रजालोपेक्षाच सप्तोपायाः प्रकीर्तिताः ॥ इति । अस्मभ्यमिति तादर्थ्ये चतुर्थी, तेनास्मदर्थं सत्यवचनयुक्ता यूयं भवतेत्यप्यर्थः सम्पद्यते । अस्मभ्यं सामदा भवतेति प्रदाने चतुर्थी अपि योज्या । हे गृहा अस्माभिरधिष्ठिताः सन्तः अस्मत् मा बिभेतन अस्मत्सकाशाद्भयं मा कार्षुः ॥ इह च गृहेषु उपहृता आहूता गावस्तथा अजा अवयश्च अथो तथा अन्नस्य संबन्धी की- लालो मृष्टरस आहूतो मम गृहेषु, तथा सखायः सहायाः, भूरिधनाः बहुवित्ताः, आहूतास्ते साधु कृत्वा सम्मदाः सम्यक् हर्षयुक्ताः सर्वदा सन्तु, तथा अरिष्टा अनुपहिंसिता नोऽस्माकं गृहाः सर्वपुरुषाश्च सर्वदा भवन्तु ॥ ३ ॥
इति सप्तविंशी काण्डिका ॥ २७ ॥
 
अथ
अष्टाविंशी काण्डिका ।

उलपराजीं स्तृणात्याशयनीयात् ॥१॥
उलपो वीरणः, प्रसूना दीर्घदर्भा इति तु प्रसिद्धिहीनं वचो मध्यदेशादौ वीरणानामेव तथा प्रसिद्धेः । ऋत्विक् वीरणपंक्तिं स्तृणाति रचयति रथावतरणस्थानादारभ्य वधूशयन- गृहविशेषं यावत् ॥ १ ॥
तया प्रविशति ॥ २ ॥
तया राज्या प्रविशति गृहं रथादवतीर्य वधूसहितो वरः ॥ २ ॥
अध्याहिताग्निं सोदकं सौषधमावसथं प्रतिपद्यते ॥ ३ ॥
अध्याहितः स्थापितो विवाहाग्निर्यत्र तं, तथा सोदकमुदकुम्भभूषितं, सौषधं व्रीह्माद्यो- षधिसनाथं, आवसथं गृहविशेषं प्रतिपद्यते प्रविशति । अत ऊर्ध्वं हि पाकयज्ञेष्वधिक्रियते ।
वास्तु होमानन्तरं चैष प्रवेश इष्यते । उक्तं हि सूत्रं 'अमीवहा वास्तोष्पत इति चतसृभि- र्वास्तोष्पतीयस्य स्थालीपाकस्येष्टाथ वास्त्वा विशेत्' (१२।१) इति ॥
अमीवहा वास्तोष्पते० ॥
आद्या गायत्री । तिस्रस्त्रिष्टुभः । ब्रह्मण आर्षम् । हे वास्तोष्पते माध्यमिक देवताविशेष वायुरूप नोऽस्माकं अनमीव एधि, 'अम रोगे' रोगशून्यो भव अस्मान्नीरोगान्कुर्वित्यर्थः । अमीवानं व्याधिं हन्तीति अमीवहा व्याधि- प्रध्वंसकारी, अनमीवस्तु रोगप्रागभावस्यैव स्थैर्य हेतुरित्यपौनरुक्त्यम्, तथा सुशेवः सुख- सेव्यो भव । किं कुर्वन् । विश्वा रूपाण्यावि- शन् नानारूपाणि धारयन्, अश्वादीनि नाना- रूपाणि वा आविशन् प्रवेशयन् समृद्धं गृहं कुर्वन्नित्यर्थः ॥ १ ॥
हे वास्तोष्पते अस्मान् प्रविविक्षून् प्रति- जानीहि, आभिमुख्येनानुकूल्येन पश्य, ततश्च स्वावेशः सुप्रवेशो रोगरहितोऽस्माकं भव । यत् वा ईमहे याचामहे, तन्नः प्रतिजुषस्व तेन याचि- तेनास्मान् प्रीणीहीत्यर्थः । तस्मादस्माकं द्विपदे मानुषरूपे, चतुष्पदे गवादिके शंभव सुख- रूपो भव ॥ २ ॥
हे वास्तोष्पते अस्माकं प्रतरणो भव दुर्ग- मस्थानेभ्यो ऽस्मान् प्रतारयेत्यर्थः । हे इन्दो माध्यमिकत्वसामान्यात् चन्द्र अस्माकं गोभि- रवैश्च गये गृहे स्फानः स्फीतो भव । तेन तव सख्ये वर्तमाना वयं अजरासः अजीर्णाः स्याम । त्वं चास्मान् प्रतिजुषख प्रीणीहि । क इव कान् । पितेव पुत्रान् ॥ ३ ॥
