लौगाक्षि गृह्य सूत्राणि/कण्डिका ४१-५०


अथ
काठके चरकशाखायां
लौगाक्षिगृह्यसूत्राणि ।
देवपालकृतभाष्योपेतानि ।
एकचत्वारिंशी काण्डिका ।

सप्तमे वर्षे ब्राह्मणस्योपायनम् ॥१॥
जन्मनः प्रभृति सप्तमे वर्षे गर्भादष्टमे ब्राह्मणस्योपायनमाचार्यसमीपगमनमेखलाब-: न्धनसंस्कारः प्रधानभूतः । तस्मिन्हि सति : श्रुतिस्मृत्यधिकारो भवति । अत एव द्वितीयं: जन्म स्मर्यते
'प्रथमं मातृतो जन्म द्वितीयं मौञ्जिबन्धनात् । अत्र माता च सावित्री पिता त्वाचार्य उच्यते ॥(मनु० २।१७० ) :
इति ॥ १ ॥
नवमे राजन्यस्य ॥ २ ॥
अवेष्ट्यधिकरणनयेन राजा क्षत्रियस्तस्यापत्यं राजन्यः क्षत्रियदारकः । तस्य जन्मनः प्रभृति नवमे गर्भाद्दशमे उपनयनम् ॥ २ ॥
एकादशे वैश्यस्य ॥ ३॥
समानं पूर्वेण ॥ ३ ॥
आ षोडशाद्ब्राह्मणस्यानतिक्रम आ द्वाविंशाद्राजन्यस्या चतुर्विंशाद्वैश्यस्य ॥ ४ ॥
सर्वत्राभिविधावाङ् । ब्राह्मणस्य षोडशव- र्षान्तं यावदुपनयनकालानतिक्रमः, एवं द्वाविं- शान्तं यावत् क्षत्रियस्य, आ चतुर्विंशाद्वैश्यस्य ॥ ४ ॥
स्नातोप्तकेशे यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा रेवतीस्त्वा व्यक्ष्णन्कृ- त्तिकाश्चक्रतुस्त्वापसस्त्वा व्यतन्वत। धियोऽवयन्नव ग्ना अमृजन्सहस्रमन्ताँ अभि- तोदयच्छन्नशीतिर्मध्यमवयन्नु नारीरित्यहतं वासोऽभिमन्त्रयते ॥ ५ ॥
स्नातश्चासावुप्तकेशो मुण्डितशिरास्तस्मिन् माणवके उपस्थिते सति यथाविधि उपसमा-धानमग्निसंस्कारमुद्धत सिक्तो पलिते भूविशेषे स्थापनं परिसंवहनं पर्युक्षणं परिस्तरणं च कृत्वाज्यं चोपनिधाय विलाप्य संवीक्ष्य दण्डमेखलादिकं यथोपयोगमानीयोपनेता ज- यप्रभृतिभिर्ऋतुनक्षत्राद्यन्तैर्हृत्वा रेवतीस्त्वे- त्यादिकया शक्कर्या अहतमभुक्तं नवं वासो हस्ते निधायाभिमन्त्रयते । किल वाससो- ऽयमुत्पत्तिक्रमः - आदौ तावद्वेवतीभिः क- र्पासो लोष्ठनिकाभिरभिहन्यते विधूयते च, ततः कृत्यते वेष्टयते सूत्रतामापाद्यते इत्यर्थः, ततस्तन्तुवायेन आतानायते, ततः कूर्चेन परामृज्यते । ततो वस्त्रं वयति तन्तुवायः, सम्पन्ने च वस्त्रे पल्लवद्वये दशाः संयोज- यति । एवंक्रमोऽत्र मन्त्रे कर्पासादीनां हन- नादौ देवताविशेषाणां कर्तृतारोपणेन स्तूयते । हे वस्त्र त्वां रेवतीः देवताः व्यक्ष्णन्विशेषेणा- क्षिण्वन् कर्पासावस्थायां लोष्ठनिकादिभिर्ह- तवत्यः । कृत्तिकाः 'कृती वेष्टने' कर्तयों वेष्टि- काश्चक्रतुः चक्रुः सूत्रं कृतवत्यस्तद्वारेण संपा- दितवत्यः । अपसोऽपापा मरुतस्त्वां व्यतन्वत विशेषेणातन्वत आतानरूपतां कृतवन्त इत्यर्थः । धियोऽवयन् बुद्धिविशेषेण हि वस्त्रविशेषस्य वानं सम्पद्यते । अव ग्नाः अमृजन् 'व्यव- हिताश्व ' (१।४।८२) इत्यवशब्दो मृजिना सम्ब- ध्यते । ग्नाः देवताः अवासृजन् 'मृजू शुद्ध' कूर्चेन आततस्य सूत्रस्य मार्जनं कृतवत्य इत्यर्थः । सहस्रमन्तानभितोदयच्छन्, अभित उभयतः पल्लवद्वये उदिति निपातस्तथाशब्द- स्यार्थे, सहस्रशब्दो बाहुल्यार्थः, सहस्रमन्तानां दशानामयच्छन् बबन्धुः । काः । ग्ना इति योजनीयम् । अशीतिर्मध्यमवयन्नु नारीः, नुशब्दः क्षिप्रवचनः, मध्यं वस्त्रस्याशीतिर्नाय नागदेवता अवयन् उतवत्यः ॥ ५ ॥
देवीर्देवाय सविता सवित्रे परिधत्त वर्चसा नयेमं शतायुषं कृणुहि जीवसे कमिति परिधापयति ॥ ६ ॥
अनेन यजुषा वासः परिधापयति । हे देव्यो रेवत्याद्या इदं वासः परिधत्त परिधा- पयत । कस्मै । देवाय द्योतमानाय माणवकाय । त्वमपि हे माणवक परिधत्त परिध- रख । सविता व्यत्ययेन हे सवितः इदं वासः परिधापय सवित्रे देवतार्थाभिज्ञानस्य जनयित्रे माणवकाय । त्वमपि हे माणवक परिधत्त परिधत्स्व सविता भूत्वा । हे वासः नय प्रापय इमं माणवकं कं ब्रह्माणं ब्राह्मणत्वं प्रापय वेद- समृद्धियुक्तं कुर्वित्यर्थः, शतायुषं कृणुहि कुरु ॥
एष मन्त्रयाणां वर्णानां परिधापने सा धारणोऽधोवाससः । उत्तरीयं वक्ष्यतेऽजिनम् । जरां गच्छेत्यादिभिः परिहितवाससमनुमन्त्रयते इत्यादित्यदर्शनः । नत्वेवमाचार आचार्याणाम्, नापि मन्त्रलिङ्गमेवमिति योजनान्यथा कार्या । एकैकस्यासाधारण इत्येकैकस्य वाससः परि- धापने मन्त्रत्रयम् । तत्र देवीर्देवायेत्येको वर्ण- त्रयसाधारणः, जरां गच्छेति द्वितीयः साधारणः परिधापने, परममित्यादीनां त्रयाणामेकैको यथाक्रममेकैकस्यासाधारण इत्येकैकस्य त्रयः परिधापने मन्त्राः ॥ ६॥
जरां गच्छ परिधत्स्व वासोऽभूरापीवानभिशस्तिपावा । शतं जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥ ७ ॥
मन्त्रलिङ्गादयमपि परिधापने । उपनेता ब्र- वीति हे माणवक वासः परिधत्स्व । आ- शिषमाह-जरां गच्छ जराजर्जरिततनुर्भव । आपीवाभू: 'स्फायी ओप्यायी वृद्धौ' आङ्- पूर्वः 'आतो मनिन्कनिब्वनिपश्च' (३|२|७४) इति वनिप् प्रवृद्धो भवेत्यर्थः । अनभिश- स्तिपावा अभूरित्यनुषज्यते, अभिशसोऽभि- शस्तिः पापयोगस्तत्प्रतिषोधोऽनभिशस्तिः पा- पाभावः प्रसज्यप्रतिषेधं कृत्वा पर्युदासेन च धर्मसंबन्धः, अनभिशस्ति पातीति अनभि- शस्तिपावा । शतं जीव शरदः शतं शरदां च त्वं प्राणान् धारय । पुरुचीरिति शरदो वि- शेषणं पुरुशब्दो भूरिवचनः बहून् पुरुषा- नञ्चन्ति साधयन्ति इति पुरूच्यः, पुरुचीनां रायो धनस्य च पोषं पुष्टिं परिधत्स्व समन्ता- द्धारय ॥ ७ ॥
परीमं सोमं तेजसे महे श्रोत्राय दध्मसि । यथैनं जरसं नयज्ज्योक् श्रोत्राय जागरज्ज्योक् श्रोत्रेऽधिजागरदिति ब्राह्मणस्य ॥ ८ ॥
एष ब्राह्मणस्य परिधापने मन्त्रः सोमप- दालिङ्गादितरयोः सोमसंबन्धाभावात्
'यदि राजन्यं वैश्यं वा याजयेन्यग्रोधततीराहृत्य ताः संपिष्य दध्युत्सृज्य तदस्मै भक्षं प्रयच्छेन्न सोमम्' इति श्रुतेः ॥
हे माणवक एतद्वासः परिदध्मसि 'इदन्तो मसि' ( ७|१|४६ ) इतीदन्तः परिदध्मः परि- धापयामः, सोममेव चेमं परिधापयामः, त्वया अनेनोपनयनद्वारेण सोम एव हि परिहितो धृतो वेदस्तदर्थाभ्यासद्वारेण भविष्यति । कि- मर्थं परिधापयामः । तेजसे महे, महते, पू- जार्थं वा मह पूजायामित्यस्य रूपम् । श्रो- त्राय श्रूयते इति श्रोत्रं वेदः तदर्थं वेदवे- दार्थाधिगमाय, अथवा श्रोत्राय श्रोत्रयुक्ताय शिष्याय वेदपारगमस्त्वमुपाध्यायः श्रोत्रियेभ्यो हितः सम्पद्यस्वेति तात्पर्यम् । यथैनं वासोविशेषं जरसं नयत् जरां नयति माणवकः तथा च परिधापनेन परिधापयामः, यथा बहूनि वस्त्राणि भोगेन जरयिष्यति तथाहं परिधापयामीति यावत् । ज्योक् चिरकालं श्रोत्राय वेदाय जागरत् जागृहि बहुकालं वेदतदर्थजागरणं पठनवोधानुष्ठानात्मकं तवास्त्वित्यर्थः । ज्योक् श्रोत्रेऽधिजागरत् बहुकालं शिष्येभ्यो जागृहि उपदिश अतिशयेन परोपकारप्रकृष्टधर्मक- त्वात् ॥ ८ ॥
परीममिन्द्रमोजसे महे क्षत्राय दध्मसि । यथैनं जरसं नयज्ज्योक् क्षत्राय जागरज्ज्योक् क्षत्रेऽधिजागरदिति राजन्यस्य ॥ ९ ॥
हे ब्रह्मचारिन् वासः परिदध्मसि वासः परिधापयामः इन्द्रमिन्द्रेण सह बाहुभ्यां जात- वादिन्द्रो राजन्यस्तं परमेश्वरं स्वयमेव प्रजा- पालनसामर्थ्यात् । किमर्थम् । ओजसे बलाय । महे महते पूजिताय वा । क्षत्राय साधूनां त्रा- णाय उत्साहाय च । गतार्थमन्यत् ॥ ९ ॥
परीमं मनुमायुषे महे पोषाय दध्मसि । यथैनं जरसं नयज्ज्योक् पोषाय जागरज्ज्योक् पोषेऽधिजागरदिति वैश्यस्य ॥१०॥
मनुमिति मानुषत्वान्मनुम् । पोषो धनपुष्टि- स्तदर्थम् । शिष्टं समानम् ॥ १० ॥
परीदं वासोऽधिधा स्वस्तये भवापीवानभिशस्तिपावा । शतं जीव शरदः सुवीरो वसूनि चोग्रो विभज सुजीवन्निति परिहितवासमनुमन्त्रयते ॥ ११ ॥
त्रयाणामपि वर्णानां परिहितवाससामनेना- नुमन्त्रणं करोत्युपनेता । परिशब्दः पूर्ववदिहापि व्यवहितान्वयः । हे माणवक त्वमिदं वासः परि अधिधाः पर्यष्यधाः आधिक्येनोत्कर्षेण परिहित- वानसि स्वस्तयेऽविनाशाय यत्, तत्वमापीवा आपीन: प्रवृद्धो भव, अनभिशस्त्यनभिशस्तं पाति रक्षतीत्यनभिशस्तिपावा, शतं च शरदां जीव, सुवीरश्च शोभनपुत्रयुक्तो भव, तथा वसूनि धनानि उदारः सन्विभज विशेषेण
भजस्व देहि वा परिजनर्विक्प्रभृतिभ्यः । सुष्ठु जीवन् सुजीवन् सुखादिना जीवन् ॥ ११ ॥
'योगे योगे' युवा सुवास इति चैताभ्यामग्निमभि दक्षिणमानीयेह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव | कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतमिति दक्षिणेन पदाश्मानमास्थापयति ॥ १२ ॥
योगे योगे इत्यनेन युवा सुवास इत्यनेन च मन्त्रेणाग्निं लक्षणीकृत्य प्रदक्षिणं यथा भवति, तथा माणवकमानीय एाश्मानमातिष्ठेति मत्रे- णाश्मानं दक्षिणेन पदा आस्थापयति अधि- ष्ठापयत्याचार्यः ॥
योगे योगे तवस्तरं वाजे वाजे हवामहे । सखायमिन्द्रमूतये ॥
व्याख्यातेयम् । अत्र वह्निप्रदक्षिणे तु योगः सम्बन्धो विशेष्यते। योगे योगे सर्वत्र ब्रह्मचा- रिक्रियासम्बन्धे कर्तव्ये, वाजे वाजे हविषि हविषि, इन्द्र हवामहे आह्वयामः ऊतयेऽवनाय, तवस्तरं बलवत्तरं, सखायं सहायम् ॥
युवा सुवासः परिवीत आगात्स उच्छ्रेयान्भवति जाय- मानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
एष यूपोच्छ्रायने विनियुक्तोऽन्यत्र मन्त्रः । तत्रैष मन्त्रार्थ:-यूप एव युवा नवः सद्यश्छिन्नः, शोभनेन वाससा रशनया च परितो वेष्टित आगात् आगतः । तं धीरासो धीराः पण्डिता ऋत्विजः उन्नयन्ति उच्छ्रियन्ति मनसा देव- यन्तः देवान् यष्टुकामाः पशुयागं चिकीर्षन्तः । प्रकृतोऽत्रायमर्थः - ब्रह्मचारी युवा सुवासाः प- रिहितशोभनवस्त्रः परिवीतः संवृतो ब्रह्मचा- र्यात्मा सहि युवा नित्यतरुणः संवीतश्च शणवाससा, आगात् आगतः इदं शरीरं कर्मवशात्प्राप्तः । प्राणो व्याख्यातव्यो ब्रह्म- चारिसंबन्धी । सोऽपि हि शरीरेण वाससेव संवृत आगतो ब्रह्मचारिशरीरम् । नित्यत- रुणश्च युवा स ब्रह्मचारी उच्छ्रित उन्नतो जाय- मानो वर्धमानो भवति आत्मा वायुर्गगन इव क्षुधादिभिः प्रवृद्धो भवति । तं धीरासो धीराः पण्डिताः कवयः क्रान्तदर्शना उन्नयन्ति ऊर्ध्वं नयन्ति आत्मानं मोक्षं प्रापयन्ति प्राण- मुत्क्रामयन्ति ऊर्ध्वं ब्रह्मद्वारं प्रापयन्ति ब्रह्म- चारिशरीरमप्युन्नयन्ति क्रियाज्ञानकाण्डानुष्ठा- नोत्कृष्टं सम्पादयन्ति, स्वाध्यः शोभनधियः सुकर्माणः, एकाग्रेण मनसोन्नयन्ति ॥ एह्यमानमिति, हे माणवक एहि आगच्छ अश्मानं पाषाणमातिष्ठाधितिष्ठ, अश्मेव स्थिरो भव, विश्वे सर्वे देवा आयुष्ठे कृण्वन्तु शरदः शतं समाः शतम् ॥ १२ ॥
मम व्रते हृदयं ते ददामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यमिति नाभिदेशादूर्ध्वं पाणिनोन्मार्ष्टि ॥ १३ ॥
मम व्रत इत्यादिना मन्त्रेण नाभिमारभ्य शिखान्तं यावद्ब्रह्मचारिणं आचार्य उन्मार्ष्टि । व्रतमिति कर्मनाम । हे ब्रह्मचारिन् मम व्रते कर्मणि ते तव हृदयं ददामि त्वदीयं हृदयं मच्चिकीर्षित कर्म सहायमस्त्वित्यर्थः । मम सम्ब न्धि चित्तं ते तवानुचित्तमस्तु मदीयचित्तानुगतं तव चित्तमस्त्वित्यर्थः । मम सम्बन्धिनीं वाचं त्वमेकत्रतो भूत्वा जुषस्व यदहमध्या- पयामि, तदेकचित्तो भूत्वा अधीष्वेत्यर्थः । वाग्वै बृहती, तस्याः पतिर्बृहस्पतिरात्मा । स त्वां निं- युनक्तु सम्यक्संकल्पद्वारेण मत्सेवादौ प्रवर्त- यतु, मह्यं मदर्थं, ममापि तथा सति आचार्य- कसम्पत्तिरुपकारो भविष्यतीत्यर्थः ॥ १३ ॥
दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा ब्रह्मचर्यमागामुप मा नयस्वोंभूर्भुवः स्वरिति वाचयति ॥ १४ ॥
ब्रह्मचारी वक्ति । तमाचार्यो वाचयति ब्रह्मचर्यमित्यादि स्वरित्यन्तम् । किं कृत्वा । दधिक्राव्ण इत्यादिना त्रिर्दधि भक्षयित्वा भक्षणे ब्रह्मचारिणं प्रयुज्य । खादित्वा आचान्तो ब्रह्मचर्यमित्यादि ब्रह्मचारी पठति गुरुपाठितः सन्निति तात्पर्यम् ॥
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करप्रण आयूंपि तारिषत् ॥ एषा व्याख्याता । ब्रह्मचर्यमित्यादि ब्रह्मचारी ब्रवीति । हे गुरो अहं ब्रह्मचर्यमागाम्, ब्रह्मणो वेदस्य चरणमागामागतः प्राप्तः ब्रह्मचर्य मया अवश्यकर्तव्यतया संकल्पितम् । अत उपनयख मां संस्कुर्वित्यर्थः । अध्येषणे लोट् । हे उपनेतस्तवाप्याचार्यकसिद्धिः फलं भवि- ष्यति मां संस्कुर्वत इत्यात्मनेपदेन बोधयति । आदित्यदर्शनस्तु व्याख्यातवान्- गुरुरिदमाह ब्रह्मा प्रजापतिस्तस्य चरणं ब्रह्मभावमहमा - गामागतः, अतो मामुपनयस्व ब्रह्मसमीपं प्रापय हे ब्रह्मचारिन्नित्यादि । एतत् विचिन्त्यम् । ओमिति ब्रह्मणोऽभिधानमोमिति ब्रह्म खं ब्रह्मेति श्रुतेः । भूरिति भूलोकस्था देवता अग्निरूपोच्यते । भुवरित्यन्तरिक्षदेवता पूर्व- वत्तात्स्थ्यात्, सच वायुः । स्वरिति स्वर्लोकस्था देवता आदित्यात्मिकोक्ता ॥ १४ ॥
इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बल- माभजन्ती सखा देवी सुभगा मेखलेयम् ॥ ऋतस्य गोप्त्री तपसस्तरुत्री घ्नती रक्षः सहमाना अरातिम् । सा नः समन्तमनुपरेहि भद्रया भर्तारस्ते मेखले मा रिषाम ॥ श्रद्धाया दुहिता तपसोऽधिजाता स्वसर्षीणां मन्त्रकृतां बभूव । सा मा मेखले परिरेरिहस्व मयि धेहि तप इन्द्रियं चेति वाचयन्मेखलामाबध्नीते ॥ १५ ॥
