← अध्यायः २ वराहपुराणम्
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →

प्रियव्रत उवाच ।
अन्यस्मिन् भगवन् जन्मन्यासीद् यत् तद् विचेष्टितम् ।
सर्वं कथय देवर्षे महत् कौतूहलं हि मे ।। ३.१ ।।
नादरद उवाच ।
स्नातस्य मम राजेन्द्र तस्मिन् वेदसरस्यथ ।
सावित्र्याश्च वचः श्रुत्वा तस्मिन् जन्मसहस्त्रकम् ।
स्मरणं तत्क्षणाज्जातं श्रृणु जन्मान्तरं मम ।। ३.२ ।।
अस्त्यवन्तीपुरं राजंस्तत्राहं प्राग् द्विजोत्तमः ।
नाम्ना सारस्वतः पूर्वं वेदवेदाङ्गपारगः ।। ३.३ ।।
बहुभृत्यपरीवारो बहुधान्यश्च पार्थिव ।
अन्यस्मिन् कृतसंज्ञे तु युगे परमबुद्धिमान् ।। ३.४ ।।
ततो ध्यातं मयैकान्ते किमनेन करोम्यहम् ।
द्वन्द्वेन सर्वमेतद्धि न्यस्त्वा पुत्रेषु याम्यहम् ।
तपसे धृतसंकल्पः सरः सारस्वतं द्रुतम् ।। ३.५ ।।
एवं चिन्त्य मया इष्टः कर्मकाण्डेन केशवः ।
श्राद्धैश्च पितरो देवा यज्ञैश्चान्ये तथा जनाः ।। ३.६ ।।
ततोऽहं निर्गतो राजंस्तपसे धृतमानसः ।
सारस्वतं नाम सरो यदेतत् पुष्करं स्मृतम् ।। ३.७ ।।
तत्र गत्वा मया विष्णुः पुराणः पुरुषः शिवः ।
आराधितो मया भक्त्या जपं नारायणात्मकम् ।। ३.८ ।।
ब्रह्मपारमयं राजन् जपता परमं स्तवम् ।
ततो मे भगवांस्तुष्टः प्रत्यक्षत्वं जगाम ह ।। ३.९ ।।
प्रियव्रत उवाच ।
कीदृशं ब्रह्मपारं तु श्रोतुमिच्छामि सत्तम ।
कथयस्व प्रसादेन देवर्षे सुप्रसन्नधीः ।। ३.१० ।।
नारद उवाच ।
परं पराणाममृतं पुराणं
पारं परं विष्णुमनन्तवीर्यम् ।
नमामि नित्यं पुरुषं पुराणं
परायणं पारगतं पराणाम् ।। ३.११ ।।
पुरातनं त्वप्रतिमं पुराणं
परापरं पारगमुग्रतेजसम् ।
गम्भीरगम्भीरधियां प्रधानं
नतोऽस्मि देवं हरिमीशितारम् ।। ३.१२ ।।
परात्परं चापरमं प्रधानं
परास्पदं शुद्धपदं विशालम् ।
परात्परेशं पुरुषं पुराणं
नारायणं स्तौमि विशुद्धभावः ।। ३.१३ ।।
पुरा पुरं शून्यमिदं ससर्ज्ज
तदा स्थितत्वात् पुरुषः प्रधानः ।
जने प्रसिद्धः शरणं ममास्तु
नारायणो वीतमलः पुराणः ।। ३.१४ ।।
पारं परं विष्णुमपाररूपं
पुरातनं नीतिमतां प्रधानम् ।
धृतक्षमं शान्तिधरं क्षितीशं
शुभं सदा स्तौमि महानुभावम् ।। ३.१५ ।।
सहस्त्रमूर्धानमनन्तपाद-
मनेकबाहुं शशिसूर्यनेत्रम् ।
क्षराक्षरं क्षीरसमुद्रनिद्रं
नारायणं स्तौम्यमृतं परेशम् ।। ३.१६ ।।
त्रिवेदगम्यं त्रिनवैकमूर्तिं
त्रिशुक्लसंस्थं त्रिहुताशभेदम् ।
त्रितत्त्वलक्ष्यं त्रियुगं त्रिनेत्रं
नमामि नारायणमप्रमेयम् ।। ३.१७ ।।
कृते सितं रक्ततनुं तथा च
त्रेतायुगे पूततनुं पुराणम् ।
तथा हरिं द्वापरतः कलौ च

कृष्णीकृतात्मानमथो नमामि ।। ३.१८ ।।
ससर्ज यो वक्त्रत एव विप्रान्
भुजान्तरे क्षत्रमथोरुयुग्मे ।
विशः पदाग्रेषु तथैव शूद्रान्
नमामि तं विश्वतनुं पुराणम् ।। ३.१९ ।।
परात्परं पारगतं प्रमेयं
युधांपतिं कार्यत एव कृष्णम्।
गदासिचर्मण्यभृतोत्थपाणिं
नमामि नारायणमप्रमेयम् ।। ३.२० ।।
इति स्तुतो देववरः प्रसन्नो
जगाद मां नीरदतुल्यघोषः ।
वरं वृणीष्वेत्यसकृत् ततोऽहं
तस्यैव देहे लयमिष्टवांश्च ।। ३.२१ ।।
इति श्रुत्वा वचो मह्यं देवदेवः सनातनः ।
उवाच प्रकृतिं विप्र संसरस्वाक्षयामिमाम् ।। ३.२२ ।।
ब्रह्मणो युगसाहस्त्रं तत्ते तस्मात् समुद्भवः ।
भविता ते तथा नाम दास्यते संप्रयोजनम् ।। ३.२३ ।।
नारं पानीयमित्युक्तं तं पितॄणां सदा भवान् ।
ददाति तेन ते नाम नारदेति भविष्यति ।। ३.२४ ।।
एवमुक्त्वा गतो देवः सद्योऽदर्शनमुच्चकैः ।
अहं कलेवरं त्यक्त्वा कालेन तपसा तदा ।। ३.२५ ।।
ब्रह्मणोऽङ्गे लयं प्राप्तस्तदोत्पत्तिं च पार्थिव ।
दिवसे तु पुनः सृष्टो दशभिस्तनयैः सह ।। ३.२६ ।।
दिनादिर्यो हि देवस्य ब्रह्मणोऽव्यक्तजन्मनः ।
स सृष्ट्यादिः समस्तानां देवादीनां न संशयः ।। ३.२७ ।।
सर्वस्य जगतः सृष्टिरेषैव प्रभुधर्मतः ।
एतन्मे प्राकृतं जन्म यन्मां पृच्छसि पार्थिव ।। ३.२८ ।।
तस्मान्नारायणं ध्यात्वा प्राप्तोऽस्मि परतो नृप ।
तस्मात् त्वमपि राजेन्द्र भव विष्णुपरायणः ।। ३.२९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे तृतीयोऽध्यायः ।। ३ ।।