वराहपुराणम्/अध्यायः ०९९
← अध्यायः ९८ | वराहपुराणम् अध्यायः ९९ [[लेखकः :|]] |
अध्यायः १०० → |
अथ तिलधेनुमाहात्म्यम् ।।
धरण्युवाच ।।
या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः ।।
गायत्र्यष्टभुजा भूत्वा चै (वे) त्रासुरमयोधयत् ।। १ ।।
सैव नन्दा भवेद्देवी देवकार्यचिकीर्षया ।।
महिषाख्यासुरवधं कुर्वती ब्रह्मणेरिता ।। २ ।।
वैष्णव्याख्या ततो देव कथमेतद्धि शंस मे ।।
श्रीवराह उवाच ।।
द्वयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया ।। ३ ।।
क्वचित्किंचिद्भवेद्दत्तं स्वपदं वेद सर्ववित् ।।
स्वायम्भुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ ।। ४ ।।
महिषाख्यः परः पश्चात्स वै चैत्रासुरो हतः ।।
नन्दया निहतो विन्ध्ये महाबलपराक्रमः ।। ५ ।।
अथवा ज्ञानशक्तिः सा महिषोऽज्ञानमूर्त्तिमान् ।।
अज्ञानं ज्ञानसाध्यं तु भवतीति न संशयः ।। ६ ।।
मूर्त्तिपक्षे चेतिहासममूर्ते चैकवद्धृदि ।।
ख्याप्यते वेदवाक्यैश्च इह सा वेदवादिभिः ।। ७ ।।
इदानीं शृणु मे देवि पंचपातकनाशनम् ।।
यजनं देवदेवस्य विष्णोः पुत्रवसुप्रदम् ।। ८ ।।
इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः ।।
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि ।। ९ ।।
तस्य सद्यो भवेल्लक्ष्मीरायुर्वित्तं सुतः सुखम् ।।
दृष्ट्वा तु मण्डलगतं देवं देव्या समन्वितम् ।। 99.१० ।।
नारायणं परं देवं यः पश्यति विधानतः।।
आचार्यदर्शितं देवि मन्त्रमूर्तिमयोनिजम् ।। ११ ।।
कार्तिके मासि शुक्लायां द्वादश्यां तु विशेषतः ।।
सर्वासु वा यजेद्देवं द्वादशीषु विधानतः ।। १२ ।।
संक्रांत्यां वा महाभागं चन्द्रसूर्यग्रहे तथा ।।
यः पश्यति हरिं देवि पूजितं गुरुणा शुभे ।। १३ ।।
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते ।।
सामान्यदेवतानां च भवतीति न संशयः ।। १४ ।।
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम् ।।
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः ।। १२ ।।
उपासन्नं ततो ज्ञात्वा हृदयेनावधारयेत् ।।
तेपि भक्तिमतो ज्ञात्वा त्वात्मानं परमेश्वरम् ।। १६ ।।
संवत्सरं गुरोर्भक्तिं कुर्युर्विष्णोरिवाचलाम् ।।
संवत्सरे ततः पूर्णे गुरुं चैव प्रसादयेत् ।। १७ ।।
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् ।।
इच्छामस्त्वैहिकीं लक्ष्मीं विशेषेण तपोधन ।। १८ ।।
एवमभ्यर्च्य मेधावी गुरुं विष्णुमिवाग्रतः ।।
अभ्यर्च्चितस्तैः सोऽप्याशु दशम्यां कार्त्तिकस्य तु ।।१९।।
क्षीरवृक्षसमुद्भूतं दन्तकाष्ठं समन्त्रकम् ।।
भक्षयित्वा स्वपेयुर्हि देवदेवस्य सन्निधौ ।।99.२०।।
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेत विचक्षणः ।।
ततः शुभाशुभे तत्र लक्षयेत्परमो गुरुः ।। २१ ।।
एकादश्यामुपोष्यैवं स्नात्वा देवालयं व्रजेत् ।।
गुरुश्च मण्डलं भूमौ कल्पितायां तु वर्त्तयेत् ।।२२।।
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः ।।
षोडशारं लिखेच्चक्रं सर्वतोभद्रमेव च ।।२३।।
अथवा अष्टपत्रं च लिखित्वा दर्शयेद्बुधः।।
