← अध्यायः १०९ वराहपुराणम्
अध्यायः ११०
[[लेखकः :|]]
अध्यायः १११ →

अथ धान्यधेनुदानमाहात्म्यम् ।।
होतोवाच।।
शृणु राजन्प्रवक्ष्यामि धान्यधेनुमनुत्तमाम् ।।
यस्याः संकीर्तनादेव सा तुष्येत् पार्वती स्वयम् ।।१ ।।
विषुवे चायने वापि कार्त्तिक्यां तु विशेषतः ।।
यां दत्त्वा मुच्यते पापाच्छशांक इव राहुणा ।।२।।
(तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम्)
दशधेनुप्रदानेन यत्फलं राजसत्तम।।
तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदानतः ।।३।।
कृष्णाजिनं ततः कृत्वा प्राग्वत्संस्थापयेद्बुधः ।।
गोमयेनानुलिप्तायां भूमौ तां परिपूजयेत् ।।४।।
उत्तमा तु भवेद्धेनुर्द्रोणैश्चापि चतुष्टयैः ।।
मध्यमा च तदर्दे्धेन वित्तशाठ्यं न कारयेत्।।५।।
चतुर्थांशेन वत्सं तु कल्पयित्वा विधानतः ।।
चतुर्थांशेन धेनोर्वै वत्सं तु परिकल्पयेत् ।।६।।
कर्तव्यौ रुक्मशृङ्गौ तु राजतखुरसंयुतौ ।।
गोमेदैः कुर्वीत घ्राणं अगुरुं चन्दनं तथा।७।।
मुक्ताफलमया दंता घृतक्षौद्रमयं मुखम्।।
प्रशस्तपत्रश्रवणं कांस्यदोहनकारिताम्।।८।।
इक्षुपृष्टिमयाः पादाः क्षौम्यपुच्छसमन्विताम् ।।
नानाफलसमोपेतां रत्नगर्भसमन्विताम् ।।९।।
पादुकोपानहच्छत्रभाजनं तर्पणं तथा।।
अङ्गं तु पूर्ववत्कार्यं मुखं क्षौद्रमयं शुभम्।।110.१०।।
पूर्ववच्चार्च्चयित्वा तां कृत्वा दीपार्च्चनादिकम्।।
पुण्यकालं च सम्प्राप्य स्नातः शुक्लांबरो गृही।।११।।
त्रिः प्रदक्षिणमावृत्त्य दंडवत्प्रणमेच्च ताम्।।
त्वं हि विप्र महाभाग वेदवेदाङ्गपारग ।।१२।।
मया दत्तां च गृह्णीष्व प्रसीद त्वं द्विजोत्तम।।
प्रीयतां मम देवेशो भगवान्मधुसूदनः।।१३।।
या च लक्ष्मीस्तु गोविन्दे स्वाहा या च विभावसौ ।।
शक्रे शचीति विख्याता शिवे गौरी च संस्थिता ।। १४ ।।
गायत्री ब्रह्मणः प्रोक्ता ज्योत्स्ना चन्द्रे रवेः प्रभा ।।
बुद्धिर्बृहस्पतेः ख्यातं मेधा मुनिषु सत्तमा ।। १५ ।।
तस्मात्सर्वमयी देवी धान्यरूपेण संस्थिता ।।
एवमुच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत् ।। १६ ।।
दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम् ।।
यावच्च पृथिवी सर्वा वसुरत्नानि भूपते ।। १७ ।।
तावत्पुण्यं समधिकं व्रीहिधेनोश्च तत्फलम् ।।
तस्मान्नरेन्द्र दातव्या भुक्तिमुक्तिफलप्रदा ।। १८ ।।
इहलोके च सौभाग्यमायुरारोग्यवर्द्धनम् ।।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।। १९ ।।
स्तूयमानोऽप्सरोभिश्च स याति शिवमन्दिरम् ।।
यावच्च स्मरते जन्म तावत्स्वर्गे महीयते ।। 110.२० ।।
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ।।
एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः ।। २१ ।।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।। २२ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने धान्यधेनुदानमाहात्म्यं नाम दशाधिकशततमोऽध्यायः ।। ११० ।।