वक्रोक्तिपञ्चाशिका (रत्नाकरविरचिता)

वक्रोक्तिपञ्चाशिका
रत्नाकरः
१९२९

[१]महाकविश्रीरत्नाकरविरचिता

वक्रोक्तिपञ्चाशिका ।

[२]बल्लभदेवकृतया पञ्चिकया समेता ।

वागीश्वरी नमस्कृत्य गणानां च तथेश्वरम् ।
वक्रोक्तिवर्णने रात्ने पश्चिका क्रियते लघुः ॥



नयविषयाम्, परोक्षामित्यर्थः कैशवीं मूर्ति दृशोर्गोचॆ नायं नायं नीत्वा नीत्व ॥
१. यमुनाया यमोभ्राता, सूर्यश्च पिता. तस्मात्ताववज्ञां पीडां च सहेते.
२.आमन्त्रितानि "संज्ञाकान्तसुते" इत्यादीनि संबोधनपदानि। तत्संख्यजनितम्,
सप्तजन्मकृतमिति यावत्। संज्ञा सूर्यस्य पत्नी.।
३.अयं रत्नाकरमहाकविः कश्मीरदेशेऽवन्तिवर्मणो राज्यकाले समुत्तपन्नः।
"मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः। प्रथां रत्नाकरश्चागासाम्राज्येऽवन्तिवर्मणः ॥'
इति राजतरङ्गिणी (५।३९). अवन्तिवर्मराज्यकालस्तु ८५५ मितात्निसतसंवत्सरादारभ्य
८८४ पर्यन्तमासीत्। रत्नाकरप्रणीतं हरविजयामिधं पञ्चाशत्सर्गात्मकं महाकाव्यं कश्मी-
रेषु प्रसिद्धमस्ति. ४. मल्लिनाथाबहुतरप्राचीनो बल्लमदेवस्तु बिस्तसंवत्सदशमशतकस्य-
पूर्वार्धे वभूष. यव एतत्पौत्रेण चन्द्रादित्यपुत्रेण कय्यटेनानन्दवर्धनकृतदेवीशेतकरम
- टीकायां समाप्तौ बलमदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । किय्यटनामारचयद्विवृतिं दे-

सव्यालम्बनमेतदध भवतो निःलेह मुञ्चाम्यहं
सव्यालं विजहीहि सुन्दरि वनं निःस्नेहता नास्ति में।
मैवं वक्ष्यसि किं वनं ननु जलं मूर्ध्ना मयैवोह्यते
वक्रोक्त्येति हिमाद्रिजामवचसं कुर्वन्हरः पातु वः ॥१॥

सव्यालम्बनं वामभागावस्थानम् ,सव्यालं व्यालैर्दुष्टसत्त्वैः सहितं वनं च । दन्त्यौष्ठययोर्हि शब्दालंकारेषु यमकवक्रोक्त्यादिषु न तथा कवयो भेदग्राहिणः । मैवम् । कुटिल कस्य वनविवक्षेत्यर्थः । वक्ष्यसि कथयिष्यसि, भारयिष्यसि च । "वह प्रापणे" धातोः । वनं काननम्, जलं च । अवचसं जित्वा निर्वचनाम् ॥

त्वं हालाहलभृत्करोषि मनसो मूर्छां ममालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः।
सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरो हरः पातु वः ॥२॥

हालाहलं विषविशेषम् , हालां मुराम , हले सीरं च । आलिङ्गितस्त्वं मम मनसो मूएछाम् करोषीति संबन्धः । गौरव वाहनं गोवाहनम् , गोश्च वृषभस्य वाहनं प्रेरणम् । हल वहतीति हालिकश्च । "हलसीराट्टक्" । स्मेरः सहासः॥

त्वं मे नाभिमतो भवामि सुतनु श्वश्वा अवश्यं मतः
साधूक्तं भवता न मे रुचित इत्यत्र ब्रुवेऽहं पुनः ।
मुग्धे नास्मि नमेरुणा ननु चितः प्रेक्षस्व मां पातु वो
वक्रोक्त्येति हरो हिमाचलभुवं स्मेराननां मूकयन् ॥ ३ ॥

में नाभिमतो में मम चालिमतो न रुचितः, मेनायाश्च निजश्वश्वासिमतः । मेना हिमाचलस्त्री । न मे रुचितो न मे मम सचितोऽमिमतः, नमेरणा बन्यफलविशेषेण च चितो व्याप्तः॥


वीशतकस्तोत्रे ॥ वसुमुनिगगनोदधि (४०७८) समकाले याते कलेस्तथालोके । द्वापञ्चाशे वर्षेरचितयामगुप्तनृपे ॥' इस्लेखि. भीमगुप्तश्च ९७५ मिततिस्तसंवत्सरादारभ्य सपादं वर्षचतुष्ट कश्मीरान्युभोज कश्मीरदेशप्रसिद्ध लोकान्दश्च तदानीं द्विपश्चाशन्मित आसीदित्यर्थःxx काम्दश्च सदा शतसंख्यातो न्यून एव तिष्ठति. वल्लभदेवकृता रघुवंश- कुमारजंभव-मेघदूत-शिशुपालवध-सूर्यशतकादिटीकाः समुपलभ्यन्ते. देवीशतकस्यापि संक्षिप्तं टिप्पणं वल्लभदेवेन कृतम् सुभाषितावलीसंग्रहकर्ता बलभदेवस्त्वन्यः स च विसावत्सरीमपञ्चदशशतकपूर्वार्षतो न प्राचीनः,

नो संध्याहितमत्सरा तब तनौ वत्स्याम्यहं संधिना
न प्रीतासि वरोरु चेत्कथय तत्प्रस्तौमि कि विग्रहम् ।
कार्य तेन न किंचिदस्ति शठ मे वीनां ग्रहेणेति वो
दिश्याद्वः प्रतिबद्धकेलिशिवयोः श्रेयांसि वक्रोक्तयः ॥ ४ ॥