नेत्रबन्धं तु कुर्वीत सितवस्त्रेण यत्नतः।।२४।।
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्।।
नवनाभं यदा कुर्यान्मण्डलं वर्णकैर्बुधः।।२५।।
तदानीं पूर्वतो देवमिद्रपूर्वं तु पूजयेत् ।।
लोकपालैः समं पूज्य अग्निं सम्पूजयेच्छुभे।।२६।।
स्वदिक्षु तद्वद्याम्यायां नेर्ऋत्यां निर्ऋतिं न्यसेत् ।।
वरुणं वारुणायां च वायुं वायव्यतो न्यसेत्।।२७।।
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे।
पूज्यैवं तु विधानेन दिक्क्षेत्रेषु व्यवस्थिताम्।।२८।।
पद्ममध्ये तथा विष्णुमर्च्चयेत्परमेश्वरम् ।।
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा ।।२९।।
अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा ।।
पूजयेद्वासुदेवं तु सर्वपातकशान्तिदम् ।।99.३०।।
ऐशान्यां विन्यसेच्छंखमाग्नेय्यां चक्रमेव तु ।।
याम्यायां तु गदां पूज्य वायव्यां पद्ममेव च ।।३१।।
ऐशान्यां मुसलं पूज्य दक्षिणे गरुडं न्यसेत् ।।
वामतो विन्यसेल्लक्ष्मीं देवदेवस्य बुद्धिमान्।।३२।।
धनुश्चैव तु खड्गं तु देवस्य पुरतो न्यसेत्।
श्रीवत्सं कौस्तुभं चैव नवमं तत्र कल्पयेत्।।३३।।
एवं पूज्य यथान्यायं देवदेवं जनार्द्दनम्।।
दलेषु दिक्षु विन्यस्य अष्टौ कुम्भान्विधानतः ।।३४।।
वैष्णवं कलशं चैव नवमं तत्र कल्पयेत् ।।
स्नापयेन्मुक्तिकामं तु वैष्णवेन घटेन ह ।। ३२ ।।
श्रीकामं स्नापयेत्तद्वदैन्द्रेण तु घटेन ह ।।
प्राज्यप्रतापकामं च आग्नेयेन तु स्नापयेत् ।।३६।।
मृत्युञ्जयविधानाय याम्येन स्नपनं तथा ।।
दुष्टप्रध्वंसनायालं निर्ऋतेन विधीयते ।।३७।।
शान्तये वारुणेनाशु पापनाशाय वायवे ।।
द्रव्यसम्पत्तिकामस्य कौबेरेण विधीयते ।। ३८ ।।
रौद्रेण ज्ञानहेतोश्च लोकपालपदाप्तये ।।
एकैकेन नरः स्नातः सर्वपाप विवर्जितः ।।३९।।
भवेदव्याहतं ज्ञानं श्रीमान्विप्रो विचक्षणः ।।
किं पुनर्नवभिः स्नातो नरः पातकवर्जितः।।99.४०।।
जायते विष्णुसदृशः सद्यो राजाथवा भवेत् ।।
अथवा दिक्षु सर्वासु यथासंख्येन लोकपान् ।।
पूजयीत स्वशास्त्रोक्तविधानेन विधानवित् ।। ४१ ।।
एवं सम्पूज्य देवांश्च लोकपालान् प्रसन्नधीः ।।
पश्चात्प्रदक्षिणान् शिष्यान् बद्धनेत्रान् प्रवेशयेत् ।।
आग्नेयी वारुणी दग्धा वायुना विधिना ततः ।।४२।।
सौमेनाप्यायिता पश्चाच्छ्रावयेत्समयान्बुधः।।
अनिन्द्यान्ब्राह्मणान्वेदान्विष्णुं ब्रह्माणमेव च ।। ४३ ।।
रुद्रमादित्यमग्निं च लोकपालग्रहांस्ततः ।।
गुरूंश्च वैष्णवांश्चापि पुरुषः पूर्वदीक्षितः ।। ४४ ।।
एवं तु समयं ख्याप्य पश्चाद्धोमं तु कारयेत् ।।
ओं नमो भगवते सर्वरूपिणे हुं फट् स्वाहा ।। ४५ ।।
षोडशाक्षरमन्त्रेण होमयेज्ज्वलिताग्नये ।।
गर्भाधानादिकाश्चैव क्रियाः समवघारयेत् ।।४६।।
त्रिभिराहुतिभिश्चापि देवदेवस्य सन्निधौ ।।
होमान्ते दीक्षितः पश्चाद्दद्याच्च गुरुदक्षिणाम् ।।४७।।
हस्त्यश्वकटकादीनि हेमग्रामादिकं नृपः।।
दद्याच्च गुरवे प्राज्ञो मध्यमे मध्यमं तथा ।।४८।।
एवं कृते तु यत्पुण्यं माहात्म्यं जायते धरे ।।
तत्र शक्यं तु गदितुमपि वर्षशतैरपि।।४९।।