हे वास्तोष्पते ते तव सम्बन्धिन्या संसदा वेगादिसंपदा शग्मया सुखरूपया वयं सक्षीम संगच्छेम । हिरण्वया सुवर्णादिकया, गातुमत्या यज्ञादिकर्मवत्या यज्ञाद्युपयोगिन्येत्यर्थः । वर- मुत्कृष्टं कृत्वा नोऽस्मान् अलब्धलाभात्मके योगे, प्राप्तपरिरक्षणात्मके च क्षेमे वर्तमानः पाहि रक्ष । यूयं त्वं व्यत्ययेन पात पाहि स्वस्तिभिरविनाशैः सर्वकालम् ॥ ४ ॥
रोहिण्या मूलेन वा यद्वा पुण्योक्तमपरेणाग्निमानडुहे रोहिते चर्मण्युपवेश्यापिवा दर्भेष्वेव जयप्रभृतिभिर्हुत्वाग्निरैतु प्रथम इति च ॥ ४ ॥
रोहिण्या मूलेन वा नक्षत्रेण युक्ते चन्द्रम- सीति ज्ञेयम् । यद्वा पुण्योक्तं ज्योतिःशास्त्रे पुण्यरूपं श्रेयस्करं यद्दिनमुक्तं, तत्र वा । अप- रेणाग्निं प्रकृतत्वादावसथ्यम्, अनडुह इद- मानडुहं वार्षभं तत्र, रोहिते चर्मण्युपवेश्य धूं वरः स्वयं चोपविश्य, केवलेषु वा दर्भेषु वधूमुपवेश्य स्वयं चोपविश्य जयहोमप्रभृतिक- माज्यभागान्तमाज्यसाधनत्वादर्थादाज्यधर्मयु- तमुपसमाधानादिपूर्वक हुत्वा, अग्निरैतु प्रथम इत्यादिभिश्च कर्मान्तराणि कुर्यात् । कानि तानि । पाकयज्ञा अर्थात् ॥
अग्निरैतु प्रथमो देवतानां सोऽस्याः प्रजां नयतु सर्वमायुः । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमधं निरु- ध्यात्वाहा ॥ १ ॥
अग्निरैतु इतिवैश्वदेव्यश्चतस्रस्त्रिष्टुभः । वि-वेषु देवेष्वागच्छत्सु सर्वदेवतानां प्रथमोऽग्रे - निरा तु ऐतु आगच्छतु । सोऽग्निः सर्वदेव- पुरःसरोऽस्या वध्वाः प्रजां नयतु प्रापयतु तां च प्रजां सर्वमायुः नयतु प्रापयतु । द्विकर्मकः अजां नयति ग्राममितिवत् । तच्चायुरग्निना प्राप्यमाणं वरुणो राजानुमन्यतां तत्रानुमति ददात्वेवमस्त्विति । राजग्रहणं तेनानुमतेन तदनुचरत्वात्सर्वे देवा अनुमन्यन्ते इत्याश- येन । यथाच इयं स्त्री वधूः पुत्रस्येदं पौत्रमघं पापं निरुन्ध्यात् पुत्रशोकं नानुभवेत्तथा तेन प्रकारेण वरुणो राजा अनुमन्यताम् ॥ १ ॥
अग्निरिमां त्रायतां गार्हपत्यः सोऽस्याः प्रजां मुञ्चतु मृत्युपाशात् । अरिक्तोपस्था जीवतामस्तु माता पौत्रमान- न्दमभिविबुध्यतामियं स्वाहा ॥ २ ॥
इमां वधूमग्निरावसथ्यस्त्रायतां रक्षतु । इयं वधूररिक्तोपस्था अस्तु उपस्थ उत्सङ्गो बालक- सुतैः क्रमेण जायमानैरस्या उत्सङ्गोऽरिक्तोऽशू- न्योऽस्त्वित्यर्थः । तथेयं जीवतां चिरायुषां पु- त्राणां माता भवतु । पुत्राणामयं पौत्रस्तं चानन्दं सुखमियमाभिमुख्येन विशेषेण बुध्यताम् ॥२॥