संध्याया दिनरात्र्यो रात्रिदिनयोश्च मध्यस्थायाः पितृप्रस्वाः, संधिना संयोगेन चाहितो मत्सरो यस्याः सा संध्याहितमत्सरा । विग्रहो बिरोधः, वीनां पक्षिणां च ग्रहो ग्रहणम् । शिवश्च शिवा च शिवौ । एकशेषः । तयोः शिवयोः ॥

न त्वं संप्रतिभासि वातरशनस्त्यक्ता त्वया किं त्रपा
मुग्धे संभाविनी न वातरशना को मेखलाया विभो ।
संबन्धोऽत्र किमेतदाह भवती स्यात्ते खलत्वं कुतः
श्रेयांसीति करोतु वः प्रियतमां सूक्त्या हरो हासयन् ॥ ५ ॥

वाता गता रशना यस्य, वातरशनो दिगम्बरः । वातो वायुश्च रशना मेखला यस्य । मेखलाया रशनायाः, मे मम च खलाया दुष्टायाः । हासयन्सहासां कुर्वन् ।

नासूयाम्यहमस्थिराजय इह त्वद्देहभागे कथं
मुग्धे संयुगभग्नदानवगणा नैव स्थिराल्त्र्ं जये।
मूढेनेव जया वदेति भवताकसात्किमामध्यते
वक्रोक्त्येति पुनातु वो गिरिमुवा मूकीकृतः शंकरः ॥ ६ ॥

असूयाम्युद्विजे । अस्थिराजयेऽस्त्रां कीकसानां राजिः पङ्क्तिस्तस्यै की कसश्रेणये, पद- भङ्गे, जये जयविषयेऽस्थिरा चटुला च । है मुग्धे रणमग्नदैत्यगणा त्वं जयेऽनमिभवे नैव स्थिरा । काक्वा स्थिरैवासीत्यर्थः । जये जयामिधाने, प्रतीहारिणि च । अत एव त्वया मूढेनेव त्वं वदेति जया जयामिधा प्रतीहार्यकस्मादेव निर्हेतु किमामन्ञ्यते किमाहूयते । इति गिरिमुवा पार्वत्या वक्रोक्त्या मूकीकृतो निर्वचनीकृतः ॥

सालंकारतया स्वया मम कथं नेन्दोः कला दृश्यते
पश्यामीन्दुकला स्फुटं पुनरिदं लङ्कारता नास्मि यत् ।
नो भूषाविषयं मयोदितमिदं स्वामिन्क्व भूः क्वाप्युषा
दिश्यादद्रिसुतानृजूक्तिविजितः शूली स वः संपदः ॥ ७ ॥

सा प्रसिद्धालंकारतया भूषणत्वेन, लङ्कायां च रावणपुर्या रतया सक्तया । भूषालंकारः।

वक्रोक्तौ तु भूश्च भूमिश्च, उषा बाणसुता व भूषा तद्विषयम् ॥

कोपं संप्रति मुञ्च देवि विनते मय्येष बद्धोऽजलि-
र्नैवाहं विनता निरागसममुं वनासि किं न्वजलिम् ।
मुग्धे नोक्तमिदं मया स्फुटमिदं वं मुग्ध इत्थं ब्रुव-
न्सूक्त्या शैलभुवा विनिर्जित इति त्र्यक्षः शिवायास्तु नः ॥ ८॥

विनते प्रहे मयि, विनता गरुडमाता च तस्या आमन्त्रणं हे विनते । मुग्धे इत्याम अणं है मुग्धे, नेति निषेधे मया नोक्तमिदम् । वक्रक्तो तु मुग्धेनेति तृतीया। मुग्धेन मूढेन ।

द्वीपिन्यत्र तवेश मूर्वनि न मे जाताधुना निर्वृति-
र्यो मूर्धा दयिते कथं स भवति द्वीपीति नावैषि किम् ।
स्थान्नावा स्थल एव ता यदिह किं कार्यं ययैमीति वो
दिश्यान्मालमद्रिजानृजुगिरा स्मेरः स्मरारिर्जितः ॥ ९॥

द्वीपिनी नदी गङ्गा । 'सोतस्वती द्वीपवती' इत्यमरः । वक्रोक्तो तु गाङ्गाधारणाद्विधा गता आपो यत्र स दीपी मूर्धा, दीपी शार्दूलय । शार्दूलदीपिनौ इत्यमरः । निर्वृत्ति: सुखम् । नावैषि न जानासि । नावा च तरण्या एष्यागछसि । यया नावा एम्यागच्छामि। अद्रिजया पार्वत्या । अनुजुगिरा वक्रोक्त्या जितः । स्मेरः सहासः ॥

घूते मां प्रति देव कीदृशमिहाकार्षीः पणं देवकी-
दृष्ठ्या किं क्रियतेऽत्र नाभिहितवत्यस्मीति किं भाषसे ।
स्थातिक सुन्दरि नाभये बद हितं यत्तेऽस्ति गौरीमिति
ध्यक्षः स्मेरमुखीं जयन्कुटिलया वाचास्तु वः श्रेयसे ॥१०॥

देव कीद्दशमिति । हे द्वे कीदृशं कर्थभूतम् , देवक्याश्च श्रीकृष्णमातुदृश्ं दृष्टिम् । नाभिहितवती नोक्तवती, नाभये च हितवत्यनुकूला ॥

त्वामालिङ्गि तुमाहतं बहुभुजं जानामि धन्यं चिरा-
दात्मानं दयिते किमेष बहुमुक्तन्वीति मैवामिधाः ।
ख्यातैवास्ति यतो ममानशनता सत्य न नश्यस्यसा-
वाघेयादिति नः शिवं गिरिसुतासूक्त्या शशाङ्की जितः ॥ ११ ॥