इयं दुरुक्तादित्यादिकास्त्रिष्टुभो वाचयन्नाचार्यो मेखलामानीते । ब्रह्मचारी वक्ति । गुरुर्वाच - यति । इयं मेखला दुरुक्तादुष्टादसत्यभाषणादि- कादुक्ताद्वचनात्परिबाधमाना वारयन्ती तस्यां बद्धायां वाक्पाणिपादचापलवारणान्नियमचो- दनाद्वर्णं ब्राह्मणादिजातित्रयं पुनती पावयन्ती अध्ययनादियोग्यतापादनद्वारेण, रूपादिकं वा वर्णं पुनती, स्वभावपवित्रं पावनयोग्यं वा । सा मे ममागादागता प्राणापानाभ्यां वलमाभजन्ती ददती स्वाध्यायादिद्वारेण । 'भओ आमर्दने' इत्यस्य, वर्णात्मकं रूपमाभजन्ती विनाशयन्ती तस्यां हि सत्यां अध्ययनं क्रियते । तच्च क्रिय- माणं प्राणापानौ निरुद्ध्य क्रियत इति प्राणा-
पानबलमपहतं तया भवति । सखा समान- ख्याना | देवी द्योतनादिगुणयुक्ता । सुभगा हृद्या नवकोमलमुञ्जसंगता । ऋतस्य सत्यस्य गोत्री पालयित्री तस्यां सत्यां यथेष्टवाचित्व- निवारणात्, ऋतस्य यज्ञस्य वा रक्षिका बद्ध- मेखलेन वेदतीर्थादिगमनात् । तपसो व्रतनिय- मसहितस्य वेदाध्ययनस्य तरुत्री तारयित्री पारं नयत्री । न्नती रक्षः, यातुधानान्नाशयन्ती वज्रो 'वै मेखलेति श्रुतेः । सहमाना अरातिं, शत्रुमदानं वा प्रसहमाना अभिभवन्ती कार्पण्यं शत्रूंश्च निवारयन्तीत्यर्थः । सा नोऽस्माकं समन्तं सम- न्तादनुपरेहि आगच्छ भद्रया वृत्त्या । हे मेखले तव भर्तारो धारयितारः सन्तो वयं मा रिषाम रिषिहिंसाकर्मा त्वां धारयतामस्माकं हिंसा मा भूत् । श्रद्धाया आस्तिक्यस्य दुहिता श्रद्धास्य माता । तपसोऽधिजाता, तपोऽस्याः पिता । मन्त्रकृतां सम्यग्ज्ञानविदामृषीणां स्वसा भ- गिनी बभूव भूता । हे मेखले सैवंभूता त्वं मां परिरेरिहव 'लिह आखादने' छान्दसो वर्णव्यत्ययः मां समाश्लिष्य, मयि तपो निय-मयुक्ताध्ययनं धेहि निधेहि, इन्द्रियं च मे इन्द्रियपटुपाटवं च देहि ॥ १५ ॥
मौञ्जीं त्रिवृतं ब्राह्मणाय प्रयच्छति मौर्वीं धनुर्ज्यां राजन्याय सौत्रीं वैश्याय ॥
मौऔं सप्तमुञ्ज निर्मिताम् । त्रिवृतं त्रिगुणवेष्टि- ताम् । त्रिवृद्वज्रः । त्रिवृन्नवकम् । तत्र त्रिवृता यूपं परिचीयादित्यादौ रज्जौ त्रिवृच्छन्दः । त्रिवृत्- स्तोम इत्यादौ त्रिवृच्छब्दो नवके । इहापि रज्जौ त्रिगुणायां त्रिवृच्छन्दः तथा सदाचारात् । तेन भ्रान्त्या केचिन्नवगुणां मेखलां व्याचक्षते । मुर्वो नाम तृणविशेषस्तस्य विकारो मौर्वी, तां धनुज्यां धनुषः प्रसार्यं गुणं राजन्याय प्रय- च्छति । सौत्रीं वैश्याय, सामान्याभिधानेऽपि स्मृत्यनुसारेण कर्पास सूत्रमयीम् । आदौ प्रय- च्छति, तत आबध्नीयादिति क्रमो बोद्धव्यः ॥
चित्तस्य समोऽसि दैव्यो ग्रन्थिरसि मा विस्रस इति ग्रन्थिं कृत्वा मित्रस्य चक्षुर्धरुणं बलाय तेजो यशस्वि स्थविरं समृद्धम् । अनाहनस्यं वसनं चरिष्णु परीदं वाज्यजिनं दधेयमिति वाचयन्नैणेयं चर्म ब्राह्मणाय प्रयच्छति वैयाघ्रं राजन्याय रौरवं वैश्याय ॥ १७ ॥
चित्तस्य समोऽसीत्यनेन मन्त्रेण मेखला- ग्रन्थि कृत्वा शिखावत् यथाकुलप्रसिद्धि
'त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ।' (मनु०२ ।४३) इत्यादिस्मरणात् मित्रस्येत्यादि वाचयन्नैणेयं कृष्णमृगस्य सम्बन्धि चर्म ब्राह्मणाय प्रयच्छत्यु- पनेता, राजन्याय व्याघ्रचर्म, रुरुचर्म वैश्याय । मेखला ग्रन्थौ चर्मदाने च त्रयाणां साधारणौ मन्त्रौ ॥
चित्तस्येति । हे ग्रन्थे त्वं चित्तस्य समश्चित्तेन तुल्यो यथा ब्रह्मचारिणश्चित्तं न चलति व्रताध्य- यनादिशुद्धं तिष्ठति, तथा त्वमपि न चलसि यावद्ब्रह्मचर्यमवस्थानात् । दैव्यो देवानां स- म्बन्धी त्वं ग्रन्थिरिति स्तुतिः, ततश्च मा विस्रसः मुक्तो मा भूः ॥
मित्रस्येति त्रिष्टुप् । ब्रह्मचारी ब्रूते । इदमजिनमहं परिदधेयं परिदधे । कीदृशम् । मित्र- स्याहिंस्त्रस्य हरिणस्य रुरोश्चक्षुर्दर्शनं प्रसिद्धम् । वैयाघ्रपक्षेऽपि व्याघ्रो मित्रमेव राज्ञोऽभिमतचर्म- दानाच्छौर्यस्मरणाच्च । धरुणं ब्रह्मचर्यादिकस्य धारणम् । बलाय ब्रह्मचर्यसामर्थ्यार्थं परिदधे तेजः ब्रह्मवर्चसस्य तेजसो निमित्तत्वात् । यशस्वि यशस्करम् । स्थविरं वृद्धमिव गौरवपात्रं स्थिरतरं वा । समृद्धं समृद्धिकारि । अनाहनस्यं आह- न्तीति आहनाः 'सर्वधातुभ्योऽसुन्' (उ० ६३८) इत्यसुन्, आहनसि साधु आहनस्यं तत्प्रति- षेधोऽनाहनस्यम् । वसनमाच्छादनम् । चरिष्णु गमनशीलं मृगावस्थायामभूत् । वाजि वाज- मन्नं तद्विद्यतेऽस्येति वाजि, तस्मिन्परिहिते ब्रह्मचर्यावस्थाय भक्त्यान्नं प्रयच्छन्तीति तस्या- न्नत्वमुपचर्यते ॥ १७ ॥
तच्चक्षुरित्यादित्यमुपस्थापयति ॥१८॥
तच्चक्षुरित्यादिना आदित्योपस्थानं कारयति ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥
तदेव चक्षुत्रैलोक्यस्य पुरस्तात्पूर्वस्यां दिश्युच्चरति उदेति । देवहितं देवैर्विहितं प्रेरितं निर्मितं वा देवेभ्य इन्द्रियेभ्यो वा हितम् । तत् शरदां शतं पश्येम पश्यन्तश्च वर्षशतं जी. वेमेति ब्रह्मचारी शंसत्युपतिष्ठमान आदित्यम् ॥
को नामासीत्युक्तेऽभिवादने प्रोक्तेऽसावहं भो इति प्रत्याह ॥ १९ ॥
गुरुराह को नामासीति । क इति प्रजापति- नाम । तथाच ब्राह्मणं 'को नामासीति प्रजापतिर्वै को नामेति । वेदग्रहणाभिमुखत्वात्प्रजापतिरिवासीति तिच्छलेन साक्षात् प्रश्नोऽयं प्रतिवचनवि- धानात् । गुरुणा पृष्टः शिष्योऽभिवादयते । स्व- नामोच्चारणेनासावित्युक्ते नाम प्रतीयात् वि- ष्णुमित्रोऽहमभिवादये भो इति ब्रह्मचारिणा- भिवादितो गुरुः प्रत्यभिवादनमाह तान्तं 'प्र- त्यभिवादेऽशूद्रे' ( ८२/८३ ) इति स्मृतेरायु- माधि सौम्य विष्णुमित्र ३ इति । स्मृतेरपि 'आयुष्मान्भव सौम्येति वक्तव्यो ऽन्त्याक्षरे प्लुतः ।' इति ॥ १९ ॥
देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसा उपनयेऽसौ ॥ २० ॥
आचार्यो ब्रह्मचारिणो दक्षिणं हस्तं दक्षि- न हस्तेन विवाहोक्तविधिना गृह्णाति देवस्य तइत्यादिना । हे ब्रह्मचारिन् विष्णुमित्र अह- माचार्यो हरिशर्माभिधानस्त्वामुपनये इति शिष्यं स्वनाम्ना संबोध्य स्वनामोच्चार्य गृही- तहस्तो गुरुर्ब्रवीति, एकोऽसाविति शब्दः शि- व्यबोधने, द्वितीय आचार्यनामोपलक्षणार्थः, ते तव हस्तं गृह्णामि । कीदृशस्य । देवस्य द्योतनादिधर्मकस्य, सवितुः पदार्थादिज्ञानस्य जनयितुः । किमर्थम् । प्रसवे प्रकृष्टज्ञानादि- जननाय । स्तुत्यर्थमाह - नैवं भ्रमणीयं- यदुत चर्ममयाभ्यामात्मीयाभ्यां बाहुभ्यां हस्ताभ्यां वा हस्तं गृह्णाम्यहमिति । किं तर्हि । अश्विनो- र्देवभिषजोर्बाहुभ्यां पूष्णश्च हस्ताभ्याम् ॥२०॥
सविता ते हस्तमग्रहीदग्निराचार्यस्तव ।
कस्त्वा कमुपनयेऽसौ काय त्वा परिददामि ॥ २१ ॥
गृहीतहस्त एवाचार्य आह । सविताभिम- तस्य जनयिता आदित्यस्ते तव हस्तमग्रहीत्, आत्मानमेव सवितृत्वेनोपचरति गुरुः । अग्निरा- चार्यस्तव, नाहम्, अहमेवाग्निस्तवाचार्यो वेदार्थ- ज्ञानतदनुष्ठानतपःप्रभृतिभिर्जाज्वल्यमानत्वात् कः प्रजापतिः सन्नहं गुरुरात्मरूपेण कं प्रजा- पतिमेव सन्तं त्वामहमुपनये असौ विष्णु- मित्रनामा | सर्वेषामेवान्तरमेकः । स एव च संस्थानैरौ पाधिकदोषनिवृत्त्या संस्क्रियते । काय प्रजापतये त्वामहं परिददामि परिरक्षार्थं ब्रह्मणे त्वां समर्पयामीत्यर्थः ॥ २१ ॥
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यस्मीति प्रत्याह ॥ २२ ॥
कस्य प्रजापतेर्ब्रह्मचार्यसीति भङ्गिप्रश्ने आ- चार्येण कृते सति शिष्यः प्रत्याह प्राणस्य ब्रह्मचारी अस्मि भवामीत्यभ्युपगमभङ्गेयैव प्रत्युत्तरम् । प्राणो हि प्रजापतिरेव जगत्सूत्र- भूतः । तथाच श्रुतिः
'हिरण्यगर्भः पुरुषो महांस्त्वं प्राणो जगत्सूत्रमनादि - रिन्द्रः । बोधः शुचिर्घर्मतरान्तरात्मा तथा विधाता जग- तोऽस्य देव ॥'
इति ॥ २२ ॥
प्रजापतये त्वा परिददामि । देवाय त्वा सवित्रे परिददामि बृहस्पतये त्वा परिददाम्यसौ । देव सवितरेष ते ब्रह्मचारी तं गोपायस्व दीर्घायुः स मा मृत ॥ २३ ॥
हे ब्रह्मचारिन् प्रजापतये परिरक्षार्थमहं त्वां ददामि देवाय सवित्रेऽन्तरात्मने बृहस्पतये वाग्वै बृहती, तस्याः पतिरात्मा तस्मै ददामीति समानम् । असाविति आचार्यनामप्रदर्शनार्थम् ।
हे देव स्वप्रकाशतया द्योतमान । हे सवितः अभिमतव्रतादिजनयितः एष ब्रह्मचारी ते तब सम्बन्धी, तं गोपायस्व पालय । दीर्घायुः सो- ऽस्तु मा मृत मरणं मा भूदस्य । प्रत्यक्षेऽपि
"
परोक्षनिर्देशो वैदिको व्यत्ययः ॥ २३ ॥
अग्निपुत्र वायुपुत्र सूर्यपुत्र विष्णुपुत्र ब्रह्मपुत्रैष ते ब्रह्मचारी तं गोपायस्व दीर्घायुः स मा मृत ॥ २४ ॥
अग्नेः पुत्रः ऋग्वेदः । वायोः पुत्रो यजु- र्वेदः । सूर्यस्य पुत्रः सामवेदः । हे ऋग्वेद यजुर्वेद सामवेद एष ब्रह्मचारी तुभ्यं परिरक्षार्थं दत्त इति ते तव प्रत्येकं सम्बन्धी, अतस्तं गोपा- यस्ख। तथाच ब्राह्मणमय्र्यादिपुत्रत्वमृग्वेदादीनां दर्शयति
'प्रजापतिर्वा एक आसीत्स तपोऽतप्यत ततस्तपस्तेपा- नेन त्रयो देवा असृजन्त अग्निर्वायुरादित्यस्ते तपोऽतप्यन्त तेभ्यस्तपस्तेपानेभ्यस्त्रयो वेदा असृजन्ताग्नेऋग्वेदो वायोर्य- जुर्वेद आदित्यात्सामवेदः'
इति । विष्णुपुत्रो ब्रह्मपुत्रश्चेति सम्भूतग्रामः । अथवा अग्नेः पुत्रो भूलोकः, अस्याधिष्ठात्री देवता अग्निः । एवं वायुपुत्रोऽन्तरिक्षलोकः, सूर्यपुत्रो द्युलोकः । यद्वा पुरु बहु त्रायते इति पुत्रः, अग्निश्चासौ पुत्रोऽग्निपुत्रः । एवमन्यत्रापि योजना ॥ २४ ॥
ब्रह्मचार्यसि। अपोऽशान । कर्म कुरु । दिवा मा स्वाप्सीः । वाचं यच्छ ॥२५॥
गुरुराह - हे ब्रह्मचारिन त्वं संप्रति यतो ब्रह्मचारी संपन्नोऽत एतानि पञ्च कर्तव्यानि बुद्ध्यख । अपोऽशान निमित्तोपनतावाचमना: दिकं कुरु । तथा गुरुपरिचर्या वेदाध्ययनादिकं कर्म कुरु । दिवास्वप्नं च वर्जय, मत्प्रसादेन शरीराद्यपाटवदशायामभ्युपगच्छ दिवाखाप- मिच्छायाः स्वतन्त्राया निषेधात् । वाक्संयमनं च कुरु अनृतपरुषभाषणादिकं मा कुर्वित्यर्थः ॥
बाढमित्यभ्युपगमः ॥ २६ ॥
मेधां मह्यमङ्गिरसो मेधां सप्तर्षयो ददुः । मेधामग्निश्च वायुश्व मेधां धाता ददातु मे ॥ मेधां मे वरुणो राजा मेधामग्निर्ददातु मे । मेधामिन्द्रश्च सूर्यश्व मेधां देवी सरस्वती ॥ या मेधा अप्सरस्सु गन्धर्वेषु च यन्मनः । दैवी मनुष्ये या मेधा सा मामाविशतादिह ॥ शरीरं मे विचक्षणं वाङ्मे मधुमद्दुहे । निशामितं निशामये मयि श्रुतम् ॥ यन्मेऽनूक्तं तद्रमतां शकेयं यदनुब्रुवे । प्रियाः श्रुतस्य भूयास्म मेधया संविधीमहि ॥ अवृधमहमवृधस्त्वमसौ सौम्य प्राणस्त्वं मे गोपाय ब्रह्मण आणी स्थ श्रुतं मे मा प्रहासीदिति वाचयति ॥ २७ ॥
मेधां मह्यमित्यादिकाः पञ्च ऋचः, षष्ठं यजुः शिष्यों वक्ति, गुरुवचयति । कुशाग्रीया बुद्धि- र्मेधा । तामङ्गिरसो वायवः प्राणापानसमान- व्यानोदानाः ददुर्ददतु माम् । अङ्गानि रस- यन्तीत्यङ्गिरसः आन्तरा वायवस्तथा सप्तर्षयों वसिष्ठाद्या मह्यं मेधां ददतु । एतत्समान- मृग्द्वये । अप्सरस्सु या मेधा, यच्च गन्धर्वेषु मनोऽन्तःकरणं, याच देवी वेदार्थादिसाक्षात्का- रिणी, मनुष्येषु मेधा स्थिता इहलोके, सा
सर्वा मामाविशतु प्रविशतु । मम शरीरं विचक्षणं पण्डितमस्तु अधिष्ठातृद्वारेण । वाक् च वेदादिरूपा मधुमत् मधुरफलं दुहे दुग्धाम् । यच्च मयि श्रुतं स्थितं निशामितं, तन्निशामये चिन्तयेयं सम्यकू । यच्च ममानूक्तं गुरुणोक्तं, तद्रमताम्। यच्चानुब्रुवे गुरूक्तमनुवदामि, तच्छ- केयं शक्नुयाम् । वयं च श्रुतस्य प्रिया भूयास्म श्रुतमस्माकं पर्यवसितमस्तु । मेधया संविधी- महि संबयेमहि । आत्मानमुद्दिश्य यजुषा शिष्य इदमाह - हे अन्तरात्मन् प्राणादिक असौ विष्णुमित्रोऽहमवृषं वर्धिष्ये । त्वमपि चावृधः असौ प्राणादिकः, तस्यापि हि वेदाध्ययनादि- नातिशयो भविष्यति । हे सौम्य प्राणस्त्वं जगत्सूत्रमतो मे मां गोपाय । त्वं ब्रह्मण आणी सारं स्थ भवसि । श्रुतं मे मा प्रहासीत् श्रुतं मे मा त्याक्षीत् मम संबन्धि यच्छ्रुतं तन्मां मा त्याक्षीदित्यर्थः । अत्र चतुर्थी उ- ष्णिक् । शिष्टा अनुष्टुभः । अवृधमहमित्यादि षष्ठं यजुः ॥ २७ ॥
एताभिरेव चतसृभिरनुप्रवचनीयाञ्जुहुयाद्यजुषोत्तमाम् ॥ २८ ॥
अनुप्रवचनं प्रयोजनं येषां तेऽनुप्रवचनीया होमा इत्यन्वर्था संज्ञा । अनु उत्तरकालं हि सा- वित्र्याः प्रवचनं कारयिष्यते गुरुणा । अथवा- नुप्रवचनमर्हन्तीत्यनुप्रवचनीयाः । अत्र हि मनानुपाध्यायो वक्ति, शिष्योऽनुप्रवक्ति । अनु- प्रवचनीयसंज्ञकान् होमानेताभिरेव प्रकृता- भिश्चतसृभिर्ऋग्भिः कपिञ्जलाधिकरणन्यायेन मेधां मह्यमित्याद्याभिर्जुहुयात् । तेन चत्वारो होमाः । पञ्चममाह यजुषोत्तमाम्, अवृधमि. त्यादिना यजुषोत्तमामाहुतिं पञ्चमीं जुहुयादिति केचित् । अन्ये त्वाहुः - अत्र पक्षे पञ्चम्या ऋचो विनियोगाभावः प्राप्नोति । उत्तमामिति स्त्री- लिङ्गनिर्देशो न युज्यते प्रकृतस्यानुप्रवचनी- यस्य पुंस्त्वात्, तदपेक्षयोत्तममिति प्रसङ्गात् । नचाहुतिशब्दः प्रकृतोऽस्ति । तस्मादुत्तमामृचं यजुषा सह संयोज्य पञ्चममनुप्रवचनीयं जु- हुयादित्यर्थः ॥ २८ ॥