मा ते गृहे निशि घोर उत्थादन्यत्र त्वद्रुदत्यः संवि- शन्तु | जीवपुत्रा पतिलोके विराज पश्यन्ती प्रजां सुमन- स्वमानां स्वाहा ॥ ३ ॥
हे वधु ते तव गृहे निशि दिवा घोरो रो- दनादिशब्दो मा उत्थात् रोदनादिशब्दो दुष्ट-
हे मा भूत्कदाचिदित्यर्थः । रुदत्यों रोदनं कुर्वत्यस्त्वत्तव सकाशादन्यत्र संविशन्तु अ- न्यत्र तव दूरवर्तिनि देशे तिष्ठन्त्वित्यर्थः । त्वं पतिलोके पतिकुले विशेषेण राज शोभख जीवपुत्रा दीर्घायुर्वहुपुत्रा सती तथा सुम- नस्यमानां सुखिनीं प्रजां पुत्रादिकां पश्यन्ती सती ॥ ३ ॥
मा ते कुमारः स्तनधः प्रमायि मा त्वं विकेश्युर आव- धिष्ठाः । स्तनन्धयं ते सविताभिरक्षत्वा वाससः परिधाना- बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु नित्यं स्वाहा ॥ ४ ॥
तव कुमारो बालकः स्तनन्धयः स्तनपः मा प्रमायि मा मृत । मा च त्वं विकेशी मुण्डा सती उरो वक्ष आवधिष्ठाः भर्तृविरहकृत मुरस्ताडनं तव मा भूदित्यर्थः । तव स्तनन्धयं सविता अभि- रक्षतु बृहस्पतिश्च अभिरक्षतु आ वाससः परि-'धानात् परिधानवस्त्रपर्यन्तं यावत् रक्षतु, विश्वे देवाश्च नित्यमभिरक्षन्तु ॥ ४ ॥ एताभिश्चतसृभिर्ऋग्भिश्चतस्र आहुतयो दा-
तव्या वरेण स्वयमेवमुत्तरा अपि । अग्ने प्राय- श्चित्त इत्यादिभिर्यजुर्भिरन्या दश आज्याहुतयः क्रमापक्रमाभ्याम् ॥
अ प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि । यस्यां भृशा तनूस्तामस्या नाशय स्वाहा ||
प्रायश्चित्तं पापनिवारणं धर्मजननं च क- मोच्यते । तत्कारणत्वादग्निः प्रायश्चित्तिः । हे प्रायश्चित्त्वं देवानां प्रायश्चित्तिर्दोषाप- सारे शुभजनने च निमित्तमतोऽस्यां वध्वां या भृशा अपवित्रा अतिशयेन बीजवशेन वाल- भावकृतकुचेष्टावशेन च तनूस्तामस्या वध्वा नाशय तद्गतमशुभं नाशय । वरस्य हि गार्भ- बैजिकदोषा जातकर्मादिभिर्नाशिताः, वध्वास्तु तानि प्रायेण न कृतानि
'गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्मिकं चैनो द्विजानां प्रतिहन्यते ॥' (मनुः २।२७) इति स्मृतेः । एनः पापमशुद्धिः ॥
वायो प्रायश्चित्ते ० | सूर्य प्रायश्चित्ते० । चन्द्र प्रायश्चित्ते ०. 4 विष्णो प्रायश्चित्ते । विष्णो प्रायश्चित्ते० । चन्द्र प्राय- चित्ते० । सूर्य प्रायश्चित्ते । वायो प्रायश्चित्ते० । अग्ने प्रायश्चित्ते० ॥
एतानि सानुषङ्गाणि पराणि पञ्च यजूंषि अपक्रमेण । तेनग्भिश्चतसृभिश्चतस्रो, यजु- भिश्च दशभिर्दशेति चतुर्दशाहुतयः संपन्नाः, त्र्यायुषमित्यनेन पंचदशी - इत्यादित्यदर्शनः । स आज्यैकदेशे योऽनेन यजुषा वक्ष्यमाण आ- सेकस्तामेवाहुतिं मन्यते मन्त्रावृत्तिं वा ॥ ४ ॥