दीक्षितात्मा पुनर्भूत्वा वराहं शृणुयाद्यदि ।।
तेन वेदपुराणानि सर्वे मन्त्राः ससंग्रहाः।।99.५०।।
जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसङ्गमे ।।
देवागारे कुरुक्षेत्रे वाराणस्यां विशेषतः ।।५१।।
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत् ।।
तत्फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ।।५२।।
देवा अपि तपः कृत्वा ध्यायंति च वदंति च ।।
कदा नो भारते वर्षे जन्म स्याद्भूतधारिणि।।५३।।।
दीक्षिताश्च भविष्यामो वराहं शृणुमः कथम्।।
वराहं षोडशात्मानं त्यक्त्वा देहं कदा वयम्।।५४।।
यास्यामः परमं स्थानं यद्गत्वा न पुनर्भवेत् ।।
एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च।।५५।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।।
वसिष्ठस्य च संवादं श्वेतस्य च महात्मनः ।।५६ ।।
स्वर्गवासे स्थितो ह्यासीच्छ्वेतो राजा महायशाः।।
आसीदिलावृते वर्षे श्वेतो राजा बृहत्तपाः।। ५७।।
स महीं सकलान्देवि सपल्लववनद्रुमाम् ।।
दातुमिच्छन्स चोवाच वसिष्ठं तपसां निधिम् ।। ५८ ।।
भगवन्दातुमिच्छामि ब्राह्मणेभ्यो वसुन्धराम्।।
देह्यनुज्ञां स चोवाच वसिष्ठो राजसत्तमम् ।।५९।।
अन्नं देहि सदा राजन् सर्वकालसुखावहम् ।।
अन्नेन चैव दत्तेन किं न दत्तं महीतले ।।99.६०।।
सर्वेषामेव दानानामन्नदानं विशिष्यते ।।
अन्नाद्भवंति भूतानि अन्नेनैव च वर्द्धते ।।६१।।
तस्मात्सर्वप्रयत्नेन अन्नदानं ददस्व भोः ।।
वसिष्ठस्य वचः श्रुत्वा स राजा न तथाकरोत् ।।६२।।
रत्नवस्त्रमलंकारान् श्रीमन्ति नगराणि च ।।
यत्किञ्चित्कोशजातं स द्विजानाहूय तद्ददौ ।।६३।।
प्रदत्तं ब्राह्मणस्याथ कुंजरानजिनानि च ।।
स कदाचिन्नृपः पृथ्वीं जित्वा परमधर्मवित् ।। ६४ ।।
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम् ।।
भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे ।।६५।।
सुवर्णरौप्यताम्राणि यागं कृत्वा द्विजातिषु ।।
दत्तानि तेन राज्ञा वै नान्नं दत्तं तथा जलम्।।६६।।
वस्तु स्वल्पमिति ज्ञात्वा प्रभुः सोऽन्नं तु नाददत् ।।
एवं विभवयुक्तस्य तस्य राज्ञो महात्मनः ।।६७ ।।
कालधर्मवशाद्देवि मृत्युः समभवत्तदा ।।
परलोके वर्तमानः स च राजा महामनाः ।।६८।।
क्षुधया पीडितो ह्यासीत्तृषया च विशेषतः ।।
आनिनायाप्सरोभागं गत्वा श्वेताख्यपर्वतम् ।।६९।।
तत्र प्राग्जन्ममूर्त्तिश्च पुरा दग्धा महात्मनः ।।
तत्रास्थीनि स संगृह्य लिहन्नास्ते स पार्थिवः ।। 99.७० ।।
पुनर्विमानमारुह्य दिवमाचक्रमे नृपः ।।
अथ कालेन महता स राजा संशितव्रतः ।।७१।।
तान्यस्थीनि लिहन्दृष्टो वसिष्ठेन महात्मना ।।
उक्तश्च तेन किञ्च त्वं स्वास्थि भुंक्षे नराधिप ।। ७२ ।।
एवमुक्तस्तदा राजा वसिष्ठेन महात्मना ।।
उवाच वचनं चेदं श्वेतो राजा मुनिं तदा ।। ७३ ।।
भगवन्क्षुधितश्चास्मि अन्नपानं पुरा मया ।।
न दत्तं मुनिशार्दूल तेन मां बाधते क्षुधा ।। ७४ ।।
एवमुक्तस्ततो राज्ञा वसिष्ठो मुनिपुंगवः ।।
उवाच च मुनिर्भूयः श्वेतं वाक्यं महानृपम् ।। ७९ ।।
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः ।।
