← अध्यायः २४ वराहपुराणम्
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →


प्रजापाल उवाच ।
अहंकारात् कथं जज्ञे कार्त्तिकेयो द्विजोत्तम ।
एतन्मे संशयं छिन्धि पृच्छतो वै महामुने ।। २५.१ ।।
महातपा उवाच ।
सर्वेषामेव तत्त्वानां यः परः पुरुषः स्मृतः ।
तस्मादव्यक्तमुत्पन्नं तत्त्वादि त्रिविधं तु तत् ।। २५.२ ।।
पुरुषाव्यक्तयोर्मध्ये महत्त्वं समपद्यत ।
स चाहंकार इत्युक्तो यो महान् समुदाहृतः ।। २५.३ ।।
पुरुषो विष्णुरित्युक्तः शिवो वा नामतः स्मृतः ।
अव्यक्तं तु उमा देवी श्रीर्वा पद्मनिभेक्षणा ।। २५.४ ।।
तत्संयोगादहंकारः स च सेनापतिर्गुहः ।
तस्योत्पत्तिं प्रवक्ष्यामि श्रृणु राजन् महामते ।। २५.५ ।।
आद्यो नारायणो देवस्तस्माद् ब्रह्मा ततोऽभवत् ।
अतः स्वयंभुवश्चान्ये मरीच्याद्यार्कसंभवाः ।। २५.६ ।।
तेष्वारभ्य सुरा दैत्या गन्धर्वा मानुषाः खगाः ।
पशवः सर्वभूतानि सृष्टिरेषा प्रकीर्तिता ।। २५.७ ।।
सृष्ट्यां विस्तारितायां तु देवदैत्या महाबलाः ।
सापत्न्यं भावमास्थाय युयुधुर्विजिगीषवः ।। २५.८ ।।
दैत्यानां बलिनः सन्ति नायका युद्धदुर्मदाः ।
हिरण्यकशिपुः पूर्वं हिरण्याक्षो महाबलः ।
विप्रचित्तिर्विचित्तिश्च भीमाक्षः क्रौञ्च एव च ।। २५.९ ।।
एतेऽतिबलिनः शूरा देवसैन्यं महामृधे ।
अनारतं सितैर्बाणैर्जयन्तेऽनुदिनं मृधे ।। २५.१० ।।
तेषां पराजयं दृष्ट्वा देवानां तु बृहस्पतिः ।
उवाच हीनं वः सैन्यं नायकेन विना सुराः ।। २५.११ ।।
एकेनेन्द्रेण दिव्यं तु सैन्यं पातुं न शक्यते ।
अतः सेनापतिं किञ्चिदन्वेषयत माचिरम् ।। २५.१२ ।।
एवमुक्तास्ततो देवा जग्मुर्लोकपितामहम् ।
सेनापतिं च नो देहि वाक्यमूचुः ससंभ्रमम् ।। २५.१३ ।।
ततो दध्यौ चतुर्वक्त्रः किमेषां क्रियते मया ।
ब्रह्माऽथ चिन्तयामास रुद्रं प्रति मनोगतम् ।। २५.१४ ।।
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
ब्रह्माणं पुरतः कृत्वा जग्मुः कैलासपर्वतम् ।। २५.१५ ।।
तत्र दृष्ट्वा महादेवं शिवं पशुपतिं विभुम् ।
तुष्टवुर्विविधैस्तोत्रैः शक्राद्यास्त्रिदिवौकसः ।। २५.१६ ।।
देवा ऊचुः ।
नमाम सर्वे शरणार्थिनो वयं
महेश्वरं त्र्यम्बकभूतभावनम् ।
उमापते विश्वपते मरुत्पते
जगत्पते शंकर पाहि नः स्वयम् ।। २५.१७ ।।
जटाकलापाग्रशशाङ्कदीधिति-
प्रकाशिताशेषजगत्त्रयामल ।
