लौगाक्षि गृह्य सूत्राणि/कण्डिका ३१-४०

अथ
एकत्रिंशी काण्डिका ।
अथ सीमन्तः
तृतीये गर्भमासे सीमन्तं कारयते शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्त- मुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चादग्नेर्दर्भेषु प्राङासीनायाः सर्वान्केशान्संप्रमुच्य प्रसाधयते ॥ १ ॥
गर्भग्रहणादारभ्यं यस्तृतीयो मासस्तत्र शुक्लपक्षस्य पर्वणि मुख्ये दिने सीमन्तोन्नयन- संज्ञया यौगिक्या प्रसिद्धं यत्संस्कारकर्म, त- कारयते नतु विद्वानपि स्वयं कुर्यादिति णिचः प्रयोगात् दर्शितम् । एतच्च पात्रस्यैव केचित्सं- स्कार मिच्छन्ति आधार संस्कारादेव गर्भस्यो - पकारो भविष्यति गोलक संस्कारेणैव चक्षुष इति वदन्तः । तथाच स्मृतिः
'सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥' इति । अन्ये तु गर्भस्यैव संस्कारं मन्यन्ते तत्रैव तृतीये गर्भमास इत्यस्योपपत्तेः । पात्रमात्र - संस्कारत्वे हि किं गर्भमासव्यपेक्षया, यदा कदाचित्सीमन्तो विधीयते, कार्यः सीमन्त इति । स्मृतेरपि
'गाभैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः । वैजिकं गार्भिकं चैनो द्विजानां प्रतिहन्यते ॥'
(मनु० २।२७)
इति । अपरे तूभयसंस्कारमाहुः । तत्र क्षेत्रसं- स्कार एवानुमततमप्रायो वेदार्थविदां सकृदनुष्ठानस्य प्रसिद्धत्वाद्वाहुल्येन । यथोक्तमुपसमा - धानं कृत्वा जयप्रभृतिभिराज्यभागान्तं हुत्वा, प्रकृतस्य आवसथ्यस्य अग्नेः पश्चाद्भागे अग्नेर्दर्भेषु प्राङ्मुख्या उपविष्टायाः सर्वान् केशान् सम्यक् प्रकर्षेण मुक्तान् कृत्वा, कङ्कतेन दारुमयोभय- दिक्कभूरितरदन्तयोगिना वालस्पष्टीकरणेन प्रसाधयते स्पष्टीकरोति वक्ष्यमाणाभिस्ति- सृभिर्ऋग्भिः ॥ १ ॥
यं सीमन्तं कङ्कतस्ते चकार यद्वा क्षुरः परीववर्ज वपंस्ते । स्त्रीषु रूपमश्विनौ तन्निधत्तं पौंस्येनेमं संसृजतं वीर्येण ॥ इन्द्राणी चक्रे कङ्कतं स सीमन्तं विसर्पतु । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्यायुरस्या यः पतिर्जीवाति शरदः शतमिति ॥ २॥
इतिशब्दः करण प्रधानः । अनेन मन्त्रत्रयेण केशान् प्रसाधयते इति पूर्वेण संबन्धः ॥ यं सीमन्तं ते तव कङ्कतश्चकार कृतवान्, क्षुरो वा यं चकार सीमन्तं, क्षुर इव तीक्ष्णत्वा- कङ्कत इति व्याचक्षते विवाहादूर्ध्वं क्षुरसंस- र्गस्य स्त्रीष्वमाङ्गलिकत्वात् । दृष्टश्चोपमायां वा- शब्दः 'समुद्रो वा महासत्त्वः' इत्यादौ निपा- तानामनेकार्थत्वात् । यत् वपन् केशान्स्प- ष्टीकुर्वन् कङ्कतस्ते तव परववर्ज वर्जितवान् वालानां शिरोविदारणभयात्, तद्रूपं सीमन्ता- ख्य संस्कारयुक्तत्वात्स्त्रीषु हे अश्विनौ निधत्तं कुरुतं तथैव तद्रूपं पस्नेन वीर्येण संसृजत- मश्विनौ ॥ १ ॥
अमुं कङ्कतमिन्द्राणी शची चक्रे कृतवती । अतोऽयमुत्कृष्टत्वात्कङ्कतः सीमन्तं विसर्पतु चि- नोतु संपादयत्वित्यर्थः । हे अग्ने इयं पत्नी त्वया विवाहसमये दत्ता, इदानीं पुनः प्रजया सह पतिभ्यः एतां जायां दाः देहि पुत्रवतीं सम्पाद- येत्यर्थः॥ २ ॥
अग्निरिमां पत्तीं पुनरदात् ददौ आयुषा वर्चसा च सह । अस्या यः पतिर्भर्ता स दीर्घायुरस्तु | जीवाति शरदः शतं, जीवातीति लोडर्थे लट्, शरदां शतं जीवतु वर्षशतं जीवता- दित्यर्थः ॥ २ ॥
त्रिः श्वेतया शलल्या शमीशाखया सपलाशया वा सीमन्तं विचिनोति यास्ते राक इति ॥ ३ ॥
त्रीन्वारान् त्रिः, श्वेतया शुक्लया, शलल्या शललिः श्वावित्सेधा, तस्याः शलाका शल- लिरुपचारात् तया, शमीशाखया सपलाशया सपत्र्या सीमन्तं विचिनोति 'यास्ते राके' इति त्रिष्टुभा । शलल्या ताम्रशलाकया श्वेतया- लोहितयेति यद्व्याचक्षते, तन्न दृष्टानुरूपम् ॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ ब्रह्मण आर्षम् । हे राके देवपुत्र यास्तव शोभना मतयः, सुपेशसः सुरूपा अभिमत- फलदानोन्मुखत्वं मतीनां सुरूपत्वं, याभिः सुमतिभिर्दाशुषे दात्रे यजमानाय वसूनि ध- नानि ददासि ताभिरुपलक्षिता सत्यद्यास्मि- न्नहनि नोऽस्मानुपागहि उपागच्छ, सुमनाः
प्रसन्नचित्ता सती, हे सुभगे सुन्दरि राके सहस्रपोषं सहस्रसंख्यं धनं रराणा ददती ॥३॥
अथास्याः पृथक्केशपक्षौ सन्नह्यति नीललोहितेन सूत्रेण नीललोहितं भवति कृत्या शक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यत इति ॥ ४ ॥
अनन्तरमस्या गर्भिण्याः कङ्कतसमीकृतानां शलल्या विभज्यमानाभिः रेखाभिः परिच्छेदेन कृतसीमन्तभागानां केशानां कृतौ पृथग्द्रौ पक्षौ पार्श्वद्वयगतौ सन्नह्यति बध्नाति नीललो- हितेन सूत्रेण नीललोहितमित्यादिकयानु- भा || नीललोहितमिदं सूत्रं भवति । कृतिः क्रिया तया शक्तिर्व्यज्यते गर्भस्य पुंस्त्वं व्य- ज्यत इत्यर्थः, अस्या गर्भिण्या ज्ञातय एधन्ते वर्धन्ते लोडर्थे लट् व्यज्यतां शक्तिर्वर्धन्तां ज्ञातय इत्यर्थः, पतिश्च स्नेहादिबन्धेषु सत्सु • बद्ध्यताम् ॥ ४ ॥
यो गुरुस्तमर्हयेत् ॥ ५ ॥
यो गुरुः सीमन्तोन्नयनस्य कर्ता ब्राह्मणस्तम- येद्यथाशक्ति मधुपर्कदानादिना पूजयेत् ॥५॥
एतदेव कुमारीणां सटोद्धरणमत्रैवानुलेपनम् ॥ ६ ॥
अत्रैव काले वाग्दत्तानां कुमारीणां सटो- द्धरणं कर्म कर्तव्यं केशरचनाविशेषात्मकम् । अनुलेपनं सर्वोषधिकुङ्कुमप्रभृतिभिरनुलेपनं शोभाविशेषा धायि सीमन्तस्य । अत्राग्नेय्या ये के च ज्मेत्यादिकया चतुर्गृहीतेन प्रधानयागः ॥
इत्येकत्रिंशी काण्डिका ॥ ३१ ॥

अथ
द्वात्रिंशी काण्डिका ।

अथ पुंसवनम् ॥ १ ॥
अथेत्यानन्तर्ये सीमन्तोन्नयनानन्तरं पुंस- वनसंज्ञकं गर्भसंस्कारकर्म कर्तव्यमिति ॥ १ ॥
भूयिष्ठगतेषु गर्भमासेषु त्रीन्स्थालीपाकाञ्छ्रपयेदाग्नेयमैन्द्रं वैष्णवं च तेषां यथादैवतं जुहोति 'अग्निस्तुविश्रवस्तमम्' 'इन्द्र क्षत्त्रं ' ' प्र तद्विष्णुः' 'पुमान' इत्यभिजुहोति ॥ २ ॥
'दशमे मासि सूतवे' इति श्रुतेः, दर्शनाच दश गर्भमासाः । तत्र पञ्च अर्धभागः, षट् भू- यांसः सप्त भूयिष्ठाः । भूयिष्ठः सप्तमो गतो येषु तेषु गर्भमासेषु सत्सु, अष्टमे मासि शिष्टाचारात् । त्रीन् स्थालीपाकान् श्रपयेत् आग्नेयमैन्द्रं वैष्णवं च । तेषां मध्यादन्यतम- मन्यतमं गृहीत्वा यथादैवतं जुहोति । यत्रैकः स्थालीपाकस्तत्र देवताभेदेऽपि एकं कर्म द्रव्य- देवतासंयोगस्यैक्यात् । इह तूभयभेदात् सं- योगभेदेन कर्मबहुलत्वम् । अग्निस्तुवीत्यादिना अग्निं जुहोति, इन्द्र क्षत्रमित्यादिना इन्द्रम्, प्र तद्विष्णुरित्यादिना विष्णुम् पुमानित्यादि- नैकैकस्माद्भागमुद्धृत्य स्विष्टकृतं जुहोति ॥

अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । अतूर्त श्रावय- त्पतिं पुत्रं ददाति दाशुषे ॥ १ ॥
अग्निर्दाशुषे हविर्दत्तवते यजमानाय पुत्रं ददाति । कीदृशम् । तुविश्रवस्तमं तुविशब्दो भूरिनामसु पठितः, श्रवः शब्दोऽन्नवचनो यशो- वचनो वा, बह्वन्नतमं बहुयशस्कतमं वा, तुवि- ब्रह्माणं ब्रह्मशब्दो वेदवचनोऽत्र बहुवेदविद- मित्यर्थः, तथोत्कृष्टं सर्वातिशायिनं, अतूर्त त्वरारहितं अतरलं स्फीतमिति यावत्, श्राव- यतां पतिं ऋत्विजां पतिं यज्वानमित्यर्थः ॥ १॥ - इन्द्र क्षत्रममि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रयन्तम्मुरुं देवेभ्यो अकृणोरु लोकम् ॥ २ ॥
हे इन्द्र त्वं क्षत्रमभि क्षतत्राणं प्रत्यजा- यथाः जातः । ओज इति अस्य विशेषणम् | क्षात्रमोजो वलं च लक्षणीकृत्य त्वं जात इत्यर्थः । वामं वननीयं संविभागार्हम् । हे वृषभ वर्षक । केषाम् । चर्षणीनां मनुष्याणां देवा अपीह मनुष्याः । अमित्रयन्तममित्रमिवा- चरन्तं जनमसुरलोकं त्वमपानुदः अपसारित- वानसि । कीदृशं जनम् । उरूं विस्तीर्णम् । अपानुद्य च तं देवेभ्यो देवार्थं देवानां वा सुब्व्यत्ययेन लोकं कृतवानसि ॥ २ ॥
प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षयन्ति भुवनानि विश्वा ॥ ३ ॥
व्याख्यास्यते ॥ ३॥
पुमानग्निः पुमानिन्द्रः पुमान्विष्णुरजायत । पुमांसं जनयेत्पुत्रं दशमे मासि सूतवे ॥ येन जातेन विना जीवेम शरदः शतं पश्येम शरदः शतमिति तं नो मंहस्व शतिनं सहस्रिणं गोसनिमश्वसनिं वीरम् ॥
आभ्यामृग्यजुषाभ्यां स्विष्टकृत्क्रियते । अ- यादयः पुमांसं पौरुषातिशययुक्तं पुत्रं जनये- युर्यतस्त एव त्रिलोक्यां पुमांसः पौरुषातिशय- युक्ता अजायन्त जाताः । दशमे मासि सूतवे सोतुं तुमर्थे तवेप्रत्ययः । येन जातेन सता विभुना प्रभुणा वयं शरदः शतं जीवेम पश्येम च, तं पुत्रं नोऽस्माकं मंहस्व वर्धयस्व, शतिनं सहस्रिणं शतसहस्रादिधनयुक्तं, गोसनिं गवां संविभक्तारमेवमश्वसनिं वीरं पुत्रं विक्रान्तं वा विक्रमयुक्तम् ॥ २ ॥
इति द्वात्रिंशी काण्डिका ॥ ३२॥
 

अथ
त्रयस्त्रिंशी काण्डिका ।

अथ सोष्यन्तीसवनम् ॥ १ ॥
अनन्तरं सोष्यन्तीसवनं नाम दृष्टार्थं कर्मो- च्यते । यौगिकीयं संज्ञा । सूयतेऽनेनेति सवनं सुखप्रसवं कर्म । सोष्यमाणाया आसन्नप्रस- वायाः सवनं सोष्यन्तीसवनम् ॥ १ ॥
विजनिष्यमाणाया अद्भिः पाणिं स्रवन्तं शिरस्याधाया हृदयादभिमृशेत् ॥२॥
विजनिष्यमाणाया आसन्नप्रसवायाः अद्भिः स्रवन्तं पाणिं शिरस्याधाय हृदयं यावदभिमृ- शेत् । भर्ता अत्र कर्ता, तद्सन्निधावाप्तः कश्चिद्देवरादिः ॥ २ ॥
मन्त्रमाह
यथायं वातः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायु- णावपद्यतामिति । क्षिप्रमेव प्रजायते ॥ ३ ॥
अनेन मंत्रेणाभिमृशेत् । तथा सति क्षि- प्रमेव सुखेन प्रसूयते इति दृष्टार्थतामस्य कर्मण आह ॥ यथा प्रत्यक्षो वायुरयं वेगवाही पवते धावति, यथावा समुद्र एजति कम्पते, एवं ते तव गर्भ एजतु तूर्णं प्रजायतां जरा- गर्भाशयेन सह अवपद्यतां निर्गच्छतु ॥३॥
इति त्रयस्त्रिंशी काण्डिका ॥ ३३ ॥

