वराहपुराणम्/अध्यायः २०
← अध्यायः १९ | वराहपुराणम् अध्यायः २० [[लेखकः :|]] |
अध्यायः २१ → |
प्रजापाल उवाच ।
एवमग्नेः समुत्पत्तिर्जाता ब्रह्मन् महात्मनः ।
प्राणापानौ कथं देवावश्विनौ संबभूवतुः ।। २०.१ ।।
मरीचिर्ब्रह्मणः पुत्रः स्वयं ब्रह्मा द्विसप्तभिः ।
रूपैर्व्यवस्थितस्तेषां मरीचिः श्रेष्ठतामगात् ।। २०.२ ।।
तस्य पुत्रो महातेजाः कश्यपो नाम वै मुनिः ।
स्वयं प्रजापतिः श्रीमान् देवतानां पिताऽभवत् ।। २०.३ ।।
तस्य पुत्रा बभूवुर्हि आदित्या द्वादश प्रभो ।
अदित्यपत्यानि ते सर्वे आदित्यास्तेन कीर्तिताः ।। २०.४ ।।
तेषां मध्ये महातेजा मार्त्तण्डो लोकविश्रुतः ।
नारायणात्मकं तेजो द्वादशं संप्रकीर्तितम् ।। २०.५ ।।
ये ते मासास्त आदित्याः स्वयं संवत्सरो हरिः ।
एवं ते द्वादशादित्या मार्त्तण्डश्च प्रधानवान् ।। २०.६ ।।
तस्य त्वष्टा ददौ कन्यां संज्ञां नाम महाप्रभाम् ।
तस्यापत्यद्वयं जज्ञे यमश्च यमुना तथा ।। २०.७ ।।
तस्य तेजोऽप्यसहती बभूवाश्वी मनोजवा ।
स्वां छायां तत्र संस्थाप्य सा जगमोत्तरान् कुरून् ।। २०.८ ।।
तद्रूपां तां सवर्णां तु भेजे मार्त्तण्डभास्करः ।
तस्या अपि द्वयं जज्ञे शनिं तपतिमेव च ।। २०.९ ।।
यदा त्वसदृशं भेजे पुत्रान् प्रति नरोत्तम ।
संज्ञां प्रोवाच भगवान् क्रोधसंरक्तलोचनः ।
असमत्वं न कर्त्तव्यं स्वेष्वपत्येषु भामिनि ।। २०.१० ।।
एवमुक्ता यदा सा तु असमत्वं व्यरोचत ।
तदा यमः स्वपितरं प्रोवाच भृशदुःखितः ।। २०.११ ।।
नेयं माता भवेत् तात अस्माकं शत्रुवत् सदा ।
सपत्नीव वृथाचारा स्वेस्वपत्येषु वत्सला ।। २०.१२ ।।
एवं यमवचः श्रुत्वा सा छाया क्रोधमूर्च्छिता ।
शशाप प्रेतराजस्त्वं भविष्यस्यचिरादिव ।। २०.१३ ।।
एवं श्रुत्वाऽथ मार्त्तण्डस्तदा पुत्रहितैषया ।
उवाच मध्यवर्ती त्वं भविता धर्मपापयोः ।
लोकपालश्च भविता त्वं पुत्र दिवि शोभसे ।। २०.१४ ।।
शनिं शशाप मार्त्तण्डश्छायाकोपप्रधर्षितः ।
त्वं क्रूरदृष्टिर्भविता मातृदोषेण पुत्रक ।। २०.१५ ।।
एवमुक्त्वा समुत्थाय योगं भानुर्दिदृक्षया ।
तामपश्यत्त्वसौ साश्वी उत्तरेषु कुरुष्वथ ।। २०.१६ ।।
ततोऽश्वरूपं कृत्वा स गत्वा तत्रोत्तरान् कुरून् ।
प्राजापत्येन मार्गेण युयोजात्मानमात्मना ।। २०.१७ ।।
तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसः ।
बीजं निर्वापयामास तज्ज्वलन्तं द्विधाऽपतत् ।। २०.१८ ।।
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा ।
वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः ।। २०.१९ ।।
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ ।
ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ ।। २०.२० ।।
प्रजापतिः स्वयं भानुस्त्वाष्ट्री शक्तिः परापरा ।
तस्याः प्राग्वच्छरीरस्थावमूर्त्तौ मूर्तिमाश्रितौ ।। २०.२१ ।।
ततस्तावश्विनौ देवौ मार्त्तण्डमुपतस्थतुः ।
ऊचतुः स्वरुचिं तावत् किं कर्त्तव्यमथावयोः ।। २०.२२ ।।
मार्त्तण्ड उवाच ।
पुत्रौ प्रजापतिं देवं भक्त्याराधयतां वरम् ।
नारायणं स वो दाता वरं नूनं भविष्यति ।। २०.२३ ।।
एवं तावश्विनौ प्रोक्तौ मार्त्तण्डेन महात्मना ।
तेपतुस्तीव्रतपसौ तपः परमदुश्चरम् ।
ब्रह्मपारमयं स्तोत्रं जपन्तौ तु समाहितौ ।। २०.२४ ।।
तयोः कालेन महता ब्रह्मा नारायणात्मकः ।
तुतोष परमप्रीत्या वरं चैतं ददौ तयोः ।। २०.२५ ।।
प्रजापाल उवाच ।
अश्विभ्यामीरितं स्तोत्रं ब्रह्मणोऽव्यक्तजन्मनः ।
श्रोतुमिच्छाम्यहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।। २०.२६ ।।
महातपा उवाच ।
श्रृणु राजन् यथा स्तोत्रमश्विभ्यां ब्रह्मणः कृतम् ।
ईदृशं च फलं प्राप्तं तयोः स्तोत्रस्य चानघ ।। २०.२७ ।।
ॐनमस्ते निष्क्रिय निष्प्रपञ्च निराश्रय निरपेक्ष निरालम्ब
निर्गुण निरालोक निराधार निर्जय निराकार ।
ब्रह्मन् महाब्रह्मन् ब्राह्मणप्रिय पुरुष महापुरुषोत्तम ।
देव महादेवोत्तम स्थाणो स्थितस्थापक ।
भूत महाभूत भूताधिपति यक्ष महायक्ष यक्षाधिपते ।
गुह्य महागुह्याधिपते सौम्य महासौम्य सौम्याधिपते ।
पक्षि महापक्षिपते दैत्य महादैत्याधिपते ।
रुद्र महारुद्राधिपते विष्णु महाविष्णुपते ।
परमेश्वर नारायण प्रजापतये नमः ।
एवं स्तुतस्तदा ताभ्यामश्विभ्यां स प्रजापतिः ।
तुतोष परमप्रीत्या वाक्यं चेदमुवाच ह ।। २०.२८ ।।
वरं वरयतां शीघ्रं देवैः परमदुर्लभम् ।
येन मे वरदानेन चरतस्त्रिदिवं सुखम् ।। २०.२९ ।।
अश्विनावूचतुः ।
आवयोर्यज्ञभागं तु देहि देव प्रजापते ।
सोमपत्वं च देवानां सामान्यत्वं च शाश्वतम् ।। २०.३० ।।
ब्रह्मोवाच ।
रूपं कान्तिरनौपम्यं भिषक्त्वं सर्ववस्तुषु ।
सोमपत्वं च लोकेषु सर्वमेतद् भविष्यति ।। २०.३१ ।।
एतत् सर्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा ।
दत्तं यस्मादतस्तेषां तिथीनामुत्तमा तिथिः ।। २०.३२ ।।
एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः ।
संवत्सरं शुचिर्नित्यं सुस्वरूपी भवेन्नरः ।
अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ।। २०.३३ ।।
य इदं श्रृणुयान्नित्यमश्विभ्यां जन्म चोत्तमम् ।
सर्वपापविनिर्मुक्तः पुत्रवान् जायते नरः ।। २०.३४ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे विंशोऽध्यायः ।। २० ।।