बहुभुजं सहस्रबाहुम् , बहु भुनीक्तीति बहुमुक्तं प्रभूताधिनं र । एषोऽहं हे तन्वि इति मैलाभिषाः । अभशनता नाशनं भोजन यस्य सोऽनशनं ना नाशनं नाशो यस्यसा-

वनशनस्तद्भावोऽनशनता स्माधेयास्किया । सूक्तिः सुभाषितोक्तिः वक्रोक्तिरित्ययं॥

अस्मिन्सानुमति प्रिये न रमसे कमान्मुधा खेदिनी
नाहं सानुमती प्रिया सुभग ते येनेत्थमामन्त्रिता ।
सज्जानास्यभिभाषितं सुवदने सज्जा स्थितैवास्मि ते
वक्तुं पृच्छ यदीच्छसीति विजितो गौर्यावताद्वो हरः॥ १२ ॥

मुधा व्यर्थं खेदिनी सानुमति पर्वते । परत्र हे सानुमति । सानुमती नामाप्सराः । सत्साधु जानासि वेत्सि । वक्रोत्तौ तु सज्जा सावधाना नासि न भवसि । वक्तुं सज्जा पावधानैवास्मि यदि त्वं पृच्छसीति गौर्या विजितः ॥ </poem> इष्टा गौरवशालिनी त्वमधिकं तन्वङ्गि मे सर्वदा नेष्टाहं शठ गौः कदाचिदवशा नैवालिनी च क्वचित् । चक्रोक्तौ तव जृम्भते कुशलता स्याद्दर्भवल्ल्यात्र किं देव्या बोऽनृजुवाक्यनिर्जित इति त्र्यक्षः क्षिणोतु द्विषः ॥ १३ ॥ </poem> गौरवशालिनी बहुमानश्लाघिनी । परत्र । गौः, अवशा, अलिनी च। अलिनी भ्रमरी । कुशलता कौशलम् , कुशानां च लता वल्ली। अनृजुवाक्येन वकोक्त्या वि- जितः। क्षिणोतु क्षपयतु ॥

  
नो दीयामि सहामुनाहमधुना द्यूते प्रवीणो हरः
सत्यं देवि हरोऽस्मि नैव तु पुनर्वीणा प्रकृष्टास्ति मे।
केनागादि तवेदृशं शिरसि मे नास्त्येव नागादि भोः
पार्वत्येति हतोत्तरो हरतु वः सूक्त्या विभुः कल्मषम् ॥ १४ ॥

अधुनामुना शंभुना सह नो दीव्यामीति सखीं प्रति पार्वत्युक्तिः । अत्र हेतुमाह- धूत इत्यादि । प्रवीणः कुशलः, प्रकृष्टवीणश्च । हरः शिवः, हर्ता च पणम् । अगादि कथितम् । 'गद व्यक्तायां वाचि' । पक्रोक्तौ तु के शिरसि नागादि नागः सर्प आदि- र्यस्य तन्नागादि में नास्त्येव । भोः शंभो ॥

  
नो शक्तासि पतन्त्रिमार्गमधुना मूर्धानमेतं तव
द्रष्टुं नैव पतत्रिणां प्रियतमे मार्गोऽस्ति मूर्धा क्वचित् ।
नन्वेतद्विगलत्सुरापगमहं द्वेष्मि प्रिये नो सुरा-
नद्यस्मिन्गलतीति वक्रमुदितं देव्या विभोः पातु वः ॥ १५ ॥

पतत्रिमार्ग पतन्ती त्रिमार्गा गङ्गा यसात्तं वहद्ङ्गमम्, पतत्रिणां पक्षिणां मार्गं न्यानं च । ननु निश्चये । अहमेतत्त्वच्छिरो. बिगलत्सुरापगं गलद्गङ्गं द्वेष्मीति ९०. पार्वत्युक्तिः । सुराणां देवानामापगा नदी गङ्गा । वक्रोक्तौ तु सुराया हालायाश्चाप

उच्चैः किं न दधास्युपाकरकृते केशग्रहे त्वं शिरो
मुग्धे नात्र कृतः कचग्रह उपाहस्तेन मे कुत्रचित् ।
सोमं वच्मि शठ त्वया विरहितः सोमोऽस्मि नेत्यन्यथा
मा बृहीति हतोत्तरामगभुवं कुर्वन्हरः पातु वः ॥ १६ ॥

उच्चरित्यादि पार्वत्युकिः । उषाकरकृत उषां रात्रिं करोतीत्युपाकरधन्द्रस्तेन कृ- केशग्रह उच्चैरुन्नतं शिरः किं न दधासीत्युपहाराः । चक्रोक्ती तु । उपायाश पाणदु- हितुः करो हस्तः । हे शठ सोमं वच्मि । वक्रोक्तो तु सोमम् , उमासहितं च । त्वया विरहितो वियुक्तोऽहमेव सोमः । सहोमया वर्तते सोऽसौ सोमः । सोमो नास्मीत्यन्याय मा ब्रवीः । बया युक्त एष सोमोऽस्मीति । शठेति मा वदेत्यर्थः ॥

जेतुं नाथ न वक्रतावहितया शक्यो गिरा त्वं मया
प्रत्यग्रः सुतनु क्रतुः कथय को यत्राहितत्वं तव ।
किं तत्स्यादहितत्वमत्र दयिते नागेश्वरः पृच्छ्यता-
मित्यव्याकुटिलोक्तिनिर्जितहिमक्ष्माभृत्स्तुतो वः शिवः ॥ १७ ॥