अथ
चतुस्त्रिंशी काण्डिका

अथ नामकर्म
पुत्रे जाते नाम धीयते ॥ १ ॥
पुत्रे जाते जातकर्म कृत्वा नाभिवर्धनादन- न्तरं नाम धीयते संकल्प्यते - इदं नाम करिष्यते इति केचिद्याकुर्वते, नामकरणं हि 'एकादश्यां नाम कुर्वीत पुण्ये वाहन' इत्यशौचशुद्धौ स्मृ- तम् । अन्ये त्वाहुः-जाते सति एकादशं तदन-न्तरं वा सुलग्नं नामकर्मणि नातिक्रामेदित्येवं- परमेतदिति । वयं तु तत्त्वमदूरे वक्ष्यामः ॥ १ ॥
घोषवदाद्यन्तरन्तस्थं चतुरक्षरम् ॥२॥
नाम्न आदौ घोषवदक्षरं कर्तव्यम्, मध्ये चान्तस्थसंज्ञकम्, चत्वार्यक्षराणि यत्र तत् । अक्षराणि अचोऽत्र हलामनवधारणात् ॥ २ ॥
यथोपपत्ति वा ॥ ३ ॥
यथावा देवताप्रसादलब्धत्वाद्यनुसारेण तदुपपद्यते, तथा कर्तव्यम् ॥ ३ ॥
अग्निमत्रानीय तस्मिन्नाज्यभागान्तं हुत्वा सहिरण्ये कांस्ये संपातानवनयेत् 'हिरण्यगर्भः' 'संवत्सरस्य प्रतिमां' 'काय स्वाहा, कस्मै स्वाहा, कतमस्मै स्वाहा, प्रजापतये स्वाहा' प्रजापते न हि त्वदिति च द्वाभ्याम् ॥ ४ ॥
यत्र गृहे प्रसवस्तत्र लौकिकमग्निमाहृत्य तत्रैवाज्यभागान्तान् होमान् कृत्वा हिरण्ययुक्ते कांस्यपात्रे संपातान् हुतशेषबिन्दूनवनयेत् स्रावयेत् हिरण्यगर्भ इत्यष्टाभिराहुतिभिः । हिर ण्यगर्भ इत्येकाहुतिः । संवत्सरस्य प्रतिमामिति द्वितीया । काय स्वाहा, कस्मै स्वाहा, कतमस्मै स्वाहा, प्रजापतये स्वाहेति चतस्रः । प्रजापते नहि त्वदिति द्वाभ्यां द्वे । एवमष्टौ भवन्ति । केचित् प्रधानकर्मत्वाच्चतुर्गृहीतेनैव होम इ- त्याहुः ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ एषा विवाहकाण्डे विवृता ॥
संवत्सरस्य प्रतिमां ये त्वा रात्र्युपासते । तेषामायुष्मती प्रजां रायस्पोषेण संसृज ॥
हे रात्रि त्वं संवत्सरस्य प्रतिमा निर्मात्री, त्वां ये जनाः उपासते, तेषां प्रजामायुष्मतीं कुरु रायस्पोषेण धनपुष्ट्या संसृज संयोजय ॥
काय स्वाहा ॥
सुहुतमस्तु ।
कस्मै स्वाहा । कतमस्मै स्वाहा । प्रजापतये स्वाहा | कप्रभृतीनि चत्वारि प्रजापतिनामानि ॥ प्रजापते नहि त्वदन्य एता विश्वा जातानि परिता- बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु स्वाहा ॥
विराट् । हे प्रजापते त्वदन्यो नास्ति य एतानि विश्वानि सर्वाणि जातानि जन्मवन्ति भूतानि परिवभूव परिभूतवान् वशीकरोति व्या- नोतीति यावत् । एता एतानि, विश्वा विश्वानि “शेश्छन्दसि बहुलम्' (६|१|७० ) इति शेर्लुक् । परितेत्यत्र त इति वर्णागमः । यत्फलं काम- यमाना जुडुमस्तन्नोऽस्तु ॥
असा अमुष्य पुत्रोऽमुष्यासौ पुत्रः । वयं स्याम पतयो रयीणां स्वाहा ॥
असा अमुष्य चेति नामविशेषनिर्देशः । 'असौ विष्णुमित्रोऽमुष्य यज्ञमित्रस्य पुत्र इति पितापुत्रयोर्द्विर्नामोच्चारणं षष्ठ्यन्तस्य पितृ- नानो मध्ये, पुत्रनाम्न आद्यन्तयोः । वयं रयीणां धनानां पतयः स्वामिनः स्याम सम्पद्येमहे ॥
अग्नेरायुरसीति हिरण्येन मुखं मेध्यं कृत्वा पाणिना मुखमद्भिः संस्पृश्य प्रक्षाल्य स्तनाननुमन्त्रयते मधु वात ऋतायत इति तिसृभिः प्रत्यृचमुभावुत्तमया ॥५॥
अग्नेयुरसीत्यादिना मन्त्रेण हिरण्येन मुखं मेध्यं पवित्रं कृत्वा जलाविलेन हस्तेन मुखं स्पृष्ट्वा बालकस्य मातुः स्तनाननुमन्त्रयते प्रक्षाल्य बालकस्य पिता, तदसन्निधौ पुरोहित एकै- कया ऋचा एकैकम्, उत्तमयान्यया तूभौ । तदपेक्षमेव बहुवचनं स्तनानिति । मधु वात इति दक्षिणम्, मधु नक्तमिति वामम्, मधुमान्न इति द्वौ । मधुशब्दो जगत्प्रजननस्यामृतस्य नित्यानन्दमयस्य मधुविद्याप्रसिद्धस्य नाम मन्त्रत्रये ज्ञेयः ॥
मधु वात ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसा मधुमत्पार्थिवं रजः । मधुरस्तु नः पिता ॥
मधुमानो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥
ऋतो यज्ञः । यज्ञमिच्छति यः स ऋता- यच्छब्देन क्यजंन्तेन शत्रन्तेन चोच्यते, ऋता- यते यज्ञमिच्छते यजमानाय वातो मधु अस्तु अमृतत्वकारी भवतु । सिन्धवो नद्यो मधु जलं क्षरन्ति क्षरन्तु । ओषधीः ओषध्यः फलपा- कान्ताः माध्वीर्मधुररससंयुक्ता भवन्तु । मधु नक्तम्, उतशब्दोऽप्यर्थे, नक्तं सन्ध्या, सापि उपसा रात्र्या सह मध्वस्तु नः । पार्थिवं रजः पार्थिवलोकः मधुमानस्तु । द्यौरन्तरिक्षं मध्व- स्तु नः पिता । वनस्पतयो मधुमन्तः सन्तु, सूर्यश्चास्माकं मधुमानस्तु, गावश्चास्माकं मा- ध्वीमाध्यो मधुमत्यः सन्तु ॥ ५ ॥
हिरण्येन सम्पातान्सन्निघृष्य मधु चेत्येके तन्मुखे कृत्वा प्रपाययत्यायुर्धय जरां धय सत्यं धय श्रियं धयोर्जं धय रायस्पोषं धय ब्रह्मवर्चसं धय ॥ ६ ॥
सुवर्णेन संपातान् सन्निघृष्य बालस्य मुखे कृत्वा पाययति । एके पुनर्मन्यन्ते मधु च, मधुयुक्तान् संपातान् सन्निघृष्य पाययेदि - त्यर्थः । उत्सर्गेण पितृकर्मकत्वात् जातकर्मप्र- भृतीनां पिता ब्रूते - हे बालक आयुर्धय पिव, एवं जरां पिव, पीयमानं सम्पातघृतं समधु वा स्तनक्षीरं च तवायुरादेः कारकमस्त्वित्यर्थः । ऊर्जमन्नं बलं च । रायस्पोषो धनपुष्टिः । वे- दादिविद्यासमृद्धिर्ब्रह्मवर्चसम् ॥ ६ ॥
जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राप्य स्वस्त्ययनं वाचयति ॥ ७ ॥
बोधश्चमेत्यनुवाकम् । स्वार्थे णिच् वाचय- तीति । शिष्टं स्पष्टम् ॥
बोध मा प्रतीवोध पुरस्ताद्वोपायतामखमथ मान- चद्राणश्च दक्षिणतो गोपायतां गोपायमानश्च मा रक्षमाणश्च चोपायतां जागृविश्व मारुन्धती चोत्तरागोपायताम् ॥ अनमित्रं नो अधरागनमित्रमुदकृधि । इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥
अनमिरत्रैहोभिः सचेमहि विश्वे देवा अनमित्रा न उषसः सन्तु निम्रुचः ॥ याः षडुवः पञ्च प्रदिशस्ता नः पान्तु मित्रधा नो मित्रे दधाता अभयं नो अस्तु ॥ ये रात्रीमनुतिष्ठथ ये च भूतेषु जागृथ । पशून्ये सर्वान्रक्षथ ते न आत्मसु जागृत ॥
बोध प्रतिबोधाखमानवद्राण गोपायमान रक्षमाण जा- rasad ये देवास्तनूपाः स्थ ते म इह तन्वं पात बोध- प्रतीोधेत्यसौ वा आदित्यो बोधोऽग्निः प्रतीोधोऽख मानव- द्राणेति चन्द्रमा वा अस्वप्नोऽयं यः पवते सोऽनवद्राणो गोपा- यमान रक्षमाणेत्यह गोपायमानो रात्री रक्षमाणो जागृवेरु- न्धतीति यज्ञो वै जागृविर्दक्षिणारुन्धत्येते वै देवा राष्ट्रभृत- स्तने आत्मनो गोपीथाय ॥
एतत्स्वस्त्ययनं, स्वस्तिरविनाशस्तस्यायनं प्रा-पणं अविनाशलाभकारणम् । राष्ट्रभृतामार्षम् । राष्ट्रं जगद्दिभ्रति धारयन्ति पुष्णन्ति च ये तेरा- ट्रभृत आदित्यादय ऋतवोऽपीत्येके । बोधाद- योऽत्रैवानुवाके पुरस्ताद्याख्याताः । आदित्यो बोधः, अग्निः प्रतीबोधः प्रकाशकत्वात्। चन्द्रमा मनोरूपेणास्वप्नः सततजागरणात्, प्राणरूपो वायुरनवद्राणः अकुत्सितगतित्वात् । दिवसो गोपायमानो जीवननिमित्तक्रियानुष्ठापनद्वा- रेण, रक्षमाणो रात्रिः । जागृविः यज्ञः प्रजा- पतिरूपः 'यज्ञो वै प्रजापतिः' इति श्रुतेः सर्वा- न्तर्यामिरूपेण सर्वप्राणिषु जागरणाज्जागृविः, अरुन्धती दक्षिणा । साहि अरीन्निवारयन्ती सती यजमानाय फलं ददाति ॥
बोध आदित्यो मां पुरस्तात् पूर्वस्यां दिशि गोपायतां रक्षतु, प्रतीबोधश्चाग्निः । अस्वप्न- चन्द्रो मां दक्षिणस्यां दिशि गोपायतां, अनवद्राणश्च वायुः। प्राणः गोपायमानो दिवसो मां पश्चिमदिग्भागे गोपायतां, रक्षमाणश्च रात्रिकालः । जागृविर्यज्ञः प्रजापतिरुत्तरदिग्भागे मां गोपायतां, अरुन्धती च दक्षिणा ॥
अनमित्रं नोऽधरागित्यैन्द्री, अनुष्टुप् । न मित्रममित्रं नामित्रमनमित्रं मित्रमित्यर्थः नञ्येन प्रकृतार्थाभिद्योतनात् । हे इन्द्र नोऽस्माकं अधरागधस्तनदिग्भागे उदकोत्तर- दिग्भागेऽनमित्रं कृधि कुरु, यस्तत्रास्मान्हिसि - तुमिच्छति, तमनुकूलं सम्पादयेत्यर्थः । एव- मुत्तरत्र । पश्चात्पश्चिमदिशि । पुरः पूर्वस्यां दिशि ॥
अनमित्रैरहोभिरिति द्वे शक्कर्युष्णिहौ । अ- भिधेया सर्वत्र देवता । हे विश्वे देवाः सर्वे देवा वयं मित्रीभूतैरहोभिः सचेमहि, उषसः प्रभा- तकालाः, निम्रुचश्च रात्रयोऽस्माकं मित्राणि सन्तु । ' म्रुचुम्लुं गतौ' नितान्तं गच्छत्याभ्य आदित्य इति निम्रुचः ॥ याः षड्देवता उर्वी उर्व्यः महत्यः । कास्ताः ॥ द्यौः पृथिवी, अहः, रात्रिः, उषः, ओषधयः तथा पञ्च प्रदिशश्च - तस्रः प्रागाद्या ऊर्ध्वा पञ्चमी । ता नोऽस्मान् पान्तु रक्षन्तु । हे अनन्तरोक्ता यतो यूयं मि- धा हितस्य कार्यस्य विधात्र्यस्ततो नोऽस्मान् मित्रे शुभकर्मणि दुधात धारयत, अभयं चा-स्माकमस्तु युष्मत्प्रसादात् ॥ हे प्रदर्शित देवा ये यूयं रात्रीमनुतिष्ठथ रात्रीं लक्षणीकृत्य तिष्ठथ, ये च भूतेषु जागृथ, सर्वोश्च पशून् रक्षथ, ते नोsस्माकं सम्बन्धिषु आत्मसु शरीरेषु जागृत ॥ बोध प्रतीबोधेत्यादिनाष्टानां संबोधनम् । हे बोधादयः अरुन्धतीपर्यन्ताः ये यूयं दे - वास्तनूपाः स्थ तनूनां शरीराणां रक्षका भवथ, ते मे मम इह गहने भवे तन्वं तनूं पात रक्षत | बोधादीन् प्रतीकैरवच्छिद्य व्याचष्टे बोधप्रती बोधेत्यादिना, गतार्थमेतत् । एते वै देवाः, वैशब्दोऽवधारणे, एत एव बोधा- यो राष्ट्रस्य जगतो भर्तार ऋतवश्च, अतोऽहं तौमि । किमर्थम् । आत्मनो गोपी- था रक्षणाय । अन्यान्यप्यत्र स्वस्त्ययनानि पठनीयानि । वचिचुरादौ पठ्यते, ततः स्वार्थे णिच् स्वस्त्ययनं वाचयतीति । तेन युक्तं खक- र्तृकं वचनं पितुः । स्वकर्तृकाणि ह्येतान्युत्स- र्गेण प्राक् चूडाकरणात् ॥ ७ ॥
इति चतुस्त्रिंशी काण्डिका ॥ ३४ ॥