षष्ठमनुप्रवचनीय होममाह
छन्दोभ्यः स्वाहेति क्रतुनामधेयेन च यथोपाचरितः क्रतुर्भवत्येवं सर्वाणि वेदोक्तानि ॥ २९ ॥
ऋतुरिह कर्म । कर्मनामधेयेन च जुहुयात् । एष सप्तमोऽनुप्रवचनीयहोमः । कथं ऋतुनामधेयेन होतव्यम् । यथोपाचरितः क्रतुर्भवति, येन प्रका- रेण प्रकृतं कर्मोपाचरितमिष्टं भवति, तथा होतव्यम् । चतुर्थीयोगेन खाहाकारेण चाभि- धानशक्ति योगिना च कर्मनामधेयेन उपाय- नाय स्वाहेत्युपनयनाय स्वाहेति वा । एवं सर्वाणि वेदोक्तानि अनेनैव प्रकारेण सर्वाणि वेदोक्तानि कर्माणि खनामधेयेन छन्दोभ्यः स्वाहेति हुवा होतव्यानि त्रैविद्यकाय स्वाहे - त्यादिप्रकारेण ॥ २९ ॥
पश्चादग्नेर्दर्भेषु प्राङासीनः प्रत्यङ्ङासीनाय तत्सवितुरिति सावित्रीं त्रिरन्वाह पच्छोऽर्धर्चशः सर्वामन्ततो यश्च मेधाकामः स्यात् ॥ ३० ॥
पश्चादग्नेर्दर्भेषूपविष्टः प्राङ्मुखो गुरुः प्रत्य-ड्युखासीनायाचार्यसंमुखोपविष्टाय शिष्याय सावित्रीं सवितृदेवतां तत्सवितुरित्यादिकां गायत्री त्रीन् वारानन्वाह । ब्राह्मणायेति ज्ञेयम् । उपलक्षणमेतद्राजन्यवैश्ययोर्हि सावित्र्यावन्ये स्मृतिसदाचाराभ्यां बोद्धव्येऽदब्धेभिः सवित- रिति राजन्याय, विश्वा रूपाणीति वैश्याय । कथमन्वाह । पच्छः पादं पादं पच्छः प्रथमो - चारणे पादशोऽनुब्रूयात् । द्वितीयोच्चारणे अर्ध- चशः ऋचो ऽर्धमर्धर्चमर्धर्चमर्धर्चमर्धर्चशः । अ- न्तेऽन्ततः सर्वाम्, तृतीयोच्चारणे यथाशक्त्यनु- सारं वा सर्वामृचमनुब्रूयात् । यश्च मेधां शि- व्यस्य कामयते, सोपि पच्छोऽर्धर्चशः सर्वाम- न्ततोऽनुब्रूयात् । तत्सवितुरिति व्याख्यातेयम् ॥
अदब्धेभिः सविता पायुभिष्टुं शिवेभिरद्य परिपाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्ष मा किर्नो अघ- शंस ईशत || विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽप्रयाण- सो विराजति ॥
एते यथासंख्यं राजन्यवैश्ययोरनुब्रूयात् । हे सवितरादित्य अद्यास्मिन्नहनि नोऽस्माकं गयं गृहं पाहि रक्ष पायुभिः पालकैः रश्मिभि रदब्धेभिरनुपहिंसितैः, शिवेभिः सुखकारिभिः । यतस्त्वं हिरण्यजिह्वः दीप्रकिरणः । सुविताय हविरादिदा नव्यसे स्तोत्रादिकर्त्रे नौरिवाच- रसि तारयिष्यसि आपत्समुद्रादिति वा । अतो- ऽस्मान् रक्ष । मा किः कश्चिन्नोऽस्मानघं पापं शंसति यः, स चौरादिः ईशत प्रभूत् ॥
सविता विश्वा रूपाणि सर्वान्भावान् प्रतिमुञ्चते प्रकाशयति, कविर्मेधावी क्रान्त- दर्शनः । प्रासावीत् प्रसूते जनयति भद्रं सुखं द्विपदे चतुष्पदे च । नाकं स्वर्गं व्याख्यातं व्यख्यत् प्रकाशयति । वरेण्यो वरणीयः प्रार्थ- नीयः । उषसो रात्रीणां प्रयाणमनु लक्षणीकृत्य हीनीकृत्य वा विराजति रात्रितमसोऽपहतत्वात् प्रकाशते ॥ ३० ॥
पालाशमेकसरं नवनीतेनाभ्यज्य तस्य च्छायायां वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवा अस्येवं मा सुश्रवः सौश्रवसं कुरु । यथा त्वं सुश्रवो देवानां वेदस्य निधिगोपोऽस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगोपो भूयासमिति ॥३१॥
पलाशस्यायं पालाशो दण्डः । तमेकसरमवा- न्तरशाखारहितमृजुं सत्वचमत्रणं नवनीतेना- भ्यज्य स्वहस्तेन गृहीत्वा गुरुस्तस्य दण्डस्य सम्बन्धिन्यां छायायां शिष्यं व्यवस्थाप्य सुश्रव इत्यादि पाठयति ॥
पालाश उच्यते - हे सुश्रवः सुश्रवा असि शोभनं श्रवणं यस्य स सुश्रवाः । तस्मिन्हि कर्माङ्ग- त्वेनोपादीयमाने दुष्टस्या कीर्त्यात्मकस्य शब्दस्य श्रवणं न भवति । अनुवादमाह 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' । ब्राह्म- णमपि ।
श्रवा
'देवा वै ब्रह्मन्समवदन्त ततस्तद्ब्रह्म पर्ण उपाशृणोत्सु- वै नाम एष' इति, ब्रह्मणि वेदे देवा अवदन्त ततस्तद्ब्रह्म पर्णे पलाशे समाश्रितं पलाशमाश्रितमित्यर्थः । अत एव पलाशः सुश्रवा इति नाम्ना प्रसिद्ध इति ब्राह्मणतात्पर्यम् । हे सुश्रवः सौश्रवसं कुरु सुभवा एव सौश्रवसस्तं सौश्रवसम् । यथां त्वं सुश्रवो देवानां विवदमानानां वेदस्य नि- धिगोपः वेदानां निधेः समूहस्य रक्षकोऽसि भवसि, एवमहं ब्राह्मणानां सम्बन्धिनो ब्रह्मणो वेदस्य निधिगोपो भूयासम् ॥ ३१ ॥
पालाशं दण्डं ब्राह्मणाय प्रयच्छति ॥ ३२ ॥
एवं प्रकृतं दण्डं पालाशं ब्राह्मणाय ब्रह्म- चारिणेऽनुवचनान्ते प्रयच्छत्याचार्यः ॥ ३२ ॥
आश्वत्थं राजन्याय ॥ ३३ ॥
अश्वत्थो वटः ॥ ३३ ॥
नैयग्रोधं वैश्याय ॥ ३४ ॥
वैश्याय न्यग्रोधसम्बन्धिनं प्रयच्छति दण्डम् ॥ ३४ ॥
तच्छायायां पूर्वतन्त्रस्यानुवचनं कारयित्वा, दण्डं दत्त्वा किं कारयत्याचार्य इत्याह
स्मृतं च म इति वाचयति । स्मृतं च मेऽस्मृतं च मे तन्म उभयव्रतम् । निन्दा च मेऽनिन्दा च मे तन्म उभयव्रतम् । विद्या च मेऽविद्या च मे तन्म उभयव्रतम् । श्रद्धा च मेऽश्रद्धा च मे तन्म उभयव्रतम् । सत्यं च मेऽनृतं च मे तन्म उभयव्रतम् । मृतं च मेऽमृतं च मे तन्म उभयव्रतम् । श्रुतं च मेऽश्रुतं च मे तन्म उभयव्रतम् । व्रतं च मेऽव्रतं च मे तन्म उभयव्रतम् ॥ यद्ब्राह्मणस्य ब्रह्मणि व्रतं यदग्नेः सेन्द्रस्य सप्रजापतिकस्य सर्षिकस्य सपितृकस्य समनुष्यस्य समनुष्यराजन्यस्य सगन्धर्वाप्सरोजनस्कस्य ससर्पेतरजनस्कस्य सौषधिवनस्पतिकस्य सह ग्राम्यैश्च पशुभिरारण्यैश्च साकाशस्य सप्रकाशस्य सातीकाशस्य सानूकाशस्य सह यन्म आत्मन आत्मनि व्रतं तन्मे सर्वव्रतम् ॥ ३५ ॥
यन्मन्वादिभिः स्मृतं यच्चास्मृतमनुष्ठेयत्वेन वर्जनीयत्वेन च यथासंख्यं व्रतमवश्यं पालनी- यम् । एवं निन्दा च मेऽनिन्दा च मे इति निन्दितं वर्जनीयमनिन्दितमुपादेयम् । अथवा परनिन्दा वर्जनीया, अनिन्दा च प्रशंसावसरे
कर्तव्या परोपकारपर्यवसायिनी । एवं विद्या- विद्ये ज्ञातव्ये हानोपादानार्थम् । श्रद्धा आ- स्तिक्यं, नास्तिक्यमश्रद्धा । तथा सत्यानृते । अमृतममरणकारि ज्ञानकर्मसमुच्चयानुज्ञानात् ज्ञेयं मम व्रतम् । मृतं मरणकारि काम्यं संसार- कारणं, तदपि हानाय परपुरुषार्थार्थिना ज्ञेयं, स्वर्गाद्यर्थना तूपादानाय । श्रुतं मीमांसादिश्र- वणम्, अश्रुतं कुत्सितश्रुतं लोकायतादिशास्त्रा- भासविषयम् । व्रतं सद्व्रतम्, अव्रतं व्रताभासः कर्तव्याभास इत्यर्थः । यत् ब्राह्मणस्य ब्रह्मणि वेदे व्रतमध्ययनाद्यर्थं तत् ममावश्यकर्तव्यं ज्ञानपूर्वम् । अग्नेः प्रजापत्यादिसहितस्य यद्वतं कर्म, तत् मया ज्ञेयमनुष्ठेयं च क्रमेण । सर्वत्र गुरो अनुग्रहं कुर्विति प्रतीयमानम् । जनस्क- स्येति सकारागमश्छान्दसः ॥ ३५ ॥
इदमहमग्नौ समिधमभ्यादधाम्यग्ने सर्वव्रतो भवाम्यधीते हैतेषां वेदानामेकं द्वौ द्वौ त्रीन्सर्वान्वा यमेवं विद्वानुपनयत इति श्रुतिः ॥ ३६ ॥
का मन्त्रलिङ्गादिदमहमित्यनेन समिधमग्नौ प्र- क्षिपति । इदमिति लिङ्गव्यत्ययः । इमां समिध- महमग्नावादधामि । अभिराभ्यमुख्यार्थः । हे अग्ने त्वत्प्रसादात् सर्वव्रतो भवामि भूयासम् । अ- धीते हेत्यादिकमुपनेतृस्तुत्यर्थम् । य एव विद्वान् मन्त्रब्राह्मणज्ञः सन्नुपनयते स एवोपनेतृत्वे- ऽधिकृतो, नान्यः । स हि यमुपनयते स एतेषां प्रसिद्धानां वेदानामनन्तशाखायुक्तानां मध्ये यथेच्छमेकं द्वौ वा त्रीन्वाधीते सर्वान् सर्वशा- खाखचितान् । हशब्द इतिहासे । अतोऽनेन संस्तुतत्वाच्छ्रतमुपनयनं, न संस्कारान्तरवत् स्मार्तमत एवोपनयनासमर्था अप्यवश्यं कुर्व- न्तीति केचित् । तदसत्, स्मार्तस्याप्यनुमित- श्रुतिमूलत्वात् । अप्रत्यक्षं तत्र विधिरिति चेत्; अर्थवादेऽपि समानता । यदपि भणति मन्त्र- गतो न विधायक आख्यातशब्द इति कृत्वा नेदमहमित्यनेन समित्प्रक्षेपः कर्तव्य इति, त- दप्यमीमांसकभणितमाख्यातस्याविधायकत्वे- ऽपि लिङ्गात्प्रक्षेपसिद्धेः ॥ ३६ ॥
कर्त्रे वरं ददाति ॥ ३७ ॥
उपनेत्रे दक्षिणां ददाति ब्रह्मचारिणः स्वामी पिता, तदभावे ज्येष्ठभ्रात्रादिः ॥ ३७ ॥
अहःशेषं स्थापयेत् ॥३८॥
नोपवेशयेत्, नापि संचारयेत् ॥ ३८ ॥
व्याख्यातं ब्रह्मचर्यम् ॥ ३९ ॥
ब्रह्मचर्यमुपक्रम एव 'उपनयनप्रभृति व्रत- चारी स्यात्' इत्यादिनोक्तमतो न भूय उच्यते ॥
इत्युपनयनम् ॥
इत्येकचत्वारिंशी काण्डिका ॥ ४१ ॥

 
अथ
द्वाचत्वारिंशी काण्डिका ।

त्रैविद्यकम् ॥ १ ॥
तिसृषु विद्यासु वेदत्रयात्मिकासु भवं ग्रहणं प्रयोजनं वा व्रतं त्रैविद्यकम् । वक्ष्याम इति शेषः ॥ १ ॥
यं प्रति कथ्यते, सोऽप्रबुद्धो ब्रह्मचारी । तेन व्यर्थ उपदेश इत्याशङ्कयाह
आचार्यस्य विधिः ॥ २ ॥
आचार्येणानुष्ठातव्य इत्यर्थः ॥ २ ॥
यो वेदमधीते पुरस्ताच्चोपरिष्टाचांहोमुग्भिः समिधोऽभ्यादध्यात् ॥ ३ ॥
अध्ययनस्यारम्भे समाप्तौ चांहोमुग्भिस्तिस्रः समिधोऽग्नावभ्यादध्यात् स्वाहाकारमात्रशून्यं प्रक्षेपमात्रं कुर्यादित्यर्थः, अन्यथा जुहुयादिति ब्रूयात् । अंहसः पापाद्विमोचयन्ती त्यंहोमुचो मन्त्राः । ते पुनः
यद्देवा देवहेळनं देवासश्चक्रमा वयम् । अग्निर्मा तस्मादेनसो विश्वान्मुश्चत्वंहसः ॥
यदि दिवा यदि नक्तमेनांसि चक्रमा वयम् । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः ॥ यदि जाग्रद्यदि स्वम एनांसि चकुमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः ॥ देवा एव देवासः 'आजसेरसुक्' हे देवा देवासोऽतिशयार्थं पुनः सम्बोधनम्, यद्वयं देवळनं चक्रमा 'हेड अनादरे' अनादरेणाव- लेपेन यद्देवानां पापं कृतवन्तो वयम् तस्मा- देनसोऽहसः पापात् विश्वात् समस्तादग्निर्मां विमुञ्चतु । अंहस एनस इति दुःखपीडितस्य पुनर्वचनम् । एनःशब्दो वा पापकृते दुःखा- तिशये वर्तते । अनेनैव द्वितीयतृतीयौ गतार्थो । दिवानक्तंशब्दाभ्यां मध्यवर्तिन्यौ सन्ध्ये अपि संगृहीते ॥ ३ ॥
उक्तं व्रतोपायनविमोचनम् ॥ ४ ॥
व्रतस्योपायनं ग्रहणं, विमोचनं च परित्या- गः । तद्वयमपि दर्शपूर्णमासयोरुक्तम् । तथाच तत्रत्यं सूत्रं ' पाणी प्रक्षाल्य दक्षिणतोऽग्नेस्ति- ष्ठन् ब्रूयादने व्रतपते वायो व्रतपते सूर्य व्रतपते' इति ॥
अमे व्रतपते व्रतमाल मे तत्ते प्रत्रवीमि तच्छकेयं तेनर्ध्यासम् । बायो व्रतपते ० । सूर्य व्रतपते । अग्ने व्रतपते व्रतमचारिपं तदशकं तत्ते प्रब्रूमस्तन्नो गोपाय । वायो व्रत० । सूर्य व्रत० ॥
अमी षट् कृच्छ्रविधौ व्याख्याताः । इह च व्रतग्रहणे मोचने च समानाः कर्तव्याः । इयांस्तु विशेषः - विमोचने दण्डमग्नौ प्रास्ये - दप्सु मेखलां वासश्च हुतसमाप्तिं यावत् । तत एव दण्डादयो मत्रावृत्तिभाजः । तथाच मनुः 'यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तत्सर्वं व्रतेष्वपि ॥' (२।१७४)
इति ॥ ४ ॥
इति त्रैविद्यकमपवर्गसहितम् ॥
इति द्वाचत्वारिंशी काण्डिका ॥ ४२ ॥

 

अथ
त्रयश्चत्वारिंशी काण्डिका ।

अथातश्चातुर्हौतृकं ब्रह्मचारिकल्पेन व्रतमुपैति ॥ १ ॥
चित्तिः स्रुमित्यादयो मन्त्राश्चतुर्होतार उ- च्यन्ते तेषु भवं चातुर्होतृकं व्रतं ब्रह्मचारिक- ल्पेन ब्रह्मचारिधर्मोपदेशिना वेदभागेन चोदि- तमुपेयात् ॥ १ ॥
संवत्सरमष्टौ मासांश्चतुरो मासान्वा ॥२॥
संवत्सरमेतद्वतमुपेयादिति मुख्यः कल्पः । अष्टौ चतुरो मासान्वेत्यनुकल्पः ॥ २ ॥ शुद्धपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पूर्वेणाग्निं दर्भस्तम्भं निहत्यं ब्राह्मणं दक्षिणत उपवेश्य हिरण्यवर्णा इति चतसृभिः समिधोऽभ्यादध्यात् ॥ ३ ॥
अग्नेर्यः पूर्वदेशस्तत्र दर्भस्तम्भं निहत्याधी-
तवेदमन्यं ब्रह्मचारिणमग्नेर्दक्षिणभागे उपवेश्य अग्नेः पश्चार्धे अवस्थितः सन् 'हिरण्यवर्णा' इत्यादिभिश्चतसृभिश्चतस्रः समिधोऽग्नौ पूर्वव- दभ्यादध्यात् । 'हिरण्यवर्णा' इत्यादयश्चतस्रः संमार्जने व्याख्याताः ॥ ३ ॥
नित्यव्रतोपायने ब्राह्मणा व्रतपतय इति चतुर्थम् ॥ ४ ॥
यदेतत्प्रस्तुतं ब्रह्मचारिणो नित्यमवश्यक- र्तव्यं व्रतग्रहणं, तत्र 'ब्राह्मणा व्रतपतयो व्रत- मालभे तद्वः प्रब्रवीमि तच्छकेयं तेनर्थ्यासम् इति मत्रं चतुर्थं कुर्यात् । त्रयस्तु पूर्वं व्या- ख्याता अत्रापि स्थिता अग्ने व्रतपते वायो व्रतपते. सूर्य व्रतपते० इति ॥ ४ ॥
अथ व्रतहोमान् ॥ ५ ॥
वक्ष्याम इति शेषः ॥ ५ ॥
चतुर्गृहीतैश्चतुर्होतृभिराज्येन तेजस्कामो यावकेन पशुकामोऽन्नाद्येन वीर्यकामः पयसि स्थालीपाकं श्रपयित्वा
ब्रह्मवर्चसकामो मनसैकैकं हुतमनुमन्त्रयते यद्वेदव्रतं तदत्र व्रतम् ॥ ६ ॥
सप्त चतुर्होतारोऽत्र मन्त्राः । श्रपयित्वेत्येत- दन्तं स्पष्टम् । एकैकं चतुर्होतारं हुतं मन्त्रं म- नसानुमन्त्रयते मन्त्रागममनुसन्दधीत मन्त्रद्वारे- णेत्यर्थः । यद्वेदविहितं व्रतं, तत् परिपूर्णमस्त्वत्र मम व्रतमिति वाचयेत् ॥ ६ ॥
विकाराननुक्रमिष्यामो न चतुर्भिः सहासीत न चतुर्णां समक्षं भुञ्जीत न चतुर्भिः सह भुञ्जीतैकतमो वा ॥ ७ ॥
एवमपवर्गे ॥ ८ ॥
अपवर्गः समाप्तिर्व्रतस्य, तत्र ॥ ८ ॥
वास आचार्याय ददाति वरं दक्षिणत आसीनाय ॥ ९ ॥
वस्त्रं दक्षिणामाचार्याय दक्षिणत उपविष्टाय
दद्यात् ॥ ९ ॥
चतुर्होतृमन्त्रान् व्याख्यास्यामः
भक्त्या ब्रह्म विवर्त वा परिणाममुपाश्रितान् । आध्यात्मिकैकरूपार्थांश्चतुर्होतृन्नमाम्यहम् ॥