वक्रतावहितया वक्रतायं वक्रोक्ताववहितया सावधानया मया न त्यंजेतुं शक्यः । परत्र । नवक्रतौ नवयज्ञेऽहितया विपक्षभूतया । अहितत्वमाहितस्य भायोऽहित्वम् । अहीनां सर्पाणां तत्वमाहितत्त्वम् । अत्राहितत्त्यमित्यस्यादितत्त्वार्थे व्यसनद्वयभावेऽपि न दोषः । हलः परस्यैकस्य व्यजनत्याद्वयोर्धा यमकचित्रवक्रोत्यादां विशेषमावस स्मृतेः । यथा 'शुक्ले शक्लेशनाशम्' इत्यादौ "शुक्ले शुक्ले"' इति यमके शुक्ल गुण- यक्ते शुचः क्लेशस्यच् नाशं शुक्लेशनाशं दिशतीत्यर्थः संपद्यते । यदुक्तम्-'यमकश्लेषधि-"- श्रेषु दन्योष्ठववकारयोः । न मेदो रलयोश्चैव न नकारमकारयोः ॥ हल: परस्य चंकरस व्यजनस्य द्वयोरपि । न विशेषो विसर्गस्य भवेव सदसत्तवयोः । इति ॥

खिन्नाहं बहुनागसा तव विभो गानुबद्धस्थिते-
र्नागस्त्वय्यपि मे नताङ्गि मयि ते नागोऽस्ति नो कुत्रचित् ।
सुभ्रूर्नाहमिति ब्रवीम्यवितथं ना त्वं यतोऽनुत्तम-
स्त्रासीष्टेत्यनृजूक्तिहासितहरानिष्ठाद्भवानी जगत् ॥ १८ ॥

बहुनागसापराधेन । 'आगोऽपराधो मन्तुच' इत्यमरः । परत्र बहवो नागा य्स्य बहुनाग इत्यामन्त्रणम् । सा गौरीपरामर्थः । साहं बहु स्स्निन्नेत्यन्वयः । अत्र हेतुमाह- गङ्गेत्यादि । मे नागः सर्पस्त्वय्यपि नो । काक्वा त्वम्यपित्यर्थः । ते नागाः सर्पो मय्यपीति नो। काक्वा अपि त्वस्तीति । अथ च । नो आगोऽस्ति नापराधोऽस्ति । अपि ख- स्वीति । है सुभ्रूः , अवितथं सत्यं नाहं ब्रुवे । काक्वा अपि तु सत्यं ब्रुचे । अपरत्राविद्यमान उत्तमो यस्मात्स तादृशोऽनुत्तमो ना पुरुषः । परमपुरुष इत्यर्थः॥

संध्यायामिह सन्नताङ्गि भक्ती कमान्मुधा खेदिनी
साधु ध्यायसि का हसन्कुटिलता नाङ्गेषु मे कुत्रचित् ।
हन्ताहं भवतीं न किंचिदथवा वामस्वभावां ब्रुवे
मां हन्तासि किमर्थमित्यभिहितो देव्या हरः पातु वः ॥ १९ ॥

इहास्यां संध्यायां प्रेयसीति भ्रान्त्या संनताङ्गि कस्मान्निरर्थकं खेदिनी । अपरत्र हे नताङ्गि, हसन्स्मयन्नहं संध्यायामि सम्यक्विन्तयामि । संशब्दस्य सम्यगर्थः । नतता कुटिलत्वम् । हन्त इति खेदे । वक्रोक्तो तु हन्ताहम् ॥

संसक्तो बहुलक्षपाटनविधौ किं वं श्मशानेऽधुना
पाटयन्ते न मया बहूनि दयिते लक्षाणि ते कुत्रचित् ।
सूक्तौ ते कृतपुङ्खता कथय किं पुङ्खेन तस्यां भवे-
दित्यद्रीन्द्रसुतां गिरा शशिकलामौलिर्जयन्पातु वः ॥२०॥

बहुलक्षपाटनविधी बहुलक्षपायां कृष्णपक्षनिशायामटनविधौ भ्रमणे । अपरत्र बहूना लक्षाणां शरव्याणां पाटने मेदे । 'लक्ष लक्ष्यं शरव्यं च' इत्यमरः । कृतपुङ्गः विक्षितः, विहितपुङ्गश्च ॥

विभन्नाकुलयस्वलीव भयदां कङ्कालमालामिमा-
मेकत्वात्रिजगत्यपि प्रियतमे कालस्य पङ्क्तिः कुतः ।
कङ्कालोचितमेतदत्र वचनं कङ्कैः किमालोचितं
पायादित्यवचाः कृतेन्दुकलिकोतंसेन काली जगत् ॥ २१ ॥

कङ्कालमालां शवशरीरास्थिमालाम् । 'स्थाच्छरीरास्थ्रि कङ्कालः' इत्यमरः। बिभ्रत् । वक्रिक्तौ तु कालमालां बिभ्रत् । के नाकुलयसि । कङ्कालानामुचितं योग्यम्, कङ्कैश्च पक्षिविशेषेरालोचितम् । अवचा मूका । काली भवानी ॥ <poem> विस्पष्टां श्रियमेति ते हिमकराक्रान्तं जटामण्डलं नैवासिन्नहयो न चापि मकराः सन्ति प्रिये कुत्रचित् । ऋक्षाणामधिपं ब्रुवे तदधुनैवाहूयतां जाम्बवा- न्नन्दिन्नद्रिसुतां जयन्निति विभुः सूक्त्या चिरं पातु वः ॥२२॥

हिमकराकान्तं हिमकरेण शशिनाकान्तम् । परत्र त्वकारप्रश्लेषणाहिमकराक्रान्त-. महयश्च मकराश्च तैराक्रन्तम् । ऋक्षाणां नक्षत्राणामधिपः शशी, ऋक्षाणामच्छगल्ला- चाधिपो जाम्बवान् । ब्रूवे कथयामि । आह्वमतामामच्छ्यताम् । हे नन्दिन् ॥

सद्धर्म्यस्थितिमत्र कूटसकले द्यूते भवानीक्षते
प्रेतावासरतेः कुतो मम सती तन्वङ्गि हर्म्यस्थितिः ।
नागारं कितव ब्रुवेऽनृतमिदं नागोऽस्मि नैव द्रुतं
ब्रूहीति प्रगुणोत्तरोत्तरवचा गौर्या हरः पातु नः ॥ २३ ॥