अथ
पञ्चत्रिंशी काण्डिका ।

सर्षपान्फलीकरणमिश्रान्दर्व्या जुहोति 'शण्डो मर्कोपवीतः' 'आलिखन् ' 'हर्यक्ष्णः' ' केशिनी' इति ॥ १ ॥
बालकसूतिकयोः रक्षार्था अशौचकालेऽमी होमाः, अतश्च दृष्टार्था एव । फलीकरणं कम्बुकाः, तैर्मिश्रितान्सर्षपान्दर्व्या दशाहं यावत् सायंप्रातर्जुहुयात् शण्ड इत्यादिचतु- र्भिर्मन्त्रैः
t: 0
शण्डो मर्कोपवीतस्तौण्डुलेय उलूखलचपलो नश्यतामितः स्वाहा ॥ १ ॥
इह सूतिकास्थानाच्छण्डादयो नश्यन्तु पलायन्तामिति समुदायार्थः । शण्डादयः पि- शाचानां संज्ञाः । एकैको मन्त्रसंबन्धः । शण्ड इतः स्थानान्नश्यतु, एवं मर्कः, उपवीतः, तौ- ण्डुलेयः, उलूखलश्चपलो नश्यतामितः । खाहा सुहुतमस्तु ॥ १ ॥
आलिखन्नवलिखन्किवदन्त उलूखलचपलो नश्यतामितः
स्वाहा ॥ २ ॥
समानं पूर्वेणैतत् ॥ २ ॥
हर्यक्ष्णः कुम्भः शक्तिर्हन्ता चुपणीमुखश्चपलो नश्यता- मितः स्वाहा || ३ || केशिनी वलोमिनी कचा कौचा- पकाशिन्यपेतो नश्यतामितः स्वाहा ॥ ४ ॥
हर्यक्ष्ण इत्यादयः संज्ञाः । केशिनी नाम राक्षसी । तथा श्वलोमिनी, कचा, कौचा, अप- काशिनीत्येतान्यपि राक्षसीविशेषनामानि ॥४॥
एवं सायं प्रातर्दशाहं जुहुयात् ॥ २ ॥
अनेन प्रकारचतुष्टयेन दशाहं जुहुयात् अशौचकालं यावज्जुहुयादित्यर्थः ॥ २ ॥
इति पञ्चत्रिंशी काण्डिका ॥ ३५ ॥

अथ
षट्त्रिंशी काण्डिका ।

अथ नामकरणम्
दशम्यां तस्मिन्नेवाग्नौ पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कं स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोति कया नश्चित्र इति द्वाभ्यां 'कया तच्छृण्वे प्रजापतये स्वाहा' प्रजापते नहि त्वदिति च द्वाभ्याम् ॥ १॥
दशम्यां व्यतीतायामशौचशुद्धावेकादशेऽ- हनि द्वादशेऽहनि वा तत्र नक्षत्रादिवैगुण्ये दिनान्तरे नामधेयं दशम्यां द्वादश्यां वापि कारयेत्
'पुण्येऽहनि मुहूर्ते वा नक्षत्रे वा गुणान्विते ।' इति स्मरणात् । औदयिक्या च व्यवस्थया
त्रयोदशी तिथिगृह्यते,
नत्वन्याय्यादुत्थानाद-
न्याय्याच्च संवेशनादनद्यतनकाल इत्यादि-कया, 'रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः' इति विभातायामपि रजन्यामुदद्यात् प्रागशौचानुवृ- त्तिदर्शनात् । तस्मिन्नेव सूतिकागारस्थे सूत- arat पयसि स्थालीपाकं श्रपयित्वा सर्वोष- धिप्रभृतिभिः सुगन्धिद्रव्यविशेषैरुपरिविनि- हितमङ्गलार्थजाती पूगफलविशेषैः सशिरस्कं स्त्रापयित्वा, पुंलिङ्गनिर्देशात् स्त्रियं वर्जयति, अनुपभुक्तेन वस्त्रेण संच्छाय तस्य स्थाली- पाकस्य संबन्धिभिरवदानैर्व्यत्ययेन स्थालीपा- केन जुहोति कया नश्चित्रेति पञ्चाहुतीः ॥ १ ॥
अग्नेरायुरसीति तुल्यमा ललाटाभिमर्शनात् ॥ २ ॥
अग्नेयुरसीत्यादिकमायुषेष्ट्या तुल्यमित्य- तिदेशः । अवधिमाह आ ललाटाभिमर्शनात् । 'तस्य ललाटमभिमृश्याश्विनोः प्राण इति जपति' (१०) इति वक्ष्यति । तदनन्तरमायुषेष्टधा समानमित्यर्थः ॥ २ ॥
तदेव नाम धीयते ॥ ३॥
अनुवाके असावित्यस्य स्थाने तदेव नाम धीयते यत्तु जातकर्मणि कृतं, नान्यत् ॥ ३ ॥
अन्यदित्येके ॥ ४ ॥
एके पुनराहुरन्यद्विधीयते । द्वे हि नाम्नी ब्राह्मणस्य कर्तव्ये । तत्र यद्रहस्यं जातकर्म- युक्तं 'पुत्रे जाते नाम धीयते ' ( ३४१ ) इति, तस्य प्रयोजनं परैरभिचारे क्रियमाणेऽनुच्चा- रणादि, प्रकटं त्वेकादशाहादौ व्यावहारिकम् । तथाच श्रुतिः 'तस्माद्ब्राह्मणो द्विनामा' इति ॥४॥
प्राक् स्विष्टकृतः कंसे पूतमाज्यमासिच्य हिरण्यं चाबन्धनीयमग्नेरायुरित्यवधाय तस्य जुहोतीन्द्रस्य प्राण इति पञ्चभिः ॥ ५ ॥
स्विष्टकृतः पूर्वं पूतमाज्यं कांस्यपात्रे आ- सिच्य प्रक्षिप्य तत्र च हिरण्यं प्रक्षिप्य अग्ने- रायुरसीत्यादिना मन्त्रेण । कीदृशं सुवर्णम् । आबन्धनीयं बालकस्य कण्ठादौ बन्धनार्हम् । तस्याज्यस्य जुहोति इन्द्रस्य प्राण इत्यादिभिः पञ्चभिर्मन्त्रैः ॥ ५ ॥
प्राक्संस्थितयजुषो ब्रह्मा घृते हिरण्यमवपद्यते सर्वे चर्त्विजो यदसर्प इति ॥६॥
संस्थितयजुमात्पूर्वं ब्रह्मा घृते हिरण्य- मवपद्यते अवष्टनाति यत्तद्दालगलादिबन्धनार्थ घृते निहितं सर्वे च ऋत्विजस्तद्वष्टनन्ति दसर्प इत्यादिमन्त्रैः ॥ ६॥
पावमानेनेत्युद्धृत्य देवा आयुष्मन्त इति यजमानाय प्रयच्छति ॥ ७ ॥
आज्यात्सुवर्णं पावमानेनेत्युद्धृत्य यजमा- नाय प्रयच्छति देवा आयुष्मन्त इत्यादिमन्त्रैः ॥
तत्पिवति निरवधयेत् ॥ ८ ॥
तत् सुवर्णनिःस्रावमाज्यं बालकः पिवति । तच्च निःशेषेणावधयेत् पिवेत् ॥ ८ ॥
हिरण्याद्घृतं प्रक्षाल्येममग्न इति हिरण्यमाबध्नाति ॥ ९ ॥
हिरण्यग्नं घृतं प्रक्षाल्य तद्धिरण्यं बध्नाति बालकस्य गलादौ इममन इत्यादिना ॥ ९ ॥
तस्य ललाटमभिमृश्याश्विनोः प्राण इति जपति ॥ १० ॥
ललाटतटं हस्तेन स्पृष्ट्वा जपति अश्विनोः प्राण इत्यादिकम् ॥ १० ॥
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राय स्वस्त्ययनं वाचयति ॥ ११ ॥
अङ्गादङ्गादित्यादिना बालस्य मूर्धनिशि- वनं कृत्वा स्वस्त्ययनं वक्ति । क्वचिन्निघ्राप्येति पाठः, तत्र स्वार्थे णिच् । पित्रसन्निधौ वा मा- तरं प्रयुज्येति केचित् । ऋत्विग्वा पितुः प्रयो- जको विवक्षितः ॥ ११ ॥
एवमत ऊर्ध्वं विप्रोष्य ॥ १२ ॥
अतो नामकरणादूर्ध्वं यदा प्रवासादायाति पिता, तदानेनैव प्रकारेण मूर्धन्यभित्राणं कु- र्यात् ॥ १२ ॥
एवं मासि मासि स्थालीपाकस्येष्ट्वा जातकर्मणा वाज्यस्य ॥ १३॥
एवमेव प्रतिमासं जन्मदिने स्थालीपा- केन जातकर्मविधिवदाज्येनेष्ट्टा निघ्राणं मूर्धनि कुर्यात् ॥ १३ ॥
एवं संवत्सरम् ॥ १४ ॥
प्रतिमासमिमां कर्तव्यतां संवत्सरं यावत्कुर्यात् ॥ १४ ॥
मांसं तु नाश्नीतः ॥ १५ ॥
मांसं तु बालकस्य माता पिता च संवत्सरं यावन्नाश्नीयात् ॥ १५॥
समाप्ते संवत्सरेऽजाविभ्यां वाग्निधान्वन्तरी इष्ट्वा सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् ॥ १६ ॥
प्रथमे संवत्सरे समाप्ते अजेनाग्निमविना धन्वन्तरिमिष्ठा वाशब्दादाज्येन स्थालीपाकेन वा सर्पिषा प्रचुरेण युक्तमन्येन च पवित्रेण दधिप्रभृतिना अन्नं ब्राह्मणान् भोजयेत् । तैः सुप्रीतेः स्वस्त्ययनाशीःप्रभृतिभिरभिनन्दे- नम् ॥ १६ ॥
कया नचित्र आभुवती सदावृधः सखा । कया शचि- या वृता ॥ १ ॥ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सद- न्धसः । दृढा चिदारुजे वसु ॥ २ ॥
व्रतस्यार्थम् । इन्द्रः प्रजापतिर्वा देवता ।
चित्रश्चित्रचरितः प्रजापतिरिन्द्रो वा नोऽस्मा- न्कया ऊत्या आभुवदाभावयति जनयति । अवनमूतिः 'सुपां सुलुक्पूर्वसवर्णा (७|११३९) इति तृतीयैकवचनस्य पूर्वसवर्णैका- देशः ऊतीशब्दालुक् च । कीदृशः प्रजापतिः । सखा समानख्यानः अन्तर्यामी । कीदृशान- स्मान् । सदावृधः सर्वकालं वृद्धियुक्तान् । कया वृता वर्तनेनाभावयति । कया शचिष्ठया श- त्यतिशयेन चैतन्यातिशयेन वा अतिशयेन शकिता शचिष्ठा 'तुरिष्ठेमेयःसु' (६४|१५४ ) इति तृचो लोपः, छान्दसो वर्णव्यत्ययश्चकारः, केन शक्त्यतिशयेन वर्तयेदित्यर्थः । स्रष्टृत्वादिशक्त्य- तिशययुक्तः प्रजापतिर्वृद्धिविषये ऋतावस्माभि- रिज्यते स इष्ट्या प्रीतः सन् बालं वृद्ध्या- दिसंयुक्तं संपादयत्विति तात्पर्यार्थः ॥
हे प्रजापते को यजमानः त्वा मत्सत् मा- दयति, अन्धसोऽन्धसा हविषा, दृढा दृढानि, वसु वसूनि धनानि, आरुजे आरुजति वित- रति दक्षिणादिद्वारेण । कीदृशो यजमानः । सत्यः उत्तमसत्त्वः, तथा मदानां मंहिष्ठः हृष्टानामा-नन्दयोगिनां मध्ये वृद्धतमः परमानन्दयुक्तो ब्रह्मस्वभाव इत्यर्थः । 'बहि महि वृद्ध' इति धातोः प्रकृतित्वं मंहिष्ठशब्दे इष्ठन्नन्ते ॥
कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु काचि- eva: । पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥
अत्रापि प्रजापतिर्देवता । अहं शृण्वे - णोमि वेदात् । किं तत् । काचिदेवास्य प्रजा- पतेः शक्तिर्लोकोत्तरास्ति प्रज्ञा वा । का । यया शच्या शक्त्या प्रज्ञया वा स ऋष्वो महत्तमः पुरु अंहः पापं मुहुर्मुहुः पुनः पुनः कृणोति कृ- न्तति नाशयति । कस्मै । दाशुषे यजमानाय । पापं च नाशयित्वा, अनन्तरं जरित्रे स्तोत्रे दाशुषे पुरु सुबहु द्रविणं धनं दधाति ददाति करोति वा । कीदृशः प्रजापतिः । शचिष्ठः शक्ततमः प्राज्ञतमो वा, विचयिष्ठः विविधश- क्तिनिचयवत्तमः । कयेति व्यत्ययेन तृतीया प्रथमास्थाने ॥
प्रजापतये स्वाहा ॥
प्रजापतये सुहुतमस्तु । प्रजापते नहि त्व- दिति, असा अमुष्येति द्वयं व्याख्यातम् ॥
अग्नेरायुरसि तस्य ते मनुष्या आयुष्कृतस्तेनास्मा अमुष्मा ब्रह्मण आर्षम् । अनेन हिरण्यं घृतेऽवद- धाति । हे सुवर्ण असि त्वमग्नेरायुः, आयाती- त्यायुः, अग्नेरागतं त्वमुत्पन्नमित्यर्थः । तथाच श्रुतिः
'अग्र्यद्रेतः सिच्यते तद्धिरण्यमभवत् ' इति । तस्यैवंभूतजननस्य ते तव मनुष्या आयुष्कृत इन्धनाध्माननिर्मन्थनजागरणादि- ना मनुष्या अग्नेयुः कुर्वन्ति, तद्वारेण सुव- र्णस्य । तेन मनुष्याणामुपकारकत्वादस्मै यज- मानाय, अमुष्मै च बालकायायुर्देहि कुरु वा ॥ इन्द्रस्य प्राणः स ते प्राणं ददातु यस्य प्राणस्तस्मै ते स्वाहा ॥
इन्द्रो देवता | इन्द्रस्य प्राणः इन्द्रः प्राणस्य स्वामी, अतः स इन्द्रस्तुभ्यं प्राणं द- दातु। यस्य प्राणस्तस्मै इन्द्राय ते तुभ्यं स्वाहा ॥ पितॄणां प्राणस्ते ते प्राणं ददतु येषां प्राणस्तेभ्यो वः
स्वाहा ॥
पितृदेवताको यतः पितृखामिकः प्राणो-ऽतस्ते पितरस्ते तुभ्यं प्राणं ददतु । येषां प्राण- स्तेभ्यः पितृभ्यो वो युष्माकं सुहुतमस्तु