[]चित्तिः स्रुक् चित्तमाज्यं वाग्वेदिराधीतं बर्हिः केतो अग्निर्विज्ञातमग्निद्वाचस्पतिर्होता मन उपवक्ता प्राणो हविः सामाध्वर्युरिन्द्रं गच्छ स्वाहा ॥
चतुर्होतॄणामार्षम् । इन्द्रो देवता । 'हु दानादनयोः' जुह्वति ददतीति होतारः । चतुर्णां धर्मार्थकाममोक्षाणां दातारश्चतुर्होतारः प्रद्युम्नानिरुद्धवासुदेवसङ्कर्षणाः प्रथमब्रह्म विवर्ताः । तथा च ब्राह्मणं 'ब्रह्म वै चतुर्होतारः' इति, प्रजापतिरकामयत बहु स्यामित्यादि च । एवं च परमात्मैव यज्ञरूपः स्तूयते । यज्ञो वै प्रजापति- रिति, विष्णुर्यज्ञ इत्यादिरपि श्रुतिः । अतोऽध्या- त्मयज्ञस्वरूपं रूपकेणाह - चेतनं चित्तिर्ज्ञानं स्रुक् । चित्तं मनः स्वान्तमन्तःकरणं चेतो मा- नसमिति पर्यायः, चित्तमाज्यं, यथाहि सुचा आज्यं प्रक्षिप्यतेऽग्नौ तथा विवेकज्ञानेन मनः परमानन्दध्यानवह्नौ प्रक्षिप्यते । यथाहि क्षिप्त- माज्यं दह्यते, तद्वन्मनोऽप्यध्यात्मध्याने प्रक्षिप्तं सत् स्वयं विलीयते सर्वाविद्या भेदान्तराणि च विलापयति कतकफलरजोवत् । वाग्वेदिर्यज्ञा- श्रयत्वात् । यथाहि वेदिमाश्रित्य यज्ञपात्राणि
स्रुगादीनि निजकार्येषु व्याप्रियन्ते, तद्वद्वैदिकीं वाचमुपनिषद्रूपामाश्रित्य मनःप्रभृति अध्या- ज्ञानं निजकार्यं जनयति | आधीतं बर्हिः, आध्यानमाधीतिः चित्तध्यातॄणां तत् बर्हिस्तदाश्रितत्वाच्चित्तिस्रुगादीनां 'प्रस्तरे जुहूं साधयति सर्वाश्च खुचः' इति श्रुतेः । केतो अग्निः 'चिती संज्ञाने' असुन्, छान्दसो वर्ण- व्यत्ययः, केतः प्रज्ञाविशेषः, स एवाग्निस्तेनैव योगयोगाङ्गादिसमिधां सन्दीपनात् । विज्ञा- तमग्नित्, विशिष्टं ज्ञानं वेदार्थग्राहि, अग्नित् छान्दसो हख:, यथाहि ऋत्विग्विशेषेणैध साग्निः सन्दीप्यते, तथा वेदार्थज्ञानेनोत्तरोत्तरमध्यात्म- चित्ताग्निः । वाचस्पतिर्होता, वाचस्पतिरन्तरा- त्मा, स होता चित्तिनुगादिप्रेरणात्, अथवा आहाता मनःप्रभृतीनामृत्विजां प्रेषयिताध्व- र्युः । मन उपवक्ता, मन्यतेऽनुमन्यते इति मनो- ऽन्तर्यामी, स उपवक्ता ब्रह्मा । स हि यत् जीवा- त्मा जानाति करोति वा, तत् सर्वमनुवदत्यनु- पश्यतीत्यादिरूपेण अनुमन्यते । प्राणो हविः, स हि परमात्माग्नौ हूयते निरुद्ध्योत्कान्तिकाले
ब्रह्मद्वारेण परब्रह्मणि प्रक्षिप्यते । सामाध्वर्युः, सामशब्दो व्यानवचनः, यथाहि अध्वर्युः सर्वर्त्विजो निजनिजकर्मसु प्रैषैर्नियच्छति, तथा व्यानाख्यो वायुर्नाभेरुपरि दशस्वङ्गुलेषु पुरुष- स्थाने स्थितः प्राणापानौ स्वमर्यादायां स्थाप- यति परस्परविरुद्धगती । एतच्च योगसारे निर्णीतमस्माभिः । यदेव पुरुषस्य स्थानं, तदेव व्यानस्य प्राणापानयोर्नियन्तुः । यदा होतृपदेन आह्वाता अध्वर्युरुच्यते, तदा भूतयज्ञादध्यात्मयज्ञस्य वैलक्षण्यप्रतीतिः प्रयोजनमध्वर्युद्वयप्रदर्शनस्य । इत्थं प्रजापतिना इन्द्रादिशब्दवाच्येन प्रद्युम्नाद्यवस्थाचतुष्टयविवर्तेन चतुर्होत्रा च दशविधमात्मानं कृत्वा परमात्मनि समर्पणं कृतम् । तदाह-इन्द्रं गच्छ स्वाहा, हे प्राण इन्द्रं परमात्मानं गच्छ, सुहुतमस्तु स्वाहूतं वा । आह्वानस्य च शोभन- त्वमनुष्ठापनपर्यवसानम् । एवमस्मदादयोऽपि ब्रह्मविवर्ता ब्रह्मपरिणामा वा संसारनिवृत्ति- कामा अनुतिष्ठन्ति, कर्मकाण्डस्यापि च अद्वैत- प्राप्तौ पर्यवसानमित्युक्तमस्माभिः सांख्यसा-
रशारीरकयोः । एवं तावदेकश्चतुर्होता व्या- ख्यातः ॥ अथ द्वितीयः
पृथिवी होता द्यौरध्वर्युस्त्वष्टाग्निन्मित्र उपवक्ता वाच- स्पते वाचो वीर्येण सम्भृततमेनायक्ष्यसे यज्ञपतये वार्यमा स्वस्करो वाचस्पतिः सोमं पिबतु जजनदिन्द्रमिन्द्रियाय स्वाहा ॥
अनेन प्रजापतिरूपयज्ञस्याधिदैविकानि यज्ञ- साधनान्युच्यन्ते । पृथिवी होता, सा हि आधि- भौतिकयज्ञप्रजापतेरन्नादिहविर्दानेनाप्यायनं करोति । द्यौरध्वर्युः वृष्ट्यादिप्रेषणात् । त्वष्टा आदित्यः अग्नित् पक्तृत्वात् । मित्रो ह उपवक्ता ब्रह्मा त्रय्यर्थबोधेनैव निर्मलेनालंकृतत्वात् । हे वाचस्पते प्रजापते चतुर्होतृरूप वाचो मन्त्रब्राह्म- णात्मिकाया वीर्येण अर्थतत्त्वावबोधबलेन अ- तिशयसम्भृतेन मया त्वमायक्ष्यसे पूजयिष्यसे । स त्वमिष्टः सन् यज्ञपतये यजमानार्थं स्वः स्वर्ग- माकरः आभिमुख्येन कुरु । कीदृशं स्वर्गम् । वार्यं वरणार्हम् । वाचस्पतिः प्रजापतिः सोमं पिवतु सोमशब्देन हविर्मात्रमत्र लक्ष्यते, पिबतिना च उपयोगः । जजनदिन्द्रम्, अनेन चातुर्हौतृकेण
कर्मणा प्रजापतिर्जनितवानिन्द्रमिन्द्रविवर्तम् ।
तथाच श्रुतिः
'ते चातुर्होत्राः सोमं गृहपतये न्यषीदन्निन्द्रं जनयाम ' इति ते पृथिव्यादयः सोमं गृहपतिं कृत्वा च- तुर्होत्रा मन्त्रेण निषण्णा वेद्यामिन्द्रं जनया- मेति । इन्द्रियायेति व्रतवीर्यसम्पत्यर्थमित्यर्थः । स्वाहेति व्याख्यातम् ॥ अथ तृतीयः
किमर्थं चतुर्होता
सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः
श्रातास्त इन्द्र सोमा वातापे हवनश्रुतः स्वाहा ॥
सोमो लतारूपः सोमस्य चन्द्रस्य पुरोगाः अग्रेसरः । शुक्रः प्रदर्श्यः सोमो वा शुक्रः शुक्रस्य ग्रहस्यासुरगुरोर्वा पुरोगाः । सोमाः श्राताः पक्वाः आश्रिता वा । सोमशब्दो हविर्मात्र उप- चारात् । उपचारनिमित्तं तु व्रतसम्पत्तौ क्रमेण सोमयागयोग्यतापत्तिः । हे वातापे वाताहार हवनश्रुतः आह्वानस्य श्रोतुस्तव सुहुतं स्वाहूतं वा अस्तु । बहुकर्मविनियोगभाजोऽमी चतुर्होतारो यथायोग्यं बह्वर्थयुजो योज्याः ॥
अग्निर्होताश्विनाध्वर्यू रुद्रोऽग्निद्बृहस्पतिरुपवक्ता वाचस्पते -हृद्विधे नामन्वाचस्पतिः सोममपादास्मासु नृम्णं धाः स्वाहा ॥
अयं पञ्चहोता 'ते पाञ्चहोत्रा वरुणबृहस्पतयो न्यषीदन्निन्द्रं जनयाम' इति ह्यस्य ब्राह्म- णम् । अत्र चाधिदैविकेनाधियज्ञियानामेकत्व - मुच्यते मन्त्रे । अग्निर्होता तथा च श्रुतिः 'अ- ग्निर्वै देवानां होता' इति, मन्त्रलिङ्गमपि 'अग्नि- मीळे पुरोहितम्' इति । अश्विनौ देवभिषजौ अध्वर्यू अध्वर्युप्रतिप्रस्थातारौ । रुद्रोऽग्नित्, अ-ग्नीध्रो रुद्रः । बृहस्पतिरुपवक्ता । हे वाचस्पते हृद्विधे नामन्, हृदि विधिर्हृद्विधिरन्तर्यामी, तस्य सम्बोधनं हे हृद्विधे, नामन् नाम्ना अन्तर्या- मिन् त्वं वाचस्पतिः सोममपात् सोमपः अतः पिब सोममिहास्मासु अस्मभ्यं नृम्णं बलं च धाः देहि ॥
वाग्घोता वातोऽध्वर्युर्दीक्षा पत्न्यापोऽभिगरो मनो हवि - स्तपसि जुहोमि वाचस्पतेऽच्छिद्रया वाचाच्छिद्रया जिह्वा दिवि देवावृधद्धोत्रा मैरयस्व स्वाहा ||
अयं षड्होता । अध्यात्मनि या वाक्, सैव होता । वातोऽध्वर्युः प्राणोऽन्तरिक्षगतिर्वा । । दीक्षा व्रतसिद्धिरूपा पत्नी । आपोऽभिगरः, शंस- नमभिगरस्तत्राप एव कर्त्र्योऽन्नादिसंपादनद्वा-
रेण । मनो हविरात्माग्नौ हूयमानत्वात् तपसि ब्रह्मणि जुहोमि मनःप्रभृतिकं ब्रह्मणि प्रक्षिपा- मि । हे वाचस्पतेऽच्छिद्रया अविनाशिन्या वाचा अन्तःप्रकाशरूपया अच्छिद्रया जिह्वया हे दिवि देव मे मम ईरयस्व प्रेरयस्व सम्पादय कर्म । कीदृश्या वाचा । अवृधद्धोत्राऽदृष्टहोमादिसम्पा- दनभूतयेत्यर्थः ॥
महाहविर्होता सत्यहविरध्वर्युरचित्तपाजा अग्निदचित्तमना उपवक्तानाधृष्यश्चाप्रतिधृष्यश्चाभिगरा अयास्य उद्गाता वाचस्पते विधे नामन्विधेम ते नाम विधेस्त्वमस्माकं नाम मा देवानां तन्तुश्छेदि मा मनुष्याणां स्वाहा ॥
अयं सप्तहोता मन्त्रः । 'ते साप्तहोत्रा अर्यम- गृहपतयो न्यषीदन्सन्तरामि' इति ह्यस्य ब्राह्मणं, संतरणं ब्रह्मसंप्राप्तिः । महाहविश्चन्द्रः सर्वैरुप- जीव्यमानत्वादत एवास्य कलाक्षयः कृष्णपक्षे, स होता देवानां हविर्दानेनाप्यायकत्वात् । स- त्यहविरादित्यः सततप्रेरणात्, सोऽध्वर्युः । अ- चित्तपाजा अग्नित्, चित्तप्रज्ञाशून्योऽग्नीद्वायुर- ग्नीध्र इत्यर्थः । एवमचित्तमना ज्ञानमनोविहीनो वन्य फलशाकादिरुपवक्ता । कीदृशः । अना-
धृष्यश्चाप्रतिधृष्यश्च अनभिभवनीयः, अतिश- याय भूयोवचनम् । अभिगराः, गृणातिः स्तु- त्यर्थः । अयास्य उद्गाता 'यसु प्रयत्ने' अप्रयत्नसि-द्धो वेदोपनिषद्रूप उद्गाता, स उद्गायति तत्त्वम् । हे वाचस्पते विधे नामन् विधेम ते तव नाम त्वन्नामार्थं यज्ञं कुर्म इत्यर्थः । यतश्च त्वमेवा- स्माकं नाम स्वरूपं तेनास्माकं देवानां मनु- ष्याणां च मा तन्तुश्छेदि संततिं मा च्छैत्सीः । सुहुतमस्तु तव ॥
"
इति चातुर्हौतृकमन्त्राः ॥
ज्ञानानन्दमयं नुत्वा परमात्मानमच्युतम् ।
प्रवर्ग्यव्रतमन्त्राणां भाष्यं प्रस्तूयतेऽधुना ॥
तत्र 'नमो वाचे' इत्याद्यनुवाकेन 'प्राच्या त्वा' इत्यादिना यजुश्चतुष्टयरहितेन 'दिव्यो गन्धर्वो भुवनस्य' इति 'आहुस्ते भग' इति च द्वाभ्यामनुवाकाभ्यां शान्तिबन्धनं क्रियते । तस्य पुनः कुण्डे समभिमन्त्र्य स्थापनं प्रदर्शिता- नुवाकैः । ततः शान्तिविमोकोऽवश्यकर्तव्यः । एते च मन्त्रा मन्त्ररहस्यादौ संमार्जने च कुशला अपीह तावच्छान्तिबन्धाय योज्यन्ते ॥
नमो वाचे नमो वाचस्पतये या वागुदिता या चानुदिता तस्यैवाचे नमः नम ऋषिभ्यो मंत्रकृद्भ्यो मंत्रविद्यो मा मामृषयो मन्त्रकृतो मंत्रविदः परादुदैवीं वाचमुद्यासं शिवा- मजस्रां जुष्टां देवेभ्यः स्वधावतीं पितृभ्यः शुश्रूपेण्यां मनु- व्येभ्यस्तं मां देवा अवन्तु शोभायै पितरोऽनुमदन्तु सुचक्षा अहमक्षिभ्यां सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमों भू- र्भुवः स्वः ॥
रुद्रस्यार्थम् । अभिधेयोऽर्थो देवता । या म- श्रमयी वाक् तस्यै वाचे नमोऽस्तु । वाचस्पतये वाचां वचनरूपाणां पतिस्तस्मै उच्चारयित्रे नमः । या वागुपदिशन्ती सूक्ष्मा च तस्यै वाचे नमो नमः । नमः शब्दस्य पुनरुच्चारणमतिशयार्थम् । आभ्यां हि भूयांसमर्थं मन्यन्ते यथा अहो रमणीया अहो रमणीयेति । ये च ऋषयो मन्त्रविदो मन्त्रकृतश्च तेभ्यो नमो नमः । तत्र मन्त्रविदो ब्रह्मवक्रचतुष्टयतूर्णविनिर्गतान् म- ब्रान् सकृदेव गृह्णन्ति ग्रन्थतोऽर्थतश्च सनका- दयस्ते मन्त्रविदः । तथा चारण्यकम्
'यथाद्वैधारभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य विनिःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेद'
इति । अन्यत्रापि
'ये साक्षात्कृतधर्माण ऋषयो वभूवुस्ते परेभ्योऽसाक्षा- त्कृतधर्मभ्यो मत्रान् संप्रादुः'
इत्यादि । मा मामृषयो मन्त्रकृतो मन्त्रविदः परादुर्देवीं वाचम् इति, ये मन्त्रकृतो मन्त्रविदश्च ऋषयस्ते देवीं वाचं मां मा परादुः, मामिति पञ्चम्यर्थे द्वितीया, मत्सकाशात् पराङ्मुखीं मा कार्षुः मन्त्ररूपां वाचम् । किन्तर्हि । दैवीं वाचमहमुद्यासं 'या प्रापणे' उत्कर्षेण प्राप्नु- यामित्यर्थः । शिवां श्रेयस्करीम्, अजस्त्रां नित्यां, जुष्टां देवेभ्यः, देवेभ्यः प्रीतिजननीं 'जुषी प्रीतिसेवनयो:' । स्वधावतीं पितृभ्यः, पितृभ्योऽन्नवतीम्, मन्त्रैर्हि देवाः प्रीयन्ते पित- रश्च स्वधां भजन्ते । शुश्रूषेण्यां मनुष्येभ्यः, श्रवणा शुश्रूषेण्याम् । तमेवंभूतं मां स्तो- तारं देवा अवन्तु, शोभायै शोभयोपलक्षितं सन्तं पितरश्चाऽवन्तु अनुमदन्तु अनुमाद्यन्तु, शोभायै देवाः पितरश्च हृष्टा भवन्तु । किंच देवपितृप्रसादादहमक्षिभ्यां सुचक्षा भूयास- मक्षिभ्यां सुदर्शनः स्यामित्यर्थः, मुखेन च सुवर्चा सुदीप्तिर्भूयासम् । अभूर्भुवः स्वरिति
संक्षेपेण वाग्विभव उक्तः भुवनत्रयस्य वाग्वि- भवविवर्तत्वात् ॥
प्राच्या वा दिशाग्निना देवतया गायत्रेण च्छन्दसा वस- न्तमृतुं प्रविशामि ॥ दक्षिणया त्वा दिशेन्द्रेण देवतया त्रैष्टुमेन च्छन्दसा ग्रीष्ममृतुं प्रविशामि ॥ प्रतीच्या त्वा दिशा सवित्रा देवतया जागतेन च्छन्दसा वर्षा ऋतुं प्रवि- शामि ॥ उदीच्या त्वा दिशा मित्रावरुणाभ्यां देवतयानु- टुभेन च्छन्दसा शरदमृतं प्रविशामि ॥ ऊर्ध्वया त्वा दिशा बृहस्पतिना देवतया पांक्तेन च्छन्दसा हेमन्तमृतुं प्रविशामि ॥ अनया त्वा दिशा प्रजापतिना देवतया अनाप्तेन च्छन्दसा शिशिरमृतुं प्रविशामि || गायत्रीं च्छन्दः प्रविशामि । त्रि- ष्टुभं च्छन्दः प्र० । जगतीं छन्दः प्र० । अनुष्टुभं च्छन्दः प्र० । पक्तिं च्छन्दः प्र० । अतिच्छन्दसां च्छन्दः प्र० । च्छन्दांसि प्रविशामि । तानि नः पारयन्तु तानि नोऽवन्तु तानि स ऋच्छतु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ आपो- ऽस्मान् प्रविशन्त्वापोऽस्मासु जाग्रत । आयुर्विश्वायुर्विश्वमा- युर्व्यश्नवै सर्वमायुर्व्यश्नवै ॥
उदकावमर्षणप्रवृत्त एव तु छन्दःप्रभृतीनामु- दकेन सहाभिन्नत्वमारोप्योदकमाह- हे उदक, त्वां वसन्तर्तुभूतमहं प्रविशामि प्रस्तुतकर्मणा त्वामाराध्य त्वन्मयफलानि लभेयमित्यर्थः । केन प्रविशामि । प्राच्या दिशाग्निना देवतया गायत्रेण च्छन्दसा । एवमृतुपञ्चकप्रवेशे वा-
क्यानि योजयितव्यानि । एवं गायत्री छन्दः प्रविशामीत्यादि । च्छन्दः प्रवेशवचनमात्मा- दिरक्षार्थं निर्भयस्थानप्रवेशपरत्वेन योजयित- व्यम् । तानि च्छन्दांसि नोऽस्मान् पारयन्तु प्रस्तुतसमाप्तिं कुर्वन्तु । तानि नोऽवन्तु रक्ष- न्तु तर्पयन्तु च । तानि स ऋच्छतु योऽस्मा- न्द्वेष्टि यं च वयं द्विष्मः यं वयं द्विष्मो यश्चा- स्मान्द्वेष्टि स तानि च्छन्दांसि ऋच्छतु, तानि छन्दःप्रभृतीनि प्राप्य लीयतामित्यर्थः ॥
