प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३१ वराहपुराणम्
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →


पूर्वं ब्रह्माऽव्ययः शुद्धः परादपरसंज्ञितः ।
स सिसृक्षुः प्रजास्त्वादौ पालनं च विचिन्तयत् ।। ३२.२ ।।
तस्य चिन्तयतस्त्वङ्गाद् दक्षिणाच्छ्वेतकुण्डलः ।
प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ।। ३२.३ ।।
तं दृष्ट्वोवाच भगवांश्चतुष्पादं वृषाकृतिम् ।
पालयेमाः प्रजाः साधो त्वं ज्येष्ठो जगतो भव ।। ३२.४ ।।
इत्युक्तः समवस्थोऽसौ चतुःपद्भ्यां कृते युगे ।
त्रेतायां स समस्तृभ्यां द्वे चैव द्वापरेऽभवत् ।
कलावेकेन पादेन प्रजाः पालयते प्रभुः ।। ३२.५ ।।
षड्भेदो ब्राह्मणानां स त्रिधा क्षत्रे व्यवस्थितः ।
द्विधा वैश्येकधा शूद्रे स्थितः सर्वगतः प्रभुः ।
रसातलेषु सर्वेषु द्वीपवर्षे स्वयं प्रभुः ।। ३२.६ ।।
द्रव्यगुणक्रियाजातिचतुःपादः प्रकीर्तितः ।
संहितापदक्रमश्चैव त्रिश्रृङ्गोऽसौ स्मृतो बुधैः ।। ३२.७ ।।
तथा आद्यन्त ओङ्कार द्विशिराः सप्तहस्तवान् ।
त्रिबद्धबद्धो विप्राणां मुख्यः पालयते जगत् ।। ३२.८ ।।
स धर्मः पीडितः पूर्वं सोमेनाद्भुतकर्मण ।
तारां जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य ह ।। ३२.९ ।।
सोऽपायाद् भीषितस्तेन बलिना क्रूरकर्मणा ।
अरण्यं गहनं घोरमाविवेश तदा प्रभुः ।। ३२.१० ।।
तस्मिन् गते सुराः सर्वे असुराणां तु पत्नयः ।
जिघृक्षन्तस्तदौकांसि बभ्रमुर्धर्मवञ्चिताः ।
असुरा अपि तद्वच्च सुरवेश्मनि बभ्रमुः ।। ३२.११ ।।
निर्मर्यादे तथा जाते धर्मनाशे च पार्थिव ।
देवासुरा युयुधिरे सोमदोषेण कोपिताः ।
स्त्रीहेतोश्च महाभाग विविधायुधपाणयः ।। ३२.१२ ।।
तान् दृष्ट्वा युध्यतो देवानसुरैः सह कोपितान् ।
नारदः प्राह संगम्य पित्रे ब्रह्मणि हर्षितः ।। ३२.१३ ।।
स हंसयानमारुह्य सर्वलोकपितामहः ।
निवारयामास तदा कस्यार्थे युद्धमब्रवीत् ।। ३२.१४ ।।
सर्वे शशंसुः सोमं तु स तु बुद्ध्वा स्वकं सुतम् ।
पीडनादपयातं तु गहनं वनमाश्रितम् ।। ३२.१५ ।।
ततो ब्रह्मा ययौ तत्र देवासुरयुतस्त्वरन् ।
ददर्श च सुरैः सार्द्धं चतुष्पादं वृषाकृतिम् ।
चरन्तं शशिसङ्काशं दृष्ट्वा देवानुवाच ह ।। ३२.१६ ।।
ब्रह्मा उवाच ।
अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ।
पत्नीं जिघृक्षता भ्रातुर्द्धर्मसंज्ञो महामुनिः ।। ३२.१७ ।।
इदानीं तोषयध्वं वै सर्व एव सुरासुराः ।
येन स्थितिर्वो भवति समं देवासुरा इति ।। ३२.१८ ।।
ततः सर्वे स्तुतिं चक्रुस्तस्य देवस्य हर्षिताः ।
विदित्वा ब्रह्मणो वाक्यात् संपूर्णशशिसन्निभम् ।। ३२.१९ ।।
देवा ऊचुः ।
नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक ।
कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ।। ३२.२० ।।
त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।
जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ।। ३२.२१ ।।
न त्वया रहितं किंचिज्जगत्स्थावरजङ्गमम् ।
विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ।। ३२.२२ ।।
त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।
राजसानां रजस्त्वं च तामसानां तम एव च ।। ३२.२३ ।।
चतुष्पादो भवान् देव चतुश्श्रृङ्गस्त्रिलोचनः ।
सप्तहस्तस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ।। ३२.२४ ।।
त्वया हीना वयं देव सर्व उन्मार्गवर्त्तिनः ।
तन्मार्गं यच्छ मूढानां त्वं हि नः परमा गतिः ।। ३२.२५ ।।
एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः ।
तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ।। ३२.२६ ।।
दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा ।
क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ।। ३२.२७ ।।
असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् ।
अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ।। ३२.२८ ।।
यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् ।
कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ।। ३२.२९ ।।
यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो ।
ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ।। ३२.३० ।।
चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वं
कृतादिभिर्ल्लक्ष्यसे येन लोकैः ।
तथा तथा कर्मभूमौ नभश्च
प्रायोयुक्तः स्वगृहं पाहि विश्वम् ।। ३२.३१ ।।
इत्युक्तमात्रः प्रपितामहोऽधुना
सुरासुराणामथ पश्यतां नृप ।
अदृश्यतामगमत् स्वालयांश्च
जग्मुः सुराः सवृषा वीतशोकाः ।। ३२.३२ ।।
धर्मोत्पत्तिं य इमां श्रावयीत
तदा श्राद्धे तर्पयेत पितॄंश्च ।
त्रयोदश्यां पायसेन स्वशक्त्या
स स्वर्गगामी तु सुरानुपेयात् ।। ३२.३३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वात्रिंशोऽध्यायः ।। ३२ ।।