मरुतां प्राणस्ते० विश्वेषां देवानां प्राणस्ते० प्रजापतेः प्राणः स ते प्राणं ददातु परमेष्ठिनः प्राणः स ते प्राणं ददातु ययोः प्राणस्ताभ्यां वां स्वाहा ॥
प्रजापतिः प्राणस्य स्वामी । स तुभ्यं प्राणं ददातु । परमेष्ठी प्राणस्य प्रभुः । स तुभ्यं प्राणं ददातु । उभयोः प्रजापतिपरमेष्ठिनोर्ययोः प्राण- स्ताभ्यां वां युवाभ्यां स्वाहा ॥
यदसर्पस्तत्सर्पिरभवो यन्नव मैस्तन्नवनीतमभवो यदधिय- थास्तद्वृतमभवः ॥
घृतं निरुच्यते हे घृत यत् यस्मात्त्वमसर्पः सृप्तं, ततः सर्पिर्भूतमसि । यस्माच्च नवं प्रत्ययं सत् ऐः आगतमसि, ततो नवनीतमुच्यसे । यस्मादप्रियथास्तद्धृतं भूतमसि 'धृ धारणे' इत्यस्य वर्णव्यत्यये घृतशब्दः ॥
घृतस्य धाराममृतस्य पन्थामिन्द्रेण दत्तं प्रयतं मरुद्भिः । तत्त्वा विष्णुरन्वपश्यत्तत्त्वेळा गव्यैरयत् ॥
विष्णोरार्षम् । धारां पन्थामिति प्रथमायाः स्थाने द्वितीया । येयं घृतस्य धारा, सा अमृ- तस्य अमरणधर्मस्य पन्था उपायः । इदं हि घृ-तमिन्द्रेण यजमानेभ्यो दत्तं वृष्ट्यादिद्वारेण, प्रयतं च मरुद्भिः प्रकर्षेण यतं नियम्य स्था पितं वचनादिद्वारेण । तत् दीयमानं नियम्य- मानं च त्वां विष्णुरपश्यत् । तत्त्वामिळा देव- ताविशेषः गवि ऐरयन्निक्षिप्तवती ॥
पावमानेन त्वा स्तोमेन गायत्र्या वर्तन्योपांशोर्वीर्येणो- राम्यसौ ॥
पावमानेन स्तोमेन बर्हिष्पवमानादिना, गायत्र्या वर्चा, वर्तन्या सामावयवेन, उपांशोर्य - हस्य वीर्येण सामर्थ्येन उद्धरामि त्वाम् । असा- विति नाम प्रतीयात् ॥
बृहता त्वा रथन्तरेण त्रिष्टुभा वर्तन्या शुक्रस्य वीर्येणो- सृजाम्यसौ ॥
गतार्थम् ॥
अग्नेस्त्वा मात्रा जगत्या वर्तन्या देवस्त्वा सवितो - नयतु जीवात जीवनस्य या असौ ||
अग्नेरुन्नयामीति विपरिणतस्यानुषङ्गः, न- तूद्धरामीत्यस्यानुषङ्गः 'व्यवयान्नानुषज्येत' (१० मी० २४९) इति न्यायात् । पावमानेनेत्यादि समुच्चितं मत्रत्रयमाहुः सुवर्णोद्धरणे भिन्ना- ख्यातत्वेन भिन्नमन्त्रत्वात् । अन्ये तु एकम- तां मन्यन्ते ॥
देवा इत्यादयः षट्
देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेषामयमायुषायुष्मा- सौ ॥ १ ॥
तेषामायुषा देवानामायुषा तत्परिमाणेन जीवनेन अयं यजमानो बालश्चायुष्मानस्तु | असाविति पूर्ववत् ॥
ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तस्यायमायुषायुष्मानस्त्वसौ ॥२॥ ब्रह्म वेदः । तच्चायुष्मदविनाशि । तद्धि ब्राह्म- णैर्ब्रह्मसम्बन्धिभिरध्ययनधारणादिभिरनुच्छि त्तिकर्मकम् । तस्यायमित्यादि पूर्ववत् ॥
अग्निरायुष्मान्स
मनस्त्वसौ ॥ ३ ॥
वनस्पतिभिरायुष्मांस्तस्यायमायुषायु-
वनस्पतय इन्धनानि अरण्यं च । समान-
मन्यत् ॥
यज्ञ आयुष्मान्स दक्षिणाभिरायुष्मांस्तस्यायमायुषायुष्मा- नस्त्वसौ ॥ ४ ॥
दक्षिण लोभेन ऋत्विजः अभ्यस्यन्ति यज्ञ- विद्यां सम्यगनुतिष्ठन्ति च कर्माणि । तेन दक्षिणया आयुष्मत्त्वं यज्ञस्य ॥
सोम आयुष्मान्स ओषधीभिरायुष्मांस्तस्यायमायुषायु- ष्मानस्त्वसौ ॥ ५ ॥
ओषधयो व्रीह्माद्याः, ताभिः । चरुपुरो- डाशादिना इष्टमन्नादि चन्द्रमसमाप्याययतीति कृत्वा भवत्योषधीभिरायुष्मान् सोमः ॥
ओषधय आयुष्मतीस्ता अद्भिरायुष्मतीस्तासामयमायुषा- युष्मानस्त्वसौ ॥ ६ ॥
वृष्ट्या वर्धन्ते प्रियन्ते चौषधयः ॥
इम आयु वर्चसे कृषि तिग्ममोजो वरुण संशिशाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥ हे अग्ने इमं बालकं यजमानं च आयुषे वर्चसे च कृधि कुरु, विद्यासंपत्तिर्वर्चः, यथा एतस्यायुर्वर्चश्च भवति तथा कुर्वित्यर्थः । हे वरुण स्वमपि तिग्ममुत्कटमोजो बलं संशि- शाधि सम्यक् संपादय । हे अदिते देवमात- स्त्वमस्मै शर्म सुखं यच्छ देहि मातेव जननी यथा । हे विश्वे देवा यूयं यथा जरदष्टिरसत् भवति, तथा कुरुत, जरामश्नोति व्याप्नोति जरदष्टिः, जराजर्जरितशरीरमेनं कुरुतेत्यर्थः ॥ अश्विनोः प्राणस्तौ ते प्राणं दत्तां तेन जीव ॥ मित्रावरुणयोः प्राणस्तौ ते प्राणं दत्तां तेन जीव ॥ बृहस्पतेः प्राणः स ते प्राणं ददातु तेन जीव || - अश्विनावत्र देवता । अश्विप्रभृतिभिर्दत्तेन प्राणेन जीवेति गतार्थम् ॥
अङ्गादङ्गात्संभवसि हृदयादभिजायसे । आत्मा वै पुत्र- नामासि जीव शरदः शतं पश्य शरदः शतम् ॥ सर्वाङ्गपरिस्स्रुतरससारवीर्य संभूतत्वादङ्गाद- ङ्गात्सम्यग्भवसि, हृदय संकल्पितमनोरथसं- भूतत्वाच्च हृदयादाधिक्येन जायसे । वैशब्दो - Saधारणे । किं बहु ब्रूम, आत्मा वै पुत्र- नामासि त्वं मच्छरीरेण संभूतत्वान्मदीय- मैव मूर्त्यन्तरमसि पुत्रनामाङ्कितमुपकारितर- मित्यर्थः । एवंभूतस्त्वं शरदां शतं प्राणान्धारय पश्य च पद्विन्द्रियो भव वर्षशतम् । एवं हि गर्भाधानादि नामकरणान्तं व्याख्यातम् । अनन्तरं चूडाकर्म सूत्रकारेणोक्तम् । स्मृतिषु हि निष्क्रमणान्नप्राशने नामकरणानन्तरमुक्ते 'तृतीये मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।' ' षष्ठे मास्यन्नप्राशनं कर्तव्यम्' इत्यादिना, तेन तेऽपि अवश्यकर्तव्ये | चन्द्रदर्शनं चातो गृह्या- न्तरानुसारेणेहापि दर्शयति ॥ १६ ॥
इति षट्त्रिंशी काण्डिका ॥ ३६ ॥