आपः अस्मान् प्रविशन्तु, अधिष्ठात्री देवता रक्षकत्वेन मामधितिष्ठत्वित्यर्थः । आपोऽस्मासु जाग्रत, हे आपः अस्मासु जाग्रत । आयुर्वि - श्वायुर्विश्वमायुर्यश्नवै सर्वमायुर्व्यश्नवै, अपां प्रसादात् आयुर्व्यश्नवै विशेषेण व्याप्नुयां विश्वायुर्विश्वमायुरित्यादि पुनर्वचनमतिशयार्थं पूर्ववत् ।
दिव्यो गन्धर्वो भुवनस्य यस्पतिरेकान्यो मनसा वि - क्ष्वीड्यः । तं त्वा यामि ब्रह्मणा देव देवी नमस्तेऽस्तु दिवि ते सधस्थम् ॥ दिवि पृष्टो यजत सूर्यत्वगवयातो हरसो दिव्यस्य । एकाव्यो मनुष्यः सुशेवः । मृळाद् गन्धर्वो भुवनस्य यस्पतिरनवद्याभिः समजग्माभिरप्सरः खपि गन्धर्व
आसीत्समुद्र आसां सदनं व आहुस्ततः सध्या च पराचर- न्त्यभ्रिये दिनक्षत्रिये या विश्वावसुं गन्धर्वं ससधे ताभ्यो नमो अस्तु ता नो मृडयन्तु ता नः शर्म यच्छन्तु तायं द्वि- मो यश्च नो द्वेष्टि तमासां जम्भे दद्मः ||
दिवि भवो दिव्यः, गा रश्मीन्धारयतीति गन्धर्वः, स एव रुद्रः इष्टः । स एव भुवनस्य पतिः । श्रूयते हि
'इमे वै लोका भुवनं तेषामेपोऽधिपतिर्यो रुद्र इति' एक एव अवति सर्वं रक्षतीत्येकाव्यः । म- नसा विक्ष्वीड्यः, विक्षु देवसेनासु मध्ये स एव ईड्यः स्तुत्यः मनसा मननध्यानादिना आराधनीय इत्यर्थः, अथवा विक्ष्विति विभक्ति - व्यत्ययः विशां मनुष्याणां मनसैवेज्यः योऽसा- वन्तरादित्ये पुरुष औपनिषदः । हे देव द्योत- नादिकर्मक तमेवंभूतं त्वा भुवनाधिपतिभूत- त्वात् अहं यामि प्राप्नोमि ब्रह्मणा मन्त्रात्मकेन वेदेन वन्दमानः स्तुवान आयामि वा प्रातु- मिच्छामीत्यर्थः । अतो नमस्तेऽस्तु यस्य ते दिवि सधस्थं स्थानं तस्मै । 'दिवि पृष्टः' प्रवर्ग्यत्रतहो- मारम्भार्थमिदमृत्विज उद्दिश्योच्यते । हे ऋ- विजः दिवि खर्गे पृष्टभूतोऽयमादित्यः सर्वदे-
वोत्तम इत्यर्थः । सूर्यत्व सूर्यस्य त्वगिव त्वक् यस्य स सूर्यत्व अवयाः बाल्याद्यवस्थाशुन्यो ब्रह्मणोऽनाद्यन्त- स्वात् । अतोऽस्य दिव्यस्य हरसस्तेजोरूपस्य यजत हे ऋत्विजः, एकाव्यः, मनुष्षु मनुष्येषु मुमुक्षुषु साधुर्मनुष्यः, सुशेवः, शेव इति सु- खनाम, नित्यानन्दस्वभाव इत्यर्थः, सुखसेव्यो वा छान्दसो वर्णव्यत्ययः, सुशेवा इति केचि - त्पठन्ति, मृडात् मृडं सुखमत्तीति मृडात् नि- त्यसुखस्य भोक्ता । गन्धर्व इति व्याख्यातम् । काभिर्यजत । अनवद्याभिराहुतिभिः समज- ग्माभिः समं कृत्वा अग्निं यतन्तीभिः । अने- कविक्कर्तृकत्वाद्भाक्तं यौगपद्यम् । अप्सु सरती- त्यस रास्तास्वपि गन्धर्व आदित्य आसीदस्ति । अयमत्र विवेकः यदि कश्चिदाशङ्कते त्रेताया अभावादाहवनीयाः कथं ब्रह्मचारित्रताहुतय- स्तत्रेदमुक्तम् । जलचारिणीष्वप्याहुतिष्वाऽऽदि- त्योस्ति सर्वत्रगोऽसावित्यर्थः । अतो हे ऋत्विज आसां वो युष्माकं सम्बन्धिनीनामाहुतीनां समुद्रो मन्त्ररूपो वेदः सदनमाश्रयो गृहमाहुः
सूर्यान्तर्वर्ती पुरुष इत्यर्थः ।
अतस्तद्वलेन लौकिकानौ हूयन्ताम् । कास्ताः । या हुताः सत्यस्तत एव मन्त्रबलात्सध्या च सहैव यजमानेन पराचरन्ति । कुत्र । अनि येऽभ्रच्छन्नेऽन्धतमसे अविद्यावृत इत्यर्थः । न- क्षत्रिये प्रकाशे तवालोके ज्ञान इत्यर्थः । दि- द्युत् अतिशयेन द्योतमाना अज्ञानाभ्रपटलम- पसारयन्त्य इत्यर्थः । विश्वं सर्वं वासयति विश्वावसुस्तं गन्धर्वमादित्यं ससधे गच्छन्ते यूयमपि हे ऋत्विज इति प्रोत्साहना । ताभ्यो व्रताहुतिभ्यो नमोऽस्तु महाप्रभावाभ्यः । ताश्चास्मान् मृडयन्तु सुखयन्तु तथा शर्म सुखं यच्छन्तु । पुनरभिधानं निरतिशयमु- क्तिसुखार्थम् । यं वयं द्विष्मो यश्चास्मान्द्वेष्टि, तं वयमासामाहुतीनां जम्भे स्थाने वह्नौ दद्मः क्षिपामः ॥
आस्ते भग चक्षुपी ताभ्यां विपश्य मामभि । यदेत- त्सारयं मधु तेन रूपमनज्मि ते तेन रूपमनग्धि मे ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां देवानां क्रतुभिर्देवाभ्यञ्जनैरभ्यञ्जे भगवन्नामासि तस्य त ऋच यजूंषि च सामानि च वागग्ना अन्यच्चक्षुः सूर्येऽन्यदना अ- न्यद्भगवान्भूयासम् ॥ ऐरोसि चक्षुरसि श्रोत्रमसि पुरन्धिर्नाम
वागसि । येन शतक्रतुर्भागमुपजुते तेन स्वोपडये भग ॥ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् | दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्णा सुमतिरवोचत् ॥ अग्निरीशो वासव्यस्याग्निर्महः सौभगस्य तान्यस्मभ्यं रासति ॥ अत्रापि च परमात्मैव रुद्ररूप आदित्यो- ऽश्विनाऽग्निरूपेण स्तूयते । भजनीयः सेव - नीयो भगो रुद्रः परमात्मा तस्य सम्बोध- नम्, हे भग, तव चक्षुषी आहुर्वेदविदः चक्षु- मन्तं त्वां वेदविद आहुः ।
'तस्य सूर्याचन्द्रमसावेव चक्षुपी'
इति श्रुतेस्ताभ्यां चक्षुभ्य विशेषेण मामाभि- मुख्येन चानुकूल्येन पश्य अतिशयार्थं पुन- वचनम् । सरघा मधुमक्षिका । तासामिदं सारघं यदेतत्प्रसिद्धं मधु, तेन तव रूपं तेजो- मयमनज्मि ते इति केचित् । सारं दृढं संसारं हन्तीति सारघं मधुर फलत्वात् मधु तत्त्वज्ञानं, तेन ते चक्षुषी चन्द्रादित्यरूपेऽनज्मि कृता- अने संस्कृते संपादयामि तत्त्वज्ञानविषयत्व- मापादयामीत्यर्थः । तेन रूपमनग्धि मे, त्वमपि च मया विशोधितचक्षुर्ज्ञानकर्मभिर्मम
यद्रूपं पारमार्थिकब्रह्मतत्त्वात्मकं तदनधि अ- अनेन संस्कुरु विलीनाविद्योपप्लवं कुर्वित्यर्थः । देवस्येति । हे रुद्र त्वामहमभ्यञ्जे देवानां सम्बन्धिभिरभ्यञ्जनैर्देवैद्यतनादिगुणकैः ऋषि- भिर्वेदार्थाभ्यासकुशलैर्यैस्त्वमभ्यक्तो ज्ञानाहु- तिप्रभृतिभिरित्यर्थः, देवस्य सवितुः प्रसवे आ- ज्ञायां वर्तमानः, अश्विनोर्देवभिषजोर्बाहुभ्यां न तु स्वाभ्यां चर्ममयाभ्यां सूर्याचन्द्रमसावश्विनौ अश्वरथसंचारित्वात्, पूष्णः आदित्यस्य हस्ता- भ्यां देवानां च । क्रतुभिराहुतिभिः प्रवर्ग्यत्र- तहोम सम्बन्धिनीभिः । क्रामन्तीति ऋतवो नित्यकर्मज्ञानानीति साधारणी व्याख्या । हे रुद्र भगवन्नामासि सर्वस्याधिपतिस्त्वमित्यर्थः । तस्यैवंभूतस्य तव ऋच ऋग्वेदः, यजूंषि यजु- र्वेदः, सामानि सामवेदो वाक् वक्तीति वाक् त्रयी तव वाचिका इत्यर्थः । त्वया वा प्रति- सर्गादि सुप्त प्रतिबुद्धनयेन स्मृतत्वात्तव त्रयी, तथा वाक् । अग्ना अन्यच्चक्षुः सूर्ये चान्यत्, काम्यकर्माहुतिभिः संतर्प्यतेऽग्नौ या दृष्टिस्तव, सान्या स्वर्गादिफलस्य दात्री। सूर्ये तु प्रकाश-
कैकस्वरूपे ध्यानादिना साक्षात्कृतेऽन्या मो- क्षस्य दात्री यापि काम्यनिषिद्धरहितनित्यनै- मित्तिक कर्माहुतिभिः संतर्प्यतेनौ त्वदीयख- भावान्तरे दृष्टिः सूर्ये च पूर्वोक्ता साप्यन्या, ज्ञानकर्मसमुच्चयादपि त्वं मोक्षं साधयसि गृह- मेधिनामित्यर्थः, नैष्ठिक ब्रह्मचर्यापेक्षया तु केवल- ज्ञानकृता मुक्तिर्व्यक्ततयोक्ता । अतोऽनेन व्रतेन भगवान्भूयासं ब्रह्मभूयं प्राप्नुयामित्यर्थः । ऐ- रोसि, इरा अन्नं तस्यायमैरोऽन्नाधिपतिरसी- त्यर्थः । चक्षुरसि । श्रोत्रमसि । पुराणि लोक- त्रयसमूहान्धारयतीति पुरंधिस्तन्नामिका वा- गसि त्रयीमयोसीत्यर्थः, यावन्तः प्रकाशका भावास्तावन्त इत्यर्थः । हे भग रुद्र तेन मन्त्रे- णाsहं त्वामुपह्वये आह्वयामि, येन शतक्रतु- रिन्द्रो भागं सोमादिहविषो दानमुपजुहे 'हु दानादनयोः' ददौ चखाद वेत्यर्थः । तद्वा- मिति तत् तस्मात् हे नरावश्विनौ सूर्याचन्द्र- मसौ वा कल्पितभेदौ सनये विभजनाय इदं भागरूपं हविष आविष्करोमि । उग्रं बहुबलम् । क इव किम् । तन्यतुर्न वृष्टिं न शब्द उ
पमायाम्, तन्यतुर्वायुर्मेघादि संतानभेदत्वात्, यथा वायुर्वृष्टिमाविष्करोति वैद्युतादितेजः संक्षो- भणेन । दध्यङ् ह यन्मध्वाथर्वण इति, अ- थर्वणोऽपत्यं दध्यङ्घ्रिति यस्य संज्ञा, स तथा वां युवामश्वस्य शीर्णाऽश्वशीर्षो भूत्वा आहू- तवान् सुमतियुक्तः । किमर्थम् । मधु मधुने मोक्षायेत्यर्थः, मोक्षस्य नित्यानन्दसुन्दरमधुम- यत्वात्, तद्वदहमपि सुमतिरवोचत् युवामाह्वये इत्यर्थः॥
अग्निरीश इति, अग्निर्वसव्यस्य ईशः, व- सुनि साधु वसव्यम् हिरण्यप्रभृतिकं तस्या- निरीश्वरः स्वामीत्यर्थः । अग्निर्महः, सौभगस्येश इति संबन्धः, महतः सौभाग्यस्याग्निः प्रभुरि- त्यर्थः । तानि वसव्य सौभाग्यानि अस्मभ्यं रासति ददात्यग्निः ॥
अग्ने व्रतपते सम्राडसि व्रतपा असि व्रतभृदसि व्रतपति- रसि व्रतमालभे तत्ते प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ॥ वायो व्रतपते ० । सूर्य व्रतपते० ।
अग्ने व्रतपते इति त्रिभिरग्निमुपतिष्ठमानो व्रतमालभते । हे अग्ने व्रतपते व्रतस्य प्रकृतस्य
गोपायितः, असि त्वं सम्राड् सम्यग्राजसे, व्रतपा व्रतस्य पालयिता । व्रतभृदसि व्रतस्य पोषको भवसि । व्रतपतिरसि व्रतस्य स्वामी भवसि । यत एवंभूतस्त्वमत उच्यते-अहं व्रतमालभे आरभे, तत्तस्मात्ते प्रब्रवीमि तद्वतं त्वत्प्रसादादहं कर्तुं शक्नुयाम्, तेन च कर्मणः समृद्धिं फललक्षणां प्राप्नुयाम् । वायो व्रतप० सूर्य व्रतपते ० इत्येतावपि गतार्थावनेनैव ॥
पृथिवी समित्तामग्निः समिन्धे तामहं समिन्धे सा मा समिद्धा सुपमिद्धा तेजसा वर्चसा यशसा ब्रह्मवर्चसेन समि- न्ध्यात् ॥ अन्तरिक्षं समित्तां वायुः समिन्धे तामहं० ॥ द्यौः समित्तां सूर्य समिन्धे तामहं० ॥
एतैस्त्रिभिर्यथाक्रममग्नौ तिस्रः समिध आ- दधाति व्रतसाहचर्यात्तिष्ठन्नेव, नासीनः । इयं प्रथमा । समित् पृथ्वी पार्थिवत्वात् । तां स- मिधमग्निः समिन्धे व्यत्ययेनोत्तमपुरुषः समि- न्धते । तामहं समिन्धे दीपयामि । सा समिद्धा सुष्ठु समिद्धा सती मां ब्रह्मवर्चसादिभिः स- मिन्ध्यात् समिन्धेत् । एवं द्वितीया अन्तरिक्ष- मिव, तृतीया द्यौरिवेति समानम् ॥
सूर्यव्रतपते सम्रासि व्रतपा असि व्रतभृदसि व्रतपति- रसि व्रतमचारिषं तदशकं तत्ते प्रब्रूमस्तन्नो गोपाय ॥ वायो व्रतपते. अग्ने व्रतपते० ॥
एतैस्त्रिभिक्षूलिकाक्रमापूतैर्वतं विमुच्यते । अर्थस्तूक्त एव क्रममात्रमेव भिद्यते साधा- रणपदेषु, तदचारिषं तदशकमिति तु विशेषः । तद्वतं चरितं त्वत्प्रसादान्मया, शक्तिं च तत् सम्पन्नं सत् रक्षामात्रमेवापेक्षते । तस्मात् हे सूर्य वायो अग्ने ततं नोस्माकं गोपाय रक्ष । व्रतविमोके समिचयदानं कर्तव्यम् । तत्रापि च मन्त्राः समिदित्यादिचूलिकाक्रमेणेष्टाः समि- दादानं च व्रतसाहचर्यात्तिष्ठतः ॥ उदुत्यमिति दशर्चेनानुवाकेन होमः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
संध्योपासने व्याख्यातेयम् ।
इमूषु त्वमस्मभ्यं सनिं गायत्रं नवीयांसम् । अग्ने देवेषु प्रवोचात् ॥
प्रवोचादित्याख्यापने लोड लेट्, 'इतश्च लोपः परस्मैपदेषु' (३|४|९७१) इतीकारलोपः, 'लेटोऽडाटौ' (३।४।९४।) । ऊ इत्यनर्थकः, षु इति
सुशब्द उपसर्गः सनिशब्देन सम्बध्यते । हे अग्ने इमं होममस्मभ्यमस्माकं सम्बन्धिनं गा- यत्रं अनया गायत्र्या संपादितं होमं त्वं देवेषु प्रवोचात् प्रब्रूहि यदुत युष्माकमयं होमो यु- मद्रोग्य इत्यर्थः । सुसनिं 'वन पण संभक्तौ' शोभनसंविभागं, नवीयांसमतिशयेन नवम् ॥
समिन्द्र नो मनसा नेपि गोभिः सं सूरिभिर्हरिवः सं स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥
हे इन्द्र हरिवः हरितवर्णाश्वयुक्त नोऽ- स्माकं मनसा संनेषि संनयसि संविभजसि शोभनमननध्यानादिकं संप्रयच्छसीत्यर्थः । एवं गोभिः संनयसि, सूरिभिर्विद्वद्भिः ऋत्विग्भिर्य- ज्ञसहायैः संनयसि, स्वस्त्या अविनाशेन मोक्ष- प्राप्तिलक्षणेन संनयसि, तथा ब्रह्मणा वेदेन परमात्मना च संनयसि ब्रह्मभूयं गमयसि देवकृतं यदन्यदप्युत्कृष्टमस्ति तेन संनयसि, देवानां बृहस्पतिप्रभृतीनां सम्बन्धिन्या सुमत्या शोभनया बुद्ध्या संनयस्यस्माकम् । कीदृशा- नाम् । यज्ञियानां यज्ञार्हाणाम् । यज्ञियानां देवानां सुमत्या संनयसीति वा सम्बन्धः ॥
संवर्चसा पयसा संतनूभिरगन्महि मनसा सं शिवेन । त्वष्टा सुत्रो विदधातु रायोऽनु नो मार्छु तन्वो यद्वि- लिष्टम् ॥
हे इन्द्र वयं त्वत्प्रसादाद्वर्चसा दीघ्या, पयसा तनूभिः शरीरैः स्वपुत्रादिसम्बन्धिभिः समगन्महि संगताः भूयास्म, शिवेन शान्तेन च मनसा समगन्महि । तथा त्वष्टा रायो धनं विधदातु नः, सुदत्रः शोभनदाता सुष्ठु वा दाता, यस्त्वष्टा अनु अनन्तरं नोऽस्माकं मार्छु संशोधयतु अनुमाष्टृिति वा संबन्धः । किमनुमा । यदनुमार्जनयोग्यं किल्बिषम- र्थात् । कीदृशम् । विलिष्टं विलग्नमित्यर्थः इति केचित् । अयं त्वत्रार्थः 'लिश अल्पीभावे' नित्य- नैमित्तिकाद्यनुष्ठानेन यद्विशेषेणाल्पीभूतं, तदेव हेलयैवानुमाष्टुं त्वष्टेति॥
अन्वग्निरुपसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततन्थ ॥ अग्निः प्रथमो जातवेदाः सर्गादावुत्पन्नो विना तद्रूपेण जातधनो जातप्रज्ञानश्च उपसां रा- त्रीणामग्रमारम्भमन्वख्यदनु प्रकाशितवान् नि-
मितवानित्यर्थः । ततोऽहानि दिवसानन्वख्यत् । ततः सूर्यस्य रश्मीनन्वख्यत्प्रख्यापितवान् । कीदृशोऽग्निः । पुरुत्रा पुरूणां बहूनां त्राता, यद्वा पुरुरेव पुरुत्रा 'पुरुदेव मनुष्येभ्यस्त्रा' (५|४| ५६ ) इति त्राप्रत्ययस्तद्धितः । द्यावापृथिव्यौ चान्वाततन्थ विस्तारितवान् ॥
