प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०६ वराहपुराणम्
अध्यायः १०७
[[लेखकः :|]]
अध्यायः १०८ →

अथ नवनीतधेनुदानमाहात्म्यम् ।।
होतोवाच ।।
नवनीतमयीं धेनुं शृणु राजन्प्रयत्नतः ।।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १ ।।
गोमयेनानुलिप्तायां भूमौ गोचर्ममानतः ।।
चर्म कृष्णमृगस्येव तस्योपरि च धारयेत् ।। २ ।।
कुम्भं तु नवनीतस्य प्रस्थमात्रस्य धारयेत् ।।
वत्सं चतुर्थभागस्य तस्यामुत्तरतो न्यसेत् ।। ३ ।।
कृत्वा विधानेन च राजसिंह सुवर्णशृङ्गी सुमुखा च कार्या ।।
नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्यच्च गुडेन जिह्वाम् ।। ४ ।।
ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नां च सितैश्च सूत्रैः ।।
जिह्वां तथा शर्करया प्रकल्प्य फलानि दन्ताः कम्बलं पट्टसूत्रम् ।। ५ ।।
नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् ।।
ताम्रपृष्ठां रौप्यखुरां दर्भरोमकृतच्छविम् ।। ६ ।।
स्वर्णशृङ्गीं रौप्यखुरां पंचरत्नसमन्विताम् ।।
चतुर्भिस्तिलपात्रैश्च संवृतां सर्वतो दिशि ।। ७ ।।
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलंकृताम् ।।
दीपांश्च दिक्षु प्रज्वाल्य ब्राह्मणाय निवेदयेत् ।। ८।।
मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः ।।
पुरा देवासुरैः सर्वैः सागरस्य तु मन्थने ।। ९ ।।
उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ।।
आप्यायनं तु भूतानां नवनीत नमोऽस्तु ते ।। 107.१०।।
एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने ।।
धेनुं च दत्त्वा सुदुघां सोपधानां नयेद्गृहम् ।।११ ।।
हविरेवं रसं चैव विप्रवर्यस्य भूपते।।
भुक्त्वा तिष्ठेद्दिनं राजन् धेनुदस्त्रीणि वै द्विजः ।। १२ ।।
यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम ।।
सर्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ।। १३।।
पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः ।।
विष्णुलोकं व्रजत्याशु यावदाभूतसंप्लवम् ।।१४।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। १५ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने नवनीतधेनुदानमाहात्म्यंनाम सप्ताधिकशततमोऽध्यायः ।।१०७।।