संश्थासौ धर्म्यो धर्मादनपेतः, सप तद्धर्म्यं प्रासादन्न तत्र स्थितिः साद्धर्म्यस्थितिः कूटानि सकलान्यक्षाणि यत्र तत्र द्युते । नागारमिति । नेति निषेधे, अगारं गृहम् वक्रोक्तौ तु हे नाग सर्प, अरं शीघ्रम् । प्रगुणमर्थान्तरयुकत्वादनुरूममुरारोत्तरं वयो यस्म स प्रगुणोत्तरोत्तरवचाः ॥

सुभ्रूस्त्वं कुपिता ममेति हृदयं पर्याकुलं वर्तते
नैवाहं शव कुत्सितस्तव पिता भार्येति नावैपि किम् ।
ऋक्षाणां पतिरसि नेत्वसादृशं कस्मात्त्वयामश्रितः
पायाद्वो गिरिजां जयन्निति गिरा व्याजिक्षया धूर्जटिः ॥ २४ ॥

हे सुभ्रूः, कुपिता क्रुद्धा, कुत्स्सितः पिता च नावैषि न जानासीति किम् । अवैषी- त्यर्थः । भार्या गृहिणी । वक्रोक्तौ भानां नक्षत्राणामार्य प्रभो भार्या । हे भार्येति ।

ख्याता ते हर वल्लभोडुवरता जानासि का वा प्लवे
सक्ता बालमृगाक्षि मे प्रियतमा पोतो मया नोदितः ।
कार्यं मुग्धमुखि प्लवेन तव किं स्यात्खण्डितेनेति वो
वाचा बश्चितशैलराजतनयश्चन्द्रावतंसोऽवतात् ॥ २५ ॥

वल्लभ उड्डबरः शशी यस्य भावो वल्लभोडुवरता, उडवे सवे या रता सा ते वल्लभा । उड्वशब्दस्य वकारान्तत्वं चिन्त्यम् । ओझ्यान्तता हि प्रसिद्धा नोदित इति न उदित उक्तः । अपरत्र मोदितः सण्डितः ॥

व्यर्थ किं तनुषे दुरोदरमिदं न स्वापतेयं तव
द्यूतं किं न तनोमि तन्व्यकृतिना दुष्प्रापतानास्ति मे ।
नावाप्यस्त्वमसीति सत्यमुदितं नावा न लभ्योऽस्मि किं
त्रासीष्टेति निरुत्तरां गिरिभुवं कुर्वञ्जगध्यम्बकः ॥ २६ ॥

स्वापतेयं धनम्, इयं स्वापता सुप्रापत्वं च । भावाप्मो म मम्मा, नावा तरण्या

चाप्यः प्राप्यः ॥

 
दृष्टिस्ते शिखिना विभाति घटिता दृष्टौ न बर्हीं कचि-
द्वक्रोक्तिर्भवतो नितान्तदयिता सत्यं ममान्तो गतः ।
न ब्रह्मादिभिरप्यपारवपुषः किं शब्दशून्यान्विभो
पुष्णासीति हतोत्तरं विदधती शंभु शिवा पातु वः ॥ २७ ॥

शिखी वह्निः, मयूरश्च । नितान्तमत्यर्थं दयिता नितान्तदयिता । अपरत्रानितान्त नेतो लब्धोऽन्तो यस्य तस्यामन्त्रणं हे अलभ्यावसान । वक्रोतिर्भवतो दयितेति । अपारव- पुषः पाररहितदेहस्य । अनन्तदेहस्येति यावत् । अपगत आरवः शब्दो येषां तानपगता- रवान्युष्णातीति यस्तस्यापारवपुषः ।

 
तेनैवं त्रिदशेश मां न कुरुषे वश्या यतोऽहं तव
प्राप्ता प्रीतिमनुत्तमा प्रियतमेवश्याय[३]प्रीतिः कुतः ।
मैवं ब्रूहि निगद्यतेऽत्र न निशातोयं निशातः स कः
शंसन्वक्रमिति क्षमाधरसुतां त्र्यक्षः शिवं वः क्रियात् ॥ २८ ॥

वश्या यतो वशगता यस्मात् । उत्तरे त्वकारप्रश्लेषेऽवश्यायतो निशाज़लात्प्रीतिः कुतः। निशातोयं रात्रिजलम् , अयं च निशातस्तीक्ष्णः ॥

 
कृत्वा त्वां पणवञ्चितं नहि मया द्यूतेन न प्रीयते
नैवाहं पणवः कृशोदरि चितः शक्यो विधातुं त्वया ।
किं वादित्रविवक्षयात्र दयिते को वादिनस्त्रायते
सूक्त्या निर्जितशैलराजसुत इत्यव्याज्जगद्धूर्जटिः ॥ २९ ॥

पणेन वञ्चितं रहितम्, पणवं पटहं चितं संभूतं च । वादित्रं वाद्यभाण्डम् , यश्च वादि- नस्त्रायते स वादित्रस्तं च ॥

 
आद्यूनोऽसि सभस्मकः सुरभिषकश्चिन्न किं पृच्छ्यते
सत्यं देवि ममास्ति नादिरपरो भूतिस्तु देहस्थिता ।
केनागादि ववात्र भूतिरखनेर्गुप्तिः स्थिता पादयो-
र्दिश्यान्निर्जितपार्वतीक इति वः सूक्त्या श्रियं शंकरः ॥ ३०॥

आधूनो लम्पटः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः । धादिनीनो रहितश्च । भरमको व्याधिविशेषः, सह भस्मना वर्तते यः स सभस्मकः । भूतिर्भस्म, भुवश्च च पृथिव्या ऊतिरवन भूतिः ।