अथ
सप्तत्रिंशी काण्डिका ।

तृतीयेऽर्धमासे दर्शनमादित्यस्य पुण्याहे पर्वणि वोदिते त्वादित्ये रथचक्रमात्रं स्थण्डिलमुपलिप्य तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा 'तरणि:' 'दिवो रुक्म० ' ' उदु त्यं ० ' 'चित्रं देवाना' मित्याज्यस्य जुहोति ॥ १ ॥
जन्मनः प्रभृति मासद्वये व्यतीते तृतीयस्य मासस्य प्रथमार्धेऽतीते आदित्यस्य दर्शनं बालः कारयितव्यः । तत्रेयमितिकर्तव्यता | पुण्यदिने ज्योतिःशास्त्रशुद्धे, पर्वणि वा सुनक्षत्रादियो- गिनि दर्शनं कारयितव्य इत्येकस्यैव पर्वण इतरतिथिसमुदायेन सह विकल्पदर्शनादुत्क र्षातिशयः प्रतीयते । उदिते एवादित्ये रथ- चक्रपरिमाणं स्थण्डिलमुपलिप्य, गेहाङ्गने आदित्यरश्म्यलङ्कृते तत्रोपलिसे प्रतिष्ठाप्य लौकिकमग्निं यथोक्तमुपसमाधाय उपसमाधा-नमुद्धतावोक्षणपरिसमूहन पर्युक्षणपरिस्तरणप वित्रकरणाज्यविलयनाज्यवीक्षणाच्युपस्थानरू- पं कृत्वा ततो जयप्रभृतिभिर्जयाकारैराघा- रादाज्यभागान्तैर्हृत्वा तरणिर्विश्वदर्शत इति दिवो रुक्म इति उदुत्यमिति चित्रं देवानामिति चतसृभिराज्यस्य जुहोति ॥ १ ॥
'मित्रो जनान्' 'प्र स मित्रे' ति स्थालीपाकस्य ॥ २ ॥
जुहोतीत्यनुषज्यते । मित्रो जनानिति प्रस मित्रेति च द्वाभ्यां स्थालीपाकस्य जुहोति ॥ २ ॥
अभ्यावर्तस्वेति कुमारमभ्युदानयति ॥
अभ्यावर्तखेत्यादिना मन्त्रेण कुमारमभिमुखं
कृत्वा उन्नमय्यानयति पिता गुरुर्खा ॥ ३ ॥
द्रष्ट्रे नम इत्युपस्थानमादित्यस्यादृश्रन्नस्येति च ॥ ४ ॥
द्रष्ट्रे नम उपद्रष्ट्रे नम इत्यादिना बालस्य पिता आदित्योपस्थानं करोति बालं सम्मुखं कृत्वोत्सङ्गे ॥ ४ ॥
सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् ॥ ५ ॥
बहुघृतदध्यादियुक्तं हविष्मदन्नं ब्राह्मणान्भोजयेत् ॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमाभासि रोचनम् ॥
प्रजापतेरार्षमुत्तरत्रापि । गायत्री । सूर्यो देवता । हे सूर्य असि त्वं तरणिस्तारयति संसारसागरादिति तरणिः, तथा दर्शतो द्रष्टुर्विश्वस्य सर्वस्य ज्योतिष्कृत् प्रकाशकारी अन्धतमसस्यापसारकः, विश्वमाभासि रोचनं यत्किंचिद्रोचनं प्रकाशमानं तद्विश्वं समस्तं त्वमेवाभास प्रजापतिरूपः ॥
दिवो रुक्म उरुक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥ अयमादित्यो दूरे उदेति दूरं गच्छति चे- ष्टते । कुतः । दिवः अन्तरिक्षात् । रुक्मः 'रुच दीप्तौ' दीप्तः, सुवर्णवर्णो वा । उरुचक्षा बृह- दर्शनः । अर्थः अर्यते प्राप्यते अर्थ्यते वा मो- क्षार्थभिरित्यर्थो ब्रह्मा । तरणिर्व्याख्यातः । भ्रा- 'जमानो दीप्यमानः । जायन्त इति जनास्त्रयो लोका नूनं निश्चितं कृत्वा सूर्येण प्रसूता ज- निता जगतां प्रजापतिविवर्तत्वात् ब्रह्मपरिणा-मत्वाद्वा सूर्यस्य च ब्रह्मात्मकत्वात् । अयं हि सूर्यः. अपांस्यन्नानि आविष्कुर्वन् वृष्टिद्वारेण अर्थाश्च यागदानादीन् वेगेनार्यमाणानयन्प्रवर्तयन् दि वसकरणद्वारेण दृश्यते । 'उदुत्यं' 'चित्रं देवानां ' ' मित्रो जना'निति व्याख्याताः ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षते व्रतेन । न हन्यते न जीयते त्वोतो नैनमहो अश्नोत्यन्तितो न दूरात् ॥
हे मित्र आदित्य यो मर्तो मत्यस्तर्व व्रतेन व्रतं कर्म शिक्षते, स प्रयखान् अन्नवान् प्रास्तु प्रकर्षेण भवतु । यः त्वोतः त्वया रक्षितः, स न केनचिद्धन्यते, न जीयते पराभूयते । नाप्ये- नमंहः पापमश्नोति व्याप्नोति अन्तितः अन्ति- कात्, नापि दूरात् ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वषां ते अग्निरिषितो अरोहत् ॥
हे पृथिवि यज्ञेन पयसा च सह अभ्या- वर्तस्व मम साम्मुख्येन आगच्छ, प्रसन्ना भूत्वा मां पयस्वन्तं याज्ञिकं च सम्पादय । अग्निरिषितः प्रेषितः सन् ते तव वपां सारं वेदिमरोहत् आरोहतु ॥
द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे मात्रे नमः शृण्वते नम उपशृण्वते नमः सते नमोऽ सते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमश्चक्षुषे नमः श्रोत्राय नमो मनसे नमो वाचे नमो ब्रह्मणे नमः श्रान्ताय नमस्तपसे नमः ॥
घोराणामार्षम् | आदित्यः स्तूयते परब्रह्म- रूपत्वात्सर्वमयत्वेन । द्रष्टा जीवात्मा, उपद्रष्टा अन्तर्यामी । तस्मै उभयात्मने नमः । वेदादि -- प्रमाणेन दृष्टं धर्मादिकमनु पश्चाद्योगाभ्या सेन स्फुटं पश्यतीत्यनुद्रष्टा योग्यात्मा, तस्मै नमः । ख्यातीति ख्याता प्रकाशमानः सर्वो लोको धर्मिरूपः, उपख्याता धर्मो रूपादिः, अ- नुख्याता धर्माधर्मरूपादिगतः । शिष्टं स्पष्टम् ॥ reate haar विरश्मयो जनाँ अनु । भ्राजन्तो यो यथा ॥
अस्य आदित्यस्य केतवः अश्वा रश्मयो वा अन् दृश्यन्ते जनाननु जायमानाँलक्षणी- कृत्य । विरश्मयो विगतरज्जवो बन्धनशून्या इत्यर्थः । भ्राजन्तो देदीप्यमाना अग्निप्रख्याः ॥
- इति चारायणीयस मन्त्रगृह्यभाष्ये आदित्यदर्शनम् ॥
इति सप्तत्रिंशी काण्डिका ॥ ३७ ॥

