प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३ वराहपुराणम्
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

मार्कण्डेय उवाच ।
एतन्मे कथितं पूर्वं ब्रह्मपुत्रेण धीमता ।
सनकानुजेन विप्रर्षे ब्राह्मणान् श्रृणु सांप्रतम् ।। १४.१ ।।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ।
वेदवित् श्रोत्रियो योगी तथा वै ज्योष्ठसामगः ।। १४.२ ।।
ऋत्विजं भागिनेयं च दौहित्रं श्वसुरं तथा ।
जामातरं मातुलं च तपोनिष्ठं च ब्राह्मणम् ।। १४.३ ।।
पञ्चाग्न्यभिरतं चैव शिष्यं संबन्धिनं तथा ।
मातापितृरतं चैव एताञ्छ्राद्धे नियोजयेत् ।। १४.४ ।।
मित्रध्रुक् कुनखी चैव श्यावदन्तस्तथा द्विजः ।
कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ।। १४.५ ।।
अभिशप्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।
भृतकाध्यापकश्चैव भृतकाध्यापितश्च यः ।। १४.६ ।।
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्यश्च वृषलीपतिरेव च ।
तथा देवलकश्चापि श्राद्धे नार्हन्ति केतनम् ।। १४.७ ।।
प्रथमेऽह्नि बुधः कुर्याद् विप्राग्र्याणां निमन्त्रणम् ।
आनिमन्त्र्य द्विजान् गेहमागतान् भोजयेद् यतीन् ।। १४.८ ।।
पादशौचादिना गेहमागतान् भोजयेद् द्विजान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।। १४.९ ।।
पितॄणामयुजो युग्मान् देवानामपि योजयेत् ।
देवानामेकमेकं वा पितॄणां च नियोजयेत् ।। १४.१० ।।
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसंपन्नसक्तन्त्रं वा वैश्वदेविकम् ।। १४.११ ।।
प्राङ्मुखं भोजभेद् विप्रं देवानामुभयात्मकम् ।
पितृपैतामहानां च भोजयेच्चाप्युदङ्मुखान् ।। १४.१२ ।।
पृथक् तयोः केचिदाहुः श्राद्धस्य करणं द्विज ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ।। १४.१३ ।।
विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घविधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ।। १४.१४ ।।
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् ।
सुगन्धधूपदीपांश्च दत्त्वा तेभ्यो यथाविधि ।
पितॄणामपसकव्येन सर्वमेवोपकल्पयेत् ।। १४.१५ ।।
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् ।
मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः ।
तिलाम्बुना चापसव्यं दद्यादर्ध्यादिकं बुधः ।। १४.१६ ।।
काले तत्रातिथिं प्राप्तमन्नकामं द्विजाध्वगम् ।
ब्राह्मणैरभ्यनुज्ञातः कामं तमपि पूजयेत् ।। १४.१७ ।।
योगिनो विविधै रूपैर्नराणामुपकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ।। १४.१८ ।।
तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः ।
श्राद्धक्रियाफलं हन्ति द्विजेन्द्रापूजितोऽतिथिः ।। १४.१९ ।।
जुहुयाद् व्यञ्जनं क्षारैर्वर्ज्यमन्नं ततोऽनले ।
अनुज्ञातो द्बिजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभ ।। १४.२० ।।
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ।। १४.२१ ।।
वैवस्वताय चैवान्या तृतीया दीयताहुतिः ।
हुतावशिष्टमल्पाल्पं विप्रपात्रेषु निर्वपेत् ।। १४.२२ ।।
ततोऽन्नं मृष्टमत्यर्थमभीष्टमभिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ।। १४.२३ ।।
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।
अक्रुध्यता अत्वरता देयं तेनापि भक्तितः ।। १४.२४ ।।
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वाऽध्येयाश्च पितरस्त एव द्विजसत्तमाः ।। १४.२५ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्त्तयः ।। १४.२६ ।।
पितापितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ।। १४.२७ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ।। १४.२८ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ।। १४.२९ ।।