त्रिशूलपाणे पुरुषोत्तमाच्युत
प्रपाहि दैत्याच्च जगत्त्रयोदरे ।। २५.१८ ।।
त्वमादिदेवः पुरुषोत्तमो हरि-
र्भवो महेशस्त्रिपुरान्तको विभुः ।
भगाक्षिहा दैत्यरिपुः पुरातनो
वृषध्वजः पाहि सुरोत्तमोत्तम ।। २५.१९ ।।
गिरीशजानाथ गिरिप्रियाप्रिय
प्रभो समस्तामरलोकपूजित ।
गणेश भूतेश शिवाक्षयाव्यय
प्रपाहि नो दैत्यवरान्तकाच्युत ।। २५.२० ।।
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो
ध्वनिस्वरूपो गगने विशेषतः ।
वायौ द्विधा तेजसि च त्रिधा जले
चतुः क्षितौ पञ्चगुणः प्रपाहि नः ।। २५.२१ ।।
अग्निस्वरूपोऽसि तरौ तथोपले
सत्त्वस्वरूपोऽसि तथा जलेष्वपि ।
तेजःस्वरूपो भगवान् महेश्वरः
प्रपाहि नो दैत्यगणार्दितान् हर ।। २५.२२ ।।
नासीद्यदाऽकाण्डमिदं त्रिलोचन
प्रभाकरेन्द्रद्रविणाधिपाः कुतः ।
तदा भवानेव विरुद्धलोचन
प्रमाणबाधादिविवर्जितः स्थितः ।। २५.२३ ।।
कपालमालिन् शशिखण्डशेखर
श्मशानवासिन् सितभस्मगुण्ठित ।
फणीन्द्रसंवीततनोऽन्तकापह
प्रपाहि नो दक्षधिया सुरेश्वर ।। २५.२४ ।।
भवान् पुमान् शक्तिरियं गिरेः सुता
सर्वाङ्गरूपा भगवंस्तथा त्वयि ।
त्रिशूलरूपेण जगत्त्रयं करे
स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ।। २५.२५ ।।
जटास्वरूपेण समस्तसागराः
कुलाचलाः सिन्धुवहाश्च सर्वशः ।
शशी परं ज्ञानमिदं तव स्थितं
न देव पश्यन्ति कुदृष्टयो जनाः ।। २५.२६ ।।
नारायणस्त्वं जगतां समुद्भव-
स्तथा भवः सैव चतुर्मुखो भवान् ।
सत्त्वादिभेदेन तथाग्निभेदतो
युगादिभेदेन च संस्थितस्त्रिधा ।। २५.२७ ।।
भवन्तमेते सुरनायकाः प्रभो
भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।
यतस्ततो नो भव भूतिभूषण
प्रपाहि विश्वेश्वर रुद्र ते नमः ।। २५.२८ ।।
महातपा उवाच ।
एवं स्तुतस्तदा देवो रुद्रः पशुपतिः सुरैः ।
उवाच देवानव्यग्रः किं कार्यं ब्रूत मा चिरम् ।। २५.२९ ।।
देवा ऊचुः ।
सेनापतिं नो देवेश देहि दैत्यवधाय वै ।
देवानां ब्रह्ममुख्यानामेतदेव हितं भवेत् ।। २५.३० ।।
रुद्र उवाच ।
ददामि सेनानाथं वो देवा भवत विज्वराः ।
भविष्यमस्ति पौराणं योगादीनामचिन्तयन् ।। २५.३१ ।।
एवमुक्त्वा हरो देवान् विसृज्य स्वाङ्गसंस्थिताम् ।
शक्तिं संक्षोभयामास पुत्रहेतोः परंतप ।। २५.३२ ।।
तस्य क्षोभयतः शक्तिं ज्वलनार्कसमप्रभः ।