१. 'प्रहेवा' इति पिङ्गलसूत्रात्प्रकारपूर्वाक्षरस्य विकल्पेन गुरुत्वे नात्र च्छन्दोभङ्गाशङ्का ।

ही नाहं भवतोऽतिवक्रवचसा दातुं प्रवीणोत्तरं
का ते सुन्दरि हीनता ननु नता सर्वा त्रिलोक्येव ते ।
नासत्योक्तिरियं कुतोऽत्र घटते दस्राभिधानागमो
मुष्णीतादधमादिजामवचसं कुर्वपिनाकीति वः ॥ ३१ ॥

हीति दोषसूचनेऽव्ययम् । नेति निषेधे । उत्तरत्र हीनोना । यस्याः सा त्रिलोकी प्रणता स्यात्तस्या हीनता न संभाव्यते । न असत्यस्यानृतस्योक्तिर्नासयोक्तिः, नासत्यौ च अश्विनौ ॥

 
द्यूतेऽस्मिन्विजितो मया ननु भवानूर्ध्वं मुहूर्ताद्ध्रुवं
कोऽत्र स्यात्कथयक्षसङ्ग उदितः शैलो न वेत्सीति किम् ।
प्रत्यग्रे किमिवाद्मि शंस दयिते भिक्षां कपालेऽधुना
सूक्त्येत्यद्रिजया जितोऽनृजुवचास्त्रासीष्ट वः शंकरः ॥ ३२ ॥

धुर्व निश्चितम्, ध्रुवं च नक्षत्रम् । भवान्मया जित इत्युसरे जयतिद्विकर्मकः ।ऋ- क्षसङ्को नक्षत्रसङ्गः । उत्तरे शैलस्याक्षैरच्छभल्लैः सङ्गः । न वेत्सि न जानाशि, नये नूतने चात्सि भक्षयसि । “अद भक्षणे । अद्भि भक्षयामि । सिक्षां कपालेऽधुनेति पार्वत्युक्ति ।

 
सन्नागारहिता तनोति भवतो भीतिं ममैषा तनु-
र्भग्नं सुन्दरि सद्म किं भवति मे यसै हितैषा तनुः ।
चिन्ता मेऽत्र न वेश्मनि प्रियतमे किं चिन्तयास्यानद-
प्राव्णीत्यद्रिसुतां जयन्नवतु वः सूक्या गिरीशोऽनिशम् ॥ ३३ ॥

सन्नागारहिता सद्भिर्नागैररहिता सन्नागारहिता, सक्ष् भग्ने चागारे गृहे हितानुकूला। वेश्मनि न निषेधे वेश्मनि गृहे, नवे नूतनेऽश्मन्युपके च ॥

 
आ संसारमसौ शिरस्थविरतं गङ्गा यहत्त्येव ते
नेष्वासं च बिभर्ति सारमिति किं जानासि नाभ्रान्तिकम् ।
स्यादभ्रस्य किमन्तिकेन कितव ज्ञातेन ते सांप्रतं
संपत्त्यै गिरिशोऽस्तु वः कुटिलया वाण्या भवान्या जितः ॥३४॥

आ संसारादासंसारम् , अस्यन्तेऽनेन शरा इभ्वासं धनुः, सारमुत्कृष्टम् । अत्रान्तिकं भ्रान्तिरहितं निःसंशयम्, अभ्रस्यान्तिकं समीपं च ।।

 
न क्रीडामहमुत्सहेऽत्र भवता सार्धं पयोधेर्नव-
प्रस्तावः क इवात्र नूतनमथ प्रत्नंं न जानाम्यहम् ।

 
नव्यं कः कथयेकिमत्र भवता व्यकेन साङ्कन वा
गौर्यात्तप्रतिपत्तिरुचरगिरा शंभुः कृतः पातु वः ॥ ३५ ॥

न क्रीडामिति नेति निषेधे । क्रीडा खेलाम् , नका मकरा विद्यन्ते यस्य स नकी समु- द्रवस्येडा स्तुतिर्नक्रीडा तां च । नवः स्तवः, नूतनश्च । प्रनं पुराणम् । 'पुराणप्रतनप्र- त्नपुरातनचिरंतनाः' इत्यमरः । सविपक्षा ह्येषा लौकिकी वाचोयुक्तिः । एवं व्यङ्गेन साङ्केनेति । नव्यं क इति नव्यं नूतनं को जातु कथयेत् , उत्तरे नेति निषेधः । विगतो- ऽङ्को यस्यासौ व्यङ्कः ॥

  
एषा सागरसंगताभिमततां याता न मे कर्हिचि-
न्मुग्धे कण्ठभुवं ब्रवीषि मम किं सक्ष्वेडतामीयुवीम् ।
क्ष्वेडाराव इहोचितस्तव गणव्रातैः सह क्रीडतो
युष्मान्नीलगलोऽवतादिति गिरा गौर्या कृतोऽनुत्तरः ॥ ३६॥

सागरसंगतेति सागरेण समुद्रेण संगता । अर्थाद्गङ्गे । उत्तरे तु सेति सर्वनामपदम, गरो विषम् । तदाह-सक्ष्वेडेति सह श्वेडेन विषेण, क्ष्वेडया शब्दविशेषेण च सक्ष्वेडम्, श्वेडं विषम् , श्वेडा जनस्य शब्दविशेषः ॥

  
ख्यातं सज्जगतीह किं नु चरितं विष्वग्विनोदीव ते
सज्जास्ति क्व गतिर्न मेऽत्र रुचितः कश्चिद्विहारः क्वचित् ।
नेष्टं ते जिनसद्म चेद्वस ततः सार्वं श्मशाने मया
मायां वो दहतादिति त्रिनयनः सूक्त्या जयन्पार्वतीम् ॥ ३७ ॥

सज्जगतीति सच्छोभनं जगति भुवने, उत्तरे तु सज्जा सावधाना गतिर्यस्य तत्सज्ज- गति । विष्वक्समन्तात् । विहारो विहरणम् , बुद्धवेश्म च । 'बुद्धानां च विहारोऽत्री' इति कोषः ॥