मातामहस्तृप्तिमुपैतु तस्य
तथा पिता तस्य पिता ततोऽन्यः ।
विश्वेऽथ देवाः परमां प्रयान्तु
तृप्तिं प्रणश्यन्तु च यातुधानाः ।। १४.३० ।।
यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यो
रक्षांस्यशेषाण्यसुराश्च सर्वे ।। १४.३१ ।।
तृप्तेष्वेतेषु विप्रेषु किरेदन्नं महीतले ।
दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ।। १४.३२ ।।
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले ।
सलिलेन ततः पिण्डान् समागृह्य समाहितः ।। १४.३३ ।।
पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्।
दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजिताम् ।। १४.३४ ।।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ।
पितामहाय चैवान्यं तत्पित्रे च तथाऽपरम् ।। १४.३५ ।।
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणात् ।
पिण्डे मातामहे तद्वद् गन्धमाल्यादिसंयुतैः ।। १४.३६ ।।
पूजयित्वा द्विजाग्र्याणां दद्यादाचमनं बुधः ।
पैत्रेभ्यः प्रथमं भक्त्या तन्मनस्को द्विजेश्वर ।। १४.३७ ।।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ।
दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् ।
प्रीयन्तामिति ये विश्वे देवास्तेन इतीरयेत् ।। १४.३८ ।।
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।
पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान्महामते ।। १४.३९ ।।
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजने च स्वशक्त्या च दाने तद्वद् विसर्ज्जने ।
आपादशौचनात् पूर्वं कुर्यादेव द्विजन्मसु ।। १४.४० ।।
जानन्तं प्रथमं पित्र्यं तथा मातामहेषु च ।
विसर्जयेत् प्रीतिवचः संमान्याभ्यर्थितांस्ततः ।
निवर्त्तेताभ्यनुज्ञात आद्वारान्तमनुव्रजेत् ।। १४.४१ ।।
ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां ततः ।
भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मना ।। १४.४२ ।।
एवं श्राद्धं बुधः कुर्यात् पित्र्यं मातामहं तथा ।
श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ।। १४.४३ ।।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य तथा दानं तथा संदर्शनादिकम् ।। १४.४४ ।।
वर्ज्यस्तु कुर्वता श्राद्धं क्रोधोऽध्वगममं त्वरा ।
भोक्तुरप्यत्र विप्रेन्द्र त्रयमेतन्न संशयः ।। १४.४५ ।।
विश्वेदेवाः सपितरस्तथा मातामहा द्विज ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ।। १४.४६ ।।
सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः ।
श्राद्धं योगिनियुक्तं तु तस्मद् विप्रेन्द्र शस्यते ।। १४.४७ ।।
सहस्त्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः ।
सर्वान् भोक्तॄंस्तारयति यजमानं तथा द्विज ।। १४.४८ ।।
मह्यं सनत्कुमारेण पूर्वकल्पे द्विजोत्तम ।
कथितं वायुना चापि देवानां शंभुना तथा ।। १४.४९ ।।
ऋषीणां शक्तिपुत्रेण तथा मैत्रेयसंज्ञिते ।
भविष्यति क्रमाद् यावन् मया ते कथितं द्विज ।। १४.५० ।।)
इयं सर्वपुराणेषु सामान्या पैतृकी क्रिया ।
एतत् क्रमात् कर्मकाण्डं ज्ञात्वा मुच्येत बन्धनात् ।। १४.५१ ।।
एतदाश्रित्य निर्वाणं ऋषयः संशितव्रताः ।
प्राप्ता गौरमुखेदानीं त्वमप्येवं परो भव ।। १४.५२ ।।
इति ते कथितं भक्त्या पृच्छतो द्विजसत्तम ।
पितॄन् यष्ट्वा हरिं ध्यायेद् यस्तस्य किमतः परम् ।
न तस्मात् परतः पित्र्यं तन्त्रमस्तीति निश्चयः ।। १४.५३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्दशोऽध्यायः ।। १४ ।।
धरण्युवाच ।
एवं श्राद्धविधिं श्रुत्वा मार्कण्डेयान्महामुनिः ।
तदा गौरमुखो देव किमूर्ध्वं कृतवान् विभो ।। १५.१ ।।