कुमारः सहजां शक्तिं बिभ्रज्ज्ञानैकशालिनीम् ।। २५.३३ ।।
उत्पत्तिस्तस्य राजेन्द्र बहुरूपा व्यवस्थिता ।
मन्वन्तरेष्वनेकेषु देवसेनापतिः किल ।। २५.३४ ।।
योऽसौ शरीरगो देवः अहंकारेति कीर्त्तितः ।
प्रयोजनवशाद् देवः सैव सेनापतिर्विभो ।। २५.३५ ।।
तस्मिन् जाते स्वयं ब्रह्मा सर्वदैवैः समन्वितः ।
पूजयामास देवेशं शिवं पशुपतिं तदा ।। २५.३६ ।।
सर्वैश्च देवै ऋषिभिश्च सिद्धैः
सेनापतिर्वरदानेन तेन ।
आप्यायितः सोऽपि सुरानुवाच
सखायार्थं क्रडने कार्यमेव ।। २५.३७ ।।
श्रुत्वा वचस्तस्य् महानुभावो
महादेवो वाक्यमिदं जगाद ।
ददामि ते क्रीडनकं तु कुक्कुटं
तथानुगौ शाखविशाखसंज्ञौ ।
कुमार भूतग्रहनायको भवान्
भवस्व देवेश्वर सेनयापतिः ।। २५.३८ ।।
एवमुक्त्वा ततो देवः सर्वे देवाश्च पार्थिव ।
तुष्टुवुर्वाग्भिरिष्टाभिः स्कन्दं सेनापतिं तदा ।। २५.३९ ।।
देवा ऊचुः ।
भवस्व देवसेनानीर्महेश्वरसुत प्रभो ।
षण्मुख स्कन्द विश्वेश कुक्कुटध्वज पावके ।। २५.४० ।।
कम्पितारे कुमारेश स्कन्द बालग्रहानुग ।
जितारे क्रौञ्चविध्वंस कृत्तिकासुत मातृज ।। २५.४१ ।।
भूतग्रहपतिश्रेष्ठ पावकि प्रियदर्शन ।
महाभूतपतेः पुत्र त्रिलोचन नमोऽस्तु ते ।। २५.४२ ।।
एवं स्तुतस्तदा देवैर्ववर्ध भवनन्दनः ।
द्वादशादित्यसंकाशो बभूवाद्भुतदर्शनः ।
त्रैलोक्यमपि तत्तेजस्तापयामास पार्थिव ।। २५.४३ ।।
प्रजापाल उवाच ।
कथं तं कृत्रिकापुत्रमुक्तवन्तः सुरं गुरुम् ।
कथं च पावकिरसौ कथं वा मातृनन्दनः ।। २५.४४ ।।
महातपा उवाच ।
आदिमन्वन्तरे देव उत्पत्तिर्या मयोदिता ।
परोक्षदर्शिभिर्देवैरेवमेव स्तुतः प्रभुः ।। २५.४५ ।।
कृत्तिका पावकस्त्वन्यमातरो गिरिजा तथा ।
द्विजीयजन्मनि गुहस्यैते उत्पत्तिहेतवः ।। २५.४६ ।।
एवमेतत् तवाख्यातं पृच्छतः पार्थिवोत्तम ।
आत्मविद्याऽमृतं गुह्यमहंकारस्य संभवः ।। २५.४७ ।।
स्वयं स्कन्दो महादेवः सर्वपापप्रणाशनः ।
तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ।। २५.४८ ।।
एतां फलाशनो यस्तु क्षयेन्नियतमानसः ।
अपुत्रोऽपि लभेत् पुत्रानधनोऽपि धनं लभेत् ।
यं यमिच्छेत मनसा तं तं लभति मानवः ।। २५.४९ ।।
यश्चैतत् पठति स्तोत्रं कार्तिकेयस्य मानवः ।
तस्य गेहे कुमाराणां क्षेमारोग्यं भविष्यति ।। २५.५० ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चविंशोऽध्यायः ।। २५ ।।