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमित्याज्यस्यैकदेशे दध्यासिच्य दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा माणवकायोत्सङ्ग इरामग्न इति फलानि प्रददाति ॥ ५ ॥
स्वयंकर्तृकत्वादासां स्रुवेण पूर्वोक्ता घृता- हुतीर्हुत्वा त्र्यायुषमित्यादियजुषा पृथकूपात्रो - हृते घृते घृतैकदेशे दध्यासिच्य 'दधिक्राव्णः ' नया न्वारान् वधूं दधि भक्षयित्वा वरो माणवकाय वध्वा उत्सङ्गे निहिताय फलानि
प्रददाति 'इरामग्ने' इति मत्रेण । मणिभिर्मन्त्रै-रोषधिभिस्त्रिभिरुपायैः साध्यमानत्वात् त्र्यायुषं बालयुववृद्धावस्थात्रय भावित्वात् यागदान हो-मसाध्यत्वात्तदारम्भकत्वाद्वा त्र्यायुषं यत् जम-दग्नेः त्र्यायुषं यच्च कश्यपस्य, यच्च देवानां, तत्सर्वमस्त्विति वर आशास्ते ॥
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करप्रण आयूंषि तारिषत् ॥
आग्नेयी । अनुष्टुप् । इन्द्रस्यार्षम्। दधिक्राम- तीति दधिकावा 'अन्येभ्योऽपि दृश्यते (३।२।७५) इति न | अग्निर्वैश्वानर उच्यते । सहि सर्वे भक्षितं जरयति जठरे स्थितो दध्यादिकम्। तस्य दधिक्राव्णोऽग्नेर्जाठरस्याहमकारिषं करोमि स- न्तर्पणमर्थात् । कीदृशस्य । जिष्णोर्जयनशीलस्य, अश्वस्य अशनस्य व्यापिनो वा, वाजिनोऽन्नपतेः । नोऽस्माकं सुरभि सुगन्धि विद्याद्युद्गारभूषित- मर्थान्मुखं दधि भक्ष्यमाणमाकरत् करोतु । लो- डर्थे लेट् । नोऽस्माकमायूंषि प्रतारिषत् प्रतरतु दधातु । पूर्ववत् पंचमो लकारः । इरामन इतीयं व्याख्याता ॥ ५॥
इत्यष्टाविंशी काण्डिका ॥ २८ ॥
 
अथ
एकोनत्रिंशी काण्डिका ।

तूष्णीमुपचरितं स्थालीपाकं श्रपयित्वा तस्याग्निमिष्ट्वा प्रजापतिं च शेषं प्राश्नीतः । अन्नमेव विवननमन्नं संवननं स्मृतम् । अन्नं पशूनां प्राणोऽन्नं ज्येष्ठं भिषक् स्मृतम् ॥ अन्नमयेन मणिना प्राणसूत्रेण पृश्निना । सिनोमि सत्यग्रन्थिना हृदयं च मनश्च ते ॥ सह वाचा मनो अस्तु सह चित्तं सह व्रतम् । चक्रमिवानडुहः पदं मामेवान्वेतु ते मनः ॥ मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः । चाक्रवाकं संवननं मम चामुष्याश्च भूयादिति ॥ १ ॥
तूष्णीमेव यत्रोपचारो निर्वापादिस्तं चरुं स्वरससिद्धत्वादुदकेन श्रपयित्वा तस्यांशेनाग्निं प्रजापतिं चेष्ट्रा नानैव तूष्णींग्रहणात् हुतशेषं प्राश्नीतः वधूवरावेकत्र पात्रे सह । गृह्यान्त- रेषु हि समशनमिति संज्ञा । सहाशनं च समशनमिति प्रसिद्धम् । संवननमिति च मन्त्रलिङ्गम् । अन्ये त्वत्रापि चैकपात्रे न सह भोजनमिच्छन्ति । यथाहि यजमानपञ्चमा इरां प्राश्नन्ति सपत्नीका भुञ्जत इत्यतः पञ्चसंख्या- सहश्रवणेऽपि इळाया गृहमेधीययोः पृथगेवा- शनं, तद्वदिहापि भवितव्यम् । पाकयज्ञप्रति- षेधार्थ पुनस्तूष्णीमुपचरितग्रहणम् । उक्तं ह्येतत् 'तेष्वावृदुपचारस्तूष्णीम् (१३७ ) इति । भक्षणं तु अन्नमेव विवननमित्यादिभिश्चतसृ- भिरनुष्टुभः, मत्रोच्चारणं चरुकर्मकम् ॥