अथ
अष्टात्रिंशी काण्डिका ।

एवं चन्द्रदर्शनम् ॥ १ ॥
एवंशब्देन रथचक्रपरिमाणस्थण्डिलोपलेप- नान्तस्यातिदेशः ॥ १ ॥ विशेषमाह
'मक्षूधाता मातरिश्वा' भूयो जात इति च द्वाभ्यामाज्येन चतुर्गृहीतेनाज्यभागान्ते जुहोति ॥ २ ॥
आप्यायस्वेति सं ते पयांसीति च द्वाभ्यां स्थालीपाकस्य ॥ ३ ॥
नवो नव इत्युपस्थानं चन्द्रमसः प्रकाशो दक्षिणा ॥ ४ ॥
नवो नव इत्यनेन मन्त्रेण चन्द्रमसः उप- स्थानं कर्तव्यम् । प्रकाश आदर्शो दक्षिणा दातव्या ॥
मक्षूधाता मातरिश्वा वचोभिश्चन्द्रो अमृताद्वर्धते जायमानः । आयुः प्रजाममृतं सौभगत्वं न चन्द्रमास्तिरते दीर्घमायुः ॥
चन्द्रमा दीर्घमायुः प्रतिरते प्रतिरतु ददातु, तथा प्रजां पुत्रादिकाममृतममरणधर्मकत्वं सौ- भगत्वं सौभाग्यं लोकप्रियत्वम् । द्विरायुर्ग्रहण- मतिशयार्थम् । स हि प्रतिपदादावमृतात् परब- ह्मणो जायमानो वर्धते प्रतिदिनम् । औणादि- कोऽसिः प्रत्ययः । पूजितस्य चतुर्थ पुरुषार्थस्य धाता विधाता भवति ॥
भूयो जातो हविषश्चन्द्रमा अस्मात्पूर्णः पुरस्तात्पयसो हविर्भिः । पयो गर्भो देवता पिन्वमानञ्चन्द्रोऽमृतत्वमभयं कृणोतु ॥
पयोभिश्च भूयः पुनःपुनर्बहुकृत्वो वा पयः क्षीरं, गर्भः गर्भान् देवता यज्ञोद्देश्याः पिन्वमान ओषध्याद्याप्यायनमुखेन पोषयंश्चन्द्रो दुःखभ- यरहितममृतत्वं मे करोतु ॥
- आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॥
हे सोम आप्यायस्व वर्धयास्मान् । वृष्ण्यं सेक्तृत्वमाप्यायकत्वं ते तव विश्वतः सर्वतः समेतु समागच्छतु । किंच वाजस्यान्नस्य सङ्गथे सम्बन्धनिमित्तं भव ॥
सं ते पयांसि समु यन्तु वाजाः संवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि दिष्व ॥ हे सोम ते तव पयांसि संयन्तु त्वया संगच्छन्ताम् । वाजा वाजानि अन्नानि च संगच्छन्ताम् । वृष्ण्यानि च आप्यायकत्वानि त्वया संगच्छन्ताम् । कीदृशस्य तव । अभि- मातिषाहः सङ्ग्रामाणां प्रसोदुरभिभवितुः । हे सोम अस्माभिराप्यायमानो हविषा अमृत- वाय भव स्वर्गायेत्यर्थः । श्रवांसि चान्नान्युत्त- मानि देहि यज्ञोपयोगीनि ॥
नवो नवो भवति जायमानोऽह्वां केतुरुषसामेत्यग्रम् । भागं देवेभ्यो विदधात्यायन्त्र चन्द्रमास्तिरते दीर्घमायुः ॥ अयं चन्द्रमाः प्रतिपदादौ वर्धमानो नवो नवो भवति । अह्नां दिनानामुषसां च रज- न्यन्तानामग्रमेत्यागच्छति केतुचिभूतः प्रति- पदादिकालस्य सूचकत्वात् । किंच भागं देवे- भ्यो ददात्यमृतमयत्वादमृतस्य च दीर्घमायुः प्रतिरते । इति चन्द्रदर्शनम् ॥
इति अष्टात्रिंशी काण्डिका ॥ ३८ ॥

अथ
एकोनचत्वारिंशी काण्डिका ।

षष्ठे मास्यन्नप्राशनम् ॥ १ ॥
प्रसवादारभ्य षष्ठे मासे बालकस्यान्नप्रा- शनं कर्तव्यम् ॥ १ ॥
सर्वाण्यन्नानि संयूय 'आयुर्दा देव' घृ- तप्रतीक इति हुत्वान्नपते अन्नस्येति कुमारमन्नं प्राशयेत् ॥
सर्वाणि हविष्यान्नानि मिश्रीकृत्य आयुर्दा देव इति घृतप्रतीक इति च द्वाभ्यां हुत्वा 'अन्नपते अन्नस्येति मन्त्रेण कुमारमन्नं प्राशयेत् ॥ आयुर्दा देव जरसं वृणानो घृतं वसानो घृतपृष्ठो अग्ने । घृतं पिवन्नमृतं चारु गव्यं पितेव पुत्रं जरसं नयेमम् ॥ व्यं गोप्रभवममृतममृतत्वकारि, चारु उत्कृष्टं घृतं पिवन् इमं बालं जरसं नय वृद्धत्वं प्रापय । क इव कम् । पितेव पुत्रम् । हे देव द्योतमान आयुर्दा आयुषो दाता त्वं अतो जरसं जरां वृणानो वर्धयन् घृतं च वसान आच्छादयन् वितरन् घृतपृष्ठः सन् हूयमानेनो- परिवर्तिना घृतेन युक्तः सन् जरसं नयेमम् ॥ घृतप्रतीको घृतपृष्ठो अग्निर्घृताहवनो घृतमस्य धाम । घृतमुषो हरितस्त्वा वहन्तु घृतं पिवन्यजतादेव देवान् ॥ त्रिष्टुप् । आग्नेयी । घृतं प्रतिकायति आ- ह्वयति यः, स घृतप्रतीकः । घृतपृष्ठो व्याख्यातः । घृतस्य आ समन्तात् हवनं होमो यत्र, स घृता- हवनः । तथा घृतमस्याग्नेर्धाम गृहम् । यतस्त्व- मेवंभूतोऽग्निरतो हे भगवन् देव अग्ने घृतप्रुषो घृतकणाः हरितोऽश्वा इव त्वां वहन्तु प्राप्नु- वन्तु आप्यायन्त्वित्यर्थः । त्वं च घृतं पिवन् हे देव देवान् यज पूजय प्रीणीहि । अग्निद्वारेण हि देवानां तृप्तिर्भवति ॥
अन्नपते अन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो देहि द्विपदे चतुष्पदे ॥ हे अन्नपते सोमराज 'सोमो वा ओषधीनां राजा' इति श्रुतेः अन्नस्य नो देहि अन्नमस्मभ्यं प्रयच्छ, अनमीवस्य शुष्मिणः, अमीवो रोग- स्तद्रहितं शुष्मं सुखं सुखकारि । प्रदातारं प्रतारिषः, प्रकर्षेण तारय संसारसागरक्लेशम-
पसारयास्य । ऊर्जमन्नं बलं च नोऽस्माकं देहि द्वि- पदे चतुष्पदे च गवाश्वादिके । इत्यन्नप्राशनम् ॥
इत्येकोनचत्वारिंशी काण्डिका ॥ ३९ ॥