या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् ॥
हे अश्विनौ या वां युवयोः कशा वाक्,' सा हि कशेव नियन्त्री चित्ताश्वानां, मधुमती मधुपरिणामा सूनृतावती सत्यवती तथा यज्ञं व्रताङ्गभूतं मिमिक्षतं संमिश्रीकुरुतमिति के - चित् । अयं त्वर्थः 'मिह सेचने' सिञ्चतमा- प्यायतमित्यर्थः ॥
धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनत् ॥
धाता प्रजापतिर्नोऽस्मभ्यं रयिं धनं दधातु धारयतु वा । स हि ईशानः प्रभुः जगतो जंग- मस्य त्रिलोक्या वा, जगतस्पतिर्जगतां पाता । स धाता नोऽस्माकं पूर्णेन अन्यूनेन संविभा-
गेन वावनत् 'वन षण संभक्तौ' अतिशयेन संविभजतु ॥
धाता प्रजानामुत राय ईशिषे धातेदं विश्वं भुवनं जजान । संदाशुषे किरति भूरिवांसं वयं स्याम पतयो रयीणाम् ॥
धाता प्रजानामीशिषे ईष्टे । किं वा अल्पो- त्या धातैवेदं विश्वं समयं भुवनत्रयं जजान जनितवान् जातवांश्च । धातैव दाशुषे दत्तवते यजमानाय संकिरति संददाति । किम् । भू- रिवांसं प्रभूतमेव नीरं संविभजनीयं यज्ञफ- लादिकम् । अतो धातुः प्रसादाद्वयं रयीणां धनानां पतयः स्याम ॥
"
त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये ददन्ते । तेषां च्छिद्रं प्रतिदध्मो यदत्र स्वाहायं यज्ञो अध्येतु देवान् ॥ यज्ञं तन्वन्ति ये ते तन्तवो यजमानविक- प्रभृतयः । त्रयस्त्रिंशदिति तत्रं यथासम्भवो पलक्षणार्थत्वात् । यानिति व्यत्ययः । य इमं यज्ञं तन्वते स्वधया अन्नेन ये ददते यज्ञं, व्यत्ययेन वा स्वधामन्नं ददते देवेभ्यो ये, तेषां च्छिद्रं व्रतविघ्नविधायिफलाचरितादिकं तत्प्र- तिदध्मः प्रतिविदध्महे विनिवारयामोऽनेन
होमेन, यदत्र व्रते किंचिद्विघ्नकारि वस्त्वऽनेन होमेन विनिवारयाम इत्यर्थः । स्वाहा सुहुत- मस्तु | अयमपि यज्ञो देवानेतु गच्छतु ॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे ॥
विष्णुः प्रजापतिर्यज्ञादिरूपमिदं त्रैलोक्यं वि- चक्रमे विक्रान्तवान् । त्रेधा निदधे पदं, त्रिभिः पदैस्त्रिलोकीरूपेण विवृत्तः परिणतो वेत्यर्थः । समूढमस्य पांसुरे, चतुर्थं पदं चतुर्थचरणरू- पमविवृत्तमपरिणतं च यदस्य तात्त्विकं ब्र ह्मणो रूपं, तत् पांसुरेऽविद्यया सुच्छन्ने समूढं सम्यग् ब्रुडितं नायोगिभिर्गम्यते इत्यर्थः॥
अत्र च व्रतापवर्गे 'मानो धर्म' इत्यनुवाकेन प्रत्यृचमेकोनत्रिंशदाहुतयो होतव्याः ।
मा नो घर्म व्यथितो विव्यथो नो मा नः परमधामाहुतो नैः । मोष्वमांस्तमस्यन्तराधा मा रुद्रियासो अभिकुर्वतो नः ॥ हे धर्म प्रवर्ग्यत्रत नोऽस्मान् व्यथितः सन् मा विव्यथः प्रमादजेनापराधेन वैगुण्यमापा- दितोपि सन्नस्माकं व्यथां मा कार्षीरित्यर्थः ।
मा नः परमधामाहुतो नैः, 'हृ कौटिल्ये', अहुतः अकुटिलः सन् परमधाम परमं स्थानं मृत्यु- गृहं मा नैः मा नैषीः । मोष्वस्मांस्तमस्यन्त- राधाः, मा-उ-सु माशब्दो निषेधार्थः, उशब्द- श्वार्थे, सुशब्दः तमःशब्देन सम्बध्यते । मा चास्मान्सुतमसि अन्धतमसे नरके आधाः क्षै- प्सीः अन्तर्मध्ये | मा रुद्रियासो अभिकुर्वतो नः, रुद्रियासो रुद्रसम्बन्धिन्यः क्रूराः शक्तयो नोऽस्माकमभिकुर्वतोऽस्मदाभिमुख्येन र्याणि मा कार्षुः, अक्रूरभावोऽस्तु ॥
स्वका-
मा नः क्रतुभिरीळतेऽभिद्विषो अस्मान्सुनीते मापराधाः । मा नो अग्निं निर्ऋतिमरातिं मा नो द्यावापृथिवी हेळते हेळयेथाम् ॥
रुद्रः प्रार्थ्यते । नोऽस्मान्येऽभिद्विषोऽभिमुखाः शत्रवस्ते क्रतुभिर्मा ईळते ऋतुकरणे प्रवृत्ताः सन्तः स्तुतिं मा कार्षुः, यथा प्रहृष्टो रुद्रस्त- च्छत्रुत्वादस्मासु विरूपं कंचिदादधीतानिष्टमि - त्यर्थः । अस्मद्विषो याज्ञिका मा भूवन्नित्यर्थः । किं तर्हि । कुकर्माचरणेन स्वयं क्षीयन्तामित्यर्थः । अस्मान्सुनीते मापराधाः । हे सुनीते सुनीति-
रिति बहुव्रीहिः, हे शोभननययुक्तेऽस्मान् मा- पराधा अपराधयोगिनो मा कृथा इत्यर्थः । मा नो अग्निमित्यादि द्वितीया प्रथमार्थे, नो- Sस्माननिर्मा हेळते 'हेड अनादरे' अनादरं कोपमस्मासु मा कार्षीत् । एवं निर्ऋतिररा- तिर्मा हेळते इति योज्यम् । एवं द्यावापृथि- व्यौ मा हेळयेथामिति समन्वयः कार्यः ॥ अनु नो मित्रावरुणा इहावतामनुदीध्याना अभि नः सखायौ । आदित्यानां प्रसृतिर्हृतिरुग्रा शिवा पाष्टा हविषः परिणो वृणक्तु ॥
मित्रमहः सर्वप्राण्युपकारित्वात्, वरुणो रात्रिकालः वरणात् तमसावरणात् । इह व्रत- समाप्तिकर्मणि मित्रावरुणावन्ववतां रक्षतां नोऽस्माकम् । कीदृशौ । अनुदीध्यानौ दीप्य- मानौ तेजसाभिमुखौ, अस्माकञ्च सखायौ । तथा आदित्यानां सम्बन्धी प्रसृतिः प्रसारः क- रनिकरो नोऽस्माकं हविषः परिवृणक्तु हवि- प्यान्नादि वर्जयतु अतिदीप्तत्वात्सस्यप्रभृती- न्मा धाक्षीदित्यर्थः । यतोऽसौ हृतिः, हरति बलं तीव्रतयेति हृतिः, शिवा शान्ता भूयात्, यतः सा पाष्टा प्रष्ठा प्रधानभूता । 'प्रष्ठोऽयगा-
मिनि' (८|३|९२) इत्यनुशासनात्, अतः उग्रापि सती प्रार्थनावशाच्छान्ता स्यादित्यर्थः ॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वा द्यां ममार सद्यः समानः ॥ रुद्र एवादित्यरूपेण स्तूयते । तस्मादाभ्यां जुहुम इति शेषः । देवस्य द्योतनादादित्यस्य पश्य काव्यं क्रान्तिकर्म महित्वा महत्, यदे- तदीयेन विक्रमेण सह्यः सहनाहः सहभावो वा समानश्च ओजोरूपेण चन्द्रमाः द्यां दिवि ममार प्राणत्यागं कृतवानमावस्यायाम् । तथा यमादित्यः पलितो वृद्धः परितो वा सर्वतः युवानमपि कलापरिपूर्णं समर्थं जगार भक्षि- `तवान् चन्द्रं विधुं विधावनक्रियायुक्तं अतएव दद्राणं गच्छन्तं सततगतिम् । समने बहूनां, 'आदित्यरश्मीनां स्वकलानां संगमे सति पौर्ण- मास्याम् । युवानमपीत्यन्वयः ॥
ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा ॥
उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
व्याख्यातेयम् ।
उद्वयन्तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ इयमपि व्याख्याता ।
उदु तिष्ठ स्वध्वराचा नो देव्या कृपा दृशे च भासा । वृहता सुशुक्वभिरग्ने याहि सुशस्तिभिः ॥
हे स्वध्वर शोभनाध्वर प्रवर्ग्यव्रत उदु तिष्ठ, उत्-उ-तिष्ठ, उशब्दः पादपूरणार्थः, उत्तिष्ठ, नो- ऽस्मान् अव रक्ष देव्या देवसम्बन्धिन्या कृपा सामर्थ्येन, बृहता महत्या भासा दीया, दृशे दर्शनाय । हे अग्ने त्वमपि याहि गच्छ सुशु- कभिः शोभनाभिः शौर्यादिभिर्ध्वालाभिः, सु- शस्तिभिः शोभनप्रशंसायुक्ताभिः शुभसूचि- काभिरुपलक्षित इत्यर्थः ॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाषद्भिः विह्वयामहे ॥
हे अ त्वां वयं विहृयामहे विविधमा- ह्वयामः । कैः । अञ्जिभिरभिव्यक्तैर्वाक्यैः । की- दृशैः वाघद्भिः वोद्धृतमैः संशोधनादिसमर्थैरि- त्यर्थः । यदिति यस्मादर्थे । यत ऊर्ध्वस्तिष्ठ ऊर्ध्वो भव । ऊ इति निपातोऽनर्थकः । सुशब्द
उपसर्गः ऊतये इत्यनेन संबध्यते । किमर्थ- मूर्ध्वो भव । सूतये शोभनावनाय नोऽस्माकम् । देवो न सविता, नशब्द उपमायां, देव इव सविता त्वमूर्ध्वो वाजस्य अन्नस्य सनिता 'वन षण संभक्तौ' संविभक्ता ॥
पुनर्जा निवर्तस्व पुनरन इपायुपा | पुनर्न: पाह्यंहसः हे अग्ने ऊर्जा आज्यलक्षणेन अन्नेनेष्टः स- न्पुनर्निवर्तख, पुनरपि इषा ओदनलक्षणेन अन्नेनेष्टः सन्निवर्तस्व आयुषा युक्तः सन् हविषा वृद्ध इत्यर्थः, पुनरपि च नोऽस्मान् पाहि रक्ष अंहसः पापात् ॥
सह रय्या निवर्तस्व अग्ने पिन्वस्व धारया | विश्वप्न्या विश्वतस्परि ॥
हे अग्ने निवर्तस्व समाप्तेष्वपि व्रतेषु मा गाः रय्या धनेन सह, किंच पिन्वस्व अस्मान् प्री- णीहि । कया । धारया धारयित्र्या शक्त्या । कीदृश्या । विश्वप्न्या सर्वस्योत्पत्तौ स्फीतया विश्वतस्परि सर्वस्योपरि स्थितया ॥
धाता दधातु नो रयिमीशानो जगतस्पतिः स नः पूर्णेन वावनत् ॥
धाता प्रजानामुत राय ईशिषे धातेदं विश्वं भुवनं जजान । सं दाशुषे किरति भूरिवांसं वयं स्याम पतयो रयीणाम् ॥ अग्न आयूंपि० । अग्ने पत्रस्व० । त्वं नो अग्ने । स त्वं नो अ० || वायुरग्रे गा० ।
एते सप्त मन्त्राः व्याख्याताः ॥
प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वाय विष्टये दुरोणे । नि नो रथं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥ हे व याभिर्नियुद्भिरश्वैस्त्वं प्रयासि ग- च्छसि दाश्वांसं हविषो दातारं यजमानम् । किमर्थम् । इष्टये यजनाय, अच्छेति निपा- तोऽभिशब्दस्यार्थे वर्तते, अभिप्रयासि । त्वं ताभिर्नियुद्भिर्दुरोणे गृहे नोऽस्मान्नियुवस्व 'यु मिश्रणे' नियोजय, रयिं धनं सुभोजसं शोभ- नानं च नो गृहे नियुवस्व, वीरं च पुत्रं नियु- वस्व । कीदृशम् । गव्यं गोषु साधुं तथाइव्यं राधश्च धनमश्व्यम् । पुनर्वचनमतिशयार्थम् । अभ्यासे हि भूयांसमर्थं मन्यन्ते यथाहो रम- णीयाहो रमणीयेति ॥
हिरण्यगर्भः ० ॥ यः प्राणतः ० ॥ य ओजोदा० ॥ येन ग्रा० ॥ य इमे द्यावा० ॥ यस्य मे विश्व० ॥
एताः षट् व्याख्याताः ॥
यं क्रन्दसी अपसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ यं क्रन्दसीत्यस्याः अयमर्थः
द्यावापृथिव्यभिधाना प्रसिद्धेयं याज्ञिका- नाम् । यत्र सूर आदित्योऽभ्युदितो विभाति, तस्मै कस्मै प्रजापतये सर्वात्मने हविषा विधेम हविर्दध्मः हविषोपचरामस्तमित्यर्थः । यं यत्र कन्दसी क्रन्दनयुक्ते घनस्तनितवेदाध्ययनश- ब्दवत्यौ द्यावापृथिव्यावपसा पापविहीनेऽभ्यै- क्षेताम् यदधिष्ठाने सत्यौ कार्याणि निरूपयतः मनसा मननेन तस्तभानेऽवष्टम्भन युक्ते अरे- जमाने चाकम्पमाने च स्थावररूपे इति यावत् । यत्र सर्वं प्रतिष्ठितं, तस्मै प्रजापतये हविरा- ज्यलक्षणं जुहुम इति तात्पर्यम् ॥
अत ऊर्ध्वं प्रवर्ग्यत्रते शान्तिविमोकः सिद्धः। स इहापि कर्तव्यः । तं व्याख्यास्यामः
आयुर्दा आयुर्मे देहि प्राणदाः प्राणं मे देहि व्यानदा व्यानं मे देहि अपानदा अपानं मे देहि चक्षुर्दाश्चक्षुर्मे देहि श्रोत्रदाः श्रोत्रं मे देहि वर्चोदा वर्चो मे देहि आयुषे नः पुनर्देहि ॥
एतानि सप्त यजूंषि । सप्तानामपिच 'आ- युषे नः पुनर्देहि' इति साधारणोऽनुषङ्गः ॥ प्रवर्ग्यत्रतं, सर्वकर्मको वा प्रजापतिरुच्यते । हे प्रवर्ग्यत्रत प्रजापते वा, आयुषो दाता एवं, अत आयुर्मे मह्यं देहि । आयुषे नः पुनर्देहि, आयुष इति तादर्थ्यचतुर्थ्यन्तेन आयुर्लक्षण- जीवननिमित्तानि नित्यकर्माण्युपलक्ष्यन्ते, नि- त्यनैमित्तिक कर्मानुष्ठानार्थं पुनरायुर्मह्यं देही- त्यर्थः । एषां षण्णामपि यजुषां तुल्या दिक् ॥
नमो रुद्राय दिविषदे यस्य वर्षमिषवस्तस्मै नमस्ते नमः समरे स मा मा हिंसीः ॥
आदित्योऽत्र रुद्रः । आदित्याय नमः । दिवि सीदतीति दिविषत् तस्मै । यस्य वर्षमिषवः, वृष्टिर्वर्षं धारासारो यस्य शरास्तस्मै पुनःपुनर्न- मस्कारोऽस्तु । तेन च नमस्कारेण प्रसादितः संस्त्वं रुद्रो मा मा हिंसीः मां मा वधीः । द्वि- तीयस्य मा इत्यस्य युष्मदादेशस्य प्रयोगोऽस्म- दीयोपलक्षणार्थः, अस्मदीयांश्च पुत्रप्रभृतीन् मा हिंसीरित्यर्थः । समरे संग्रामे ॥
नमो रुद्रायान्तरिक्षसदे यस्य वात इषवस्तस्मै ० ॥ नमो रुद्राय पृथिवीपदे यस्यान्नमिवस्तस्मै ० ॥ समानं पूर्वेण ॥
'ब्रह्मण उपस्तरणमसि' इत्यनुवाकं जपन्ति । ते जपन्तो 'मित्रस्य चर्षणी धृत' इति मैत्र्या प्रथमयादित्यमवेक्षन्ते अब्लिङ्गाभिश्चाप उप- स्पृशन्ति ।
ब्रह्मण उपस्तरणमसि ब्रह्मणे त्वोपस्तृणामीळायै वास्त्वसि वास्तुमद्वास्तुमान्भूया वास्तुः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥
हे उदक असि त्वं ब्रह्मण उपस्तरणं, ब्रह्मा त्वामुपस्तीर्य बीजभूतमुवा लोकान् सृजति । यथोक्तम्
"अप एव ससर्जादौ तासु वीर्यमथाक्षिपत् ।" इति वीर्यं शक्तिरुदकस्यैव तु सर्वकार्य - निमित्तत्वम् । ब्रह्मणे त्वोपस्तृणामि, ब्रह्मपद- प्राप्तये त्वामहमुपस्पृशामि । इळायै च त्वामुप- स्पृशामि, इळा अन्नं तच्च ब्रह्मपदार्थिनाप्य- भ्यर्थनीयं तद्धेतुकनित्यकर्मादिसाध्यत्वादऽपव- र्गस्य । वास्त्वसि गृहमसि सर्वाश्रयत्वात्, वा- स्तुमत् ब्रह्मा हि तव गृहमाश्रयभूतं वर्तते ।
वास्तुमान् भूयाः पुरुषव्यत्ययोऽत्र । त्वत्प्रसा- दादहं वास्तुमान् भूयासम् गृहवास्यां ब्रह्मभूयं प्राप्नुयामित्यर्थः । अवास्तुः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः सोऽप्रतिष्ठो भूयात् ॥
प्रतिष्ठासि प्रतिष्ठा मे भूयादप्रतिष्ठः स भूयाद्योऽसान्द्वेष्टि यं च वयं द्विष्मः ॥
प्रतिष्ठन्ते यत्र लोकाः स प्रतिष्ठा असि भवसि उदक त्वमतो मम प्रतिष्ठा भूयात् । यस्तु अस्मान् द्वेष्टि यं च वयं द्विष्मः सोऽप्र- तिष्ठो भूयात् ॥
आ वात वाहि भेषजं वि वात वाहि यद्रपः । त्वं हि विश्वस्य भेषजो देवानां दूत ईयसे ॥
हे वात भेषजं सत्कर्मफलं ब्रह्मप्राप्तिलक्षण- मावाहि प्रापय, यद्रपः पापमविद्यालक्षणं त- द्विवाहि अपसारय । यतस्त्वं सर्वस्य भेषजः औषधं संसारव्याधिबाधकत्वात्, तथा देवानां दूतश्च ईयसे सञ्चरसि कर्मानुष्ठानरूपैः फलै- योजयसि । यत एवंभूतस्त्वं तस्मादुच्यसे ॥ यतो वात ते गृहे निहितस्य निधिहितः ।