'वन पण संभक्तौ' अन्नमेव विवननं विभजनं, अन्नमेव संवननं स्मृतं सह भुज्यमानं संश्लेष- णमित्यर्थः । अन्नं पशूनां प्राणः तेन हि जीवन्ति । अन्नमेव ज्येष्ठं प्रशस्ततमं भिषग्भेषजं स्मृतम् । तेन हि बुभुक्षादिकृता व्याधयो निवर्त्यन्ते ॥
वरो ब्रूते हे वधु तवाहं हृदयं च मनश्च सिनोमि ' षिञ् बन्धने' बनामि । मननं मनो ज्ञानं मन्यतेऽनेन मनः बाह्येन्द्रियपञ्चकं, हृदयं चित्तम् । केन | सत्यग्रन्थिना सत्यं निर्व्याजच- रितमेव ग्रन्थिस्तेन, पृश्निना शुक्लेन शुचिना धर्मरूपेणेत्यर्थः । अन्नं मणिरिव, प्राणः सूत्र - मित्र हाराद्यलंकाररूपमेतत् ॥
हे वधु तव च ममच वाचा सह मनोऽस्तु यादृशं वचनं तादृशं निर्व्याजं चित्तमस्तु, नतु दौर्जन्येनान्यचेतसि अन्यद्वाचि । एवमा- वयोश्चित्तं चैतन्यं समानमस्तु, व्रतं च सफलं विहितं कर्म । तव मनो मामेवान्वेतु चक्रमि वानडुहः पदं यथा शकटचक्रं शकटकर्षकस्य वृषभस्य पदमनुगच्छति ॥
मामेव सूर्यमेव च पश्य । अन्येषु पुरुषेषु मनो मा कृथाः । मम चामुष्याश्च वध्वाश्चाक्रवाक- मिव संवननं भूयात् । यथा चक्रवाकपक्षिमि- थुनं यथाप्राप्तमतिस्नेहात् वृष्ट्यादिकं संविभ- ज्य भुंक्ते तद्वदावां, तद्वदतिप्रीतिरावयोर स्त्वित्यर्थः ॥ १ ॥
इति श्रीजालन्धरीयभट्टोपेन्द्रसूनुहरिपालपुत्र देवपालविरचिते समन्त्रचारायणीयगृह्यभाष्ये विवाहः परिपूर्णः ॥
इत्येकोनत्रिंशी काण्डिका ॥ २९ ॥
 
अथ
त्रिंशी काण्डिका ।
 
अथ गर्भाधानम्
संवत्सरं ब्रह्मचर्यं चरतो द्वादश रात्रीः षट् तिस्र एकां वा ॥ १ ॥
ब्रह्मचर्यममैथुनं चरित्वा गर्भाधानं कार्य- मिति । तत्पूर्णिमायाममावस्यायां न मैथुनं कर्तव्यमिति च संकल्पः । एकैककर्तृकमत्र व्रतम् । संवत्सरं प्रथमः कल्पः । यौवनमदस्या- तिशयात्त्वनुकल्पेनापत्कल्पो विकल्पः - द्वादश रात्रीः षट् तिस्र एकां वेति ॥ १ ॥
तौ संविशतः ॥ २ ॥
तौ वधूवरावेकस्मिन् शयने भवतः । विवा - होत्तरकालप्रथमशयने आधाने च समानमेत- द्विधानमनन्तरमन्त्रचतुष्टयजपसहितम् ॥ २ ॥
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्रजायस्व प्रजया पुत्रकाम ॥ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋध्यै नाधमानाम् । उप मामुच्चा युवति- र्बभूयाः प्रजायस्व प्रजया पुत्रकामे ॥ प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिः सहसा न इन्द्रः । विश्वैर्देवैर्यज्ञियैः संविदानः पुंसां बहूनां मातरः स्याम ॥ अहं गर्भमादधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अवरीषु पुत्रानिति स्त्र्यादिव्यत्यासं जपतः ॥ ३॥
