वज्रसूची
[[लेखकः :|]]



वज्रसूची

जगद्गुरुं मञ्जुघोषं नत्वा वाक्कायचेतसा ।
अश्वघोषो वज्रसूचीं सूत्रयामि यथामतम् ॥ १ ॥
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ २ ॥
सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥ ३ ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ ४ ॥
अधीत्य चतुरो वेदान् साङ्गोपाङ्गेन तवत्त्तः ।
शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः ॥ ५ ॥
खरो द्वादशजन्मानि षष्ठिजन्मानि शूकरः ।
श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ ६ ॥
हस्तिन्यामचलो जात उलूक्यां केशपिङ्गलः ।
अगस्त्योऽगस्तिपुष्पाच्च कौशिकः कुशसम्भवः ॥ ७ ॥
कपिलः कपिलाज्जातः शरगुल्माच्च गौतमः ।
द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः ॥ ८ ॥
रेणुकाजनयद्राममृष्यशृङ्गमुनिं मृगी ।
कैवर्तिन्यजनयद्व्यासं कुशिकं चैव शूद्रिका ॥ ९ ॥
विश्वामित्रं च चण्डाली वसिष्ठं चैव उर्वशी ।
न तेषां ब्राह्मणी माता लोकाचाराच्च ब्राह्मणाः ॥ १० ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहाच्छूद्रश्च भवति ब्राह्मणः क्षीरविक्रयी ॥ ११ ॥
आकाशगामिनो विप्राः पतन्ति मांसभक्षणात् ।
विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् ॥ १२ ॥
ब्राह्मणत्वं न शास्त्रेण न संस्कारैर्न जातिभिः ।
न कुलेन न वेदेन न कर्मणा भवेत्ततः ॥ १३ ॥
निर्ममो निरहङ्कारो निःसङ्गो निष्परिग्रहः ।
रागद्वेषविनिर्मुक्तस्तं देवा ब्राह्मणं विदुः ॥ १४ ॥
सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः ।
सर्वभूते दया ब्रह्म एतद्ब्राह्मण लक्षणम् ॥ १५ ॥
सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः ।
सर्वभूते दया नास्ति एतच्चाण्डाललक्षणम् ॥ १६ ॥
देवमानुषनारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं नाधिगच्छन्ति ते विप्रास्ते च ब्राह्मणाः ॥ १७ ॥
न जातिर्दृश्यते तावद्गुणाः कल्याणकारकाः ।
चण्डालोऽपि हि तत्रस्थस्तं देवा ब्राह्मणं विदुः ॥ १८ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तत्रैव च प्रसूतस्य निष्कृतिर्नोपलभ्यते ॥ १९ ॥
शूद्रीहस्तेन यो भुंक्ते मासमेकं निरन्तरम् ।
जीवमानो भवेच्छूद्रो मृतः श्वानश्च जायते ॥ २० ॥
शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवेन रौरवं सोऽधिगच्छति ॥ २१ ॥
अरणीगर्भसम्भूतः कठो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २२ ॥
कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २३ ॥
उर्वर्शीगर्भसम्भूतो वसिष्ठोऽपि महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २४ ॥
हरिणीगर्भसम्भूत ऋष्यश्रृङ्गो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २५ ॥
चण्डाली गर्भसम्भूतो विश्वामित्रो? महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २६ ॥
ताण्डूलीगर्भसम्भूतो नारदो हि महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ २७ ॥
जितात्मा यतिर्भवति..................... जितेन्द्रियः ।
[यतात्मा यतिर्भवति विजितात्मा(जितात्मा च)जितेन्द्रियः ।]
तपसा तापसो जातो ब्रह्मचर्येण ब्राह्मणः ॥ २८ ॥
न च ते ब्राह्मणीपुत्रास्ते च लोकस्य ब्राह्मणाः ।
शीलशौचमयं ब्रह्म तस्मात्कुलम कारणम् ॥ २९ ॥
शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन ।
बहवो नरा नीचकुल प्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः ॥ ३० ॥
मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियस्तथा ।
उरुभ्यां वैश्यः संजातः पद्भ्यां शूद्रक एव च ॥ ३१ ॥
पाण्डोस्तु विश्रुतः पुत्रः स वै नाम्ना युधिष्ठिरः ।
वैशम्पायनमागम्य प्राञ्जलिः परिपृच्छति ॥ ३२ ॥
के च ते ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम् ।
एतदिच्छामि भो ज्ञातुं तद्भवान् व्याकरोति मे ॥ ३३ ॥
क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्त दण्डो निरामिषः ।
न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् ॥ ३४ ॥
यदा सर्वं परद्रव्यं पथि वा यदि वा गृहे ।
अदत्तं नैव गृह्णाति द्वितीयं ब्रह्मलक्षणम् ॥ ३५ ॥
त्यक्त्वा क्रूरस्वभावं तु निर्ममो निष्परिग्रहः ।
मुक्तश्चरति यो नित्यं तृतीयं ब्रह्मलक्षणम् ॥ ३६ ॥
देवमानुष नारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं हि सदा त्यक्तं चतुर्थं ब्रह्मलक्षणम् ॥ ३७ ॥
सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूत दया शौचं तपः शौचञ्च पञ्चमम् ॥ ३८ ॥
पञ्चलक्षणसम्पन्न ईदृशो यो भवेद्द्विजः ।
तमहं ब्राह्मणं ब्रूयां शेषाः शूद्रा युधिष्ठिर ॥ ३९ ॥
न कुलेन न जात्या वा क्रियाभिर्ब्राह्मणो भवेत् ।
चण्डालोऽपि हि वृतस्थो ब्राह्मणः स युधिष्ठिर ॥ ४० ॥
अहिंसा ब्रह्मचर्यं च विशुद्धाच्च प्रतिग्रहः ।
फलेन न समर्थं च ब्राह्मणः स्याद्युधिष्ठिर ॥ ४० ॥
एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर ।
कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम् ॥ ४१ ॥
सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः ।
एकेन्द्रियेन्द्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ ४२ ॥
शूद्रोऽपि शीलसम्पन्नोगुणवान् ब्राह्मणो भवेत् ।
ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत् ॥ ४३ ॥
पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान् ।
तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर ॥ ४४ ॥
न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः ।
जीवितं यस्य धर्मार्थे परार्थे यस्य जीवितम् ।
अहोरात्रं चरेत्क्षान्तिं तं देवा ब्राह्मणं विदुः ॥ ४५ ॥
परित्यज्य गृहावासं ये स्थिता मोक्षकाक्षिणः ।
कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर ॥ ४६ ॥
अहिंसानिर्ममत्वं चा मत्कृत्यस्य वर्जनम् ।
रागद्वेषनिवृत्तिश्च एतद्ब्राह्मणलक्षणम् ॥ ४७ ॥
क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा ।
विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ ४८ ॥
गायत्रीमात्र सारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ ४९ ॥
एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः ।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर ॥ ५० ॥
पारगं सर्ववेदानां सर्वतीर्थाभिषेचनम् ।
मुक्तश्चरति यो धर्मं तमेव ब्राह्मणं विदुः ॥ ५१ ॥
यदा न कुरुते पापं सर्वभूतेषु दारुणम् ।
कायेन मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ५२ ॥
अस्माभिरुक्तं यदिदं द्विजानां मोहं निहन्तुं हतबुद्धिंकानाम् ।
गृह्मन्तु सन्तो यदि युक्तमेतन्मुञ्चन्त्वथायुक्तमिदं यदि स्यात् ॥ ५३ ॥

कृतिरियं सिद्धाचार्याश्वघोषपादानामिति वज्रसूची समाप्तेति शुभम् ॥

"https://sa.wikisource.org/w/index.php?title=वज्रसूची&oldid=396775" इत्यस्माद् प्रतिप्राप्तम्