अदत्तं नोपतिष्ठेत कस्यचित्किञ्चिदुत्तमम् ।। ७६ ।।
रत्नहेमप्रदानेन भोगवान् जायते नरः ।।
अन्नपानप्रदानेन सर्वकामैस्तु तर्पितः ।। ७७ ।।
तन्न दत्तं त्वया राजन् स्तोकं मत्वा नराधिप ।।
श्वेत उवाच ।।
अदत्तस्य च सम्प्राप्तिस्तन्ममाचक्ष्व पृच्छतः ।। ७८ ।।
शिरसा भक्तियुक्तेन याचितोऽसि महामुने ।।
वसिष्ठ उवाच ।।
अस्त्येकं कारणं येन जायते तन्न संशयः ।। ७९ ।।
तच्छृणुष्व नरव्याघ्र कथ्यमानं मयाऽनघ ।।
आसीद्राजा पुराकल्पे विनीताश्वातिविश्रुतः ।। 99.८० ।।
स सर्वमेधमारेभे स्वयं क्रतुवरं नृपः ।।
यजतानेन विप्रेभ्यो दत्ता गावो द्विपा वसु ।। ८१ ।।
नान्नं तेन तदा दत्तं स्वल्पं मत्वा यथा त्वया ।।
ततः कालेन महता मृतोऽसौ जाह्नवीजले ।। ८२ ।।
कृत्वा पुण्यं विनीताश्वः सार्वभौमो नृपोत्तमः ।।
स्वर्गं च गतवान्सोऽपि यथा राजन् भवान् प्रभो ।। ८३ ।।
असावपि क्षुधाविष्ट एवमेव गतो नृपः ।।
मर्त्यलोके नदीतीरे गंगायां नीलपवर्तम् ।। ८४ ।।
विमानेनार्कवर्णेन भास्वता देववन्नृपः ।।
ददर्श च तदा राजा क्षुधितः स्वं कलेवरम् ।। ८५ ।।
पुरोहितं ददर्शाथ होतारं जाह्नवीतटे ।।
तद्दृष्ट्वाऽसावपि नृपः पप्रच्छ मुनिसत्तमम् ।। ८६ ।।
क्षुधायाः कारणं किं मे स होता तमुवाच ह ।।
तिलधेनुं भवान्राजञ्जलधेनुं च सत्तम ।।८७ ।।
घृतधेनुं च धेनुं च रसधेनुं च पार्थिव ।।
देहि शीघ्रं येन भवान्क्षुधया वर्ज्जितो भवेः ।। ८८ ।।
तपते यावदादित्यस्तपते वापि चन्द्रमाः ।।
एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम् ।।८९।।
विनीताश्व उवाच ।।
कथं सा दीयते ब्रह्मंस्तिलधेनुर्जिगीषुभिः ।।
भुङ्क्ते स्वर्गं च विप्रेन्द्र तन्ममाचक्ष्व पृच्छतः ।।99.९० ।।
होतोवाच ।।
विधानं तिलधेनोश्च त्वं शृणुष्व नराधिप ।।
चतुर्भिः कुडवैश्चैव प्रस्थ एकः प्रकीर्त्तितः ।।९१ ।।
सा तु षोडशभिः कार्या चतुर्भिर् वत्सको भवेत् ।।
नासा गन्धमयी तस्या जिह्वा गुडमयी शुभा ।। ९५ ।।
पुच्छे प्रकल्पनीया सा घण्टाभरणाभूषिता ।।
ईदृशीं कल्पयित्वा तु स्वर्णशृङ्गीं तु कारयेत् ।। ९३।।
कांस्यदोहां रौप्यखुरां पूर्वधेनुविधानतः ।।
कृत्वा तां ब्राह्मणायाशु दद्याच्चैव नराधिप ।। ९४ ।।
कृष्णाजिनं धेनुवासो नन्दितां कल्पितां शुभाम् ।।
सूत्रेण सूत्रितां कृत्वा सर्वरत्नसमन्विताम् ।। ९९ ।।
सर्वौषधिसमायुक्तां मन्त्रपूतां तु दापयेत् ।।
अन्नं मे जायतामन्यत्पानं सर्वरसास्तथा ।। ९६।।
सर्वं सम्पादयास्माकं तिलधेनो द्विजार्पिता ।।
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थं विशेषतः ।।९७।।
भजस्व कामान्मां देवि तिलधेनो नमोऽस्तु ते ।।
एवंविधां ततो दद्यात्तिलधेनुं नृपोत्तम ।। ९८ ।।
सर्वकामसमावाप्तिं कुरुते नात्र संशयः ।।
यश्चेदं शृणुयाद्भक्त्या कुर्यात्कारयतेऽपि वा ।। ९९ ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं च गच्छति ।।
गोमये मण्डले कृत्वा गोचर्म्म तदनन्तरम् ।। 99.१०० ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने तिलधेनुदानमाहात्म्यं नाम नवनवतितमोऽध्यायः ।। ९९ ।।