अथ
चत्वारिंशी काण्डिका ।

तृतीयस्य वर्षस्य भूयिष्ठे गते चूडाः कारयते ॥ १ ॥
जन्मनः प्रभृति यस्तृतीयो वर्षस्तस्य भू- यिष्ठे भागे गते सति चूडाकर्म कर्तव्यम् । अर्धमवधिं कृत्वा सप्तमो मासो भूयान्, अष्ट- मस्तु भूयिष्ठस्तस्मिन् गते नवमे मासि कर्त- व्यम् । दक्षिणेन विदुषापि न स्वयं पित्रा कर्त- व्यमिति णिचोक्तम् ॥ १॥
दक्षिणतः कपूजा वसिष्ठानाम् ॥२॥
कपूजा चूडा । सा वसिष्ठगोत्रसंभूतानां द-क्षिणे शिरसो भागे कर्तव्या । दक्षिणे दक्षि-णत आद्यादिभ्यस्तसिः ॥ २ ॥
उभयतोऽत्रिकश्यपानाम् ॥ ३॥
उभयोः शिरसो दक्षिणोत्तरभागयोरत्रिगोत्रे कश्यपगोत्रे च जातानां शिखा कर्तव्या ॥ ३ ॥
मुण्डा भृगवः ॥ ४॥
भृगुगोत्रजा मुण्डा निःशिखाः कर्तव्याः ॥४॥
पञ्चचूडा अङ्गिरसः ॥ ५ ॥
आङ्गिरसगोत्रे ये जातास्ते पञ्चचूडाः क-र्तव्याः ॥ ५ ॥
वाजिमेके ॥ ६ ॥
एके वाजिमिच्छन्ति आङ्गिरसानाम् । वाजिः केशपङ्क्तिः॥ ६ ॥
मङ्गलार्थं शिखिनोऽन्ये ॥ ७ ॥
ये कथितेभ्योऽन्येऽगस्त्यविश्वामित्रादिगो- जास्ते शिखिनो भवन्ति । किमर्थम् । मङ्ग- लार्थम् । निः शिखत्वं त्वमङ्गलधर्मः अरिष्टहेतुः । तथाच पठन्ति
'अमेध्यमेतच्छिरो यदशिखम् ।'
इति ।
'यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।' इति च निन्दावाद यन्मूलं शिखाकर्मस्म- रणम् ॥ ७ ॥
यथाकुलधर्मं वा ॥ ८ ॥
कुलधर्मानतिक्रमेण वा एकशिखत्वादि कर्तव्यं कुलाचाराणामपि धर्मत्वेन स्मरणात् 'येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न रिष्यति ॥'
( मनु० ४। १७८ )
शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वायमगात्सविता क्षुरेणोष्णेन वाय उदकेन एहि । आदित्या रुद्रा वसवः सचेतसः सोमस्य राज्ञो वपत प्रचेतस इत्युष्णा अपोऽभिमन्त्रयते ॥ ९ ॥
पुण्याह इत्यादि हुत्वेत्यन्तं व्याख्यातम् । आयमगादित्यादिना उष्णा अपोऽभिमन्त्रयते म ब्रेण । जगती च्छन्दः । विश्वेदेवा देवता । ब्रह्मण
आर्षमुपनयन समाप्तिं यावत् । अयं सविता क्षुरेणोष्णेन चोदकेन सहागात् आगतः । अतो हे वायो त्वमप्याभ्यां सह एहि आगच्छ । हे आदित्याः रुद्राः वसवः सचेतस एकचित्ताः सन्तो यूयमप्यस्य सोमस्येव राज्ञो माणवकस्य वपत मुण्डयतैनमित्यर्थः ' सोमो वा ओष- धीनां राजा' इति श्रुतेः राजानमिवैनं गौरव- भाजनं मन्यमाना मुण्डयतेति यावत् ॥ ९ ॥
'उष्णाश्च शीताश्च समेत्य सर्वा बृहस्पतिः सविता सत्यधर्मा । तदनुमन्यताम् ॥' आर्द्रदानवः स्थ जीवदानवः स्थोन्दतीरिहैनमवताप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इत्यभ्युन्देत् ॥ १० ॥
उष्णाश्चेत्यादिना वर्चसे इत्यन्तेनाभ्युदेत् 'उन्दी केदने' माणवकस्य शिरः अभिमन्त्रिता- भिरद्भिः प्रक्षालयेदित्यर्थः ॥
हे आपः इहैव स्थाने एनं माणवकमवत रक्षत उष्णाश्च शीताश्च सर्वाः समेत्य संभूय । तच्चावनं बृहस्पतिः सविता चानुमन्यतामभ्युपगच्छतु । कीदृशः । सत्यधर्मा सत्यमेव ह्यस्य धर्मः, सत्यसंकल्पो ह्यत एवायम् । हे आपः आर्द्रदानवः आर्द्रभावस्य दात्र्यः स्थ भवथ । ददाति इति दानुः, औणादिको दानुशब्दः । एवं जीवदानवो जीवदात्र्यः स्थ भवथ । उन्दती: क्लेदयन्त्यः । आप उन्दन्तु जीवसे जीवनाय दीर्घायुत्वाय च आयुषे त्वपत्यो- रिति सलोपः । वर्चसे ब्रह्मवर्चसाय रूपवि- शेषाय ॥ १० ॥
दक्षिणे केशान्त औषधे त्रायस्वेति दर्भमन्तर्धाय स्वधित इति क्षुरेणाभिनिधाय येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपते- दमद्यायुष्माञ्जरदष्टिर्यथासदयमसौ ॥ येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेनास्यायुषे वप सौश्लोक्याय स्वस्तये ॥ येन पूषा प्रजापतेरग्नेः सूर्यस्य चायुषेऽवपत् । तेनास्यायुषे वप सौश्लोक्याय स्वस्तये ॥ येन भूयश्च रात्री ज्योक्पश्या च सूर्यम् । तेनास्यायुषे वप सौश्लोक्याय स्व- स्तय इति प्रदक्षिणं प्रतिदिशं प्रतिमन्त्रं दर्भक्षुरकर्म ॥ ११ ॥
शिरसो दक्षिणे भागे ओषधे त्रायस्वैनमिति मन्त्रेण दर्भमन्तर्धा स्वधिते मैनं हिंसीरि- त्यनेन क्षुरेणाभिनिधायावष्टभ्य सदर्भान् के- शान् येनावपदित्यादिभिश्चतसृभिरनुष्टुषुभिः दक्षिणभागादारभ्य प्रदक्षिणं यथा भवति, तथा प्रतिदिशं प्रतिमन्त्रं दर्भक्षुरकर्म कर्तव्यमृत्वि- जा आद्यया दक्षिणे भागे, द्वितीयया पश्चिमे भागे, तृतीययोत्तरस्मिन् चतुर्थ्यां खमे ॥ हे ओषधे एनं माणवकं त्रायस्ख गोपाय | हे स्वधिते क्षुर एनं माणवकं मा हिंसीः । येनावपद्येन क्षुरेण सविता सोमस्य राज्ञो वरुणस्यावपदुप्तवान् शिरः, तेन हे ब्रह्माण अद्या- स्मिन्नहनि वपत मुण्डयत इदं बालकस्यास्य शिरः । कीदृशः सविता | विद्वान् जानन् । तथा वपत यथायं बाल आयुष्मान् दीर्घा
युर्जरामश्रुते व्याप्नोति जरदष्टिश्चासौ भवति । असाविति नामविशेषो लक्ष्यते । येन धाता, येन क्षुरेण प्रजापतिर्बृहस्पतेरनेरिन्द्रस्य च शिर उप्तवान् दीर्घायुत्वाय, तेनैवास्य क्षुरेण बालस्य शिरो वप दीर्घायुत्वाय च सुश्लोक- वाय कीर्तये तथा स्वस्तयेऽविनाशाय । येन पूषेति अनन्तरख्याख्यया गतार्थः । येन भूयश्च रात्री ज्योक्पश्या च सूर्य, येन क्षुरेण रात्रिः सूर्यमवपत् भूयः पुनःपुनः । ज्योकू चिरकालं, पश्यतीति पश्या ज्योक्पश्या बहुदर्शना रात्रिः । तेनेत्यादि समानम् ॥ ११ ॥
यत्क्षुरेण वर्तयता सुपेशसा वप्तर्वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति लोहायसं क्षुरं केशवापाय प्रयच्छति ॥ १२ ॥
यत्क्षुरेणेत्यादियजुषा नापिताय क्षुरं द दाति लोहायसमिति शस्त्रान्तरजातिविशेषस्य संज्ञा नापितप्रसिद्धा । अन्ये तु क्षुरग्रहणे- नैव लोहत्वस्य सिद्धत्वात् स्तुत्यर्थ लोहप्रहण-
मित्याहुः । यत्क्षुरेण येन क्षुरेण अतितैक्ष्ण्या- दिगुणभाजा प्रशस्ततमेनेत्यर्थः यदिति लुप्त- तृतीयैकवचनान्तम्, हे वप्तः मुण्डयितः नापित येन क्षुरेण केशान्वपसि सुपेशसा सुरूपेण, तेन वर्तयता परिवर्तमानेन अस्य आयुर्मा प्रमोषीः मैनं वधीरित्यर्थः, किं तर्हि, शुन्धि शिरोऽस्य, शोधय शिरोऽस्य ॥ १२ ॥
मा ते केशाननुगात्तेज एतत्तथा धाता ददातु ते । तुभ्यमिन्द्रो बृहस्पतिः सविता वर्च आदधुरिति प्रपततोऽनुमन्त्रयते १३
अनया पुरस्ताद्बृहत्या केशान् पततोऽनु- मन्त्रयते । तव एतत्प्रसिद्धं रूपादिकं तेजः के- शाननु केशानां पश्चात् मा गात् । तथा धाता प्रजापतिस्ते तुभ्यं तेजो ददातु । तथा तुभ्य- मिन्द्रो बृहस्पतिः सविता वर्चो रूपविशेषा- दिकं आदधुः ददतु ॥ १३ ॥
सुहृत्परिग्राह्यानुप्यमानान्हरितगोमये समवचिनोति ॥ १४ ॥
सुहृदैव पतन्तः केशा ग्राह्या इति नियमः ।
तामुष्यमानान् मुण्ड्यमानान् पततः हरितगो- मये. समवचिनोति सम्यगवचिनोति प्रतीच्छति हरितगोमये संमिश्रीकृत्य पिण्डीकरोतीति कचिदाचारः ॥ १४ ॥
उप्त्वाय राज्ञो वरुणस्य केशान्सोमो धाता सविता विष्णुरग्निः । तेभ्यो निधानं बहुधान्वविन्दन्नन्तरा द्यावापृथिवी अवस्युरिति प्रागुदीचीं ह्रियमाणाननुमन्त्रयते ॥ १५ ॥
अनया वैश्वदेव्या त्रिष्टुभा मित्रेण प्रागु- दीचीं दिशं नीयमानान् केशाननुमन्त्रयते कर्ता । उवाय उत्वा मुण्डयित्वा वरुणस्य राज्ञः सम्बन्धिनः केशांस्तेभ्यस्तदर्थं यन्निधानं स्थानं, तद्बहुधा अन्वविन्दन् ज्ञातवन्तः । कुत्र । द्याव्यापृथिव्योरन्तराले मध्ये । के ते । सो- मश्चन्द्रो, धाता प्रजापतिः, सविता आदित्यः, विष्णुरग्निः । अवस्युरिति प्रत्येकमभिसम्ब ध्यते । अवनमवः रक्षणम् । अवमिच्छति
'सुप आत्मनः क्यचू' 'क्याच्छन्दसि' इति उप्रत्ययः अवनकाम इत्यर्थः ॥ १५ ॥
अरिक्ते पर्याश्लेषयत इति श्रुतिः ॥१६॥
अरिक्ते दूर्वालतावनस्पतिप्रभृतौ शीतप्रदेशे समाश्लेषयते केशान्मित्रमिति श्रुत्या प्रति- पादितं श्रुतिमूलमेतत्कर्मेति प्रदर्शितं 'यत्र बाणा निष्पतन्ति कुमारा विशिखा इव ।' इत्यादिना ॥ १६ ॥
कर्त्रे वरं ददाति ॥ १७॥
ऋत्विजे वरं दक्षिणां यथाशक्ति ददाति यजमानः । चतुर्वर्षा गौर्दक्षिणात्रेत्याहुः ॥१७॥
पक्ष्मगुणं तिलपेशलं केशवापाय प्रयच्छति ॥ १८ ॥
सूक्ष्मैरूर्णा गुणैर्वेष्टितं तिलपात्रं नापिताय ददाति ॥ १८ ॥
सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् ॥१९॥
गतार्थम् । चूडाकरणेऽङ्गनिर्देशात्प्रधानान- भिधानात्प्रधानमाज्येनाग्नेय्या वैश्वदेव्या वा कर्तव्यमित्याहुः । यद्वोपसमाधायेत्यनेनाज्यभा- गान्तरमुक्तं तदेव प्रधानम् । येषां त्वग्निसंस्का- रमात्रमुपसमाधानं तेषां पूर्व प्रधानम् ॥ १९ ॥
इति चूडाकरणविवृतिः समाप्ता ॥
समाप्ता च चत्वारिंशी काण्डिका ॥ ४० ॥