ततो नो धेहि जीवसे ततो नो अभयं कृधि ॥
हे वात तव निधिहितो निधिमतो गृहे निहितस्य सर्वकर्मफलस्य यतः संभवः, तेनातः कर्मणो यद्भागधेयं, तन्नस्ततो निधेहि । यतद इति दकारस्य तकार छान्दसः । केचित्तु यदत इति पठन्ति । शताध्ययनस्याध्येतारः निधिर्हि स इत्यपि पठन्ति । स तव गृहे त्वनाश्रयत्वेन व्यवस्थितः प्रजापतिः सर्वफलविधान भूत इति तत्रार्थः । किमर्थं देहि भागधेयम् । जीवसे जी- वनाय चिरतरोपभोग्य स्वर्गादिफलोपभोगाये- त्यर्थः । ततो नोऽभयं कृधि, यदस्माभिः कर्म क्रि- यते ततोऽस्माकमभयं कृधि संसारतमोऽविद्या- स्मितारागद्वेषाभिनिवेशलक्षणक्लेशभयनिवारणं कुर्वित्यर्थः । एवमपि व्याचक्षते - हे वात तव यततो यतमानस्य गृहे यद्व्यवस्थितं फलं ततो निधेहि किंचिज्जीवनाय अभयाय इति ॥ द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
हे अश्विनौ अस्मान् परिपातं समन्ताद्रक्ष- तम् । कैः । द्युभिर्दिवसैः । कीदृशैः । अक्तुभि-
रभिव्यक्तैः निरभ्रैरत एव सुभगैः, रिष्टं हिंसकं तद्रहितैररिष्टैः । यच्च किञ्चन वयं कुर्मस्तन्माम- हन्तामतिशयेन पूजयन्तु । के ते । मित्रो वरु- । णोऽदितिः सिन्धुर्नदीसमुद्रलक्षणः पृथिवी उत द्यौः ॥
पृथिवी शान्तिरन्तरिक्षं शान्तिद्यः शान्तिर्दिशः शान्ति- रापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिस्त्वया हं शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे शान्तिं करोमि शान्तिर्नो अस्तु शान्तिरसि शान्तिः शान्तिः शान्तिः ॥
पृथिवी नोऽस्माकं शान्तिः 'अस्तु' इति स- र्वत्राऽनुषङ्गः । अस्त्वित्यस्य चानुषक्तस्य बहुव- चनान्तेषु वनस्पतिप्रभृतिषु विपरिणामः ।
हे उदक त्वया शान्त्यात्मकेन सर्वशान्त्या - त्मकेनाहं 'शान्तियुक्तो भूयासम्' इति शेषः । अतोऽहं मह्यं स्वार्थं द्विपदे पुत्राद्यर्थं, चतुष्पदे गवाद्यर्थं शान्तिं करोमि । यतोऽसि त्वं शान्ति- रतः शान्तिर्नो अस्तु, अविद्यादिक्लेशाः शाम्यन्तु नः इत्यर्थः । मुमुक्षं प्रति शान्तिः शान्तिः शान्तिरिति अभ्यासोऽतिशयार्थः संसारक्लेशै- कमयत्वप्रदर्शनार्थः ॥
या वादिता या चानुदिता शिवा नः शंतमा भव सुमृ- ळीका सरस्वति मा ते व्योम संदृशि ||
हे वाक् सरखति या त्वमुदितोच्चारिता वै- खरीरूपा, याच अनुदिता अन्तः संजल्पादिरूपा मध्यमा पश्यन्ती सूक्ष्मा च सा नोऽस्माकं शिवा क्षेमकारिणी भव शंतमा सुखतमा, सु- मृळीका शोभनसुखा । अभ्यासोऽतिशयार्थः । मा ते व्योम संदृशि, व्योम च्छिद्रं ते तव व्योम च्छेदं मा द्राक्षं त्वद्विहीनः कदाचिदपि मा भूवमित्यर्थः, अविच्छिन्नस्थितिं च त्वां दि- व्येन चक्षुषा जानीयामित्यर्थः ॥
मित्रस्य त्वा चक्षुषा प्रेक्षे मित्रस्य त्वा चक्षुषान्वीक्षे । सूर्यस्य त्वा चक्षुषा प्रेक्षे सूर्यस्य त्वा चक्षुपाभिवीक्षे | हे वाक् त्वामहं मित्रस्य चक्षुषा प्रेक्षे, मि- त्रस्य चक्षुषान्वीक्षे मित्रदृष्ट्या अनुपश्यामी- त्यर्थः । एवं सूर्यस्येति व्याख्येयम् । अभिशब्द आभिमुख्येऽत्र ॥
.. 'मित्रस्य चर्षणीधृत' इति मैत्रीं जपन्नादि- त्यमीक्षते ।
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम् ।।
मित्रस्य सर्वप्रीतिकारिण आदित्यस्य श्रवो धनं रश्मिलक्षणं अन्नादिहेतुत्वात् 'अहं वीक्षे' इति शेषः । कीदृशस्य मित्रस्य । चर्षणीधृतः चर्ष- यो मनुष्यास्तेषां धारकस्य, देवस्य द्योतना- दिधर्मकस्य । कीदृशं श्रवः । सानसि स्नेहकारि, उणादिषु स्नेहार्थ एव सानसिशब्दो निपातितः । द्युम्नं द्योतमानं यशोयुक्तमन्नयुक्तं वा । तथा च 'द्युम्नं द्योततेर्यशो वान्नं वा' इति निरुक्तकारः । चित्रश्रवस्तमं आश्चर्यभूततमधनमित्यर्थः ॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि । सत्यं चित्रश्रवस्तमम् ॥
आत्मनैवैतां पठति । अत्र सत्यमेतावन्मात्रं
विशेषः ॥
'आपो हि ष्ठा' इत्यादयस्तिस्रः । ताश्च सं-
मार्जने व्याख्याताः ॥
आपः पृणीत भेषजं वरूथं तन्वो मम । ज्योक् च सूर्यं दृशे ॥
हे आपः मम भेषजं हितकारि कर्म वेदा- ध्ययनादिकं कर्म पृणीत पूरयत । वरूथं तन्वो -मम, मदीयायास्तनोः शरीरस्य यूयमेव वरूथं
गृहमाश्रयः । ज्योक् चिरकालं च त्वत्प्रसादा- दहं सूर्य दृशे पश्यन् भूयासम् ॥
शं नो देवीरभीष्टय
इति व्याख्याता ॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ मित्रादयोऽस्माकं सुखरूपाः सुखकरा भव- न्त्वित्यर्थः । विष्णुरुरुक्रमः त्रैलोक्यस्य क्रमणे विततक्रम इत्यर्थः ॥
शं नो मित्रः शं वरुणः शं नो अस्त्वर्यमा । शं न इन्द्रश्चाग्निश्च शं नो विष्णुरुरुक्रमः ॥ अत्रास्त्वितिविशेषो देवताविशेषश्च ॥ त्यमूषु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहाह्वयेम | त्यं तं ताक्ष्यं गरुडमिह स्वसन्निधौ आ- येम आह्वयामः, ऊ इति निपातोऽनर्थकः । षु इति सुशब्दः, सुवाजिनं शोभनकम्पनं देवजूत देवानां प्रीतिकारणमभिमतं, सहोवानं, सह इति बलनाम, बलवन्तं रथानामपि तरुतारं तारयितारमरिष्टनेमिमहिंसितगतिं, पृतनाजं पृ-
तनानां परसेनानां जेतारं, आशुं शीघ्रगतिम् । किमर्थमाहयामः, स्वस्तयेऽविनाशाय ॥
'कया नश्चित्र' इति वामदेव्यस्तृचः शान्त्यर्थ
एवोच्चार्यते ।
कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥
हे इन्द्र का वृता वर्तनेन कर्मणा ऊति- रवनं संसारक्लेश निवारणमाभुवत् आ समन्ता- द्भवति । चित्रः, चित्रा आश्चर्यभूता परपुरु- षार्थरूपेत्यर्थः। सदावृधः सर्वकालाश्च समृद्धयः कया वृता भवन्ति । सखा, एतदूतेर्विशेषणम्। शचिष्ठयेति वृतेत्यस्य विशेषणं शक्ततमयेत्यर्थः ॥ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदंहसः । चिदारुजे वसु ॥
हे इन्द्रत्वा त्वां 'मुक्त्वा' इत्यध्याहारः, त्वां वर्जयित्वा कः सत्यः सत्यसंकल्पः । मदानां मंहिष्ठः नित्यानन्दात्मक हर्षयोग्यतया हृष्टानां मध्ये मंहिष्ठोऽतिशयेन पूजनीयः । अतस्त्वां मुक्त्वा कः सत्यः, यो अंहसः मत्सदंहसः मा- द्यत्पापस्य संसारक्लेशकारिणः संबन्धि वसु ध-
नमनाद्यविद्यावासनात्मकं सामर्थ्यं आरुजे आ- रुजति विनाशयति, दृढा चित्, सुदृढया चिता चैतन्येन विद्यारूपेणेत्यर्थः ॥
अभी षु णः सखीनामविता जरितॄणां शतं भवास्यूतिभिः ॥ हे इन्द्र नोस्माकं सुसखीनां शोभनसमान- ख्यानानामविता, जरितॄणां स्तोतॄणामभ्यविता आभिमुख्येन रक्षिता भवासि भव ऊतिभिः, शतशब्दोऽतिबाहुल्यलक्षणार्थः, अतिबहीभि- रूतिभिरवनक्रियाभिरविता भवेत्यर्थः । भवा- सीति लोड लेट् ॥
य उद्गात्पुरस्तान्महतोऽर्णवाद्विभ्राजमानः सरिरस्य मध्ये । समा वृषभो रोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ॥ स सूर्यो विपश्चिद्विद्यामयो मनसा मनने- नानुध्यानेन मां पुनातु पावयतु, यः पुरस्ता- पूर्वस्यां दिशि उदगादुदितः महतोऽर्णवात्स- मुद्रात् । विशेषेण भ्राजमानो दीप्यमानः सरिरस्य सरणमार्गस्याऽन्तरिक्षस्य मध्ये | वृषभः कामानां वर्षयिता, वृषभो वा सर्वज्योतिषामु- त्कृष्टः । रोहिताक्षः लोहितलोचनः कनकनयनः॥ यद्ब्रह्मवादिष्म तन्मा मा हासीत्सूर्याय विभ्राजाय वै नमो नमः ॥
यद्ब्रह्म वेदवादिष्म पठितवन्तो वयं तन्मा माहासीन्मात्याक्षीत् । सूर्याय विशेषेण भ्राज- मानाय पुनः पुनः नमस्कारोऽस्तु ॥ शान्ति- विमोकः ॥
आपमापमपः सर्वा अस्मादस्मादितोऽसुतः । अग्निर्वायुश्च सूर्यश्च सह सञ्चस्करुर्धिया ||
औपनिषदाः परमरहस्यमन्त्रा अमी परमाः पावनाः संसारघोरसागरसन्तरणोपायाः प्रायः सर्वत्र समर्थाः, प्रवर्ग्यत्रतेऽपि शान्तिप्रस्तावोप- योगिन आपमापमित्यादय इतीहावश्यं विव- रणीयाः । अपः पात्रे निधायोपस्तौति - सर्वा अप अहमापमापं प्राप्तवान् । अभ्यासोऽति- शयार्थः । अस्मादस्मादितोऽमुतः अस्मादिति प्रत्यक्षनद्यादिजलाशयनिर्देशः, अमुत इति परो- क्षाधाराभिधानम् । अभ्यासः साकल्यार्थः । एता अपः सर्वा अनिवायुसूर्याः सञ्चस्करुः संस्त- स्भवन्तः । धिया प्रज्ञया ॥
• वाय्वश्वा रश्मिपतयो मरीच्यात्मानो अद्रुहः । देवीर्भुवनम्वरी' पुत्रवत्त्वा इमे सुवः ॥
वायुवदश्वा व्यापकाः । के । रश्मिपतयः
रश्मयश्च ते पतयः पालकाः अप, रश्मय एव गर्भाः सन्तो मेघा भवन्ति । अतश्च मरी- च्यात्मानः, आपो मरीच्यन्तर्वर्तित्वेन स्थिता इत्यर्थः । अद्रुहः सूक्ष्मरूपेण मरीचिमध्यगता अपि द्रोहशून्या अनुपहिंसिका इत्यर्थः । देवीः देव्य आपः । भुवनस्य भुवनानां सूवरीः सूर्यः प्रसवशीलाः । इमे इमान् लोकान् असुवः सूतवत्यः । पुत्रववै पुत्राणां जीवात्मनामवत्वै अवनाय संसारक्लेशशान्तये ॥
महानाम्नीर्महामाना महायामा महासोमासः ।
देवीः पर्जन्यसूवरीः पुत्रवत्त्वा इमं सुव ॥
महानाम्नीभिर्ऋग्भिरुदकमुच्यते । ऋचश्च महानाम्न्यः तदभिधानादापस्तथा, महद्यतो नाम आसामपामिति, महाप्रभावा इत्यर्थः । अत एव च महामाना, बृहत्या पूजया युक्ताः । महा- यामा महापरिमाणाः । तथा महासोमासः, ताभिरेव ह्यभिषुतः सोमो यागयोग्यो भवति । एवंभूताश्च पर्जन्यसूवरी: पर्जन्यस्य मेघस्य सवित्र्यः । पुत्रवत्त्वा इमं सुव, इमं ब्रह्मचारिणं पुत्रवत्त्वाय सुव पुत्रजननयोग्यं संपादय ॥
अपाश्नुष्टिमपारक्षमपाश्नुष्टिमपारसम् ।
अपाधमनुजावर्ति मम देवीऋते हिताः ॥
अप इति षष्ठीबहुवचनस्य सुपां सुबित्या- देशः । स्नष्टिरेकदेशः । स्पृशामीत्यध्याहारः । अपामेकदेशं स्पृशामीत्यर्थः । उद्धृत्य हि जलै- कदेशोऽत्राभिमध्यत इत्युक्तम् । एवमपां रक्ष- कमंशमुद्धृतं स्पृशामि, अपां रसं सारम् । अपाघमनुजावर्ति, अपामघं पापं स्पृशाम्यप- सारयामि | सद्भावेऽप्सु पापस्य प्रमाणमाह- अनुजावर्ति, अपामनुजा जीवात्मानस्तज्जन्य- त्वात् तेष्वावर्तमानमघमशुचित्वं कारणेऽप्य- नुवृत्तिं गमयति, घटादिगतमिव गन्धादि मृ- त्पिण्डादिके । अतो वर्तमानं अघं आसामुद्धृत्य मन्त्रैः पावनं शान्त्यादौ । मम देवीऋते हिताः, मम ऋते हिता मम ऋते यज्ञे सत्ये च हिताः । अथवा मम देव्यो हिता आपः, यथा ऋतो यज्ञो हितो मम, ऋतः सत्यशब्दो वा ॥
वज्रं देवीरुदिताः स्थ वरुणं देवसूवरीः । आदित्यानुदितं देवीर्योनिनोर्ध्वमुदीषत ॥
यूयं पापनिवारणाय वज्रमिवोदिताः स्थ
भवथ । यतो वरुणस्य दोष निवारकस्य देवस्य सूर्यो यूयम् | आदित्यानुदितं कर्म व्रतादिकं काम्यं च तस्य कर्तारं हे देव्य ऊर्ध्वमुदीषत सर्वोत्कृष्टं संपादयतेत्यर्थः योनिना स्वजन्मनि- मित्तेन परब्रह्मशक्त्येत्यर्थः ॥
एवमादयो मन्त्रा बहुशक्तयः शान्तिविमो - केsयुपयोगिनः ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। एवमादयो जपमन्त्राः शान्त्युपयोगिनः । हें देवा वयं कर्णैर्भद्रं भन्दनीयं कल्याणं शृणु- यामः ब्रह्मप्राप्तिपर्यवसायि वेदान्तादिकम् । हे यजत्राः यष्टृणां त्रातारोऽक्षिभित्रैर्भद्रं प श्येम । तथा स्थिरैरविनाशिभिरङ्गैः करचरणा- दिभिरुपलक्षिताः सन्तस्तुष्टुवांसस्तुवन्तो देव- हितं देवेषु निहितं यदायुः, तत् व्यशेम विशे- षेणानुवाम तनूभिः शरीरैः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ इन्द्रो वृद्धश्रवाः वृद्धधनः बहुधनो नोऽस्म-
भ्यं स्वस्ति अविनाशं दधातु ददातु धारयतु वा । एवं पूषा आदित्यो विश्ववेदाः सर्वज्ञः स्वस्ति नो ददातु । तार्क्ष्यो गरुत्मानरिष्टनेमिः, 'रिष्टिहिंसाकर्मा', अरिष्टोऽनुपहिंसितः नेमिरा स्पदं स्थानं यस्य सः, अनुपहिंसितास्पदः । प्रान्तो वा नेमिरहिंसितमर्यादः केनाप्यनुल- ति इत्यर्थः । बृहस्पतिर्देवगुरुश्चास्मभ्यं स्वस्ति दधातु धारयतु वा ॥
केतवोऽरुणाः सश्चर्षणयो वातरशनाः प्रतिष्ठां शतधाय समाहिता अथो सहस्रधायसम् ॥
केतुसंज्ञका अरुणवर्णा ज्ञातारो वातमेखला शतधाय समाहिता समाश्रिताः प्रतिष्ठां समा- धिस्थैर्यादिकं शरीरगतेष्वनुभूय ततो मोक्षं गता इत्यर्थः । शतधायेति यकारोऽनर्थकः । अथो सहस्रधायसं, सहस्रधा इत्यर्थः, चिरत- रलभ्यो मोक्ष इत्यर्थः । तथा च स्मृतिः 'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ।'
इति ॥
शिवा नः शंतमा भवाथ दिव्या आप ओषधयो वन- स्पतयः ॥
नोऽस्माकं शिवाः क्षेमकारिण्यः शंतमाश्च सुखतमा यूयं भवथ ॥
सुमृळीका सरस्वति मा ते व्योम संदृशि ॥ अनेन भूमिमालभते | हे सरस्वति उदकवति सुमृळीका सुसुखदा भव, मा ते तव व्योम विच्छेदविप्लवं दस्युप्रभृतिकृतं द्राक्षम् ॥ इत्यरुणमन्त्रविवृतिः ॥
नैष्ठिक ब्रह्मचारिणो व्रतमुक्तमधुना मन्त्रार्थो विव्रियते । तत्र शताध्ययन उपनिषत्त्वेन प्र- सिद्धेष्वनुवाकेषु पञ्चदशसु प्रथमैकादशद्वाद- शानामिहोपयोगोऽस्ति । प्रथमस्य विघ्नशान्तौ, एकादशस्य शिष्यानुशासने, द्वादशस्यापि शा- न्तौ । तत्र प्रथमद्वादशौ तावत्
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे नमो वायवे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्याम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारं शान्तिः शान्तिः शान्तिः ॥
. मित्रादयोऽत्राध्यात्मिक्यो देवताः । तथा च श्रुतिः
