प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०३ वराहपुराणम्
अध्यायः १०४
[[लेखकः :|]]
अध्यायः १०५ →

अथ मधुधेनुदानमाहात्म्यम्।।
होतोवाच।।
मधुधेनुं प्रवक्ष्यामि सर्वपातकनाशिनीम् ।।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे।।१।।
धेनुं मधुमयीं कृत्वा सम्पूर्णघटषोडशाम्।।
चतुर्थेन तथांशेन वत्सकं परिकल्पयेत्।।२।।
सौवर्णं तु मुखं कृत्वा शृङ्गाण्यगुरुचंदनैः।।
पृष्ठं ताम्रमयं कृत्वा सास्रां पटमयीं तथा।।३।।
पादानिक्षुमयान्कृत्वा सितकम्बलसंवृतान्।।
मुखं गुडमयं कृत्वा जिह्वां शर्करया तथा।।४।।
ओष्ठौ पुष्पमयौ तस्या दन्ताः फलमयाः स्मृताः ।।
दर्भरोममयी देवी खुरैरौप्यैश्च भूषिता ।।५।।
प्रशस्तपत्रश्रवणा प्रमाणात्परितस्तता ।।
सर्वलक्षणसंयुक्ता सप्तधान्यान्विता तथा।।६।।
चत्वारि तिलपात्राणि चतुर्दिक्षु प्रकल्पयेत्।।
छादितां वस्त्रयुग्मेन कण्ठाभरणभूषिताम्।।७।।
कांस्योपदोहिनीं कृत्वा गन्धपुष्पैस्तु पूजिताम् ।।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।।८ ।।
संक्रांत्यामुपरागे च सर्वकाले यदृच्छया ।।
द्रव्यब्राह्मणसम्पत्तिं दृष्ट्वा तां प्रतिपादयेत् ।।९।।
ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये ।।
आर्यावर्त्ते समुत्पन्ने वेदवेदाङ्गपारगे ।।104.१०।।
तादृशाय प्रदातव्या मधु धेनुर्नरोत्तमे ।।
पुच्छदेशे विमृश्याथ जलपूर्णां सदक्षिणाम् ।।११ ।।
दद्याद्विप्राय धेनुं तां मन्त्रपूर्वां विचक्षणः ।।
पुच्छदेशोपविष्टस्तु गन्धधूपादिपूजिता ।।
आच्छाद्य वस्त्रयुग्मेन मुद्रिकावर्णमात्रकैः ।।
स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः ।।
जलपूर्वं तु कर्त्तव्यं पश्चाद्यानं समर्पयेत् ।।
रसज्ञा सर्वदेवानां सर्वभूतहिते रता।। १२।।
प्रीयन्तां पितरो देवा मधुधेनो नमोऽस्तु ते।।
एवमुच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत्।।१३।।
अहं गृह्णामि त्वां देवि कुटुम्बार्थे विशेषतः ।।
कामं कामदुघे कामान्मधुधेनो नमोऽस्तु ते ।। १४।।
मधुवातेति मन्त्रेण दद्यादाशुचिकेन तु ।।
दत्त्वा धेनुं महाराज छत्रिकोपानहौ तथा ।।१५।।
एवं यः कुरुते भक्त्या मधुधेनुं नराधिप ।।
दत्त्वा दानं पायसेन मधुना च दिनं नयेत्।।१६।।
ब्राह्मणश्च त्रिरात्रं तु मधुपायससंयुतम् ।।
एवं कृते तु यत्पुण्यं तन्निबोध नराधिप ।। १७ ।।
यत्र नद्यो मधुवहा यत्र पायसकर्दमाः ।।
ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः ।।१८।।
तत्र भोगानथो भुङ्क्ते ब्रह्मलोकं स गच्छति ।।
क्रीडित्वा सुचिरं कालं पुनर्मर्त्यमुपागतः।।१९।।
स भुक्त्वा विपुलान्भोगान्विष्णुलोकं स गच्छति।।
दश पूर्वान्दश परानात्मानं चैकत्रिंशकम्।।104.२०।।
नयते विष्णुसायुज्यं मधुधेनुप्रदानतः ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।।२१।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने मधुधेनुमाहात्म्यं नाम चतुरधिकशततमोऽध्यायः ।।१०४।।