एताखिष्टुभः प्रथमसंवेशने गर्भाधाने च वधूवरौ जपतः ख्यादिव्यत्यासं कृत्वा, प्र- थमां स्त्री, द्वितीयां वरः, तृतीयां स्त्री, च- तुर्थी वरः । व्यत्यासो विपर्ययः । पुरुषो हि प्रधानम् । तस्य पूर्वं क्रियायोगोऽन्यत्र, इह तु विपर्ययः । स्त्री आदिर्यत्र व्यत्यासे, स ख्या - दिव्यत्यासः ॥
वधूर्वदति - हे पुत्रकाम त्वामहमपश्यं पश्यामि चेकितानं देदीप्यमानं ब्रह्मवर्चसा- दिना अतिशयेन दीप्तिमन्तम् । केन पश्यामि | मनसा, नतु चक्षुषा । कीदृशम् । तपसो जातं तप इति प्रजापतेः सत्कर्मणश्च नाम, प्रजा - पतेर्ब्रह्मणः सकाशाज्जातं, तपसश्चाविर्भूतं वृद्धिं गतम् । इह प्रजां मयि पुत्ररूपां रयिं च धनं राण आत् प्रजया प्रजायख प्रजामुत्पा- दयेत्यर्थः ॥ १ ॥
वर आह- पश्यामि त्वां हे पुत्रकामे दी - ध्यानां दीप्तिमतीं मनसा । कीदृशीम् । नाध- atri 'नाधृ नाथू याोपतापैश्वर्याशीःषु' प्रजां याचमानाम् । कुत्र । वायां तनू स्वस्यां तन्वाम् । किमर्थम् । ऋद्ध्यै समृद्ध्यै लोकद्वयाभ्युदयाय । मामुप मम समीपे वर्तमाना त्वमुच्चा महती पूज्यतमा सत्पुत्रादियोगात् युवतिस्तरुणी सती भूयाः अतिशयेन भूयाः । प्रजया प्रजायस्व आत्मा वै पुत्रनामेति वचनात् प्रजारूपेण प्रजा- यख पुत्रवती भव ॥ २॥
वधूराह भर्तरि प्रजापतित्वमध्यारोप्य - हे प्रजापते मम तन्वं तनूं शरीरं जुषस्व । हे त्वष्टः है प्रजापते त्वं इन्द्रः सन् सहसा बलेन देवै- विश्वैश्च देवैरनुपतितः सन् नोऽस्माकं संविदानः सम्यक् जानानः । यज्ञियैर्यज्ञा हैरिति देववि- शेषणम् । वयं च बहूनां पुंसां पुत्राणां मातरो निर्मान्यः स्याम ॥ ३ ॥
वर आह - ओषधीषु फलपाकान्तासु अह- मेव गर्भ फलजननसामर्थ्यमादधामादधे । जीवात्मनां परमात्मनो भेदाभावादेवमभिधा- नम् । अत एवाह विश्वेषु सर्वेषु भूतेषु अहमे- वान्तस्तिष्ठामि अन्तर्यामितया, पृथिव्यामह- मेव प्रजामनवद्यामजनयं जनयिष्यामि च । अहमेव जनिभ्यो जननीनां स्त्रीणामवरीषु जठराभ्यन्तरवर्तिनीषु गर्भग्रहणीषु पुत्रान् जनयामि बीजमादधामि ॥ ४ ॥
एवमेवर्तौ प्रजाकामौ संविशतः ॥४॥
गतार्थम् ॥ ४ ॥
करदिति भसदमभिमृशति ॥ ५ ॥
करदिति यजुषा भसदं स्त्रीचिह्नं वरोऽभि- मृशति । करत् कुर्वाणं प्रजां भवेत्यर्थः ॥ ५ ॥
भसदित्युपरि जननम् ॥ ६ ॥
पुंचिह्नं भसदिति यजुषा अभिमृशति स्त्री । हे पुंजनन त्वं भसद्दीप्यमानं सत्कार्यजनन- समर्थ भवेत्यर्थः ॥ ६ ॥
बृहदिति जातम् ॥ ७॥
बृहदित्यनेन जातं वीर्यं प्रक्षिपति । बृहद्वि- स्तीर्णं पुत्रजननसमर्थं भवेत्यर्थः ॥ ७ ॥
इति त्रिंशी काण्डिका ॥ ३० ॥