  
सुभ्रूर्मूर्धनि मेऽत्र पावनतया नूनं स्थितं गङ्गया
हीरस्सा मत का भवेदवनता कास्ति त्वयेत्युच्यताम् ।
मन्दाक्षामिमता न मे भवति ते पहिन्द्रियैव प्रिया
नूनं स्यादिति वो विनिर्जितशिवा शर्वाण्यधौषच्छिदे ॥ ३८॥

अत्र पावनतयात्र मूर्धनि पावनतया पवित्रत्वेन, परत्र त्रपया लज्जयावनता तवा। मन्दाक्षं लज्जा, वक्रोतौ तु मन्दाक्षाऽपट्विन्द्रिया ।

  
मूर्धानं हर संश्रिता किल हलश्रेणी वितस्तार ते
संबन्धः क इवात्र लागलततेर्नाहं वितस्तारतिः।

किं नद्याश्रयमेतदन वचनं धामाश्रयेकि वचो
दिश्या्द्वः शितिकण्ठ इत्यगभुवि स्पष्टोत्तरोक्तिः श्रियम् ॥ ३९ ॥

हलं अस्थि, सीरै च । वितस्तार विरातान ते तव, अपरत्र वितास्तायां [कश्मीरदे- . शप्रसिद्धायां] नद्यां रतिर्यस्य तस्यामश्रणं वितस्तारस्ते ।नद्याश्रयो यस्य तन्नयाश्र्यं , अपरत्र न निषेधे दौराश्रयो यस्य स द्याश्रयः ।।

गण्डे दानवनाशिनो गणपतेः कुर्वन्ति कोलाहलं
रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेते कथम् ।
ब्रूयात्कः खलु दानवान्गजमुखः शंसत्यसौ पृच्छयता-
मुक्त्या साध्विति नित्यमस्तु कुशलायोमा जयन्वो विभुः ॥ ४०॥

दानवनाशिन इति दानवनं मदपुजमश्नन्तीति दानवनाशिनः । परत्रासुरक्षेपकाय। रोलम्या भ्रमराः। दानवान्दानयुक्तश्च ।।

को हि स्यादहितान्तकस्त्वदपरः सत्यं ममेवाहिना
तान्तं वीक्ष्य शिरो भवेदभिमतः किं स्यान्न चक्री श्रियः ।
वक्रोक्तो कुशलो भवानिति कुशे लोभोऽस्ति कस्येति वै
वक्रोक्त्या भवतो भवो जितभवानीकोऽभवायास्तु वः ॥४१॥

अहितानामन्तको मृत्युरहितान्तकः । अपरत्राहिना तान्तं खिन्नं कं शिरो यस्सा. हितान्तकः । एतदेवोद्दिश्याह-सत्यमेतत् । अहिना तान्तं सदेव शिरो वीक्ष्य चक्री विष्णुः श्रियो लक्ष्या अमिमतः प्रियः किं न स्यात् । अपि तु स्वादेिव । सद्वच्छिरस्पहि- सेन धारित इति यत्ततो लक्ष्म्या अभिमतो विष्णुर्जात इत्यर्थः । कुशलो भवान्निपुणस्त्वम्, कुशेषु दर्भेषु च लोभो विद्यते यस्य ।

दुर्गाहं भवतोऽवगाह्यत इदं चेतः कथं वा मया
दुर्गाहं स्फुटमस्मि गाहनविधौ वामा पुनर्नास्म्यहम् ।
नालीकाश्रयमेवदत्र वचनं बाणाश्रयं किं वचः
स्यादित्यस्तु भवच्छिदेऽद्रितनयां सूक्त्या जयन्वो विभुः ॥ ४२ ॥

दुःखेन गाहत इति दुर्गाहम् , अहं च दुर्गामिधाना । ममा कथं वा सब देतोऽवगायत इति, वामा श्री वामया खिया च, वामा कुटिला च । नालीकाश्रममलीकानयमत- स्थानं न । सत्यमेतदित्यर्थः । नालीकय शरविशेषः । भवच्छिदे जन्मोचितये ॥

मुश्वामीश्वर कुञ्जराजिनमहं ते विसगन्धाकुलं
कुञ्जै राजितमस्य शैलमिहं ते सुःभ्रः पिता पर्वतः ।

नोक्तिमज्जनकाश्रया तव भवेत्किं मन्जनेनात्र में
शंसन्नित्यजितोऽद्रिराजतनयां नेयाद्विषो वः क्षयम् ॥ ४३ ॥

कुजराजिनं कुञ्जरस्याजिनं कुञ्जराजिनं गजचर्म, कुञ्जेन लतादिपिहितोदरेण शोमिनं च । एतदेवाह-कुञ्जे राजितं शैलमस्य दूरीकुरु । 'असु क्षेपणे'। परंतु हे सुभ्रूः, तव पिता पर्वत एव । विस्त्रं दुर्गन्धि । मज्जनको मम जनकः पिता, मज्जनं च स्नानम् ॥

  
स्पष्टाखण्डलयज्ञया विजयया नृत्ये ममोच्चावचं
गीतं सुन्दरि तन्यते सुरपतेयोगो मखस्यात्र कः ।
कस्येष्टा सवसंकथा स्फुटमसौ यः पानशौण्डो नरः
सूक्त्या खण्डितपार्वतीवचन इत्यव्याद्वृषाङ्को जगत् ।। ४४ ॥

स्पष्टाखण्डलयज्ञया । 'लयः साम्यम्' इत्यमरः । स्पष्टाऽखण्डलयज्ञा, परन्त्र स्पष्ट आ- खण्डलयज्ञ इन्द्रयज्ञो यस्याः । उच्चावचं नानाविधम् । सवो यज्ञः संहितया आसवः पानं च । पाने शौण्डो व्यसनी ॥