इति । परमात्मविवर्तास्तत्परिणामा वा ज- गत्सूत्र प्राणप्रभृतयस्तदधिष्ठात्र्यो देवता मित्रा- दयः । एवं चक्षुषोऽधिष्ठाता देवताविशेषः अ- मा। अरीन स्वाध्यायादिविरोधिनः नियच्छति यः सोऽर्यमा । नोऽस्माकं मित्रः शं सुखं भवतु सुखमस्माकं भावयत्वित्यर्थः । एवं वरुणादि- ष्वपि योज्यम् । विष्णुर्व्यापकोऽन्तर्यामी उरु- क्रमो बृहत्क्रमः । नमो ब्रह्मणे, परमात्मने नमस्कारोऽस्तु । एवं वायवे वायुरूपाय जग- त्सूत्रभूताय नमस्कारोऽस्तु । हे वायो नमस्ते- ऽस्तु । परोक्षेण स्तुत्वा प्रत्यक्षेण स्तौति - हे वायो त्वमेव प्रत्यक्षं ब्रह्मासि भवसि नाभेरु- स्थितस्त्वमेव वेदरूपेण प्रत्यक्षेण विवर्तसे विप- रिणमसे वेत्यर्थः । अतस्त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि यतस्त्वमेव प्रत्यक्षं ब्रह्म । त्वामेव ऋतं वदिष्यामि सत्यं च ।
इह समुच्चीयमाने मोक्षोपायभूते ज्ञान. कर्मणी ऋतशब्देनोक्ते, तदितिकर्तव्यता तु सत्यशब्देन । अथवा ऋतसत्यशब्दयोरेकार्थ-
त्वात्पुनर्वचनमतिशयार्थम् । तदृतं च सत्यं च मामवतु, वक्तारमवतु । पुनर्वचनं पूर्ववत् । अथवा मामवतु वक्तारं, प्रवक्तारं चोपाध्या- यम् । शान्तिः शान्तिः शान्तिरित्यस्तु विघ्नाना- मिति शेषः । त्रिर्वचनं संसारस्य विघ्नभूयस्त्वा- दतिशयार्थम् । एष प्रथमोऽनुवाकः ॥
शं नो मित्रः शं वरुणः शं नो अस्त्वर्यमा शं न इन्द्र- वाग्निश्च शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे नमो वायवे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मा- वादिषमृतमवादिषं सत्यमवादिषं तन्मामावीत्तद्वक्तारमावी- दावीन्मामावीद्वक्तारं शान्तिः शान्तिः शान्तिः ॥ अत्र प्रथमाद्देवतामात्रं विशिष्यतेऽतीतका
लता च ॥
सहना अवतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजखिना अधीतमस्तु मा विद्विषावहै शान्तिः शान्तिः शान्तिः ॥
इदं शिष्योपाध्याय सह ब्रूतः, अन्यत्र तु दम्पती अपि । मित्रादिदेवतागणो नौ आवां शिष्योपाध्यायौ कर्मभूताववतु रक्षतु सह स्थितौ, तथा भुनक्तु पालयतु भोजयतु वा नित्यानन्दरूपमपवर्ग फलम् । सहैव च स्थितौ वीर्यं वेदाभ्याससमुद्भूतमतिनैर्मल्यलक्षणं क
वावहै कुर्वहै । तेजखिनौ अभिभवितुं केना- प्यशक्यौ । यदधीतं, तदावयोरस्तु स्थिरम् । मा विद्विषावहै, आवयोरन्योन्यं विद्वेषो मा भूत् । शान्तिरिति व्याख्यातम् । एवमावाप- स्थाने शान्ति कृत्वा, शिष्यं मेधावित्वमनि- राकरिष्णुत्वं च कामयमानमाचार्यों वाचयेह- द्वयम् ॥
यच्छन्दसामृषभो विश्ववेदाश्छन्दोभ्योध्यमृतात्संवभूव । स मामिन्द्रो मेधया स्पृणोत्वमृतस्य वेदधारणो भूयासम् ॥ शरीरं मे विचक्षणं वा मधुमदुहे । कर्णाभ्यां भूरि सुश्रवं ब्रह्मणः कोशोस्मि मेधया पिहितः श्रुतं मे गोपाय ॥ मन्त्रवर्णाज्जपमात्रादेव मेधादिफलं धारण- शक्तिरनिराकरिष्णुता तां च प्राप्नोति । यः छन्दसां वेदानां ऋषभो वर्षिता कामानां प्र- धानभूतो वा ॐकारः विश्ववेदाः सर्वज्ञः सर्व- धनो वा, छन्दोभ्यो वेदान्तेभ्योऽमृतरूपोऽधि- बभूव । अविद्यावशेन द्वैतापन्नो वेदान्तार्थानु- ष्ठानेन सर्ववेदार्थानुष्ठानेन वा ज्ञानकर्मसमुच्च- येनाधिकमृतरूपो नित्यानन्दाद्वैत रूपो भवती- त्यर्थः । स इन्द्रः प्रजापतिः मा मां मेधया
स्पृणोतु प्रीणातु । अमृतस्यामृतत्वाय मोक्षा- याहं वेदधारणशक्तियुक्तः स्याम् | अनिराक रिष्णुताप्यत्रोक्ता । तथा मम शरीरं विचक्षणं मोक्षोपायानुष्ठान चतुरं भूयात् । वाक् च वेद- युक्ता मधुमत् मधुररसयुक्तं कर्म फलं दुहे दोग्धु । कर्णाभ्यां भूरि बहु चिरं सुश्रवं शोभनं शृणुयां वेदान्तरूपम् । ब्रह्मणो वेदस्याहं कोशो वेदार्थ- ज्ञानरत्ननिचयभाण्डागारं भूयासम् । भाण्डागारं च पिधानेन स्थगितं भवतीत्याह - मेधया प्रज्ञा- जनितसंस्कारेण पिहित आच्छादितो रक्षितः दृढसंस्कारवशेन वेदार्थस्याविस्मरणात्। श्रुतं मे गोपाय, मम श्रुतं च रक्ष परप्रयोजनयुक्तं कुर्वित्यर्थः ॥
श्रीकामः 'आवहन्ती वितन्वाना' इत्यादि- भिर्जुहुयात् ।
आवहन्ती वितन्वाना कुर्वाणा वरमात्मनः । वासांसि मम गावश्चान्नपानेन वर्धय ॥
तो मे श्रियमावह लोमशां पशुभिः सह खाहा ॥
ऋग्यजुषाभ्यामाभ्यां द्वे आहुती जुहुयात् । एकामित्येके, ऋग्यजुषान्त एकस्वाहाकारात् ।
अन्याश्चाहुतयोऽत्र पूर्वव्याख्यातैः स्त्रीलिङ्गकै- तव्याः । हे श्रीः मम वासांसि गाश्चा- ऽन्नपानेन सह वर्धय । किं कुर्वती । आवहन्ती प्रापयन्ती ढोकयन्ती । वितन्वाना विविधं वि- शेषेण वा विस्तारयन्ती । आत्मनश्च वरं कुर्वाणा वरणीयं वरमुत्कृष्टं मणिकनकादिकमात्मसम्ब- न्धितया कुर्वाणा । अतो मे श्रियमावह, यस्मा- त्सम्यगधीत वेदोऽहमुपाध्यायावश्यदेय दक्षिणा- योग्यतोपनतार्थिविशेषो वा, ततो हेतोर्लोमशां लोमशाजाविप्रभृतिभिर्विभूषितां पशुभिरश्वा- दिभिः सह । उपकुर्वाणकस्यैतदुक्तमित्याहुः ॥ यशस्काम ‘आ मा यन्तु' इत्यष्टाभिर्जुहुयात् । यद्याचार्यो जुहोति, अथापि ब्रह्मचारी, उभयथा ब्रह्मचारिणः फलं तदुद्देशेन कर्मकरणात् ।
आ मा यन्तु ब्रह्मचारिणः स्वाहा । सं मा यन्तु ब्रह्मचा- रिणः स्वाहा । तपोयशोयशानि स्वाहा । जनोयशोयशानि स्वाहा । तं त्वा भग प्रविशामि स्वाहा । स मा भग प्रविश स्वाहा । श्रेयान्वसो यशोयशानि स्वाहा । अस्मिन्सहस्रशाखे विभजाहं त्वयि मृजे स्वाहा ॥
ये ब्रह्मचारिणो धर्माः सिद्धयश्च ते मा मां आयान्तु । प्रजापतिरेवमभ्यर्थ्यते । तदर्थं च
सुहुतमस्तु । एवं सम्यगायान्तु मां ये ब्रह्म- चारिणः सम्बन्धिनो यमनियमादयः । तपो यशोयशानि स्वाहा, तपांस्येव यशः प्रकाराः तपोयशोयशानि तपोयशोयशांसि समायान्तु, 'प्रकारे गुणवचनस्य' (८|१|१२) इति द्विर्वच - नम् । तदर्थं च सुहुतमस्तु । तपोलोके वा स्वर्गविशेषे ये यशः प्रकारास्ते समायान्त्वि- त्यर्थः । एवं जनोयशोयशानि स्वाहेति व्याख्ये- यम् । तं त्वा भगेति, हे भग भजनीय ब्रह्मन् त्वामहं प्रविशामि । स मा भगेति, स त्वं हे भग मां प्रविश । श्रेयान्वसो यशोयशानि स्वाहा, हे वसो वासयितः धनद त्वं श्रेयान् प्रशस्योऽतिशयेन, अतस्त्वत्प्रसादान्मां यशांसि प्रविशन्तु तदर्थं च सुहुतमस्तु । अस्मिन्सह- स्त्रेति, अस्मिन्बहुशाखे यजुर्वेदे ब्रह्मविभवोप- निषत्पथे वा विभज विभागयोगिनं कुरु । अहं 'स्वयि विषयभूते हे ब्रह्मन् मृजे आत्मानं शो- धयामि, विगतनिखिलमलं सम्पादयामि ब्र- ह्मणि क्षीणं, तदर्थं तु सुहुतमस्तु । आर- यकत्रत पद्धति पर्यवसाने त्विदं कार्यम् ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति इदं कर्तव्यमिदमकर्तव्यमित्यौपनिषदैकादशानुवा-
केन । एकादशानुवाकस्तु -
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमद । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । यत्नान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । स्वाध्यायप्रवच- नाभ्यां न प्रमदितव्यम् । यज्ञाद्देवपितृकार्येभ्यो न प्रम- दितव्यम् | मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि या कर्तव्यानि नो इतराणि । अथ यान्यस्माकं सुचरि- तानि तानि त्वया कर्तव्यानि नो इतराणि । अथ ये केच- नास्मच्छ्रेयांसो ब्राह्मणा आगच्छेरन् तेषां त्वयासनेन प्रश्र - यितव्यम् । श्रद्धया देयमश्रद्धया देयम् । संविदा देयम- संविदा देयम् । हिया देयम् । भिया देयम् । विच्यै देयम् । अवित्त्यै देयम् । भूत्यै देयम् । अभूत्यै देयम् । अथ यदि ते कर्मविचिकित्सा वृत्तिविचिकित्सा वा स्याद्ये तत्र ब्रा- ह्मणाः संमर्शिनो युक्ता आयुक्ता अलक्षा अलुब्धा धर्म- कामा वा स्युर्यथा ते तत्र वर्तेरंस्तथा त्वं तेषु वर्तेथाः । अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलक्षा अलुब्धा धर्मकामा वा स्युर्यथा ते तत्र वर्तेरंस्तथा त्वं तत्र वर्तेथाः । एष आदेश एष उपदेश एषा वेदोपनि- पदेतदनुशासनमेतदुपास्यम् ॥
उपनिषत्संहितामधीत्यैवेदमुच्यते । आचार्य एकादशानुवाकाभिहितां नीतिमुपनिषद्ध्यय- नान्ते ग्राहयति, अत एव " वेदाध्ययनानन्तर- मेव धर्मजिज्ञासा कर्तव्या" इति जैमिनिमुनिना निगदितम् । यत एकादशानुवाकारम्भ एव 'वेदमनूच्य' इति श्रुतिरप्यस्ति मूलभूता । वेद- समुत्थ एव हि न्यायः प्रमाणम् । यत्रोच्यते "आप धर्मोपदेशं च वेदशास्त्राविरोधिना । . यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः" ॥ इति । अवेदमूलस्तु मानुषमतिमात्रकल्पितः कुतर्को धर्माधर्मौ प्रति न प्रमाणं यथा सौगत बार्हस्पत्यकल्पः । यत्रेदमुच्यते
" पुराणं मानवो धर्मः सांगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः " ॥ "तर्कोऽप्रतिष्ठः स्मृतयो विभिन्ना नासावृषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तच्वं निहितं गुहायां महाजनो येन गतः स पन्थाः " ॥
"हस्तस्पर्शादिवान्धेन"
- इति ॥ हे ब्रह्मचारिन् सत्यं वद, सत्यं पुनः परोप-
कारपर्यवसायि, असत्यमपि सत्यफलं कदाचिद्र- क्तव्यं येन ब्राह्मणवधादिकं रक्ष्यते । यथोक्तं
" सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । असत्यं च प्रियं ब्रूयादेष धर्मः सनातनः " ॥ धर्मं चर, विहितकर्माचारसंग्रहादिकमनु- तिष्ठ । खाध्यायान्मा प्रमद, स्वाध्यायविषयं प्रमा- दमालस्यादिनानध्ययनं मा कृथाः । आचार्य- दक्षिणार्थमभिमतं धनमाहृत्य पुत्रपौत्रादिस- न्तानविच्छेदं मा कार्षी, गुरवे दक्षिणां दत्त्वा विवाहं कुर्यादित्यर्थः । सत्यस्यासत्यभाषणं प्र- मादः । धर्मस्य नित्यनैमित्तिकलक्षणस्याकरणं प्रमादः । काम्यस्य तु विगुणस्य करणमकरणं च । एवं यत्नस्य प्रमादः आलस्याद्युपहतता । कुशलं शरीररक्षादिकं तत्र प्रमादः स्वास्थ्ये- प्यभयेन तच्छान्त्यादिकरणं, स्वस्त्ययनं हिं प्रत्यहं शान्तिरूपं वैश्वदेवादावाम्नातम् । खा- ध्यायप्रमादो न कर्तव्यः, प्रवचने चाध्यापने आवृत्तोऽपि वेदो गुणितव्योऽध्यापयितव्यश्च । एवं यज्ञेषु पाकयज्ञादिषु प्रमादोऽननुष्ठानल- क्षणो न कर्तव्यः । माता देव इव यस्य स..
मातृदेवो भव । त्वयाऽनवद्यानि अगर्हितान्येव कर्माणि कर्तव्यानि, न कदाचिदितराणि । श्रुति- स्मृतिविहितान्यपि लोकविगर्हितानि वर्जनी- यानि पुराणमोक्षनिवेशनादीनि । अस्माकं च गुरुतद्भार्यापत्यप्रभृतीनां शोभनान्येव चरि- तानि कर्माणि आचरितव्यानि, नेतराणि । गुरु- भिरपि सद्भिर्यानि व्यामोहदानि चरितानि अनुष्ठितानि तानि श्रद्धया नानुष्ठातव्यानि, यथा विश्वामित्राचरितश्वजघन्याशनचण्डाल- याजनादीनि । तथा ये केचनारमत्सकाशादति- शयेन ज्यायांसो बहुविद्येत्वादिना ब्राह्मणा आगच्छेयुस्तेषां स्वयासनेन प्रश्रयितव्यं, आ- सनदानपादसंवाहनात् प्रश्वसनं खेदापनोदन. लक्षणं कर्तव्यम् नतु दर्पेणोद्ग्राहणिकादि- कमारब्धव्यमित्यर्थः, श्रद्धा आस्तिक्यबुद्धि- स्तयैव देयम् । कदाचित्त्वश्रद्धयाऽपि देयं लो- कविगर्हपरिहाराय | बहुजनेषु संघटितेषु गा. यनादिविषयेषु समुदायदाने प्रस्तुते कर्मण्य- प्रसिद्धिपरिहारायाऽश्रद्धयापि देयमित्यर्थः ।
१. बहु वित्त्वादिना .
अथवाऽश्रद्धयाऽदेयमित्यकारप्रश्लेषः । संवित् भृत्यादिभरणाय प्रतिज्ञा - इदं मया देयमिति । तया देयमित्यर्थः । असंविदाप्यप्रतिज्ञातमपि कर्मकौशलमवलोक्य देयम् । दौर्गत्येऽपि संब- न्धिबान्धवार्थिजनायाभ्यागताय वाक्भूमितृ- णोदकादि यथाशक्ति हिया देयम् । नागवि- नायक दुर्गाद्युग्रदेवताभ्यः पूर्वतरसंकल्पितं ब- ल्युपहारादि तदाक्रमणभिया देयम् । वित्तं प्रयोजनं यत्रास्ति सा वित्तिस्तदर्थं देयम् । अवित्त्यै च देयं कदाचित् । भूत्यै विभवाय देय- भूत्यै अपि कदाचित् । श्रद्धया देयमित्यस्यैव सर्वोऽनुवादः स्तुत्यर्थत्वेन वा । एवं वेदार्थे वर्त- मानस्य यदि कदाचित्कर्मसु वैदिकेषु संशयः स्यात् केषुचित्, वृत्तौ वा जीवनोपायधनार्जने किमस्मादादेयं उतनेति, तदा ये तत्र त्वन्न- वासदेशे ब्राह्मणास्तेभ्यः सन्देहोऽपसारयित - व्यः । कीदृशा ब्राह्मणाः । सम्यग्विमर्शकुशलाः, युक्ताः अविकलकरणाः, आयुक्ताः अनुष्ठान- सक्ताः अलक्षाः अक्रूरमतयः, अरूक्षा इति पाठेऽप्ययमेवार्थः, अलुब्धाः अलोभिनो लोभ-
शून्याः । धर्मकामा वा स्युः, धर्मकामा एव यदि स्युः यथा ते तत्र कर्मवृत्त्यादौ प्रवर्तन्ते तथैव त्वं प्रवर्तेथास्तत एव निर्णयं कुर्या इ- त्यर्थः । अन्याचार्यपृष्टेन च यथार्थोपदेशिना भवितव्यमर्थात् । ये तु तत्र अभ्याख्याता आभिमुख्येन असंभिन्न बुद्धयस्तेषां बुद्धिसंभेदं विरोधं च मा कार्षीः । किं तर्हि । यथा ते पूर्वोक्तगुणका ब्राह्मणाः प्रवर्तेरन्, तथा वर्तेथाः संवृत्तिमत्त्वेन । अभ्याख्याताः आभिमुख्येन ख्याताः मन्त्रिप्रभृतयः । यदेतन्मदीयं शासनं एष आदेशः धार्मिकस्य राजादेराज्ञा । उपदेशो वैदिको हितपर्यवसायी वा विशेषोपनिषद्रह- स्यमित्यर्थः । प्रत्यवायाभावेन बलेन लोभेन रह- स्यसंबोधनेन चानुष्ठातव्यमेवमेतदित्यर्थः ॥ इत्यारण्यत्रतानि संपूर्णानि ॥
इति त्रयश्चत्वारिंशी काण्डिका ॥ ४३ ॥



  1. द्र.शां.श्रौ.सू. १०.१४