प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३५ वराहपुराणम्
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →

महातपा उवाच ।
आदित्रेतासु राजानो मणिजा ये प्रकीर्त्तिताः ।
कथयिष्यामि तान् राजन् यत्र जातोऽपि पार्थिव ।। ३६.१ ।।
योऽसौ सुप्रभनामासीत् स त्वं राजन् कृते युगे ।
जातोऽसि नाम्ना विख्यातः प्रजापालेति शोभनः ।। ३६.२ ।।
शेषास्त्रेतायुगे राजन् भविष्यन्ति महाबलाः ।
यो दीप्ततेजा मणिजः स शन्तेति प्रकीर्तितः ।। ३६.३ ।।
सुरश्मिर्भविता राजा शशकर्णो महाबलः ।
शुभदर्शनः पाञ्चालो भविष्यति नराधिपः ।। ३६.४ ।।
सुशान्तिरङ्गवंशे वै सुन्दरोऽप्यङ्ग इत्युत ।
सुन्दश्च मुचुकुन्दोऽभूत्सुद्युम्नस्तुर एव च ।। ३६.५ ।।
सुमनाः सोमदत्तस्तु शुभः संवरणोऽभवत् ।
सुशीलो वसुदानस्तु सुखदो सुपतिर्भवत् ।। ३६.६ ।।
शम्भुः सेनापतिरभूत् सुकान्तो दशरथः स्मृतः ।
सोमोऽभूज्जनको राजा एते त्रेतायुगे नृप ।। ३६.७ ।।
सर्वे भूमिमिमां राजन् भुक्त्वा ते वसुधाधिपाः ।
इष्ट्वा च विविधैर्यज्ञैर्दिवं प्राप्स्यन्त्यसंशयम् ।। ३६.८ ।।
श्रीवराह उवाच ।
एवं श्रुत्वा स राजर्षिर्ब्रह्मविद्याऽमृतं प्रभुः ।
आख्यानं परमं प्रीतस्तपश्चर्तुमियाद् वनम् ।। ३६.९ ।।
ऋषिरध्यात्मयोगेन विहायेदं कलेवरम् ।
ब्रह्मभूतोऽभवद्धात्रि हरौ लयमवाप च ।। ३६.१० ।।
वृन्दावनं च राजाऽसौ तपोऽर्थं गतवान् प्रभुः ।
तत्र गोविन्दनामानं हरिं स्तोतुमथारभत् ।। ३६.११ ।।
राजोवाच ।
नमामि देवं जगतां च मूर्त्तिं
गोपेन्द्रमिन्द्रानुजमप्रमेयम् ।
संसारचक्रक्रमणैकदक्षं
क्षितीधरं देववरं नमामि ।। ३६.१२ ।।
भवोदधौ दुःखशतोर्म्मिभीमे
जरावर्त्ते कृष्णपातालमूले ।
तदन्तमेको दधते सुखं मे
नमोऽस्तु ते गोपतिरप्रमेय ।। ३६.१३ ।।
व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च
सङ्घट्टमानं पुनरेव देव ।
नमोऽस्तु ते युद्धरते महात्मा
जनार्दनो गोपतिरुग्रबाहुः ।। ३६.१४ ।।
त्वमुत्तमः सर्वविदां सुरेश
त्वया ततं विश्वमिदं समस्तम् ।
गोपेन्द्र मां पाहि महानुभाव
भवाद्भीतं तिग्मरथाङ्गपाणे ।। ३६.१५ ।।
परोऽसि देव प्रवरः सुराणां
पुंसः स्वरूपोऽसि शशिप्रकाशः ।
हुताशवक्त्राच्युत तीव्रभाव
गोपेन्द्र मां पाहि भवे पतन्तम् ।। ३६.१६ ।।
संसारचक्रक्रमणान्यनेका -
न्याविर्भवन्त्यच्युत देहिनां यत् ।
त्वन्मायया मोहितानां सुरेश
कस्ते मायां तरते द्वन्द्वधामा ।। ३६.१७ ।।
अगोत्रमस्पर्शमरूपगन्ध -
मनामनिर्देशमजं वरेण्यम् ।
गोपेन्द्र त्वां यद्युपासन्ति धीरा -
स्ते मुक्तिभाजो भवबन्धमुक्ताः ।। ३६.१८ ।।
शब्दातिगं व्योमरूपं विमूर्त्तिं
विकर्म्मिणां शुभभावं वरेण्यम् ।
चक्राब्जपाणिं तु तथोपचारा-
दुक्तं पुराणे सततं नमामि ।। ३६.१९ ।।
त्रिविक्रमं क्रान्तजगत्त्रयं च
चतुर्मूर्त्तिं विश्वगतां क्षितीशम् ।
शम्भुं विभुं भूतपतिं सुरेशं
नमाम्यहं विष्णुमनन्तमूर्त्तिम् ।। ३६.२० ।।
त्वं देव सर्वाणि चराचराणि
सृजस्यथो संहरसे त्वमेव ।
मां मुक्तिकामं नय देव शीघ्रं
यस्मिन् गता योगिनो नापयान्ति ।। ३६.२१ ।।
जयस्व गोविन्द महानुभाव
जयस्व विष्णो जय पद्मनाभ ।
जयस्व सर्वज्ञ जयाप्रमेय
जयस्व विश्वेश्वर विश्वमूर्त्ते ।। ३६.२२ ।।
श्रीवराह उवाच ।
एवं स्तुत्वा तदा राजा निधाय स्वं कलेवरम् ।
परमात्मनि गोविन्दे लयमागाच्च शाश्वते ।। ३६.२३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे षट्त्रिंशोऽध्यायः ।। ३६ ।।