  
धत्ते चन्द्रकलाञ्छितस्तव जटाजूटः श्रियं हारिणी
बर्हेणैष न लाञ्छितो न च रुचिं मार्गी बिभर्ति क्वचित् ।
उक्तिस्ते विषमा तनोति मनसः क्षोमं ममोक्तिः कथं
क्ष्वेडं ते तनुयादुमामिति जयन्सूक्त्या हरो वोऽवतात् ॥ १५ ॥

चन्द्रकलाञ्छितश्चन्द्रकलयाञ्छित आकृष्टः । परन चन्द्रकेण च बर्हेण लाञ्छितश्चि- हितः । हरतीति हारिणी ताम्, हरिणसंबन्धिनीं च । विषमा क्रूरा, तनोति कुरुते, विषं चातनोति । क्षोभमित्यत्र चार्थो बोद्धव्यः । उत्तरे क्षोभ एव दुर्जरत्वाद्विषम् ॥

  
शक्ता वक्तुमिहोचरं न खलु ते तद्दक्षिणामाश्रयः
किंचिन्मे वद सर्वदस्य भवतः का दक्षिणा लभ्यते ।
संजाता सततं त्वमेव सरला नाहं लता तारखी
स्मेरः शंभुरिति श्रियं दिशतु वः शैलात्मजानिर्जितः ॥ ४६॥

उत्तर प्रतिवाक्यम् , उत्तरदिक्स्थं च । दक्षिणानुकूला, अपसव्या व, यज्ञादौ पात्रेषु देया च । सरला शुद्धा, देवदारुलता च ॥

  
सुभ्रूः संप्रति मे न कापि दयिता त्वचो ममायं ग्रहः
प्राप्ता ते शठ मेनका दयिततां नाकाङ्गनापाश्रया ।
नोक्तिम गगनाजिराश्रयवती कस्योक्तिरित्यस्तु वः
सूक्त्या निर्जितशैलजानूजुवचाः शीलांशुमौलिः श्रिये ॥४७॥

मेनका इति मे न का इति पदत्रयम् । मे मम न कापि सुभ्रूर्वराङ्गना दयिता प्रिया, मेनकानामाप्सराः । अझना नारी, आxxनं चाजिरम् ॥

  
कर्ता शूलपराजितां रिपुचमूमेकस्त्वमेवोद्धतां
नो शीघ्रं तृणमण्डितारिपृतना केनापि काचित्कृता ।
वक्तुं ते कुशला कया तव गिरा स्यां दुःशलाका न वा-
गस्तीशो वचसाद्रिजामिति जयन्निष्टं विधासीष्ट वः ॥ ४८ ॥
<poem>
शूलपराजितां शूलेन त्रिशूलेन पराजिताम् , उत्तरत्राशु शीघ्रमुलपेन गुणविशेषेण
राजितां शोभमानाम् । कुशला निपुणा कया गिरा स्थामहम् , उत्तरत्र कसितया शला.
कया सूच्या। विधासीष्ट क्रियात् ॥
<poem>
दृष्टिस्ते न कृशानुतापरहिता सत्यं न तन्वी स्तुता
सुभ्ररन्यहिता च मे मतिरपि प्रज्ञोच्यते नो मया ।
ख्यात्वैव त्वमुमात्मनास्यभिहितं करसादपद्ध्ययते
मुष्णीतादधमद्रि जामभिभवन्सूक्त्या कपर्दीति कः ॥ ४९ ॥

कृशानुतापरहिता कृशानोर ग्रेस्तापस्तेन रहिता । अपरत्र कृशा तन्वी, मुता स्तुता , परहितान्यानुकूला। नोमया, नो, मयेति नो निषेधे, न उमया इति ॥

वकोक्त्या बदसत्कृतोऽसि भगवस्तत्क्षम्यतां मेऽधुना
कस्माद्भौमगिरा न खेदितमना नोक्तः कुपुत्रो मया ।
स्वार्तिकं सुन्दरि कुत्सितेन तनयेनोक्तेन जित्वेत्युमां
स्ताद्वस्तत्परिरम्मसान्द्रपुलका शंभुः शिवप्राप्तये ॥ ५० ॥
<poem>
वक्रोक्तिर्वक्रा कुटिला चासाबुक्तिः कुटिला गी:, उत्तरत्र वस्य भौमस्योक्तिर्वाक्च।
कुपुत्र इति कु: भूमिस्तस्याः पुत्रः कुपुत्रो भौमः, कुत्सितः पुत्रस्तनयस्य । परिरम्भ
आश्लेषस्तेन सान्द्राणि पुलकानि रोमाया यस्य ।
<poem>
कोक्तिपञ्चाशतिमित्यमेनां यो भावयेन्मत्सररिक्तबुद्धिः ।
स्पष्टोत्तरासूक्तिषु काव्यबन्धे भवेत्स रखाकरवत् प्रवीणः ॥ ५१ ।।

भावयेद्विचारयेत् । स्पष्टोत्तराखिति स्पटमुतर यासु ताशीपूक्तिषु वक्रोक्तिषु काव्यबन्धे सुभाषितविषये रत्नाकरः कविवरो हरविजयकारत्तद्वत्प्रवीण: कुशलः स्यात् ।।

सूनुरानन्ददेवस्य रणभूयोम्नि भाखतः।
वक्रोक्तिवर्णने रात्ने टिप्पणं वल्लभो व्यधात् ।

इलमात्यवरानन्ददेवसूनुधिशुपालवधानेककाम्पटीकाकर्तृश्रीवल्लभदेवकृतयाटिप्पण्या-
समेता श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याविपत्यपरनाम्नो हरविजय-
महाकाव्यकर्तुः कश्मीरदेशोद्भवराजानकश्रीरत्नाकरमाहाकवेः
कृतिर्वक्रोक्तिपञ्चाधिका समाप्ता ॥

  1. 3